भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 15.14

15.14.1

15.14
स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा ।
मनसान्नादेनान्नमत्ति य एवं वेद

15.14.2

स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३
बलेनान्नादेनान्नमत्ति य एवं वेद

15.14.3

स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा
अद्भिरन्नादीभिरन्नमत्ति य एवं वेद

15.14.4

स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नमत्ति य एवं वेद

15.14.5

स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा
विराजान्नाद्यान्नमत्ति य एवं वेद

15.14.6

स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ।
ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद

15.14.7

स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा
स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद

15.14.8

स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा
स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद

15.14.9

स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा
वषट्कारेणान्नादेनान्नमत्ति य एवं वेद

15.14.10

स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१
मन्युनान्नादेनान्नमत्ति य एवं वेद

15.14.11

स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा ।
प्राणेनान्नादेनान्नमत्ति य एवं वेद

15.14.12

स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नमत्ति य एवं वेद

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc