भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 15.13

15.13.1

तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति ।
ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे

15.13.2

तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ।
येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे

15.13.3

तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ।
ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे

15.13.4

तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ।
ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे

15.13.5

तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति ।
य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे

15.13.6

अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्

15.13.7

कर्षेदेनं न चैनं कर्षेत्

15.13.8

अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात्

15.13.9

तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc