भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनश्रौतसूत्र · अध्याय 3

3.1-1

पशौ.। (पशु.बन्ध)

3.1-2

इष्टिर्.उभयतो.अन्यतरतो.वा.। (पशु.बन्ध)

3.1-3

आग्नेयी.वा.। (पशु.बन्ध)

3.1-4

आग्नावैष्णवी.वा.। (पशु.बन्ध)

3.1-5

उभौ.वा.। (पशु.बन्ध)

3.1-6

अन्यतरा.पुरस्तात्.। (पशु.बन्ध)

3.1-7

उक्तम्.अग्नि.प्रणयनम्.। (पशु.बन्ध)

3.1-8

पश्चात्.पाशुबन्धिकाया.वेदेर्.उपविश्य.प्रेषितो.यूपाय.आज्यमानाय.अञ्जन्ति.त्वाम्.अध्वरे.देवयन्त.इत्य्.उत्तमेन.वचनेन.अर्धर्च.आरमेत्.। (पशु.बन्ध)

3.1-9

उच्च्रयस्व.वनस्पते.समिद्धस्य.श्रयमाणः.पुरस्ताद्.ऊर्ध्व.ऊ.षु.ण.ऊतय.इति.द्वे.जातो.जायते.सुदिनत्वे.अह्नाम्.इत्य्.अर्धर्च.आरमेत्.।.युवा.सुवासाः.परिवीत.आगाद्.इति.परिदध्यात्.। (पशु.बन्ध)

3.1-10

यत्र.एक.तन्त्रे.बहवः.सपशवो.अन्त्यम्.परिधाय.संस्तुयाद्.अनभिहिंकृत्य.यान्.वो.नरो.देवयन्तो.निमिम्युर्.इति.षड्भिः.। (पशु.बन्ध)

3.1-11

पञ्चभिर्.वा.।.अनभ्यासम्.एके.। (पशु.बन्ध)

3.1-12

उक्तम्.अग्नि.मन्थनम्.तथा.धाय्ये.कृत.अकृताव्.आज्य.भागौ.।.आवाहने.पशु.देवताभ्यो.वनस्पतिम्.अनन्तरम्.। (पशु.बन्ध)

3.1-13

सम्मार्गैः.सम्मृज्य.प्रवृत.आहुतीर्.जुहुयात्.। (पशु.बन्ध)

3.1-14

जुष्टो.वाचे.भूयांसम्.जुष्टो.वाचस्.पतये.देवि.वाक्.।.यद्.वाचो.मधुमत्तमम्.तस्मिन्.मा.धाः.सरस्वत्यै.वाचे.स्वाहा.।.पुनर्.आदाय.पञ्च.विग्राहम्.स्वाहा.वाचे.स्वाहा.वाचस्.पतये.स्वाहा.सरस्वत्यै.स्वाहा.सरस्वते.महोभ्यः.सम्महोभ्यः.स्वाहा.इति.। (पशु.बन्ध)

3.1-15

सोम.एव.एके.। (पशु.बन्ध)

3.1-16

प्रशास्तारम्.तीर्थेन.प्रपाद्य.दण्डम्.अस्मै.प्रयच्छेद्.दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.मित्रा.वरुणयोस्.त्वा.बाहुभ्याम्.प्रशास्त्रोः.प्रशिषा.प्रयच्छामि.इति.। (पशु.बन्ध)

3.1-17

तथा.युक्ताभ्याम्.एव.इतरो.मित्रा.वरुणयोस्.त्वा.बाहुभ्याम्.प्रशास्त्रोः.प्रशिषा.प्रतिगृह्णाम्य्.अवक्रो.विथुरो.भूयासम्.इति.। (पशु.बन्ध)

3.1-18

प्रतिगृह्य.उत्तरेण.होतारम्.अतिव्रजेद्.दक्षिणेन.दण्डम्.हरेन्.न.च.अनेन.संस्पृशेद्.आत्मानम्.वा.अन्यम्.वा.प्रैष.वचनात्.। (पशु.बन्ध)

3.1-19

अन्यान्य्.अपि.यज्ञ.अङ्गान्य्.उपयुक्तानि.न.विहारेण.व्यवेयात्.। (पशु.बन्ध)

3.1-20

दक्षिणो.होतृ.षदनात्.प्रह्वो.अवस्थाय.वेद्याम्.दण्डम्.अवष्टभ्य.ब्रूयात्.प्रैषांश्.च.आदेशम्.। (पशु.बन्ध)

3.1-21

अनुवाक्याम्.च.सप्रैषे.पूर्वाम्.प्रैषात्.। (पशु.बन्ध)

3.1-22

पर्यग्नि.स्तोक.मनोता.उन्नीयमान.सूक्तानि.च.। (पशु.बन्ध)

3.1-23

सोम.आसीनो.अन्यत्.। (पशु.बन्ध)

3.2-1

एकादश.प्रयाजाः.। (पशु.बन्ध)

3.2-2

तेषाम्.प्रैषाः.। (पशु.बन्ध)

3.2-3

प्रथमम्.प्रैष.सूक्तम्.।.उक्तम्.द्वितीये.। (पशु.बन्ध)(.भूमिर्.माता.नभः.)

3.2-4

अध्वर्यु.प्रेषितो.मैत्रावरुणः.प्रेष्यति.।.प्रैषैर्.होतारम्.। (पशु.बन्ध)

3.2-5

होता.यजत्य्.आप्रीभिः.प्रैष.लिङ्गाभिः.। (पशु.बन्ध)

3.2-6

समिद्धो.अग्निर्.इति.शुनकानाम्.जुषस्व.नः.समिधम्.इति.वसिष्ठानाम्.।.समिद्धो.अद्य.इति.सर्वेषाम्.। (पशु.बन्ध)

3.2-7

यथ.ऋषि.वा.। (पशु.बन्ध)(.आप्री.षेए.त्र्स्ल्.प्.76.)

3.2-8

प्राजापत्ये.तु.जामदग्न्यः.सर्वेषाम्.। (पशु.बन्ध)

3.2-9

दश.सूक्तेषु.प्रेषितो.मैत्रावरुणो.अग्निर्.होता.न.इति.तृचम्.पर्यग्नये.अवाह.। (पशु.बन्ध)

3.2-10

अध्रिगवे.प्रेष्य.उपप्रेष्य.होतर्.इति.वा.उक्तो.अजैद्.अग्निर्.असनद्.वाजम्.इति.प्रैषम्.उक्त्वा.अन्तर्.वेदि.दण्डम्.निदधाति.। (पशु.बन्ध)

3.2-11

अध्रिगुम्.होता.ऊहन्न्.अङ्गानि.दैवतम्.पशुम्.इत्.यथा.अर्थम्.। (पशु.बन्ध)

3.2-12

पुंवन्.मिथुने.। (पशु.बन्ध)

3.2-13

मेध.पती.। (पशु.बन्ध)

3.2-14

मेधायाम्.विकल्पः.। (पशु.बन्ध)

3.2-15

यथा.अर्थम्.ऊर्ध्वम्.अध्रिगोर्.अन्यन्.मिथुनेभ्यः.। (पशु.बन्ध)

3.2-16

सर्वेषु.यजुर्.निगदेषु.। (पशु.बन्ध)

3.2-17

प्रकृतौ.समर्थ.निगदेषु.। (पशु.बन्ध)

3.2-18

प्राकृतास्.त्व्.एव.मन्त्राणाम्.शब्दाः.। (पशु.बन्ध)

3.2-19

प्रतिनिधिष्व्.अपि.। (पशु.बन्ध)

3.2-20

नाभिर्.उपमा.मेदो.हविर्.इत्य्.अनूह्यानि.। (पशु.बन्ध)

3.3-1a

दैव्याः.शमितार.आरभध्वम्.उत.मनुष्या.उपनयत.मेध्याद्.उर.आशासाना.मेध.पतिभ्याम्.मेधम्.।.प्र.अस्मा.अग्निम्.भरत.स्तृणीत.बर्हिर्.अन्व्.एनम्.माता.मन्यताम्.अनु.पिता.अनुब्.भ्राता.सगर्भ्यो.अनु.सखा.सयूथ्यः.। (पशु.बन्ध)

3.3-1b

उदीचीनाम्.अस्य.पदो.निधत्तात्.सूर्यम्.चक्षुर्.गमयताद्.वातम्.प्राणम्.अन्ववसृजताद्.अन्तरिक्षम्.असुम्.दिशः.श्रोत्रम्.पृथिवीम्.शरीरम्.। (पशु.बन्ध)

3.3-1c

एकधा.अस्य.त्वचम्.आच्छ्यात्.पुरा.नाभ्या.अपि.शसो.वपाम्.उत्खिदताद्.अन्तर्.एव.उष्माणम्.वारयध्वात्.।.श्येनम्.अस्य.वक्षः.कृणुतात्.प्रशसा.बाहू.शला.दोषणी.कश्यपे.वा.अंशाच्छिद्रे.श्रोणी.कवष.ऊरु.स्रेक.पर्णा.अष्ठीवन्ता.षड्.विंशतिर्.अस्य.वङ्क्रयस्.ता.अनुष्ठ्य.उच्च्यावयताद्.आग्रम्.गात्रम्.अस्य.अनूनम्.कृणुतात्.।

3.3-1c

ऊवध्य.गोहम्.पार्थिवम्.खनतात्.।.अस्ना.रक्षः.संसृजतात्.।.वनिष्ठुम्.अस्य.मा.राविष्ट.ऊर्कम्.मन्यमाना.नेद्.वस्.तोके.तनये.रविता.रवत्.शमितारः.।.अध्रिगो.शमीध्वम्.सुशमि.शमीध्वम्.शमीध्वम्.अध्रिगो.अपाप.। (पशु.बन्ध)

3.3-2

अस्ना.रक्षः.संसृजतात्.शमितारो.अपाप.इत्य्.उपांशु.। (पशु.बन्ध)

3.3-3

एकधा.षड्.विंशतिर्.इति.द्विर्.द्वि.बहूनाम्.। (पशु.बन्ध)

3.3-4

पुरा.अन्तर्.इति.च.एके.।.अध्रिग्व्.आदि.त्रिर्.उक्त्वा.शमितारो.यद्.अत्र.सुकृतम्.कृणवथ.अस्मासु.तद्.यद्.दुष्कृतम्.अन्यत्र.तद्.इति.जपित्वा.दक्षिण.आवृद्.आवर्तते.। (पशु.बन्ध)

3.3-5

मैत्रावरुणश्.च.। (पशु.बन्ध)

3.3-6

सव्य.आवृत्तौ.ब्रह्म.यजमानौ.।.संज्ञप्ते.पशाव्.आवर्तेरन्.। (पशु.बन्ध)

3.4-1

वपायाम्.श्रप्यमाणायाम्.प्रेषितः.स्तोकेभ्यो.अन्वाह.जुष.सप्रथस्.तम्.इमम्.इमम्.नो.यज्ञम्.इति.। (पशु.बन्ध)(.स्तोकीय.:.स्तोक.सूक्त.ऋव्3.21.)

3.4-2

उक्तम्.आदापनम्.स्वाहा.कृतिभ्यः.। (पशु.बन्ध)

3.4-3

होता.यक्षद्.अग्निम्.स्वाहा.आज्यस्य.स्वाहा.मेदस.इति.प्रैष.उत्तमा.आप्री.आज्या.। (पशु.बन्ध)

3.4-4

वपा.पुरोळाशो.हविर्.इति.पशोः.प्रदानानि.। (पशु.बन्ध)

3.4-5

तानि.पृथन्.नाना.देवतेषु.। (पशु.बन्ध)

3.4-6

मनोताम्.च.। (पशु.बन्ध)(.त्वम्.ह्य्.अग्ने.प्रथमो.मनोता.

3.4-7

न.मनोता.आवर्तेत.इत्य्.एके.। (पशु.बन्ध)

3.4-8

तेषाम्.सलिङ्गाः.प्रैषाः.। (पशु.बन्ध)

3.4-9

तेष्व्.अग्नी.षोमयोः.स्थाने.या.या.पशु.देवता.। (पशु.बन्ध)

3.4-10

छागस्य.उस्रो.गौर्.मेषो.अविका.हयो.अश्वो.अन्वादेशे.व्यक्त.चोद्नाम्.। (पशु.बन्ध)

3.4-11

एवम्.वनस्.पति.स्विष्टकृत्.सूक्त.वाक.प्रैषैः.। (पशु.बन्ध)

3.4-12

प्राजापत्ये.त्व्.अग्निचित्या.सम्युक्ते.वायव्यम्.पशु.पुरोळाशम्.।.एके.वायव्ये.प्राजापत्यम्.तेन.पशु.देवता.वर्धत.इत्य्.आचार्याः.पुरोळाश.तत्.प्रधानत्वात्.। (पशु.बन्ध)

3.4-13

पुरोळाश.निगमेषु.पुरोळाशवद्.हवींष्य्.आज्य.वर्जम्.येषाम्.तेन.समवत्त.होमः.। (पशु.बन्ध)

3.4-14

मेधो.रभीयान्.इति.पश्व्.अभिधाने.। (पशु.बन्ध)

3.4-15

आदद्.घसत्.करज्.जुषताम्.अघद्.अग्रभीद्.अवीवृधत.इति.देवतानाम्.। (पशु.बन्ध)

3.5-1

हुतायाम्.वपयाम्.सब्रह्मकाश्.चात्वाले.मार्जयन्ते.निधाय.दण्डम्.मैत्रवरुणः.। (पशु.बन्ध)

3.5-2

इदम्.आपः.प्रवहत.सुमित्र्या.न.आप.ओषधयः.सन्तु.दुर्मित्र्यास्.तस्मै.सन्तु.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्म.इति.।(पशु.बन्ध)

3.5-3

एतावन्.मार्जनम्.पशौ.। (पशु.बन्ध)

3.5-4

तीर्थेन.निष्क्रम्य.आसीत.आ.पुरोळाश.श्रपणात्.। (पशु.बन्ध)

3.5-5

तेन.चरित्वा.स्विष्टकृता.चरेयुः.। (पशु.बन्ध)

3.5-6

यदि.त्व्.अन्वायात्या.तैर्.अग्रे.चरेयुः.। (पशु.बन्ध)

3.5-7

न.तु.तेषाम्.निगमेष्व्.अनुवृत्तिः.। (पशु.बन्ध)

3.5-8

न.अन्येषाम्.ऊध्वम्.आवाहनाद्.उत्पन्नानाम्.। (पशु.बन्ध)

3.5-10

ऊर्ध्वम्.इळायाः.। (पशु.बन्ध)

3.6-1

मनोतायै.सम्प्रेषितस्.त्वम्.ह्य्.अग्ने.प्रथम.इत्य्.अवाह.। (पशु.बन्ध)

3.6-2

हविषा.चरन्ति.। (पशु.बन्ध)

3.6-3

तत्र.प्रैषे.कतर.एव.अग्नी.षोमाव्.एवम्.इत्य्.ऐतरेयिणः.। (पशु.बन्ध)

3.6-4

अन्यत्र.द्वि.द्वेअतान्.मैत्रा.वरुण.देवते.च.। (पशु.बन्ध)

3.6-5

तथा.दृष्टत्वात्.। (पशु.बन्ध)

3.6-6

प्रकृत्या.गाणगारिः.। (पशु.बन्ध)

3.6-7

उत्पन्नानाम्.स्मृत.आम्नाये.अनर्थ.भेदे.निरर्थो.विकारः.। (पशु.बन्ध)

3.6-8

याज्याया.अन्तर.अर्धर्चौ.वसा.होम.आरमेत्.। (पशु.बन्ध)

3.6-9

वनस्पतिना.चरन्ति.।.प्रैषम्.अभितो.याज्या.अनुवाक्ये.। (पशु.बन्ध)

3.6-10

यत्र.अग्नेर्.आज्यस्य.हविषि.इत्य्.अत्र.आज्य.भागौ.। (पशु.बन्ध)

3.6-11

अयाऌ.अग्निर्.अग्नेर्.आज्यस्य.हविष.इति.स्विष्टकृति.।.इळाम्.उपहूय.अनुयाजैश्.चरन्ति.। (पशु.बन्ध)

3.6-12

तेषाम्.प्रैषास्.तृतीयम्.प्रैष.सूक्तम्.एकादश.इह.। (पशु.बन्ध)

3.6-13

प्राग्.उत्तमा.द्वाव्.आवपेत.।.देवो.वनस्पतिर्.वसुवने.वसु.धेयस्य.वेतु.।.देवम्.बर्हिर्.वारितीनाम्.वसुवने.वसु.धेयस्य.वेत्व्.इति.। (पशु.बन्ध)

3.6-14

अनवानम्.प्रेष्यति.।.अनवानम्.यजति.। (पशु.बन्ध)

3.6-15

उक्क्तम्.उत्तमे.। (पशु.बन्ध)

3.6-16

सूक्त.वाक.प्रैषे.पूर्वस्मिन्न्.निगमे.गृह्णन्न्.इत्य्.अत्र.आज्य.भागौ.। (पशु.बन्ध)

3.6-17

बध्नन्न्.अमुष्मा.अमुम्.बध्नन्न्.अमुष्मा.अमुम्.इति.पशूंश्.च.देवताश्.च.। (पशु.बन्ध)

3.6-18

देवताश्.च.एव.एक.पशुकाः.। (पशु.बन्ध)

3.6-19

पशूंश्.च.एव.एक.देवतान्.। (पशु.बन्ध)

3.6-20

उत्तर.आज्येन.इत्य्.आज्य.भागौ.।.अमुष्मा.अमुना.इति.पूर्वेण.उक्तम्.। (पशु.बन्ध)

3.6-21

समाप्य.प्रैषम्.अग्नौ.दण्डम्.अनुप्रहरेद्.अनवभृथे.। (पशु.बन्ध)

3.6-22

अवभृथे.अन्यत्र.। (पशु.बन्ध)

3.6-23

कृत.अकृतम्.वेद.स्तरणम्.।.तीर्थेन.निष्क्रम्य.अग्नि.पशु.केतनान्य्.अव्यवयन्तो.हृदय.शूलम्.उपोयमानम्.अनुमन्त्रयेरन्.शुग्.असि.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तम्.अभिशोच.इति.। (पशु.बन्ध)

3.6-24a

तस्य.उपरिष्टाद्.अप.स्पृशन्ति.।.द्वीपे.राज्ञो.वरुणस्य.गृहो.मितो.हिरण्ययः.।.स.नो.धृत.व्रतो.राजा.धाम्नो.धाम्न.इह.मुञ्चतु.।.धाम्नो.धाम्नो.राजन्न्.इतो.वरुण.नो.मुञ्च.।

3.6-24b

यद्.आपो.अघ्न्या.इति.वरुण.इति.शपामहे.ततो.वरुण.नो.मुञ्च.।.मयि.वा.आपो.मा.ओषधीर्.हिंसीर्.अतो.अविश्व.व्यचा.अभूस्.त्वा.इतो.वरुण.नो.मुञ्च.।.सुमित्र्या.न.आप.ओषधयः.सन्त्व्.इति.च.। (पशु.बन्ध)

3.6-25

अस्पृष्ट्वा.अनवेक्षमाणा.असंस्पृशन्तः.प्रत्यायन्तः.समिधः.कुर्वते.तिस्रस्.तिस्र.एक.एकः.। (पशु.बन्ध)

3.6-26

अग्नेः.समिद्.असि.तेजो.असि.तेजो.मे.देहि.इति.प्रथमाम्.।.एधो.अस्य्.एधिषीमहि.इति.द्वितीयाम्.।.समिद्.असि.समेधिषीमहि.इति.तृतीयाम्.। (पशु.बन्ध)

3.6-27

एत्य.उपतिष्ठन्त.आपो.अद्य.अन्वाचरिषाम्.इति.।.ततः.समिधो.अभ्यादधति.यथा.गृहीतम्.अङ्गेः.समिद्.इति.तेजो.असि.तेजो.मे.अधाः.स्वाहा.।.सोमस्य.समिद्.इति.दुरिष्टेर्.मा.पहै.स्वाहा.।.पितॄणाम्.समिद्.असि.मृत्योर्.मा.पाहि.स्वाहा.इति.। (पशु.बन्ध)

3.6-28

ततः.संस्था.जप.इति.पशु.तन्त्रम्.। (पशु.बन्ध)

3.7-1

प्रदानानाम्.उक्ताः.प्रैषाः.। (पशु.बन्ध)

3.7-2

तेषाम्.याज्या.अनुवाक्याः.। (पशु.बन्ध)

3.7-3

सर्वेषाम्.अग्रे.अग्रे.अनुवाक्यास्.ततो.याज्याः.। (पशु.बन्ध)

3.7-4

दैवतेन.पशु.नानात्वम्.। (पशु.बन्ध)

3.7-5

अग्ने.नय.सुपथा.राये.अस्मान्.इति.द्वे.पाहि.नो.अग्ने.पायुभिर्.अजस्रैः.पर्.वः.शुक्राय.भानवे.भरध्वम्.यथा.विप्रस्य.मनुषो.हविर्भिः.प्रकारवो.मनना.वाच्यमानाः.। (पशु.बन्ध)

3.7-6

एका.चेतत्.सरस्वती.नदीनाम्.उत.स्या.नः.सरस्वती.जुषाणा.सरस्वत्य्.अभि.नो.नेषिवस्यः.प्रक्षोदसा.धायसा.सस्र.एषा.पावी.रवी.कन्या.चित्र.आयुर्.यस्.ते.स्तनः.शशयो.यो.मयोभूः.। (पशु.बन्ध)

3.7-7

त्वम्.सोम.प्रचिकोतो.मनीषा.इति.द्वे.त्वम्.नः.सोम.विश्वतो.वयुधा.या.ते.धामानि.दिवि.य.पृथिव्याम्.अषाळ्हम्.युत्सु.पृतनासु.पप्रिम्.या.ते.धामानि.हविषा.यजन्ति.। (पशु.बन्ध)

3.7-8

यास्.ते.पूषन्.नावोअन्तः.समुद्र.इति.द्वे.पूषा.इमा.आशा.अनुवेद.सर्वाः.शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यत्.प्र.पथे.पथाम्.अजनिष्ट.पूषा.पथस्.पथः.परि.पतिम्.वचस्या.। (पशु.बन्ध)

3.7-9

बृहस्पते.या.परमा.परावद्.इति.द्वे.बृहस्पते.अतियद्.अर्यो.अर्हात्.तम्.ऋत्विया.उप.वाचः.सचन्ते.सम्यंस्तुभो.अवनयो.नयन्त्य्.एव.अपित्रे.विश्व.देवाय.वृष्णे.। (पशु.बन्ध)

3.7-10

विश्वे.अद्य.मरुतो.विश्व.ऊत्यानो.देवानाम्.उपवेतु.शंस.आ.नो.विश्व.आस्क्रागमन्तु.देवा.विश्वे.देवाः.शृणुत.इमम्.हवम्.मे.ये.के.च.ज्या.महिनो.अहिमाया.अग्ने.याहि.दूत्यम्.मा.अरिषण्यः.। (पशु.बन्ध)

3.7-11

इन्द्रम्.नरो.नेमधिता.हवन्त.इति.तिस्र.उरुम्.नो.लोकम्.अनुनेषि.विद्वान्.प्रससाहिषे.पुरु.हूत.शत्रून्.स्वस्तये.वाजिभिश्.च.प्रणेतः.। (पशु.बन्ध)

3.7-12

शुची.वो.हव्या.मरुतः.शुचीनाम्.नू.ष्ठिरम्.मरुतो.वीरवन्तमा.वो.होता.जोहवीति.सत्तः.प्र.चित्रम्.अर्कम्.गृणते.तुराय.अरा.इव.इद्.अचरमा.अहेव.या.वः.शर्म.शशमानाय.। (पशु.बन्ध)

3.7-13

आ.वृत्रहणा.वृत्रहभिः.शुष्मैर्.आभरतम्.शिक्षतम्.वर्ज.बाहू.उभा.वाम्.इन्द्र.अग्नी.आहुवध्यै.शुचिम्.नु.स्तोमम्.नव.जातम्.अद्य.गीर्भिर्.विप्रः.प्रमतिम्.इच्छमानः.प्रचकर्षणिभ्यः.पृतना.हवेषु.। (पशु.बन्ध)

3.7-14

या.देवो.यातु.सविता.सुरत्नः.सघानो.देवः.सविता.सहाव.इति.द्वे.उदीरय.कवितमम्.कवीनाम्.भगम्.धियम्.वाजयन्तः.पुरन्धिम्.इति.द्वे.। (पशु.बन्ध)

3.7-15

अव.सिन्धुम्.वरुणो.द्यौर्.इव.स्थाद्.अयम्.सु.तुभ्यम्.वरुण.स्वधाव.एवा.वन्दस्व.वरुणम्.बृहन्तम्.तत्.त्वा.यामि.ब्रह्मणा.वन्दमान.इति.द्वे.अस्तभ्नाद्.द्याम्.असुरो.विश्व.वेदा.इत्य्.ऐकादशिनः.। (पशु.बन्ध)

3.8-1a

अग्नीषोमाव्.इमम्.सु.मे.युवम्.एतानि.दिवि.रोचनानि.इति.तृचाव्.।.आवाम्.मित्रा.वरुणा.हव्य.जुष्टिम्.आयातम्.मित्रा.वरुणा.सुशस्त्या.आ.नो.मित्रा.वरुणा.हव्य.जुष्टिम्.युव.वस्त्राणि.पीवसा.वसाथे.प्र.बाहवा.सिसृतम्.जीव.सेनो.यद्.बन्हिष्ठम्.न.अतिविधे.सुदानू.। (पशु.बन्ध)

3.8-1b

हिरण्य.गर्भः.समवर्तत.अग्र.इति.षट्.प्राजापत्याश्.चित्रम्.देवानाम्.उदगाद्.अनीकम्.इति.पञ्च.शम्.नो.भव.चक्षसा.शम्.नो.अह्ना.आ.वायो.भूष.शुचिपा.उप.नः.प्र.याभिर्.यासि.दाश्वांसम्.अच्छा.नो.नियुद्द्भिः.शतिनीभिर्.अध्वरम्.पीवो.अन्नान्.रयिवृधः.सुमेधा.राये.अनु.यम्.जज्ञतू.रोदसी.मे.प्र.वायुम्.अच्छा.बृहती.मनीष.। (पशु.बन्ध)

3.8-1c

तव.वाय.वृतस्य.ते.त्वम.हि.सुप्सरस्तमम्.इति.द्वे.कुविद्.अङ्ग.नमसा.ये.वृधास.ईशानाय.प्र.हुतिम्.यस्.त.आनट्.प्र.वो.वायुम्.रथयुजम्.कृणुध्वम्.।.उत.त्वाम्.अदिते.मह्य्.अनेहो.न.उरु.व्रजे.अदितिर्.ह्य्.अजनिष्ट.सुत्राणाम.पृथिवीम्.द्याम्.अनेहसम्.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.। (पशु.बन्ध)

3.8-1d

न.ते.विष्णो.जायमानो.न.जातस्.त्वम्.विष्णो.सुमतिम्.विश्व.जन्याम्.विचक्रमे.पृथिवीम्.एष.एतान्.त्रिर्.देवः.पृथिवीम्.एष.एताम्.परो.मात्रया.तन्वा.वृधान.इरावती.धेनुमती.हि.भूतम्.। (पशु.बन्ध)

3.8-1e

विश्व.कर्मन्.हविषा.वावृधान.इति.द्वे.विश्व.कर्मा.विमना.आ.द्.विहायाः.किंस्विद्.आसीद्.अधिष्ठानम्.यो.नः.पिता.जनिता.यो.विधाता.या.ते.धामानि.परमाणि.यवम्.। (पशु.बन्ध)

3.8-1f

आ.य.इमे.द्यावा.पृथिवी.जनित्री.तन्.नस्.तुरीयम्.अथ.पोषयित्नु.देवस्.त्वष्टा.सविता.विश्व.रूपो.देव.त्वष्टर्य्.यद्.ध.चारुत्वम्.आनट्.पिशङ्ग.रूपः.सुभरो.वयोधाः.प्रथमभाजम्.यशसम्.वयोधाम्.। (पशु.बन्ध)

3.8-1g

सोमा.पूष्णा.जनना.रयीणाम्.इति.सूक्तम्.।.आदित्यानाम्.अवसा.नूतनेन.इमा.गिर.आदित्येभोय्.घृतस्नूस्.त.आदित्यास.उरवो.गभीरा.इमम्.स्तोमम्.सक्रतवो.मे.अद्य.तिस्रो.भूमीर्.धारयन्.त्रींर्.उत.द्यून्.न.दक्षिणा.विचिकितेन.सव्या.। (पशु.बन्ध)

3.8-1h

मही.द्यावा.पृथिवी.इह.ज्येष्ठे.ऋतम्.दिवे.तद्.अवोचम्.पृथिव्या.इति.द्वे.प्र.द्वाया.यज्ञैः.पृथिवी.नमोभिर्.इति.द्वे.प्र.द्यावा.यज्ञैः.पृथिवी.ऋतावृधा.। (पशु.बन्ध)

3.8-1i

मृळा.नो.रुद्रोत.नो.मयस्.कृधि.इति.द्वे.आ.ते.पितर्.मरुताम्.सुम्नम्.एतु.प्र.बभ्रवे.वृषभाय.श्विती.च.इति.तिस्रः.। (पशु.बन्ध)

3.8-1j

आ.पश्चातान्.नासत्या.पुरस्ताद्.आ.गोतमा.नासत्या.रथेन.इति.चतस्रो.हिरण्य.त्वन्.मधु.वर्णो.घृतस्नुः.अभि.क्रत्वा.इन्द्र.भूर्.अध.ज्मस्.त्वम्.महान्.इन्द्र.तुभ्यम्.रुक्षाः.सत्राहणम्.दाधृषिम्.तुंरम्.इन्द्रम्.सह.दानुम्.पुरु.हूत.क्षियन्तम्.स्तुत.इन्द्रो.मघवा.यद्.ध.वृत्रा.एव.अवस्व.इन्द्रः.सत्यः.संराड्.। (पशु.बन्ध)

3.8-1k

यद्.वाग्.वदन्त्य्.अविचेतनानि.पतङ्गो.वाचम्.मनसा.बिभर्ति.चत्वारि.वाक्.परिमिता.पदानि.यज्ञेन.वाचः.पदवीयम्.आयन्न्.इति.द्वे.देवीम्.वाचम्.अजनयन्त.देवाः.। (पशु.बन्ध)

3.8-1l

जनीयन्तो.न्व्.अग्रव.इति.तिस्रो.दिव्यम्.सुपर्णम्.वायसम्.बृहन्तम्.स.वावृधे.नर्यो.योषणासु.यस्य.व्रतम्.पशवो.यन्ति.सर्वे.यस्य.व्रतम्.उपतिष्ठन्त.आपः.।.यस्य.व्रते.पुष्टि.पतिर्.नीष्टस्.तम्.सरस्वन्तम्.अवसे.हुवेम.। (पशु.बन्ध)

3.8-2

इति.पशवः.। (पशु.बन्ध)

3.8-3

सौम्याश्.च.निर्मिताश्.च.। (पशु.बन्ध)

3.8-4

निर्मित.ऐन्द्राग्नः.। (पशु.बन्ध)

3.8-5

षाण्मास्यः.सांवत्सरो.वा.। (पशु.बन्ध)

3.8-6

प्राजापत्य.उपांशु.सावित्र.सौर्य.वैष्णव.वैश्वकर्मणाश्.च.एतेषाम्.तत्र.उपांशु.याज.विकारान्.वक्ष्यामः.। (पशु.बन्ध)

3.8-7

प्रैष.आदिर्.आगुर्.अस्थाने.। (पशु.बन्ध)

3.8-8

आदद्.घसत्.करद्.इति.च.एतानि.यथा.स्थानम्.उपांशु.। (पशु.बन्ध)

3.9-1

सौत्रामण्याम्.। (सौत्रामणी)

3.9-2

आश्विन.सारस्वत.ऐन्द्राः.पशवः.।.बार्हस्पत्यो.वा.चतुर्थः.।.ऐन्द्रा.सावित्र.वारुणाः.पशु.पुरोळाशाः.। (सौत्रामणी)

3.9-3

मार्जयित्वा.युवम्.सुरामम्.अश्विना.इति.ग्रहाणाम्.पुरोनुवाक्या.।.होता.यक्षद्.अश्विना.सरस्वतीम्.इन्द्रम्.सुत्रामाणम्.सुराम्णाम्.जुषन्ताम्.व्यन्तु.पिबन्तु.मदन्तु.सोमान्.सुराम्णो.होतर्.यज.इति.प्रैषः.।.पुत्रम्.इव.पितराव्.अश्विनोभ.इत्.याज्या.। (सौत्रामणी)

3.9-4

अग्ने.वीहि.इत्य्.अनुवषट्.कारः.सुरा.सुतस्य.अग्ने.वीहि.इति.वा.।.नाना.हि.वाम्.देव.हितम्.सदस्.कृतम्.मासम्.सृक्षाथाम्.परमे.व्योमनि.।.सुरा.त्वम्.असि.शुष्मिणी.इति.सुराम्.अवेक्ष्य.अधो.बाहू.सोम.एष.इति.सोमम्.। (सौत्रामणी)

3.9-5

यद्.अत्र.रिप्तम्.रसिनः.सुतस्य.यद्.इन्द्रो.अपिवत्.शचीभिः.।.इदम्.तद्.अस्य.मनसा.शिवेन.सोमम्.राजानम्.इह.भक्षयामि.इति.भक्ष.जपः.। (सौत्रामणी)

3.9-6

प्राण.भक्षो.अत्र.। (सौत्रामणी)

3.10-1

विध्य्.अपराधे.प्रायश्.चित्तिः.। (प्रायश्.चित्तानि)

3.10-2

शिष्ट.अभावे.प्रतिनिधिः.। (प्रायश्.चित्तानि)

3.10-3

अन्वाहित.अग्नेः.प्रयाण.उपपत्तौ.पृथग्.अग्नीन्.नयेयुः.। (प्रायश्.चित्तानि)

3.10-4

तुभ्यम्.ता.अङ्गिरस्तम.इति.वा.आज्य.आहुतिम्.हुत्वा.समारोपयेत्.। (प्रायश्.चित्तानि)

3.10-5

अयम्.ते.योनिर्.ऋत्विय.इत्य्.अरणी.गार्हपत्ये.प्रतितपेत्.। (प्रायश्.चित्तानि)

3.10-6

पाणी.वा.या.ते.अग्ने.यज्ञिया.तनूस्.तयेह्य्.आरोह.आत्मा.आत्मानम्.अच्छाअ.वसूनि.कृण्वन्नर्या.पुरूणि.यज्ञो.भूत्वा.यज्ञम्.आसीद.योनिम्.जात.वेदो.भुव.आजायमान.इति.। (प्रायश्.चित्तानि)

3.10-7

एवम्.अनन्वाहित.अग्निर्.अहुत्वा.। (प्रायश्.चित्तानि)

3.10-8

यदि.पाण्योर्.अरणी.संस्पृश्य.मन्थयेत्.प्रथ्यवरोह.जात.वेदः.पुनस्.त्वम्.देव्भ्यो.हव्यम्.वह.नः.प्रजान.।.प्रजाम्.पुष्टिम्.रयिम्.अस्मासु.धेह्य्.अथाभव.यजमानाय.शम्योर्.इति.। (प्रायश्.चित्तानि)

3.10-9

आहवनीयम्.अवदीप्यमानम्.अर्वाक्.शम्या.परासाद्.इदम्.त.एकम्.पर.ऊत.एकम्.इति.संवपेत्.। (प्रायश्.चित्तानि)

3.10-10

यदि.त्व्.अतीयाद्.यद्य्.अमावास्याम्.पौर्णमासीम्.वा.अतीयाद्.यदि.वा.अन्यस.अग्निषु.यजेत.यदि.वा.अस्य.अन्यो.अग्निषु.यजेत.यदि.वा.अस्य.अन्यो.अग्निर्.अग्नीन्.व्यवेयाद्.यदि.वा.अस्य.अग्नि.होत्र.उपसन्ने.हविषि.वा.निरुप्ते.चक्रीवत्.श्वा.पुरुषो.वा.विहारम्.अन्तरियाद्.यदि.वा.अध्वे.प्रमीयेत.इष्टिः.। (प्रायश्.चित्तानि)

3.10-11

अग्निः.पथिकृत्.। (प्रायश्.चित्तानि)

3.10-12

वेत्था.हि.वेधो.अध्वन.आदेवानाम्.अपि.पन्थाम्.अगन्म.इति.।.अनड्वान्.दक्षिणा.। (प्रायश्.चित्तानि)

3.10-13

व्यवाये.त्व्.अनग्निना.प्राग्.इष्टेर्.गाम्.अन्तरेण.अतिक्रमयेत्.। (प्रायश्.चित्तानि)

3.10-14

भस्मना.शुनः.पदम्.प्रतिवपेद्.इदम्.विष्णुर्.विचक्रम.इति.। (प्रायश्.चित्तानि)

3.10-15

गार्हपत्य.आहवनीयोर्.अन्तरम्.भस्म.राज्य.उदक.राज्या.च.संतनुयात्.तन्तुम्.तन्वन्.रजसो.भानुम्.अन्विहि.इति.। (प्रायश्.चित्तानि)

3.10-16

अनुगमयित्वा.च.आहवनीयम्.पुनः.प्रणीय.उपतिष्ठेत.।यद्.अग्ने.पूर्वम्.प्रहितम्.पदम्.हिते.सूर्यस्य.रश्मीन्.अन्वाततान.।.तत्र.रयिष्ठाम्.अनुसम्भवताम्.सम्.नः.सृज.सुमत्या.वाजवत्या.।.त्वम्.अग्ने.सप्रथा.असि.इति.च.। (प्रायश्.चित्तानि)

3.10-17

अध्वे.प्रमीतस्य.अभिवान्य.वत्सायाः.पयसा.अग्नि.होत्रम्.तूष्णीम्.सर्व.हुतम्.जुहुयुर्.आ.समवायात्.। (प्रायश्.चित्तानि)

3.10-18

यद्य्.आहित.अग्निर्.अपर.पक्षे.प्रमीयेत.आहुतिभिर्.एनम्.पूर्व.पक्षम्.हरेयुः.। (प्रायश्.चित्तानि)

3.10-19

हविषाम्.व्यापत्ता.ओळ्हासु.देवतास्व्.आज्येन.इष्टिम्.समाप्य.पुनर्.इज्या.। (प्रायश्.चित्तानि)

3.10-20

व्यापन्नानि.हवींषि.केश.नख.कीट.पतङ्गैर्.अन्यैर्.वा.बीभत्सैः.। (प्रायश्.चित्तानि)

3.10-21

भिन्न.सिक्तानि.च.। (प्रायश्.चित्तानि)

3.10-22

अपो.अह्यवहरेयुः.। (प्रायश्.चित्तानि)

3.10-23

प्रजापते.न.त्वद्.एतान्य्.अन्य.इति.च.वल्मीक.वपायाम्.वा.साम्नाय्यम्.मध्यमेन.पलाश.पर्णेन.जुहुयात्.। (प्रायश्.चित्तानि)

3.10-24

विष्यन्दमानम्.मही.द्यौः.पृथिवी.च.न.इत्य्.अन्तः.परिधि.देशे.निर्वपेयुः.। (प्रायश्.चित्तानि)

3.10-25

अन्यतर.अदोषे.व्यासिच्य.प्रचरेयुः.। (प्रायश्.चित्तानि)

3.10-26

पुरोळाशम्.वा.तत्.स्थाने.। (प्रायश्.चित्तानि)

3.10-27

उभय.दोष.ऐन्द्राग्नम्.पञ्च.शरावम्.ओदनम्.। (प्रायश्.चित्तानि)

3.10-28

तयोः.पृथक्.प्रचर्या.। (प्रायश्.चित्तानि)

3.10-29

ऐन्द्रम्.एव.इत्य्.एके.। (प्रायश्.चित्तानि)

3.10-30

वत्सानाम्.धाने.वायवे.यवागूम्.। (प्रायश्.चित्तानि)

3.10-31

अग्निहोत्रम्.अधिश्रितम्.स्रवद्.अभिमन्त्रयेत.गर्भम्.स्रवन्तम्.अगदम्.अकर्म.अग्निर्.होता.पृथिव्य्.अन्तरिक्षम्.यतश्चुतद्.अग्नाव्.एव.तन्.न.अभिप्राप्नोति.निरृतिम्.परस्ताद्.इति.। (प्रायश्.चित्तानि)

3.11-1

यस्य.अग्नि.होत्र्य्.उपावसृष्टा.दुह्यमाना.उपविशेत्.ताम्.अभिमन्त्रयेत.।.यस्माद्.भीषा.निषीदसि.ततो.नो.अभयम्.कृधि.।.पशून्.नः.सर्वान्.गोपाय.नमो.रुद्राय.मीळ्हुष.इति। (प्रायश्.चित्तानि)

3.11-2

अथ.एनाम्.उत्थापयेद्.उदस्थाद्.देव्य्.अदितिर्.आयुर्.यज्ञ.पताव्.अधात्.।.इन्द्राय.कृण्वतो.भागम्.मित्राय.वरुणाय.च.इति.। (प्रायश्.चित्तानि)

3.11-3

अथ.अस्या.ऊधसि.च.मुखे.च.उद.पात्रम्.उपोद्गृह्य.दुग्ध्वा.ब्राह्मणम्.पाययेद्.यस्य.अभोक्ष्यन्त्.स्याद्.यावज्.जीवम्.संवत्सरम्.वा.। (प्रायश्.चित्तानि)

3.11-4

वाश्यमानायै.यवसम्.प्रयच्छेत्.सूयवसाद्.भगवती.हि.भूया.इति.। (प्रायश्.चित्तानि)

3.11-5

शोणितम्.दुग्धम्.गार्हपत्ये.संक्षाप्य.अन्येन.जुहुयात्.। (प्रायश्.चित्तानि)

3.11-6

भिन्नम्.सिक्तम्.वा.अभिमन्त्रयेत.।.समुद्रम्.वः.प्रहिणोमि.स्वाम्.योनिम्.अपि.गच्छत.।.अरिष्टा.अस्माकम्.वीरा.मयि.गावः.सन्तु.गोपताव्.इति.। (प्रायश्.चित्तानि)

3.11-7

यस्य.अग्निहोत्र्य्.उपावसृष्टा.दुह्यमाना.स्पन्देत.सा.यत्.तत्र.स्कन्दयेत्.तद्.अभिमृश्य.जपेत्.यद्.अद्य.दुग्धम्.पृथिवीम्.असृप्त.यद्.ओषधीर्.अत्यसृपद्.यद्.आपः.।.पयो.घेषु.पयो.अघ्न्यायाम्.पयो.वत्सेषु.पयो.अस्तु.तन्.मयि.इति.। (प्रायश्.चित्तानि)

3.11-8

तत्र.यत्.प्रशिष्टम्.स्यात्.तेन.जुहुयात्.। (प्रायश्.चित्तानि)

3.11-9

अन्येन.वा.अभ्यानीय.। (प्रायश्.चित्तानि)

3.11-10

एतद्.दोहन.आद्य्.आ.प्राचीन.हरणात्.। (प्रायश्.चित्तानि)

3.11-11

प्रजापतेर्.विश्वभृति.तन्वम्.हुतम्.असि.इति.तत्र.स्कन्न.अभिमर्शनम्.। (प्रायश्.चित्तानि)

3.11-12

शेषेण.जुहुयात्.। (प्रायश्.चित्तानि)

3.11-13

पुनर्.उन्नीय.अशेषे.। (प्रायश्.चित्तानि)

3.11-14

आज्यम्.अशेषे.। (प्रायश्.चित्तानि)

3.11-15

एतद्.आ.होमात्.। (प्रायश्.चित्तानि)

3.11-16

वारुणीम्.जपित्वा.वारुण्या.जुहुयात्.। (प्रायश्.चित्तानि)

3.11-17

अनशनम्.आ.अन्यस्माद्.होम.कालात्.। (प्रायश्.चित्तानि)

3.11-18

पुनर्.होमम्.च.गाणगारिः.। (प्रायश्.चित्तानि)

3.11-19

अग्निहोत्रम्.शर.शरायत्.समोष.अमुम्.इति..द्वेष्टारम्.उदाहरेत्.। (प्रायश्.चित्तानि)

3.11-20

विष्यन्दमानम्.मही.द्यौः.पृथिवी.च.न.इत्य्.आहवनीयस्य.भस्म.अन्ते.निनयेत्.। (प्रायश्.चित्तानि)

3.11-21

साम्नाय्यवद्.बीभत्से.। (प्रायश्.चित्तानि)

3.11-22

अभिवृष्टे.मित्रो.जनान्.यातयति.ब्रुवाण.इति.समिद्.आधानम्.। (प्रायश्.चित्तानि)

3.11-23

यत्र.वेत्थ.वनस्पत.इत्य्.उत्तरस्या.आहुत्या.स्कन्दने.। (प्रायश्.चित्तानि)

3.12-1

प्रदोष.अन्तो.होम.कालः.। (प्रायश्.चित्तानि)

3.12-2

संगव.अन्तः.प्रातः.। (प्रायश्.चित्तानि)

3.12-3

तम्.अतिनीय.चतुर्.गृहीतम्.आज्यम्.जुहुयात्.। (प्रायश्.चित्तानि)

3.12-4

यदि.सायम्.दोषा.वस्तर्.नमः.स्वाहा.इति.।.यदि.प्रातः.प्रातर्.वस्तर्.नमः.स्वाहा.इति.।.अग्निहोत्रम्.उपसाद्य.भूर्.भुवः.स्वर्.इति.जपित्वा.वरम्.दत्त्वा.जुहुयात्.। (प्रायश्.चित्तानि)

3.12-5

इष्टिश्.च.वारुणी.। (प्रायश्.चित्तानि)

3.12-6

हुत्वा.प्रातर्.वर.दानम्.। (प्रायश्.चित्तानि)

3.12-7

अनुगमयित्वा.च.आहवनीयम्.पुनः.प्रणयेद्.इह.एव.क्षेभ्य.एधि.मा.प्रहासीर्.अमुम्.मा.अमुष्यायणम्.।इति.। (प्रायश्.चित्तानि)

3.12-8

तत.इष्टिर्.मित्रः.सूर्यः.। (प्रायश्.चित्तानि)

3.12-9

अभि.यो.महिना.दिवम्.प्र.स.मित्रम्.मर्तो.अस्तु.प्रयस्वान्.इति.संस्थितायाम्.पत्न्या.सह.वाग्.यतो.अग्नीन्.ज्वलतो.अहर्.अनश्नन्न्.उपासीत.। (प्रायश्.चित्तानि)

3.12-10

द्वयोर्.दुग्धेन.वासे.अग्निहोत्रम्.जुहुयात्.। (प्रायश्.चित्तानि)

3.12-11

अधिश्रिते.अन्यस्मिन्.द्वितीयम्.अवनयेत्.। (प्रायश्.चित्तानि)

3.12-12

प्रातर्.इष्टिः.। (प्रायश्.चित्तानि)

3.12-13

अग्निर्.व्रतभृत्.। (प्रायश्.चित्तानि)

3.12-14

त्वम्.अग्ने.व्रतभृत्.शुचिर्.अग्ने.देवान्.इह.आवह.।.उप.यज्ञम्.हविश्.च.नः.।.व्रतानि.बिभ्रद्.व्रतपा.अदब्धो.यजानो.देवन.अजरः.सुवीरः.।.दधद्.रत्नानि.सुमृलीको.अग्ने.गोपायनो.जीवसे.जात.वेद.इति.। (प्रायश्.चित्तानि)

3.12-15

एषा.एव.आर्त्या.अश्रु.पाते.। (प्रायश्.चित्तानि)

3.12-16

यद्य्.आहवनीयम्.अप्रणीतम्.अभ्यस्तम्.इयाद्.बहुविद्.ब्राह्मणो.अग्निम्.प्रणयेत्.दर्भैर्.हिरण्ये.अग्रतो.ह्रियमाणे.। (प्रायश्.चित्तानि)

3.12-17

अभ्युदिते.चतुर्.गृहीतम्.आज्यम्.रजतम्.च.हिरण्यवद्.अग्रतो.हरेयुः.। (प्रायश्.चित्तानि)

3.12-18

अथ.एतद्.आज्यम्.जुहुयात्.पुरस्तात्.प्रत्यन्.मुख.उपविश्य.उषाः.केतुना.जुषताम्.स्वाहा.इति.। (प्रायश्.चित्तानि)

3.12-19

काल.अत्ययेन.शेषः.। (प्रायश्.चित्तानि)

3.12-20

न.त्व्.इह.अग्निर्.अनुगम्यः.। (प्रायश्.चित्तानि)

3.12-21

आहवनीये.चेद्.ध्रियमाणे.गार्हपत्यो.अनुगच्छेत्.स्वेभ्य.एनम्.अवक्षामेभ्यो.मन्थेयुर्.अनुगमये.त्व्.इतरम्.। (प्रायश्.चित्तानि)

3.12-22

क्षाम.अभावे.भस्मना.अरणी.संस्पृश्य.मन्थयेद्.इतो.जज्ञे.प्रथमम्.एभ्यो.योनिभ्यो.अधि.जात.वेदाः.।.स.गायत्र्या.त्रिष्टुभा.जगत्या.अनुष्टुभा.च.देवेभ्यो.हव्यम्.वह.नः.प्रजानन्न्.इति.। (प्रायश्.चित्तानि)

3.12-23

मथित्वा.प्रणीय.आहवनीयम्.उपतिष्ठेत.अग्ने.संराऌ.इषे.राये.रमस्व.सहसे.द्युम्नाय.ऊर्जे.अपत्याय.।.संराऌ.असि.स्वराऌ.असि.साअरस्वतौ.त्वा.उत्सौ.प्रावताम्.अन्नादम्.त्वा.अन्न.पत्याय.आदध.इति.। (प्रायश्.चित्तानि)

3.12-24

अत.एव.एके.प्रणयन्त्य्.अन्वाहृत्य.दक्षिणम्.। (प्रायश्.चित्तानि)

3.12-25

सह.भस्मानम्.वा.गार्हपत्य.आयतने.निधाय.अथ.प्राञ्चम्.आहवनीयम्.उद्धरेत्.। (प्रायश्.चित्तानि)

3.12-26

तत.इष्टिर्.अग्निस्.तपस्वान्.जनद्वान्.पावकवान्.। (प्रायश्.चित्तानि)

3.12-27

आयाहि.तपसा.जनेष्व्.अग्ने.पावको.अर्चिषा.।.उप.इमाम्.सुष्टुतिम्.मम.।.आ.नो.याहि.तपसा.जनेष्व्.अग्ने.पावक.दोद्यत्.।.हव्या.देवेषु.नो.दधद्.इति.।.प्रणीते.अनुगते.प्राग्ग्.होमाअद्.इष्टिः.। (प्रायश्.चित्तानि)

3.12-28

अग्निर्.ज्योतिष्मान्.वरुणः.। (प्रायश्.चित्तानि)

3.12-29

उद्.अग्ने.शुचयस्.तव.अग्ने.बृहन्न्.उषसाम्.ऊर्ध्वो.अस्थाद्.इति.।.सर्वांश्.चेद्.अनुगतान्.आदित्यो.अभ्युदियाद्.वा.अभ्यस्तम्.इयाद्.वा.अग्न्य्.आधेयम्.पुनर्.आधेयम्.। (प्रायश्.चित्तानि)

3.12-30

समूळ्हेषु.च.अरणी.नाशे.। (प्रायश्.चित्तानि)

3.13-1

अथ.आग्नेय्य.इष्टयः.। (प्रायश्.चित्तानि)

3.13-2

व्रत.अतिपत्तौ.व्रत.पतये.। (प्रायश्.चित्तानि)

3.13-3

साग्नाव्.अग्नि.प्रणयने.अग्निवते.। (प्रायश्.चित्तानि)

3.13-4

क्षामाय.अगार.दाहे.।.शुचये.संसर्जने.अग्निना.अन्येन.। (प्रायश्.चित्तानि)

3.13-5

मिथश्.चेद्.विविचये.। (प्रायश्.चित्तानि)

3.13-6

गार्हपत्य.आहवनीययोर्.वीतये.। (प्रायश्.चित्तानि)

3.13-7

ग्राम्येण.संवर्गाय.। (प्रायश्.चित्तानि)

3.13-8

वैद्युते.अप्सुमते.।.वैश्वानराय.विमतानाम्.अन्न.भोजने.। (प्रायश्.चित्तानि)

3.13-9

एषा.वै.कपाले.नष्टे.अनुद्वासिते.। (प्रायश्.चित्तानि)

3.13-10

अभ्याश्राविते.वा.। (प्रायश्.चित्तानि)

3.13-11

सुरभय.एव.यस्मिन्.जीवे.मृत.शब्दः.। (प्रायश्.चित्तानि)

3.13-12a

त्वम्.अग्ने.व्रतपा.असि.यद्.वो.वयम्.प्रमिनाम.व्रतान्य्.अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.अग्ने.त्वम्.अस्मद्.युयोध्य्.अमीवा.अक्रन्दद्.अग्निस्.तनयन्न्.इव.द्यौर्.वि.ते.विष्वग्.वात.जूतासो.अग्ने.त्वाम्.अग्ने.मानुषीर्.ईळते.विशो.अग्न.आयाहि.वीतये.। (प्रायश्.चित्तानि)

3.13-12b

यो.अग्निम्.देव.वीतये.कुवित्सु.नो.गविष्टये.मा.नो.अस्मिन्.महा.धने.अप्स्व्.अग्ने.सधिष्टव.यद्.अग्ने.दिविजा.अस्य्.अग्निर्.होता.न्यसीदद्.यजीयान्त्.साध्वीम्.अकर्.देव्.वीतिम्.नो.अद्य.इति.।.यस्य.भार्या.गौर्.वा.यमौ.जनयेद्.इष्टिर्.मरुतः.। (प्रायश्.चित्तानि)

3.13-13

साम्नाय्ये.पुरस्ताच्.चन्द्रमस.अभ्युदिते.अग्निर्.दाता.इन्द्रः.प्रदाता.विष्णुः.शिपिविष्टः.। (प्रायश्.चित्तानि)

3.13-14

अग्ने.दा.दाशुषे.रयिम्.सयन्ता.विप्र.एषाम्.दीर्घस्.ते.अस्त्व्.अङ्कुशो.भद्रा.ते.हस्ता.सुकृत.उप.पाणी.वषट्.ते.विष्णव्.आस..आकृणोमि.प्र.तत्.ते.अद्य.शिपिविष्ट.नाम.इति.।.अपि.वा.प्रायश्.चित्त.इष्टीनाम्.स्थाने.तस्यै.तस्यै.देवतायै.पूर्ण.आहुतिम्.जुहुयाद्.इति.विज्ञायते.। (प्रायश्.चित्तानि)

3.13-15

हविषाम्.स्कन्नम्.अभिमृशेद्.देवान्.जनम्.अगन्.यज्ञस्.तस्य.मा.आशीर्.अवतु.वर्धताम्.।.भूतिर्.घृतेन.मुञ्चतु.यज्ञो.यज्ञ.पतिम्.अन्हसः.।.भू.पतये.स्वाहा.भुवन.पतये.स्वाहा.भूतानाम्.पतये.स्वाहा.।.यज्ञस्य.त्वा.प्रमय.उन्मय.अभिमया.प्रतिमया.द्रप्सश्.चस्कन्द.इति.। (प्रायश्.चित्तानि)

3.13-16

आहुतिश्.चेद्.बहिष्.परिध्य्.आघ्नीध्र.एनाम्.जुहुयात्.। (प्रायश्.चित्तानि)

3.13-17

हुतवते.पूर्ण.पात्रम्.दद्यात्.। (प्रायश्.चित्तानि)

3.13-18

देवते.अनुवाक्ये.याज्ये.वा.विपरिहृत्य.आज्ये.अवदाने.हविषी.वा.यद्.वो.देवा.अतिपातयानि.वाचा.च.प्रयुती.देव.हेळनम्.।.अरायो.अस्मान्.अभिदुच्छुनायते.अन्यत्र.अस्मान्.मरुतस्.तन्.निधेतन.स्वाहा.इत्य्.आज्य.आहुतिम्.हुत्वा.मुख्यम्.धनम्.दद्यात्.। (प्रायश्.चित्तानि)

3.13-19

स्थानिनीम्.अनावाह्य.देवताम्.उपोत्थाय.आवाहयेत्.। (प्रायश्.चित्तानि)

3.13-20

मनसा.इत्य्.एके.।.आज्येन.अस्थानिनीम्.यजेत्.। (प्रायश्.चित्तानि)

3.14-1

हविषि.दुह्शृते.चतुः.शरावम्.ओदनम्.ब्राह्मणान्.भोजयेत्.। (प्रायश्.चित्तानि)

3.14-2

क्षामे.शिष्टेन.इष्ट्वा.पुनर्.यजेत.। (प्रायश्.चित्तानि)

3.14-3

अशेषे.पुनर्.आवृत्तिः.। (प्रायश्.चित्तानि)

3.14-4

प्राग्.आवाहनाच्.च.दोषे.। (प्रायश्.चित्तानि)

3.14-5

अप्य्.अत्यन्तम्.गुण.भूतानाम्.। (प्रायश्.चित्तानि)

3.14-6

प्राक्.स्विष्टकृत.उक्तम्.प्रधान.भूतानाम्.। (प्रायश्.चित्तानि)

3.14-7

अवदान.दोषे.पुनर्.आयतनाद्.अवदानम्.। (प्रायश्.चित्तानि)

3.14-8

द्वेष्ट्रे.त्व्.इह.दक्षिणाम्.दद्यात्.। (प्रायश्.चित्तानि)

3.14-9

दक्षिणा.दान.उर्वराम्.दद्यात्.। (प्रायश्.चित्तानि)

3.14-10

कपालम्.भिन्नम्.अनप्रवृत्त.कर्म.गायत्र्या.त्वा.शत.अक्षरया.संदधामि.इति.संधाय.अपो.अभ्यवहरेयुर्.अभिन्नो.घर्मो.जीरदानुर्.यत.आर्तस्.तद्.अगन्.पुनः.।.इध्मो.वेदिः.परिधयश्.च.सर्वे.यज्ञस्य.आयुर्.अनुसंतरन्तु.।.त्रयस्.त्रिंशत्.तन्तवो.यान्.वितन्वत.इमम्.यज्ञम्.स्वधया.ये.यजन्ते.।.ते.अभिश्छिद्रम्.प्रतिदध्मो.यजत्र.स्वाहा.यज्ञो.अप्य्.एतु.देवान्.इति.। (प्रायश्.चित्तानि)

3.14-11

एवम्.अवलीळ्हाभिः.क्षिप्तेषु.। (प्रायश्.चित्तानि)

3.14-12

अप.एव.अन्यानि.मृन्मयानि.।.भूमिर्.भूमिम्.अगान्.माता.मातरम्.अप्यगात्.।.भूयास्म.पुत्रैः.पशुभिर्.यो.नो.द्वेष्टि.स.भिद्यताम्.इति.। (प्रायश्.चित्तानि)

3.14-13

यदि.पुरोळाशः.स्फुटेद्.वा.उत्पतेत.वा.बर्हिष्य्.एनम्.निधाय.अभिमन्त्रयेत.किम्.उत्पतसि.किम्.उत्प्रोष्ठाः.शान्तेर्.इह.आगहि.।.अघोरो.यज्ञियो.भूत्वा.आसीद.सदनम्.स्वम्.आसीद.सदनम्.स्वम्.इति.।.मा.हिंसीर्.देव.प्रेरित.आज्येन.तेजसा.आज्यस्व.मा.नः.किंचन.रीरिषः.।.याग.क्षेमस्य.शान्त्या.अस्मिन्न्.आसीद.बर्हिषि.इति.। (प्रायश्.चित्तानि)

3.14-14

अग्निहोत्राय.काले.अग्नाव्.अजायमाने.अप्य्.अन्यम्.आनीय.जुहुयुः.। (प्रायश्.चित्तानि)

3.14-15

पूर्व.अलाभ.उत्तर.उत्तरम्.। (प्रायश्.चित्तानि)

3.14-16

ब्राह्मण.आप्य्.अज.कर्ण.दर्भ.स्तम्ब.अप्सु.काष्ठेषु.पृथिव्याम्.। (प्रायश्.चित्तानि)

3.14-17

हुत्वा.त्व्.अपि.मन्थनम्.। (प्रायश्.चित्तानि)

3.14-18

पाणौ.चेद्.वासे.अनवरोधः.। (प्रायश्.चित्तानि)

3.14-19

कर्णे.चेन्.मांस.वर्जनम्.। (प्रायश्.चित्तानि)

3.14-20

स्तम्बे.चेन्.न.अधिशयीत.। (प्रायश्.चित्तानि)

3.14-21

अप्सु.चेद्.अविवेकः.। (प्रायश्.चित्तानि)

3.14-22

एतत्.सांवत्सरम्.व्रतम्.यावज्.जीविकम्.वा.। (प्रायश्.चित्तानि)

3.14-23

अग्नाव्.अनुगते.अन्तर्.आहुती.।.हिरण्य.उत्तराम्.जुहुयाद्.हिरण्य.उत्तराम्.जुहुयात्.। (प्रायश्.चित्तानि)

मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc