भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनश्रौतसूत्र · अध्याय 2

2.1-1

पौर्णमासेन.इष्टि.पशु.सोमा.उपदिष्टाः.। (गेनेरल् रुलेस्)

2.1-2

तैर्.अमावास्यायाम्.पौर्णमास्याम्.वा.यजेत.। (गेनेरल् रुलेस्)

2.1-3

राजन्यश्.च.अग्निहोत्रम्.जुहुयात्.। (गेनेरल् रुलेस्)

2.1-4

तपस्विने.ब्राह्मणाय.इतरम्.कालम्.भक्तम्.उपहरेत्.। (गेनेरल् रुलेस्)

2.1-5

ऋत.सत्य.शीलः.सोमसुत्.सदा.जुहुयात्.। (गेनेरल् रुलेस्)

2.1-6

बहुषु.बहूनाम्.अनुदेश.आनन्तर्य.योगः.। (गेनेरल् रुलेस्)

2.1-7

द्वे.द्वे.तु.याज्या.अनुवाक्ये.। (गेनेरल् रुलेस्)

2.1-8

अदृष्ट.आदेशे.नित्ये.। (गेनेरल् रुलेस्)

2.1-9

अग्न्य्.आधेयम्.। (अग्न्य्.आधेय)

2.1-10

कृत्तिकासु.रोहिण्याम्.मृग.शिरसि.फल्गुनीषु.विशाखयोर्.उत्तरयोः.प्रोष्ठ.पदयोः.। (अग्न्य्.आधेय)

2.1-11

एतेषाम्.कस्मिंश्चित्.। (अग्न्य्.आधेय)

2.1-12

वसन्ते.पर्वणि.ब्राह्मण.आदधीत.। (अग्न्य्.आधेय)

2.1-13

ग्रीष्म.वर्षा.शरत्सु.क्षत्रिय.वैश्य.उपक्रुष्टाः.। (अग्न्य्.आधेय)

2.1-14

यस्मिन्.कस्मिंश्चिद्.ऋताव्.आदधीत.। (अग्न्य्.आधेय)

2.1-15

सोमेन.यक्ष्यमाणो.न.ऋतुम्.पृच्छेन्.न.नक्षत्रम्.। (अग्न्य्.आधेय)

2.1-16

अश्वत्थात्.शमी.गर्भाद्.अरणो.आहरेद्.अनवेक्षमाणः.। (अग्न्य्.आधेय)

2.1-17

यो.अश्वत्थः.शमी.बर्भ.आरुरोह.त्वे.सचा.।.तम्.त्वा.आहरामि.ब्रह्मणा.यज्ञैः.केतुभिः.सह.इति.पूर्ण.आहुत्य्.अन्तम्.अग्न्य्.आधेयम्.। (अग्न्य्.आधेय)

2.1-18

यदि.त्व्.इष्टयस्.तनुयुः.। (अग्न्य्.आधेय)

2.1-19

प्रथमायाम्.अग्निर्.अग्निः.पवमानः.। (अग्न्य्.आधेय)

2.1-20

अग्न.आयूंषि.पवसे.अग्ने.पवस्व.स्वपाः.। (अग्न्य्.आधेय)

2.1-21

स.हव्यवा:.अमत्या.अग्निर्.होता.पुरोहित.इति.स्विष्टकृतः.सम्याज्ये.इत्य्.उक्ते.सौविष्टकृती.प्रतीयात्.। (अग्न्य्.आधेय)

2.1-22

सर्वत्र.देवता.आगमे.नित्यानाम्.अपायः.। (अग्न्य्.आधेय)

2.1-23

याः.स्विष्टकृतम्.अन्तर्.आज्य.भागौ.च.तास्.तत्.स्थाने.। (अग्न्य्.आधेय)

2.1-24

एष.समान.जाति.धर्मः.। (अग्न्य्.आधेय)

2.1-25

द्वितीयस्याम्.वृधन्वन्तौ.।.अग्निः.पावके.अग्निः.शुचिः.स.नः.पावक.दीदिवो.अग्ने.पावक.रोचिषा.अग्निः.शुचि.व्रततम.उद्.अग्ने.शुचयस्.तव.। (अग्न्य्.आधेय)

2.1-26

साह्वान्.विश्वा.अभियुजो.अग्निम्.ईळे.पुरोहितम्.इति.सम्याज्ये.।.द्वितीयस्याम्.सामिधेन्याव्.आवपते.प्राग्.उपोत्तमायाः.पृथु.पाजा.अमर्त्य.इति.द्वे.। (अग्न्य्.आधेय)

2.1-27

धाय्ये.इत्य्.उक्त.एते.प्रतीयात्.पुष्टिमन्ताव्.अग्निना.रयिम्.अश्नवद्.गयस्फोनो.अमीवह.इति.।.अग्नीषोमाव्.इन्द्र.अग्नी.विष्णुर्.इति.वैकल्पिकानि.। (अग्न्य्.आधेय)

2.1-28

अदितिः.। (अग्न्य्.आधेय)

2.1-29

उत.त्वाम्.अदिते.महि.महीम्.ऊ.षु.मातरम्.सुव्रतानाम्.ऋतस्य.पत्नीम्.अवसे.हुवेम.।.तुवि.क्षत्राम्.अजरन्तीम्.उरूचीम्.सुशर्माणम्.अदितिम्.सुप्रणीतम्.। (अग्न्य्.आधेय)

2.1-30

प्र.इद्धो.अग्न.इमो.अग्न.इति.सम्याज्ये.विराजाव्.इत्य्.उक्त.एते.प्रतीयाद्.इति.तिस्रः.। (अग्न्य्.आधेय)

2.1-31

आद्य.उत्तमे.वैव.स्याताम्.। (अग्न्य्.आधेय)

2.1-32

आद्या.वा.। (अग्न्य्.आधेय)

2.1-33

तथा.सति.स्याम्.एव.धाय्ये.विराजौ.। (अग्न्य्.आधेय)

2.1-34

इति.मात्रे.विकारे.वैराज.तन्त्रा.इति.प्रतीयात्.। (अग्न्य्.आधेय)

2.1-35

आधानाद्.द्वादश.रात्रम्.अजस्राः.। (अग्न्य्.आधेय)

2.1-36

अत्यन्तम्.तु.गत.श्रियः.। (अग्न्य्.आधेय)

2.2-1

उत्सर्गे.अपर.अह्णे.गार्हपत्यम्.प्रज्वल्य.दक्षिण.अग्निम्.आनीय.विट्.कुलाद्.वित्तवतो.वा.एक.योनय.इत्य्.एके.ध्रियमाणम्.वा.प्रज्वल्य.अरणिमन्तम्.वा.मथित्वा.गार्हपत्याद्.आहवनीयम्.ज्वलन्तम्.उद्धरेत्.। (अग्निहोत्र)

2.2-2

देवम्.त्वा.देवेभ्यः.श्रिया.उद्धरामि.इत्य्.उद्धरेत्.। (अग्निहोत्र)

2.2-3

उद्ध्रियमाण.उद्धर.पाप्मनो.मा.यद्.अविद्वान्.यच्.च.विद्वांश्.चकार.।.अह्ना.यद्.एनः.कृतम्.अस्ति.किंचित्.सर्वस्मान्.मा.उद्धृतः.पाहि.तस्माद्.इति.प्रणयेत्.। (अग्निहोत्र)

2.2-4

अमृत.आहुतिम्.अमृतायाम्.जुओह्म्य्.अग्निम्.पृथिव्याम्.अमृतस्य.योनौ.।.तया.अनन्तम्.कामम्.अहम्.जयानि.प्रजापतिः.प्रथमो.अयम्.जिगाय.अग्नाव्.अग्निः.स्वाहा.इति.निदध्याद्.आदित्यम्.अभिमुखः.। (अग्निहोत्र)

2.2-5

एवम्.प्रातर्.व्युष्टाय.अन्तम्.एव.अभिमुखः.। (अग्निहोत्र)

2.2-6

रात्र्या.यद्.अन.इति.तु.प्रणयेत्.। (अग्निहोत्र)

2.2-7

अत.ऊर्ध्वम्.आहित.अग्निर्.व्रत.चर्या.आ.होमात्.। (अग्निहोत्र)

2.2-8

अनुदित.होमी.च.उदयात्.। (अग्निहोत्र)

2.2-9

अस्तमिते.होमः.। (अग्निहोत्र)

2.2-10

नित्यम्.आचमनम्.। (अग्निहोत्र)

2.2-11

ऋत.सत्याभ्याम्.त्वा.पर्युक्षामि.इति.जपित्वा.पर्युक्षेत्.त्रिस्.त्रिर्.एक.एकम्.पुनः.पुनर्.उदकम्.आदाय.। (अग्निहोत्र)

2.2-12

आनन्तर्ये.विकल्पः.। (अग्निहोत्र)

2.2-13

दक्षिणम्.त्व्.एव.प्रथमम्.विज्ञायते.पिता.वा.एषो.अग्नीनाम्.यद्.दक्षिणः.पुत्रो.गार्हपत्य.पौत्र.आहवनीयस्.तस्माद्.एवम्.पर्युक्षेत्.। (अग्निहोत्र)

2.2-14

गार्हपत्याद्.अविच्छिन्नाम्.उदक.धाराम्.हरेत्.तन्तुम्.तन्वन्.रजसो.भानुमन्.विहि.इत्य्.आहवनीयात्.। (अग्निहोत्र)

2.2-15

पश्चाद्.गार्हपत्यस्य.उपविश्य.उदन्न्.अङ्गारान्.अपोहेत्.सुहुतकृतः.स्थ.सुहुतम्.करिष्यथ.इति.। (अग्निहोत्र)

2.2-16

तेष्व्.अग्निहोत्रम्.अधिश्रयेद्.अधिश्रितम्.अध्यधिश्रितम्.अधिश्रितम्.हिम्.इति.। (अग्निहोत्र)

2.2-17

इळायास्.पदम्.घृतवच्.चर.अचरम्.जात.वेदो.हविर्.इदम्.जुषस्व.ये.ग्राम्याः.पशवो.विश्व.रूपास्.तेषाम्.सप्तानाम्.मयि.पुष्टिर्.अस्त्व्.इति.वा.। (अग्निहोत्र)

2.2-18

न.दध्य्.अधिश्रयेद्.अधिश्रयेद्.इत्य्.एके.। (अग्निहोत्र)

2.3-1

पयसा.नित्य.होमः.। (अग्निहोत्र)

2.3-2

यवागूर्.ओदनो.दधि.सर्पिर्.ग्राम.काम.अन्न.अद्य.काम.इन्द्रिय.काम.तेजस्.कामानाम्.। (अग्निहोत्र)

2.3-3

अधिश्रितम्.अवज्वलयेत्.। (अग्निहोत्र)

2.3-4

अनधिश्रयम्.दध्य्.अग्निष्.टे.तेजो.मा.हार्षीर्.इति.। (अग्निहोत्र)

2.3-5

स्रुवेण.प्रतिषिञ्च्यान्.न.वा.शान्तिर्.अस्य्.अमृतम्.असि.इति.। (अग्निहोत्र)

2.3-6

तयोर्.अव्यतिचारः.। (अग्निहोत्र)

2.3-7

पुनर्.ज्वलता.परिहरेत्.त्रिर्.अन्तरितम्.रक्षो.अन्तरिता.अरातय.इति.। (अग्निहोत्र)

2.3-8

समुदन्तम्.कर्षन्न्.इव.उदन्न्.उद्वासयेद्.दिवे.त्वा.अन्तरिक्षाय.त्वा.पृथिव्यै.त्वा.इति.निदधत्.। (अग्निहोत्र)

2.3-9

सुहुत.कृतः.स्थ.सुहुतम्.अकार्ष्ट.इत्य्.अङ्गारान्.अतिसृज्य.स्रुक्.स्रुवम्.प्रतितपेत्.प्रत्युष्टम्.रक्षः.प्रत्युष्टा.अरातयो.निष्टप्तम्.रक्षो.निष्टप्ता.अरातय.इति.। (अग्निहोत्र)

2.3-10

उत्तरतः.स्थाल्याः.स्रुवम्.आसाद्य.ओम्.उन्नयानि.इत्य्.अतिसर्जयीत.। (अग्निहोत्र)

2.3-11

आहित.अग्निर्.आचम्य.अपरेण.वेदिम्.अतिव्रज्य.दक्षिणत.उपविश्य.एतत्.श्रुत्वा.ओम्.उन्नय.इत्य्.अतिसृजेत्.। (अग्निहोत्र)

2.3-12

अतिसृषो.भूर्.इळा.भुव.इळा.स्वर्.इळा.वृध.इळा.इति.स्रुव.पूरम्.उन्नयेत्.। (अग्निहोत्र)

2.3-13

अग्नियम्.अग्नियम्.पूर्णतमम्.यो.अनु.ज्येष्ठम्.ऋद्धिम्.इच्छेत्.पुत्राणाम्.। (अग्निहोत्र)

2.3-14

यो.अस्य.पुत्रः.प्रियः.स्यात्.तम्.प्रति.पूर्णम्.उन्नयेत्.। (अग्निहोत्र)

2.3-15

स्थालीम्.अभिमृश्य.समिधम्.स्रुचम्.च.अध्य्.अधि.गार्हपत्यम्.हृत्वा.प्राण.सम्मिताम्.आहवनीय.समीपे.कुशेषु.उपसाद्य.जान्.आच्य.समिधम्.आदध्याद्.रजताम्.त्वा.अग्नि.ज्योतिषम्.रात्रिम्.इष्टकाम्.उपदधे.स्वाहा.इति.। (अग्निहोत्र)

2.3-16

समिधम्.आधाय.विद्युद्.असि.विद्य.मे.पाप्मानम्.अग्नौ.श्रद्धा.इत्य्.अप.उपस्पृश्य.प्रदीप्ताम्.द्व्य्.अङ्गुल.मात्रे.अभिजुहुयाद्.भूर्.भुवः.स्वर्.ओम्.अग्निर्.ज्योतिर्.ज्योतिर्.अग्निः.स्वाहा.इति.। (अग्निहोत्र)

2.3-17

पूर्वाम्.आहुतिम्.हुत्वा.कुशेषु.सादयित्वा.गार्हपत्यम्.एव.ईक्षेत.पशून्.मे.यच्छ.इति.। (अग्निहोत्र)

2.3-18

अथ.उत्तराम्.तूष्णीम्.भूयसीम्.असंसृष्टाम्.प्राग्.उदग्.उत्तरतो.वा.। (अग्निहोत्र)

2.3-19

प्रजापतिम्.मनसा.ध्यायात्.तूष्णीम्.होमेषु.सर्वत्र.। (अग्निहोत्र)

2.3-20

भूयिष्ठम्.स्रुचि.शिष्ट्वा.त्रिर्.अनुप्रकम्प्य.अवमृज्य.कुश.मूलेषु.निमार्ष्टि.पशुभ्यस्.त्वा.इति.। (अग्निहोत्र)

2.3-21

तेषाम्.दक्षिणत.उत्ताना.अङ्गुलीः.करोति.प्राचीन.आवीती.तूष्णीम्.स्वधा.पितृभ्य.इति.वा.। (अग्निहोत्र)

2.3-22

अपो.अवनिनीय.। (अग्निहोत्र)

2.3-23

वृष्टिर्.असि.वृश्च.मे.पाप्मानम्.अप्सु.श्रद्धा.इत्य्.अप.उपस्पृश्य.। (अग्निहोत्र)

2.3-24

आहित.अग्निर्.अनुमन्त्रयेत.। (अग्निहोत्र)

2.3-25

आधानम्.उक्त्वा.तेन.ऋषिणा.तेन.ब्रह्मणा.तया.देवतया.अङ्गिरस्वद्.ध्रुवा.आसीद.इति.समिधम्.। (अग्निहोत्र)

2.3-26

ता.अस्य.सूद.दोहस.इति.पूर्वाम्.आहुतिम्.। (अग्निहोत्र)

2.3-27

उपस्थाय.उत्तराम्.कांक्षेत.ईक्षमाणो.भूर्.भुवः.स्वः.सुप्रजाः.प्रजाभिः.स्याम्.सुवीरो.वीरैः.सुपोषः.पोषैः.। (अग्निहोत्र)

2.3-28

आग्नेयीभिश्.च.। (अग्निहोत्र)

2.3-29

अग्न.आयूंषि.पवस.इति.तिसृभिः.। (अग्निहोत्र)

2.4-1

संवत्सरे.संवत्सरे.। (अग्निहोत्र)

2.4-2

यवाग्वा.पयसा.वा.स्वयम्.पर्वणि.जुहुयात्.। (अग्निहोत्र)

2.4-3

ऋत्विजाम्.एक.इतरम्.कालम्.। (अग्निहोत्र)

2.4-4

अन्तेवासी.वा.। (अग्निहोत्र)

2.4-5

स्पृष्ट्वा.उदकम्.उदन्.आवृत्य.भक्षयेत्.। (अग्निहोत्र)

2.4-6

अपरयोर्.वा.हुत्वा.। (अग्निहोत्र)

2.4-7

आयुषे.त्वा.प्राश्नामि.इति.प्रथमम्.।.अन्न.अद्याय.त्वा.इत्य्.उत्तरम्.। (अग्निहोत्र)

2.4-8

तूष्णीम्.समिधम्.आधाय.अग्नये.गृहपतये.स्वाहा.इति.गार्हपत्ये.। (अग्निहोत्र)

2.4-9

नित्य.उत्तरा.। (अग्निहोत्र)

2.4-10

तूष्णीम्.समिधम्.आधाय.अग्नये.संवेश.पतये.स्वाहा.इति.दक्षिणे.।.अग्नये.अन्नादाय.अन्न.पतये.स्वाहा.इति.वा.। (अग्निहोत्र)

2.4-11

नित्य.उत्तरा.। (अग्निहोत्र)

2.4-13

अथ.एनाम्.कुशैः.प्रक्षाल्य.चतस्रः.पूर्णाः.प्राग्.उदीच्योर्.निनयेद्.ऋतुभ्यः.स्वाहा.दिग्भ्यः.स्वाहा.सप्तर्षिभ्यः.स्वाहा.इतर.जनेभ्यः.स्वाहा.इति.। (अग्निहोत्र)

2.4-14

पञ्चमीम्.कुश.देशे.पृथिव्याम्.अमृतम्.जुहोम्य्.अग्नये.वैश्वानराय.स्वाहा.इति.।.षष्ठीम्.पश्चाद्.गार्हपत्यस्य.प्राणम्.अमृते.जुहोम्य्.अमृतम्.प्राणे.जुहोमि.स्वाहा.इति.। (अग्निहोत्र)

2.4-15

प्रताप्य.अन्तर्.वेदि.निदध्यात्.। (अग्निहोत्र)

2.4-16

परिकर्मिणे.प्रयच्छेत्.। (अग्निहोत्र)

2.4-17

अग्रेण.आहवनीयम्.परीत्य.समिध.आदध्यात्.तिस्रस्.तिस्र.उदन्.मुखस्.तिष्ठन्.। (अग्निहोत्र)

2.4-18

प्रथमाम्.समन्त्राम्.। (अग्निहोत्र)

2.4-19

आहवनीये.दीदिहि.इति.गार्हपत्ये.दीदाय.इति.दक्षिणे.दीदिदाय.इति.। (अग्निहोत्र)

2.4-20

उक्तम्.पर्युक्षणम्.। (अग्निहोत्र)

2.4-21

ताभ्याम्.परिसमूहने.। (अग्निहोत्र)

2.4-22

पूर्वे.तु.पर्युक्षणात्.। (अग्निहोत्र)

2.4-23

एवम्.प्रातः.। (अग्निहोत्र)

2.4-24

उपोदयम्.व्युषित.उदिते.वा.। (अग्निहोत्र)

2.4-25

सत्य.ऋताभ्याम्.त्वा.इति.पर्युक्षणम्.ओम्.उन्नेष्यामि.इत्य्.अतिसर्जनम्.हरिणीम्.त्वा.सूर्य.ज्योतिषम्.अहर्.इष्टकाम्.उपदधे.स्वाहा.इति.समिद्.आधानम्.भूर्.भुवः.स्वर्.ओम्.सूर्यो.ज्योतिर्.ज्योतिः.सूर्यः.स्वाहा.इति.होम.उन्मार्जनम्.च.। (अग्निहोत्र)

2.5-1

प्रवत्स्यन्न्.अग्नीन्.प्रज्वल्य.आचम्य.अतिक्रम्य.उपतिष्ठते.। (अग्निहोत्र)

2.5-2

आहवनीयम्.शंस्य.पशून्.मे.पाहि.इति.।.गार्हपत्यम्.नय.प्रजाम्.मे.पाहि.इति.।.दक्षिणम्.अथर्व.पितुम्.मे.पाहि.इति.।.गार्हपत्य.आहवनीयाव्.ईक्षेत.इमान्.मे.मित्रा.वरुणौ.गृहान्.गोपायतम्.युवम्.अविनष्टान्.अविहृतान्.पूषा.एनान्.अभिरक्षत्व्.अस्माकम्.पुनर्.आ.अयनाद्.इति.। (अग्निहोत्र)

2.5-3

यथा.प्रत्येत्य.प्रदक्षिणम्.पर्यन्न्.आहवनीयम्.उपतिष्ठते.।.मम.नाम.प्रथमम्.जात.वेदः.पिता.माता.च.दधतुर्.यद्.अग्ने.।.तत्त्वम्.बिभृहि.पुनर्.आ.मम.एतोस्.तव.अहम्.नाम.बिभराण्य्.अग्र.इति.। (अग्निहोत्र)

2.5-4

प्रव्रजेद्.अनवेक्षमाणो.मा.प्रणम.इति.सूक्तम्.जपन्.। (अग्निहोत्र)

2.5-5

आराद्.अग्निभ्यो.वाचम्.विसृजेत.। (अग्निहोत्र)

2.5-6

सदा.सुगः.पितुर्.मा.अस्तु.पन्था.इति.पन्थानम्.अवरुह्य.। (अग्निहोत्र)

2.5-7

अनुपस्थित.अग्निश्.चेत्.प्रवासम्.आपद्येत.।.इह.एव.सन्.तत्र.सन्तम्.त्वा.अग्ने.हृदा.वाचा.मनसा.वा.बिभर्मि.।.तिरो.मा.सन्तम्.मा.प्रहासीर्.ज्योतिषा.त्वा.वैश्वानरेण.उपतिष्ठत.इति.प्रतिदिशम्.अग्नीन्.उपस्थाय.। (अग्निहोत्र)

2.5-8

अप.पन्थाम्.अगन्महि.इति.प्रत्येत्य.। (अग्निहोत्र)

2.5-9

समि.पाणिर्.वाग्.यतो.अग्नीन्.ज्वलतः.श्रुत्वा.अभिक्रम्य.आहवनीयम्.ईक्षेत.।.विश्वदानीम्.आभरन्तो.अनातुरेण.मनसा.।.अग्ने.मा.ते.प्रतिवेशा.रिषाम.।.नमस्.ते.अस्तु.मीळ्हुषे.नमस्.त.उपसद्वने.।.अग्ने.शुम्भस्व.तन्वः.सम्.मा.रय्या.सृज.इति.। (अग्निहोत्र)

2.5-10

अग्निषु.समिध.उपनिधाय.आहवनीयम्.उपतिष्ठते.।.मम.नाम.तव.च.जात.वेदो.वाससी.इव.विवसानौ.चरावः.।.ते.बिभृवो.दक्षसे.जीवसे.च.यथा.यथम्.नौ.तन्वा.जात.वेद.इति.। (अग्निहोत्र)

2.5-11

तत.समिधो.अभ्यादध्यात्.। (अग्निहोत्र)

2.5-12a

आहवनीये.अग्नम.विश्व.वेदसम्.अस्मभ्यम्.वसुवित्तमम्.।.अग्ने.संराऌ.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.गार्हपत्ये.अयम्.अग्निर्.गृह.पतिर्.गार्हपत्यः.प्रजाया.वसुवित्तमः.।.अग्ने.गृहपते.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.दक्षिणे.अयम्.अग्निः.पुरीष्यो.रयिमान्.पुष्टि.वर्धनः.। (अग्निहोत्र)

2.5-12b

अग्ने.पुरीष्य.अभिद्युम्नम्.अभिसह.आयच्छस्व.स्वाहा.इति.।.गार्हपत्य.आहवनीयाव्.ईक्षेत.इमान्.मे.मित्रा.वरुणौ.गृहान्.अजूगुपतम्.युवम्.।.अविनष्टान्.अविहृतान्.पूषा.एनान्.अभ्यारक्षीद्.अस्माकम्.पुनर्.आ.अयनाद्.इति.। (अग्निहोत्र)

2.5-13

यथा.इतम्.प्रत्येत्य.।.परिसमूह्य.उदग्.विहाराद्.उपविश्य.भूर्.भुवः.स्वर्.इति.वाचम्.विसृजेत्.। (अग्निहोत्र)

2.5-14

प्रोष्य.भूयो.दशरात्राच्.चतुर्.गृहीतम्.आज्यम्.जुहुयात्.मनो.ज्योतिर्.जुषताम्.आज्यम्.मे.विच्छिन्नम्.यज्ञम्.सम्.इमम्.दधातु.।.या.इष्टा.उषसो.या.अनिष्टास्.ताः.संतनोमि.हविषा.घृतेन.स्वाहा.इति.। (अग्निहोत्र)

2.5-15

अग्निहोत्र.अहोमे.च.। (अग्निहोत्र)

2.5-16

प्रतिहोमम्.एके.। (अग्निहोत्र)

2.5-17

गृहान्.ईक्षेत.अप्य्.अनाहित.अग्निर्.गृहा.मा.बिभीत.उपमः.स्वस्त्ये.वो.अस्मासु.च.प्रजायध्वम्.मा.च.वो.गोपती.रिषद्.इति.प्रपद्येत.।.गृहान्.अहम्.सुमनसः.प्रपद्ये.वीरघ्नो.वीरवतः.सुवीरान्.।.इराम्.वहन्तो.घृतम्.उक्षमाणास्.तेष्व्.अहम्.सुमनाः.संविशानि.इति.शिवम्.शग्मम्.शम्योः.शम्योर्.इति.त्रिर्.अनुवीक्षमाणः.। (अग्निहोत्र)

2.5-18

विदितम्.अप्य्.अलीकम्.न.तद्.अहर्.ज्ञापयेयुः.। (अग्निहोत्र)

2.5-19

विज्ञायते.अभयम्.वो.अभयम्.एम्.अस्त्व्.इत्य्.एव.उपतिष्ठेत.प्रवसन्.प्रत्येत्य.अहर्.अहर्.वा.इति.। (अग्निहोत्र)

2.6-1

अमावास्यायाम्.अपर.अह्णे.पिण्ड.पितृ.यज्ञः.। (पिण्ड.पितृ.यज्ञ)

2.6-2

दक्षिण.अग्नेर्.एक.उल्मुकम्.प्राग्.दक्षिणा.प्रणयेद्.ये.रूपाणि.प्रतिमुञ्चमाना.असुराः.सन्तः.स्वधया.चरन्ति.।.परापुरो.निपुरो.ये.भरन्त्य्.अग्निष्.टांल्.लोकात्.प्रणुदात्व्.अस्माद्.इति.। (पिण्ड.पितृ.यज्ञ)

2.6-3

सर्व.कर्माणि.ताम्.दिशम्.। (पिण्ड.पितृ.यज्ञ)

2.6-4

उपसमाधाय.उभौ.परिस्तीर्य.दक्षिण.अग्नेः.प्राग्.उदक्.प्रत्यग्.उदग्.वा.एक.एकशः.पात्राणि.सादयेच्.चरु.स्थालि.शूर्प.स्फ्य.उलूखल.मुसल.स्रुव.ध्रुव.कृष्ण.अजिन.सकृद्.आच्छिन्न.इध्म.मेक्षण.कमण्डलून्.। (पिण्ड.पितृ.यज्ञ)

2.6-5

दक्षिणतो.अग्निष्ठम्.आरुह्य.चरु.स्थालीम्.व्रीहीणाम्.पूर्णाम्.निमृजेत्.। (पिण्ड.पितृ.यज्ञ)

2.6-6

परिशन्नान्.निदध्यात्.। (पिण्ड.पितृ.यज्ञ)

2.6-7

कृष्ण.अजिन.उलूखलम्.कृत्वा.इतरान्.पत्न्य्.अवहन्याद्.अविवेचम्.। (पिण्ड.पितृ.यज्ञ)

2.6-8

अवहतान्त्.सकृत्.प्रक्षाल्य.दक्षिण.अग्नौ.श्रपयेत्.। (पिण्ड.पितृ.यज्ञ)

2.6-9

अर्वाग्.अतिप्रणीतात्.स्फ्येन.लेखाम्.उल्लिखेद्.अपहता.असुरा.रक्षांसि.वेदिषद.इति.। (पिण्ड.पितृ.यज्ञ)

2.6-10

ताम्.अभ्युक्ष्य.सकृद्.आच्छिन्नैर्.अवस्तीर्य.आसादयेद्.अभिघार्य.स्थाली.पाकम्.आज्यम्.सर्पिर्.अनुत्पूतम्.नव.नीतम्.वा.उत्पूतम्.ध्रुवायाम्.आज्यम्.कृत्वा.दक्षिणतः.। (पिण्ड.पितृ.यज्ञ)

2.6-11

आञ्जन.अभ्यञ्जन.कशिपु.उपबर्हणानि.। (पिण्ड.पितृ.यज्ञ)

2.6-12

प्राचीन.आवीती.इध्मम्.उपसमाधाय.मेक्षणेन.आदाय.अवदान.सम्पदा.जुहुयात्.सोमाय.पितृमते.स्वधा.नमो.अग्नये.कव्य.वाहनाय.स्वधा.नम.इति.। (पिण्ड.पितृ.यज्ञ)

2.6-13

स्वाहा.कारेण.वा.अग्निम्.पूर्वम्.यज्ञ.उपवीती.। (पिण्ड.पितृ.यज्ञ)

2.6-14

मेक्षणम्.अनुप्रहृत्य.प्राचीन.आवीती.लेखाम्.त्रिर्.उदकेन.उपनयेत्.शुन्धन्ताम्.पितरः.शुन्धन्ताम्.पितामहाः.शुन्धन्ताम्.प्रपितामहा.इति.। (पिण्ड.पितृ.यज्ञ)

2.6-15

तस्याम्.पिण्डान्.निपृणीयात्.पराचीन.पाणिः.पित्रे.पितामहाय.प्रपितामहाय.एतत्.ते.असौ.ये.च.त्वाम्.अत्र.अन्व्.इति.। (पिण्ड.पितृ.यज्ञ)

2.6-16

तस्मै.तस्मै.य.एषाम्.प्रेताः.स्युर्.इति.गाणगारिः.प्रत्यक्षम्.इतरान्.अर्चयेत्.तद्.अर्थत्वात्.। (पिण्ड.पितृ.यज्ञ)

2.6-17

सर्वेभ्य.एव.निपृणीयाद्.इति.तैल्वलिः.क्रिया.गुणत्वात्.। (पिण्ड.पितृ.यज्ञ)

2.6-18

अपि.जीव.अन्त.आ.त्रिभ्यः.प्रेतेभ्य.एव.निपृणीयाद्.इति.गौतमः.क्रिया.ह्य्.अर्थ.कारिता.। (पिण्ड.पितृ.यज्ञ)

2.6-19

उपाय.विशेषो.जीव.मृतानाम्.। (पिण्ड.पितृ.यज्ञ)

2.6-20

न.परेभ्यो.अनधिकारात्.।.न.प्रत्यक्षम्.।.न.जीवेभ्यो.निपृणीयात्.। (पिण्ड.पितृ.यज्ञ)

2.6-21

न.जीव.अन्तर्हितेभ्यः.। (पिण्ड.पितृ.यज्ञ)

2.6-22

जुहुयाज्.जीवेभ्यः.। (पिण्ड.पितृ.यज्ञ)

2.6-23

सर्व.हुतम्.सर्व.जीविनः.। (पिण्ड.पितृ.यज्ञ)

2.6-24

नामान्य्.अविद्वांस्.तत.पितामह.प्रपितामह.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-1

निपृतान्.अनुमन्त्रयेत.अत्र.पितरो.मादयध्वम्.यथा.भागम्.आवृषायध्वम्.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-2

सव्य.आवृद्.उदन्न्.आवृत्य.यथा.शक्त्य्.अप्राणन्न्.आसित्वा.अभिपर्यावृत्त्य.अमीमदन्त.पितरो.यथा.भागम्.आवृषायीषत.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-3

चरोः.प्राण.भक्षम्.भक्षयेत्.। (पिण्ड.पितृ.यज्ञ)

2.7-4

नित्यम्.निनयनम्.। (पिण्ड.पितृ.यज्ञ)

2.7-5

असाव्.अभ्यङ्क्ष्व.असाव्.अङ्क्ष्व.इति.पिण्डेष्व्.अभ्यञ्जन.अञ्जने.। (पिण्ड.पितृ.यज्ञ)

2.7-6

वासो.दद्याद्.दशाम्.ऊर्णा.स्तुका.वा.पञ्चाशद्.वर्षताया.ऊर्ध्वम्.स्वम्.लोम.एतद्.वः.पितरो.वासो.मा.नो.अतो.अन्यत्.पितरो.युङ्ग्ध्वम्.(.युन्ध्वम्.).इति.। (पिण्ड.पितृ.यज्ञ)

2.7-7

अथ.एनान्.उपतिष्ठेत.नमो.वः.पितर.इषे.नमो.वः.पितर.ऊर्जे.नमो.वः.पितरः.शुष्माय.नमो.वः.पितरो.अघोराय.नमो.वः.पितरो.जीवाय.नमो.वः.पितरो.रसाय.।.स्वधा.वः.पितरो.नमो.वः.पितरो.नम.एता.युष्माकम्.पितर.इमा.अस्माकम्.जीवा.वो.जीवन्त.इह.सन्तः.स्याम.। (पिण्ड.पितृ.यज्ञ)

2.7-8

नमो.अन्वाहुवामह.इति.च.तिसृभिः.। (पिण्ड.पितृ.यज्ञ)

2.7-9

अथ.एनान्.प्रवाहयेत्.परेतन.पितरः.सोम्यासो.ग्म्भीरेभिः.पथिभिः.पूर्विणेभिः.।.दत्ताय.अस्मभ्यम्.द्रविणे.ह.भद्रम्.रयिम्.च.नः.सर्व.वीरम्.नियच्छत.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-10

अग्निम्.प्रत्येत्याद्.अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-11

गार्हपत्यम्.यद्.अन्तरिक्षम्.पृथिवीम्.उत.द्याम्.यन्.मातरम्.पितरम्.जिहिंसिम.।.अग्निर्.मा.तस्माद्.एनसो.गार्हपत्यः.प्रमुञ्चतु.करोतु.माम्.अनेनसम्.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-12

वीरम्.मे.दत्त.पितर.इति.पिण्डानाम्.मध्यमम्.। (पिण्ड.पितृ.यज्ञ)

2.7-13

पत्नीम्.प्राशयेद्.आधत्त.पितरो.गर्भम्.कुमारम्.पुष्कर.स्रजम्.।.यथा.अयम्.अरपा.असद्.इति.। (पिण्ड.पितृ.यज्ञ)

2.7-14

अप्स्व्.इतरौ.। (पिण्ड.पितृ.यज्ञ)

2.7-15

अतिप्रणीते.वा.। (पिण्ड.पितृ.यज्ञ)

2.7-16

यथा.वा.आग्नतुर्.अन्न.काम्या.भावः.स.प्राश्नीयात्.। (पिण्ड.पितृ.यज्ञ)

2.7-17

महा.रोगेण.वा.अभितप्तः.प्राश्नीयाद्.अन्यतराम्.गतिम्.गच्छति.। (पिण्ड.पितृ.यज्ञ)

2.7-18

एवम्.अनाहित.अग्निर्.नित्ये.। (पिण्ड.पितृ.यज्ञ)

2.7-19

श्रपयित्वा.अतिप्रणीय.जुहुयात्.। (पिण्ड.पितृ.यज्ञ)

2.7-20

द्विवत्.पात्राणाम्.उत्सर्गः.। (पिण्ड.पितृ.यज्ञ)

2.7-21

तृणम्.द्वितीयम्.उद्रिक्ते.। (पिण्ड.पितृ.यज्ञ)

2.8-1

दर्श.पूर्ण.मासाव्.आरप्स्यमानो.अन्वारम्भणीयाम्.। (अन्वारम्भणीय)

2.8-2

अग्ना.विष्णू.सरस्वती.सरस्वान्.अग्निर्.भगी.। (अन्वारम्भणीय)

2.8-3

अग्ना.विष्णू.सजोषसे.मा.वर्धन्तु.वा.अङ्गिरः.।.द्युम्नैर्.वाजेभिर्.आगतम्.।.अग्ना.विष्णू.महि.धाम.प्रियम्.वाम्.वीथो.घृतस्य.गुह्या.जुषाणा.।.दमे.दमे.सुष्टुतिर्.वाम्.इयाना.प्रति.वाम्.जिह्वा.घृतम्.उच्चरण्यत्.।.पावकानः.सरस्वती.पावीरवी.कन्या.चित्रायुः.पीपिवांसम्.सरस्वतो.दिव्यम्.सुपर्णम्.वायसम्.बृहन्तम्.आसवम्.सवितुर्.यथा.स.नो.राधांस्य्.आ.भर.इति.। (अन्वारम्भणीय)

2.8-4

आधानाद्.यद्य्.आमयावी.यद्य्.वा.अर्था.व्यथेरन्.पुअर्.आधेय.इष्टिः.। (पुनर्.आध्येय)

2.8-5

तस्याम्.प्रयाजा.अनुयाजान्.विभक्तिभिर्.यजेत्.। (पुनर्.आध्येय)

2.8-6

समिधः.समिधो.अग्ने.अग्न.आज्यस्य.व्यन्तु.।.तनूनपाद्.अग्निम्.अग्न.आज्यस्य.वेतु.।.इळो.अग्निना.अग्न.आज्यस्य.व्यन्तु.।.बर्हिर्.अग्निर्.अग्न.आज्यस्य.वेत्व्.इति.। (पुनर्.आध्येय)

2.8-7

समिधा.अग्निम्.दुवस्यत.एह्य्.ऊ.षु.ब्रवाणि.त.इत्य्.आग्नेयाव्.आज्य.भागौ.। (पुनर्.आध्येय)

2.8-8

बुद्धिमद्.इन्दुमन्ताव्.इत्य्.आचक्षते.। (पुनर्.आध्येय)

2.8-9

तथा.अनुवृत्तिः.। (पुनर्.आध्येय)

2.8-10

इज्या.च.। (पुनर्.आध्येय)

2.8-11

नित्यम्.पूर्वम्.अनुब्राह्मणिनः.। (पुनर्.आध्येय)

2.8-12

अग्न.आयूंषि.पवस.इत्य्.उत्तरम्.। (पुनर्.आध्येय)

2.8-13

नित्यस्.तु.उत्तरे.हविः.शब्दः.। (पुनर्.आध्येय)

2.8-14a

आग्नेयम्.हविः.।.अधा.ह्य्.अग्ने.क्रतोर्.भद्रस्य.आभिष्.टे.अद्य.गीर्भिर्.गृणन्त.एभिर्.नो.अर्कैर्.अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इति.सम्याज्ये.। .(पुनर्.आध्येय)

2.8-14b

देवम्.बर्हिर्.अग्नेर्.वसुवने.वौ.धेयस्य.वेतु.देवो.नराशंसो.अग्नौ.वसुवने.वसु.धेयस्य.वेत्व्.इति.। (पुनर्.आध्येय)

2.9-1

आग्रयणम्.व्रीहि.श्यामाक.यवानाम्.। (आग्रयण)

2.9-2

सस्यम्.न.अश्नीयाद्.अग्निहोत्रम्.अहुत्वा.। (आग्रयण)

2.9-3

यथा.वर्षस्य.तृप्तः.स्याद्.अथ.आग्रयणेन.यजेत.। (आग्रयण)

2.9-4

अपि.वा.देवा.आहुस्.तृप्तो.नूनम्.वस्षस्य.आग्रयणेन.हि.यजत.इति.अग्नि.होत्रीम्.वै.नानादैत्वा.(.वा.एनान्.आदैत्वा.).तस्याः.पयसा.जुहुयात्.। (आग्रयण)

2.9-5

अपि.वा.क्रिया.यवेषु.। (आग्रयण)

2.9-6

इष्टिस्.तु.राज्ञः.। (आग्रयण)

2.9-7

सर्वेषाम्.च.एके.। (आग्रयण)

2.9-8

श्यामाक.इष्ट्याम्.सौम्यश्.चरुः.। (आग्रयण)

2.9-9

सोम.यास्.ते.मयोभुवो.या.ते.धामानि.दिवि.या.पृथिव्याम्.इत्य्.अवान्तरेळाया.नित्यम्.जपम्.उक्त्वा.सव्ये.पाणौ.कृत्वा.इतरेण.अभिमृशेत्.प्रजापतये.त्वा.ग्रहम्.गृह्णामि.मह्यम्.श्रिये.मह्यम्.यशसे.मह्यम्.अन्न.अद्याय.। (आग्रयण)

2.9-10

भद्र.अन्नः.श्रेयः.समनैष्ट.देवास्.त्वया.अवसेन.समशीमहि.त्वा.।.स.नो.मयोभूः.पितेव.आविश.इह.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इति.।.प्राश्य.आचम्य.नाभिम्.आलभेत.अमो.असु.प्राण.तद्.ऋतम्.ब्रवीम्य्.अमा.असि.सर्वान्.असि.प्रविष्टः.।.स.मे.जराम्.रोगम्.अपनुद्य.शरीराद्.अमा.म.एधि.मामृधाम.इन्द्र.इति.। (आग्रयण)

2.9-11

एतेन.भक्षिणो.भक्षान्.सर्वत्र.नव.भोजने.। (आग्रयण)

2.9-12

अथ.व्रीहि.यवानाम्.धाय्ये.विराजौ.। (आग्रयण)

2.9-13

अग्नि.इन्द्राव्.इन्द्र.अग्नी.वा.विश्वे.देवाः.सोमो.यदि.तत्र.श्यामाको.द्यावा.पृथिवी.। (आग्रयण)

2.9-14

आ.घा.ये.अग्निम्.इन्धते.सुकर्माणः.सुरुचो.देवयन्तो.विश्वे.देवास.आगत.ये.के.च.ज्मा.महिनो.अहिमाया.मही.द्यौः.पृथिवी.च.नः.प्रपूर्वजे.पितरा.नव्यसीभिर्.इति.। (आग्रयण)

2.10-1

अथ.काम्याः.। (काम्य.इष्टयह्)

2.10-2

आयुष्.काम.इष्ट्याम्.जीवतुमन्तौ.। (काम्य.इष्टयह्)

2.10-3

आ.नो.अग्ने.सुचेतुना.त्वम्.सोम.महे.भगम्.इत्य्.अग्निर्.आयुष्मान्.इन्द्रस्.त्राता.। (काम्य.इष्टयह्)

2.10-4a

आयुष्.टे.विश्वतो.दधद्.अयम्.अग्निर्.वरेण्यः.।.पुनस्.ते.प्राण.आयातु.परा.यक्ष्मम्.सुवामि.ते.।.आयुर्दा.अग्ने.हविषो.जुषाणो.घृत.प्रतीको.घृत.योनिर्.एधि.।.घृतम्.पीत्वा.मधु.चारु.गव्यम्.पिता.इव.पुत्रम्.अभिरक्षताद्.इमम्.। (काम्य.इष्टयह्)

2.10-4b

त्रातारम्.इन्द्रम्.अवितारम्.इन्द्रम्.मा.ते.अस्याम्.सहसावन्.परिष्टौ.।.पाहि.नो.अग्ने.पायुभिर्.अजस्रैर्.अग्ने.त्वम्.पारया.नव्यो.अस्मान्.इति.सम्याज्ये.। (काम्य.इष्टयह्)

2.10-5

स्वस्त्ययन्याम्.रक्षितवन्तौ.। (काम्य.इष्टयह्)

2.10-6

अग्ने.रक्षा.नो.अंहसस्.त्वम्.नः.सोम.विश्वत.इति.। (काम्य.इष्टयह्)

2.10-7

अग्निः.स्वस्तिमान्.स्वस्ति.नो.दिवो.अग्ने.पृथिव्या.आरे.अस्मद्.अमतिम्.आरे.अंह.इति.पूर्वयोक्ते.सम्याज्ये.। (काम्य.इष्टयह्)

2.10-8

पुत्र.काम.इष्ट्याम्.अग्निः.पुत्री.। (काम्य.इष्टयह्)

2.10-9

यस्मै.त्वम्.सुकृते.जात.वेदो.यस्.त्वा.हृदा.कीरिणा.मन्यमानः.।.अग्निस्.तु.विश्रवस्तमम्.इति.द्वे.सम्याज्ये.। (काम्य.इष्टयह्)

2.10-10

आग्नेय्या.उत्तरे.। (काम्य.इष्टयह्)

2.10-11

नित्ये.मूर्धन्वतः.। (काम्य.इष्टयह्)(.अग्निर्.मूर्धा.।.भुवो.यज्ञस्य.)

2.10-12

तुभ्यम्.ता.अङ्गिरस्तम.अश्याम.तम्.कामम्.अग्ने.तव.इति.कामाय.। (काम्य.इष्टयह्)

2.10-13

वैमृध्या.उत्तरे.। (काम्य.इष्टयह्)

2.10-14

वि.न.इन्द्र.मृधो.जहि.मृगो.न.भीमः.कुचरो.गिरिष्ठाः.।.सद्युत्तिम्.इन्द्र.सच्युतिम्.प्रच्युतिम्.जघन.च्युतिम्.।.प्रनाकाफान.आभर.प्रयप्स्यन्न्.इव.सक्थ्यौ.वि.न.इन्द्र.मृधो.जहि.।.चनीखुदद्.यथासफम्.अभि.नः.सुष्टुतिम्.नय.इति.। (काम्य.इष्टयह्)(.जनीखुदद्.)

2.10-15

इन्द्राय.दात्रे.पुनर्.दात्रे.वा.। (काम्य.इष्टयह्)

2.10-16

यानि.नो.धनानि.क्रुद्धो.जिनासि.मन्युना.।.इन्द्र.अनुविद्धि.नस्.तानि.अनेन.हविषा.पुनः.।.पुनर्.न.इन्द्रो.मघवा.ददातु.धनानि.शक्रो.धनीः.सुराधाः.।.अस्मद्र्यक्.कृणुताम्.याचितो.मनः.श्रुष्टी.न.इन्द्रो.हविषा.मृधाति.इति.। (काम्य.इष्टयह्)

2.10-17

आशानाम्.आशा.पालेभ्यो.वा.। (काम्य.इष्टयह्)

2.10-18

आशानाम्.आशा.पालेभ्यश्.चतुर्भ्यो.अमृतेभ्यः.।.इदम्.भूतस्य.अध्यक्षेभ्यो.विधेम.हविषा.वयम्.।.विश्वा.आशा.मधुना.संसृजामि.अनमीवा.आप.ओषधयः.सन्तु.सर्वाः.।.अयम्.यजमानो.मृधो.व्यस्यत्व्.अगृभीताः.पशवः.सन्तु.सर्व.इति.। (काम्य.इष्टयह्)

2.10-19

लोक.इष्टिः.। (काम्य.इष्टयह्)

2.10-20

पृथिव्य्.अन्तरिक्षम्.द्यौर्.इति.देवताः.। (काम्य.इष्टयह्)

2.10-21

पृथिवीम्.मातरम्.महीम्.अन्तरिक्षम्.उपब्रुवे.।.बृहतीम्.ऊतये.दिवम्.।.विश्वम्.बिभर्ति.पृथिवी.अन्तरिक्षम्.विपप्रथे.।.दुहे.द्यौर्.बृहती.पयः.।.वर्म.मे.पृथिवी.मही.अन्तरिक्षम्.स्वस्तये.।.द्यौर्.मे.शर्म.महि.श्रव.इति.तिस्रस्.त्रयाणाम्.। (काम्य.इष्टयह्)

2.10-22

प्रथमे.प्रथमस्य.उत्तमे.मध्यमस्य.। (काम्य.इष्टयह्)

2.11-1

मित्र.विन्दा.महा.वैराजी.। (काम्य.इष्टयह्)

2.11-2

अग्निः.सोमो.वरुणो.मित्र.इन्द्रो.बृहस्पतिः.सविता.पूषा.सरस्वती.त्वष्टा.इत्य्.एक.प्रदानाः.। (काम्य.इष्टयह्)

2.11-3

अग्निः.सोमो.वरुणो.मित्र.इन्द्रो.बृहस्पतिः.सविता.यः.सहस्री.।.पूषा.नो.गोभिर्.अवसा.सरस्वती.त्वष्टा.रूपेण.समनक्तु.यज्ञम्.। (काम्य.इष्टयह्)

2.11-4

प्रतिलोमम्.आदिश्य.यजद्.ये.यजामहे.त्वष्टारम्.सरस्वतीम्.पूषणम्.सवितारम्.बृहस्पतिम्.इन्द्रम्.मित्रम्.वरुणम्.सोमम्.अग्निम्.त्वष्टा.रूपाणि.दधती.सरस्वती.भगम्.पूषा.सविता.नो.ददातु.।.बृहस्पतिर्.ददद्.इन्द्रः.सहस्रम्.मित्रो.दाता.वरुणः.सोमो.अग्निर्.इति.। (काम्य.इष्टयह्)

2.11-5

अष्टौ.वैराज.तन्त्राः.। (काम्य.इष्टयह्)

2.11-6

तासाम्.आद्याः.षऌ.एक.हविषः.। (काम्य.इष्टयह्)

2.11-7

स्नुषा.श्वशुरीयया.अभिचरन्.यजेत.। (काम्य.इष्टयह्)

2.11-8

इन्द्रः.सूरो.अतरद्.रजांसि.स्नुषा.सपत्ना.श्वशुरो.अहम्.अस्मि.।.अहम्.शत्रून्.जयामि.जर्हृषाणो.अहम्.वाजम्.जयामि.वाज.सातौ.।.इन्द्रः.सूरः.प्रथमो.विश्व.कर्मा.मरुत्वान्.अस्तु.गणवान्.सुजातैः.।.मम.स्नुषा.श्वशुरस्य.प्रविष्टौ.सपत्ना.वाचम्.मनस.उपासताम्.। (काम्य.इष्टयह्)

2.11-9

जोष्टो.दमूना.अग्ने.शर्ध.महते.सौभगाय.इति.सम्याज्ये.। (काम्य.इष्टयह्)

2.11-10

विमतानाम्.सम्मत्य्.अर्थे.संज्ञानी.। (काम्य.इष्टयह्)

2.11-11

अग्निर्.वसुमान्.सोमो.रुद्रवान्.इन्द्रो.मरुत्वान्.वरुण.आदित्यवान्.इत्य्.एक.प्रदानाः.। (काम्य.इष्टयह्)

2.11-12

अग्निः.प्रथमो.वसुभिर्.नो.अव्यात्.सोमो.रुद्रैर्.अभिरक्षतु.त्मना.।.इन्द्रो.मरुद्भिर्.ऋतुथा.कृणोतु.आदित्यैर्.नो.वरुणः.शर्म.यंसत्.।.सम्.अग्निर्.वसुभिर्.नो.अव्यात्.सम्.सोमो.रुद्रियाभिस्.तनूभिः.।.सम्.इन्द्रो.रात.हव्यो.मरुद्भिः.सम्.आदित्यैर्.वरुणो.विश्व.वेदा.इति.। (काम्य.इष्टयह्)

2.11-13

ऐन्द्रामारुतीम्.भेद.कामाः.। (काम्य.इष्टयह्)

2.11-14

मरुतो.यस्य.हि.क्षये.प्रशर्धाय.मारुताय.स्वभानव.इति.। (काम्य.इष्टयह्)

2.11-15

ऐन्द्रीम्.अनूच्य.मारुत्या.यजेन्.मारुतीम्.अनूच्य.ऐन्द्र्या.यजेद्.इन्द्रम्.पूर्वम्.निगमेषु.मरुतो.वा.। (काम्य.इष्टयह्)

2.11-16

इन्द्रम्.वा.।.प्रधानाद्.ऊर्ध्वम्.मरुतः.। (काम्य.इष्टयह्)

2.11-17

प्रकृत्या.सम्पत्ति.कामाः.संज्ञानीम्.च.। (काम्य.इष्टयह्)

2.11-18

ऐन्द्रा.बार्हस्पत्याम्.प्रधृष्यमाणाः.। (काम्य.इष्टयह्)

2.11-19

आ.न.इन्द्रा.बृहस्पती.अस्मै.इन्द्रा.बृहस्पती.इति.यद्य्.अपि.इन्द्राय.चोदयेयुः.। (काम्य.इष्टयह्)

2.12-1

पवित्र.इष्ट्याम्.। (काम्य.इष्टयह्)

2.12-2

अपाम्.इद्म.न्ययनम्.समुद्रस्य.निवेशनम्.।.अन्यन्ते.अस्मत्.तपन्तु.हेतयः.पावको.अस्मभ्यम्.शिवो.भव.।.नमस्.ते.हरसे.शोचिषे.नमस्.ते.अस्त्व्.अर्चिषे.।.अन्यन्ते.अस्मत्.तपन्तु.हेतयः.पावको.अस्मभ्यम्.शिवो.भव.इति.पावकवत्यो.धाय्ये.। (काम्य.इष्टयह्) (2 अन्द् थे रेस्त् अरे नोत् fओउन्द् इन् बि एद्.)

2.12-3

पावकवन्ताव्.आज्य.भागौ.। (काम्य.इष्टयह्)

2.12-4

अग्नी.रक्षांसि.सेधति.। (काम्य.इष्टयह्)

2.12-5

यो.धारया.पावकया.इति.। (काम्य.इष्टयह्)

2.12-6

ऋचौ.याज्ये.। (काम्य.इष्टयह्)

2.12-7

यत्.ते.पवित्रम्.अर्चिष्य्.आ.कलशेषु.धावति.इति.। (काम्य.इष्टयह्)

2.12-8

पवित्र.इत्य्.एते.। (काम्य.इष्टयह्)

2.12-9

अग्निः.पवमानः.सरस्वती.प्रिया.अग्निः.पावकः.सविता.सत्य.प्रसवो.अग्निः.शुचिर्.वायुर्.नियुत्वान्.अग्निर्.व्रत.पतिर्.दधिक्रावा.अग्निर्.वैश्वानरो.विष्णुः.शिपिविष्टः.। (काम्य.इष्टयह्)

2.12-10

उत.नः.प्रिय.अप्रियास्व्.इमा.जुह्वाना.युष्मद्.आ.नमोभिः.। (काम्य.इष्टयह्)

2.12-11

वायुर्.अग्रेगा.यज्ञप्रीर्.वायो.शुक्रो.अयामि.ते.। (काम्य.इष्टयह्)

2.12-12

दधिक्राव्णो.अकारिषम्.आदधिक्राः.शवसा.पञ्च.कृष्टीः.। (काम्य.इष्टयह्)

2.12-13

जुष्टो.दमूना.अग्ने.शर्ध.महते.सौभगाय.इति.सम्याज्ये.। (काम्य.इष्टयह्)

2.12-14

सा.एषा.संवत्सरम्.अतिप्रवसतः.। (काम्य.इष्टयह्)

2.12-15

शुद्धि.कामो.वा.। (काम्य.इष्टयह्)

2.12-16

तद्.एषा.अभि.यज्ञ.गाथा.गीयते.।.वैश्वानरीम्.व्रातपतीम्.पवित्र.इष्टिम्.तथैव.च.।.ऋतावृधौ.प्रयुञ्जानः.पुनाति.दश.पौरुषम्.इति.। (काम्य.इष्टयह्)(.ऋतावृत्तौ.इण्.टेxट्)

2.13-1

वर्ष.काम.इष्टिः.कारीरी.। (काम्य.इष्टयह्)

2.13-2

तस्याम्.प्रति.त्यम्.चारुम्.अध्वरम्.ईळे.अग्निम्.स्ववसम्.नमोभिर्.इति.धाय्ये.। (काम्य.इष्टयह्)

2.13-3

याः.काश्.च.वर्ष.काम.इष्ट्या.अप्सुमन्तौ.। (काम्य.इष्टयह्)

2.13-4

अप्स्व्.अग्ने.सधिष्.टव.अप्सु.मे.सोमो.अब्रवीद्.इति.। (काम्य.इष्टयह्)

2.13-5

अग्निर्.धामच्छन्.मरुतः.सूर्यः.। (काम्य.इष्टयह्)

2.13-6

तिस्रश्.च.पिण्ड्य.उत्तराः.। (काम्य.इष्टयह्)

2.13-7

हिरण्य.केशो.रजसो.विसार.इति.द्वे.त्वम्.त्या.चिद्.अच्युता.धामन्ते.विश्वम्.भुवनम्.अधिश्रितम्.इति.वा.वाश्रेव.विद्युन्.मिमाति.पर्वतश्.चिन्.महि.वृद्धो.बिभाय.सृजन्ति.रश्मिम्.ओजसा.वहिष्ठेभिर्.विहरन्.यासि.तन्तुम्.उदीरयथा.मरुतः.समुद्रतः.प्र.वो.मरुतस्.तविषा.उदन्यव.आयम्.नरः.सुदानवो.ददाशुषे.विद्युन्.महसो.नरो.अश्मदिद्यवः.कृष्णम्.नियानम्.हरयः.सुपर्णा.नियुत्वन्तो.ग्रामजितो.यथा.नरः.। (काम्य.इष्टयह्)

2.13-8

अग्ने.बाधस्व.विमृधो.विदुर्.ग्रहा.यम्.त्वा.देवापिः.शुशुचानो.अग्न.इति.सम्याज्ये.।.ऋचो.अनूच्य.यजुर्भिर्.एके.यजन्ति.। (काम्य.इष्टयह्)

2.13-9

संस्थितायाम्.सर्वा.दिश.उपतिष्ठेत.अछा.वद.तवसम्.गीर्भिर्.आभिर्.इति.चतसृभिः.प्रत्यृचम्.सूक्तेन.सूक्तेन.वा.। (काम्य.इष्टयह्)

2.14-1

अत.ऊर्ध्वम्.इष्ट्य्.अयनानि.। (अयन.इष्टयह्)

2.14-2

सांवत्सरिकाणि.। (अयन.इष्टयह्)

2.14-3

तेषाम्.फाल्गुन्याम्.पौर्णमास्याम्.चैत्र्याम्.वा.प्रयोगः.। (अयन.इष्टयह्)

2.14-4

तुरायणम्.। (अयन.इष्टयह्)

2.14-5

अग्निर्.इन्द्रो.विश्वे.देवा.इति.पृथग्.इष्टयो.अनुसवनम्.अहर्.अहः.। (अयन.इष्टयह्)

2.14-6

एका.वा.त्रि.हविः.। (अयन.इष्टयह्)

2.14-7

दाक्षायण.यज्ञे.द्वे.पौर्णमास्यौ.द्वे.अमावास्ये.यजेत.। (अयन.इष्टयह्)

2.14-8

नित्ये.पूर्वे.यथा.असम्नयतो.अमावास्यायाम्.। (अयन.इष्टयह्)

2.14-9

उत्तरयोर्.ऐन्द्रम्.पौर्णमास्याम्.द्वितीयम्.। (अयन.इष्टयह्)

2.14-10

मैत्रावरुणम्.अमावास्यायाम्.। (अयन.इष्टयह्)

2.14-11

आ.नो.मित्रा.वरुणा.यद्.बंहिष्ठम्.नातिविधे.सुदानू.इति.प्राजापत्य.इळाद्.अधः.। (अयन.इष्टयह्)

2.14-12

प्रजापते.न.त्वद्.एतान्य्.अन्यस्.तव.इमे.लोकाः.प्रदिशो.दिशश्.च.परावतो.निवत.उद्वतश्.च.।.प्रजापते.विश्वसृज्.जीव.धन्य.इदम्.नो.देव.प्रतिहर्य.हव्यम्.इति.द्यावा.पृथिव्योर्.अयनम्.। (अयन.इष्टयह्)

2.14-13

पौर्णमासेन.अमावास्याद्.आ.अमावास्येन.आ.अपुर्णमासात्.। (अयन.इष्टयह्)

2.14-14

असमाम्नातास्व्.अर्थात्.तन्त्र.विकारः.। (गेनेरल् रुलेस्)

2.14-15

अध्वर्युर्.वा.यथा.स्मरेत्.। (गेनेरल् रुलेस्)

2.14-16

वैराजम्.त्व्.अग्नि.मन्थने.। (गेनेरल् रुलेस्)

2.14-17

धाय्ये.त्व्.एव.एके.। (गेनेरल् रुलेस्)

2.14-18

देवत.लक्षणा.याज्या.अनुवाक्याः.। (गेनेरल् रुलेस्)

2.14-19

गायत्र्य्.आवती.हूतवत्य्.उपोक्तवती.पुरस्ताल्.लक्षणा.अनुवाक्या.। (गेनेरल् रुलेस्)

2.14-20

त्रिष्टुब्वती.वीतवती.जुष्टवत्य्.उपरिष्टाल्.लक्षणा.याज्या.।.अपि.वा.अन्यस्य.छन्दसः.। (गेनेरल् रुलेस्)

2.14-21

न.तु.याज्या.ह्रसीयसी.। (गेनेरल् रुलेस्)

2.14-22

न.उष्णिन्.न.बृहती.। (गेनेरल् रुलेस्)

2.14-23

क्षाम.नष्ट.हत.दग्धवतीस्.तु.वर्जयेत्.। (गेनेरल् रुलेस्)

2.14-24

व्यक्ते.तु.दैवते.तथा.एव.। (गेनेरल् रुलेस्)

2.14-25

लक्षणम्.अपि.वा.अव्यक्ते.। (गेनेरल् रुलेस्)

2.14-26

अनधिगच्छन्.सर्वशः.। (गेनेरल् रुलेस्)

2.14-27

अनधिगम.आग्नेयीभ्याम्.। (गेनेरल् रुलेस्)

2.14-28

व्याहृतिभिर्.वा.। (गेनेरल् रुलेस्)

2.14-29

देवताम्.आदिश्य.प्रणुयाद्.यजेच्.च.। (गेनेरल् रुलेस्)

2.14-30

नंराभ्याम्.वा.। (गेनेरल् रुलेस्)

2.14-31

इमम्.आ.शृणुधी.हवम्.यम्.त्वा.गीर्भिर्.हवामहे.।.आ.इदम्.बर्हिर्.निषीद.नः.।.स्तीर्णम्.बर्हिर्.आनुषग्.आसद्.एतद्.उप.इळाना.इह.नो.अद्य.गच्छ.।.अहेळता.मनसा.इदम्.जुषस्व.वीहि.हव्यम्.प्रयतम्.आहुतम्.म.इति.नंरे.। (गेनेरल् रुलेस्)

2.14-32

आग्नेय्याव्.अनिरुक्ते.। (गेनेरल् रुलेस्)

2.15-1

चातुर्मास्यानि.प्रयोक्ष्यमाणः.पूर्वे.द्युर्.वैश्वानर.पार्जन्याम्.। (च्म्: गेनेरल्)

2.15-2

वैश्वानरो.अजीजनद्.अग्निर्.नो.नव्यसीम्.मतिम्.।.क्षमया.वृधान.ओजसा.।.पृष्टो.दिवि.पृष्टो.अग्निः.पृथिव्याम्.पर्जन्याय.प्रगायत.प्रवाता.वान्ति.पतयन्ति.विद्युत.इत्य्.अग्न्य्.आधेय.प्रभृत्य्.अन्ता.उपांशु.हविषः.। (च्म्: गेनेरल्)

2.15-3

सौमिक्यः.। (च्म्: गेनेरल्)

2.15-4

प्रायश्.चित्तिक्यः.। (च्म्: गेनेरल्)

2.15-5

अन्वायात्या.एक.कपालाः.। (च्म्: गेनेरल्)

2.15-6

सर्वत्र.वारुण.वर्जम्.। (च्म्: गेनेरल्)

2.15-7

सावित्रश्.चातुर्मास्येषु.। (च्म्: गेनेरल्)

2.15-8

प्रधान.हवींषि.च.एके.। (च्म्: गेनेरल्)

2.15-9

पित्र्या.उपसदः.सतन्त्राः.। (च्म्: गेनेरल्)

2.15-10

पौनराधेयिकी.च.प्राग्.उत्तमाद्.अनुयाजात्.। (च्म्: गेनेरल्)

2.15-11

अपि.वा.सुमन्द्र.तन्त्राः.। (च्म्: गेनेरल्)

2.15-12

आगुः.प्रणव.वषट्.कारा.उच्चैः.सर्वत्र.। (च्म्: गेनेरल्)

2.15-13

तथा.आग्रयणे.अग्रियम्.। (च्म्: गेनेरल्)

2.15-14

आहार्यस्.तु.प्राण.संततः.प्रणवः.पुरोनुवाख्यायाः.। (च्म्: गेनेरल्)

2.15-15

तथा.आगुर्.वषट्.कारौ.याज्यायाः.। (च्म्: गेनेरल्)

2.15-16

तन्त्र.स्वराण्य्.उपांशोर्.उच्चानि.। (च्म्: गेनेरल्)

2.15-17

मन्द्राण्य्.उपांशु.तन्त्राणाम्.। (च्म्: गेनेरल्)

2.16-1

प्रातर्.वैश्वदेव्याम्.प्रेषितो.अग्नि.मन्थनीया.अन्वाह.पश्चात्.सामिधेनी.स्थानस्य.पद.मात्रे.अवस्थाय.अभिहिंकृत्य.। (च्म्: वैश्वदेव)

2.16-2

अभि.त्वा.देव.सवितर्.मही.द्यौः.पृथिवी.च.नस्.त्वाम्.अग्ने.पुष्कराद्.अधि.इति.तिसॄणाम्.अर्धर्चम्.शिष्ट्वा.आरमेद्.आ.सम्प्रैषात्.। (च्म्: वैश्वदेव)

2.16-3

अन्यत्र.अप्य्.अन्तरृचो.अवसाने.अजायमाने.त्व्.एतस्मिन्न्.एव.अवसाने.। (च्म्: वैश्वदेव)

2.16-4

अग्ने.हंसि.न्य्.अत्रिणम्.इति.सूक्तम्.आवपेत.पुनः.पुनर्.आजन्मनः.। (च्म्: वैश्वदेव)

2.16-5

जातम्.श्रुत्वा.अनन्तर्रेण.प्रणवेन.शिष्टम्.उपसंतनुयात्.। (च्म्: वैश्वदेव)

2.16-6

शिष्टेन.उत्तराम्.। (च्म्: वैश्वदेव)

2.16-7

उत.ब्रुवन्तु.जन्तव.आयम्.हस्तेन.खादिनम्.इत्य्.अर्धर्च.आरमेत्.।.प्र.देवम्.देव.वीतय.इति.द्वे.अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.तम्.अर्जयन्त.सुक्रतुम्.यज्ञेन.यज्ञम्.अयजन्त.देवा.इति.परिदध्यात्.। (च्म्: वैश्वदेव)

2.16-8

सर्वत्र.उत्तमाम्.परिधानीया.इति.विद्यात्.। (च्म्: वैश्वदेव)

2.16-9

धाय्ये.विराजौ.नव.प्रयाजाः.प्राग्.उत्तमाच्.चतुर.आवपेत.दुरो.अग्न.आज्यस्य.व्यन्तु.उषासा.नक्ता.अग्न.आज्यस्य.वीताम्.दैव्या.होतारा.अग्न.आज्यस्य.वीताम्.तिस्रो.देवीर्.अग्न.आज्यस्य.व्यन्त्व्.इति.। (च्म्: वैश्वदेव)

2.16-10

अग्निः.सोमः.सविता.सरस्वती.पूषा.मरुतः.स्वतवसो.विश्वे.देवा.द्यावा.पृथिवी.। (च्म्: वैश्वदेव)

2.16-11

आ.विश्व.देवम्.सत्पतिम्.वामम्.अद्य.सवितर्.वामम्.उ.श्वः.पूषन्.तव.व्रते.वयम्.शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.इहेह.वः.स्व.तवसः.प्र.चित्रम्.अर्कम्.गृणते.तुराय.इति.। (च्म्: वैश्वदेव)

2.16-12

नव.अनुयाजाः.षऌ.ऊर्ध्वम्.प्रथमाद्.देवीर्.द्वारो.वसुवने.वसु.धेयस्य.व्यन्तु.।.देवी.उषासा.नक्ता.वसुवने.वसु.धेयस्य.वीताम्.।.देवी.जोष्ट्री.वसुवने.वसु.धेयस्य.वीताम्.।.देवी.ऊर्जाहुती.वसुवने.वसु.धेयस्य.वीताम्.।.देवा.दैव्या.होतारा.वसुवने.वसु.धेयस्य.वीताम्.।.देवीस्.तिस्रस्.तिस्रो.देवीर्.वसुवने.वसु.धेयस्य.व्यन्त्व्.इति.। (च्म्: वैश्वदेव)

2.16-13

अनुयाजानाम्.सूक्त.वाकस्य.शम्यु.वाकस्य.वा.उपरिष्टाद्.वाजिभ्यो.वाजिनम्.अनावाह्य.आदेशम्.। (च्म्: वैश्वदेव)

2.16-14

शम्.नो.भवन्तु.वाजिनो.हवेषु.वाजे.वाजे.अवत.वाजिनो.न.इत्य्.ऊर्ध्वज्ञुर्.अनवानम्.याज्याम्.। (च्म्: वैश्वदेव)

2.16-15

अग्ने.वीहि..इत्य्.अनुवषट्.कारो.वाजिनस्य.अग्ने.वीहि.इति.वा.।.यत्र.क्व.च.एक.सम्प्रैषे.द्वौ.वषट्.कारौ.समस्ताव्.एव.तत्र.द्विर्.अनुमन्त्रयेत.। (च्म्: वैश्वदेव)

2.16-16

नच.आगूर्.उत्तरस्मिन्.। (च्म्: वैश्वदेव)

2.16-17

वाजिन.भक्षम्.इळाम्.इव.प्रतिगृह्य.उपहवम्.इच्छेत्.। (च्म्: वैश्वदेव)

2.16-18

अध्वर्य.उपह्वयस्व.ब्रह्मन्न्.उपह्वयस्व.अग्नीद्.उपह्वयस्व.इति.। (च्म्: वैश्वदेव)

2.16-19

यन्.मे.रेतः.प्रसिच्यते.यद्.वा.मे.अपि.गच्छति.यद्.वा.जायते.पुनः.।.तेन.मा.शिवम्.आविश.तेन.मा.वाजिनम्.कुरु.।.तस्य.ते.वाजि.पीतस्य.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षम्.भक्षयेत्.। (च्म्: वैश्वदेव)

2.16-20

एवम्.अध्वर्युर्.ब्रह्मा.आग्नीध्रः.। (च्म्: वैश्वदेव)

2.16-21

यजमानः.प्रत्यक्षम्.इतरे.च.दीक्षिताः.। (च्म्: वैश्वदेव)

2.16-22

पौर्णमासेन.इष्ट्वा.चातुर्मास्य.व्रतान्य्.उपेयात्.। (च्म्: वैश्वदेव)

2.16-23

केशान्.निवर्तयीत.। (च्म्: वैश्वदेव)

2.16-24

श्मश्रूणि.वापयीत.।.अधः.शयीत.।.मधु.मांस.लवण.स्त्र्य्.अवलेखनानि.वर्जयेत्.। (च्म्: वैश्वदेव)

2.16-25

ऋतौ.भार्याम्.उपेयात्.। (च्म्: वैश्वदेव)

2.16-26

वापनम्.सर्वेषु.पर्वसु.। (च्म्: वैश्वदेव)

2.16-27

आद्य.उत्तमयोर्.वा.। (च्म्: वैश्वदेव)

2.17-1

पञ्चम्याम्.पौर्णमास्याम्.वरुण.प्रघासैः.। (च्म्: वरुण.प्रघास)

2.17-2

पश्चाद्.दार्शपौर्णमासिकाया.वेदेर्.उपविश्य.प्रेषितो.अग्नि.प्रणयनीयाः.प्रतिपद्यते.। (च्म्: वरुण.प्रघास)

2.17-3

प्र.देवम्.देव्या.धिया.इति.तिस्र.इळायास्.त्व्.आप.देव.यम्.अग्ने.विश्वेभिः.स्वनीक.देवैर्.इत्य्.अर्धर्च.आरमेत्.।.आसीनः.प्रथमाम्.अन्वाह.उपांशु.सप्रणवाम्.। (च्म्: वरुण.प्रघास)

2.17-4

तत्र.स्थानात्.स्थान.संक्रमणे.प्रणवेन.अवसाय.अनुच्छ्वस्य.उत्तराम्.प्रतिपद्यते.। (च्म्: वरुण.प्रघास)

2.17-5

प्राण.संततम्.भवति.इति.विज्ञायते.। (च्म्: वरुण.प्रघास)

2.17-6

उत्तरम्.अग्निम्.अनुव्रजन्न्.उत्तराः.। (च्म्: वरुण.प्रघास)

2.17-7

इमम्.महे.विदथ्याय.शूषम्.अयम्.इह.प्रथमो.धायि.धातृभिर्.इति.तु.राजन्य.वैश्ययोर्.आद्ये.। (च्म्: वरुण.प्रघास)

2.17-8

पश्चाद्.उत्तरस्या.वेदेर्.अवस्थाय.। (च्म्: वरुण.प्रघास)

2.17-9

उत्तर.वेदेस्.तु.सोमेषु.। (च्म्: वरुण.प्रघास)

2.17-10

निहिते.अग्नौ.सीद.होतः.स्व.उ.लोके.चिकित्वान्.नि.होता.होतृ.षदने.विदान.इति.द्वे.परिधाय.तस्मिन्न्.एव.आसन.उपविश्य.भूर्.भुवः.स्वर्.इति.वाचम्.विसृजेत.। (च्म्: वरुण.प्रघास)

2.17-11

अन्यत्र.अपि.यत्र.अनुब्रुवन्न्.अनुव्रजेत्.। (च्म्: वरुण.प्रघास)

2.17-12

तिष्ठत्.सम्प्रैषेषु.तथैव.वाग्.विसर्गः.। (च्म्: वरुण.प्रघास)

2.17-13

अग्निमन्थन.आदि.समाना.वैश्वदेव्या.। (च्म्: वरुण.प्रघास)

2.17-14

हविषाम्.तु.स्थाने.षष्ठ.प्रभृतीनाम्.इन्द्र.अग्नी.मरुतो.वरुणः.कः.। (च्म्: वरुण.प्रघास)

2.17-15

इन्द्र.अग्नी.अवसा.गतम्.श्नथद्.वृत्रम्.उत.सनोति.वाजम्.मरुतो.य्स्य.हि.क्षये.अरा.इवेद्.चरमा.अहेव.इमम्.मे.वरुण.श्रुधि.तत्.त्वा.यामि.ब्रह्मणा.वन्दमानः.कया.नश्.चित्र.आ.भुवद्.हिरण्य.गर्भः.समवर्तन.अग्न.इति.प्रतिप्रस्थाता.वाजिने.तृतीयः.। (च्म्: वरुण.प्रघास)

2.17-16

संस्थितायाम्.अवभृथम्.व्रजन्ति.। (च्म्: वरुण.प्रघास)

2.17-17

तत्र.अवभृथ.इष्टिः.कृत.अकृता.। (च्म्: वरुण.प्रघास)

2.17-18

ताम्.उपरिष्टाद्.व्याख्यास्यामो.द्वयोर्.मासयोर्.ऐन्द्राग्नः.पशुः.। (च्म्: वरुण.प्रघास)

2.18-1

तथा.ततः.साक.मेधाः.। (च्म्: साक.मेध)

2.18-2

पूर्वे.द्युस्.तिस्र.इष्टयो.अनुसवनम्.। (च्म्: साक.मेध)

2.18-3

प्रथमायाम्.अग्निर्.अनीकवान्.।.अनीकवन्तम्.ऊतये.अग्निम्.गीर्भिर्.हवामहे.।.स.नः.पर्षद्.अति.द्विषः.।.सैनानीकेन.सुविदत्रो.अस्मै.इति.उत्तरस्याम्.वृधन्वन्तौ.।.मरुतः.सांतपनाः.।.सांतपना.इदम्.हविर्.यो.नो.मरुतो.अभि.दुर्हृणायुर्.इति.मरुद्भ्यो.गृह.मेध्येभ्य.उत्तरा.आज्य.भाग.प्रथृती.इळा.अन्ता.। (च्म्: साक.मेध)

2.18-4

गृह.मेधास.आगत.प्रबुध्न्या.व.ईरते.महांसि.इति.। (च्म्: साक.मेध)

2.18-5

पुष्टिमन्तौ.विराजौ.सम्याज्ये.अनिगदे.। (च्म्: साक.मेध)

2.18-6

अन्यत्र.अप्य्.अनावाहने.। (च्म्: साक.मेध)

2.18-7

आवाहने.अपि.पित्र्यायाम्.पशौ.च.। (च्म्: साक.मेध)

2.18-8

बहु.च.एतस्याम्.रात्र्याम्.अन्नम्.प्रसुवीरन्.। (च्म्: साक.मेध)

2.18-9

तस्या.विवासे.पौर्णदर्वम्.जुहुयुः.। (च्म्: साक.मेध)

2.18-10

ऋषभे.रवाणे.। (च्म्: साक.मेध)

2.18-11

स्तनयित्नौ.वा.। (च्म्: साक.मेध)

2.18-12

आग्नीध्रम्.ह.एके.रावयन्ति.ब्रह्म.पुत्रम्.वदन्तः.। (च्म्: साक.मेध)

2.18-13

यदि.होतारम्.चोदयेयुस्.तस्य.याज्या.अनुवाक्ये.।.पूर्णा.दर्वि.परापत.सुपूर्णा.पुनर्.आपत.।.वस्नेव.विक्रीणावहा.इषम्.ऊर्जम्.शतक्रतो.।.देहि.मे.ददामि.ते.नि.मे.धेहि.नि.ते.दधे.।.अपाम्.इत्थम्.इव.सम्भरको.अम्बा.ददते.ददद्.इति.। (च्म्: साक.मेध)

2.18-14

मरुद्भ्यः.क्रीळिभ्य.उत्तरा.। (च्म्: साक.मेध)

2.18-15

उत.ब्रुवन्तु.जन्तवो.अयम्.कृत्नुर्.अगृभीत.इति.परोक्ष.वार्त्रघ्नौ.। (च्म्: साक.मेध)

2.18-16

क्रीळम्.वः.शर्धो.मारुतम्.अत्यासो.न.ये.मरुतः.स्वञ्चः.। (च्म्: साक.मेध)

2.18-17

जुष्टो.दमूना.अग्ने.शर्ध.महते.सौभागाय.इति.सम्याज्ये.।.वाजिन.अवभृथ.वर्जम्.माहेन्द्र्य्.उक्ता.वरुण.प्रघासैः.। (च्म्: साक.मेध)

2.18-18

हविषाम्.तु.सप्तम.आदीनाम्.स्थान.इन्द्रो.वृत्रहा.इन्द्रो.महेन्द्रो.वा.विश्व.कर्मा.। (च्म्: साक.मेध)

2.18-19

आ.तू.न.इन्द्र.वृत्रहन्न्.अनु.ते.दायि.मह.इन्द्रियाय.विश्व.कर्मन्.हविषा.वावृधानो.या.ते.धामानि.परमाणि.यावमा.इति.। (च्म्: साक.मेध)

2.19-1

दक्षिण.अग्नेर्.अग्निम्.अतिप्रणिय.पित्र्या.। (च्म्: पित्र्या)

2.19-2

सा.शंव्य्.अन्ता.। (च्म्: पित्र्या)

2.19-3

लुप्त.जपा.होतारम्.अवृथा.वषट्.कार.अनुमन्त्रण.अभिहिंकार.वर्जम्.। (च्म्: पित्र्या)

2.19-4

तस्याम्.पाञ्चि.कर्माणि.दक्षिणा.। (च्म्: पित्र्या)

2.19-5

इतराण्य्.तथा.अन्वयम्.। (च्म्: पित्र्या)

2.19-6

उशन्तस्.त्वा.नि.धीमहि.इत्य्.एताम्.त्रिर्.अनवानन्ताः.सामिधेन्यः.। (च्म्: पित्र्या)

2.19-7

तासाम्.उत्तमेन.प्रणवेन.आवह.देवान्.पितॄन्.यजमानाय.इति.प्रतिपत्तिः.। (च्म्: पित्र्या)

2.19-8

अग्निम्.होत्राय.आवह.स्वम्.महिमानम्.आवह.इत्य्.एतस्य.स्थाने.अग्निम्.कव्य.वाहनम्.आवाहयेत्.। (च्म्: पित्र्या)

2.19-9

उत्तमे.च.एनम्.प्रयाजे.प्राग्.आज्यपेभ्यो.निगमयेत्.। (च्म्: पित्र्या)

2.19-10

सूक्त.वाके.च.अग्निर्.होत्रेण.इत्य्.एतस्य.स्थाने.। (च्म्: पित्र्या)

2.19-11

न.इह.प्रादेशः.। (च्म्: पित्र्या)

2.19-13

न.मार्जनम्.। (च्म्: पित्र्या)

2.19-14

न.सूक्त.वाके.नाम.आदेशः.। (च्म्: पित्र्या)

2.19-15

ईक्षितः.सीद.होतर्.इति.वा.उक्त.उपविशेत्.। (च्म्: पित्र्या)

2.19-16

जीवातुमन्तौ.सव्य.उत्तर्य्.उपस्थाः.प्राचीन.आवीतिनो.हविर्भिश्.चरन्ति.। (च्म्: पित्र्या)

2.19-17

दक्षिण.आग्नीध्र.उत्तरो.अध्वर्युः.।.द्वे.द्वे.अनुवाक्ये.।.अध्यर्थाम्.अनवानम्.। (च्म्: पित्र्या)

2.19-18

ओम्.स्वधा.इत्य्.आश्रावणम्.।.अस्तु.स्वधा.इति.प्रत्याश्रावणम्.।.अनुस्वधा.स्वधा.इति.सम्प्रैषः.। (च्म्: पित्र्या)

2.19-19

ये.स्वधा.इत्य्.आगुर्.ये.स्वधा.मह.इति.वा.।.स्वधा.नम.इति.वषट्.कारः.। (च्म्: पित्र्या)

2.19-20

नित्याः.प्लुतयः.। (च्म्: पित्र्या)

2.19-21

पितरः.सोमवन्तः.सोमो.वा.पितृमान्.पितरो.बर्हिषदः.पितरो.अग्निष्वात्था.यमः.। (च्म्: पित्र्या)

2.19-22

उदीरताम्.अवर.उत्.परासस्.त्वया.हि.नः.पितरः.सोम.पूर्व.उपहूताः.पितरः.सोम्यासस्.त्वम्.सोम.प्रचिकितो.मनीषा.सोमो.धेनुम्.सोमो.अर्वन्तम्.आशुम्.त्वम्.सोम.पितृभिः.संविदानो.बर्हिषदः.पितर.ऊत्य्.अर्वाग्.आहम्.पितॄन्.सुविदत्रान्.अवित्सि.इदम्.पितृभ्यो.नमो.अस्त्व्.अद्य.अग्निष्वत्ताः.पितर.एह.गच्छत.ये.च.इह.पितरो.ये.च.न.इह.ये.अग्नि.दग्धा.ये.अनग्नि.दग्धा.इमम्.यम.प्रस्तरम्.आहि.सीद.इति.द्वे.परेयिवांसम्.प्रवतो.महीर्.अनु.। (च्म्: पित्र्या)

2.19-23

वैवस्वताय.चेन्.मध्यमा.याज्या.। (च्म्: पित्र्या)

2.19-24

ये.ततृषुर्.देवत्रा.जेहमानास्.त्वद्.अग्ने.काव्या.त्वन्.मनीषाः.सप्रत्नया.सहस्रा.जायमान.इति.। (च्म्: पित्र्या)

2.19-25

अग्निः.स्विष्टकृत्.कव्य.वाहनः.। (च्म्: पित्र्या)

2.19-26

प्रकृत्या.अत.ऊर्ध्वम्.। (च्म्: पित्र्या)

2.19-27

वषट्.कार.क्रियायाम्.च.ऊर्ध्वम्.आज्य.भागाभ्याम्.अन्यन्.मन्त्र.लोपात्.। (च्म्: पित्र्या)

2.19-28

एक.एका.च.अनुवाक्या.। (च्म्: पित्र्या)

2.19-29

यो.अग्निः.क्रव्य.वाहनस्.त्वम्.अग्न.ईळितो.जात.वेद.इति.सम्याज्ये.। (च्म्: पित्र्या)

2.19-30

भक्षेषु.प्राण.भक्षान्.भक्षयित्वा.बर्हिष्य्.अनुप्रहरेयुः.संस्थितायाम्.प्राग्.वा.अनुयाजाभ्याम्.दक्षिअ.आवृतो.दक्षिण.अग्निम्.उपतिष्ठन्ते.। (च्म्: पित्र्या)

2.19-31

अनावृत्य.अनतिप्रणीत.चर्यायाम्.। (च्म्: पित्र्या)

2.19-32

अयाविष्ठाः.जनयन्.कर्वराणि.स.हि.घृणिर्.उरुर्.वराय.गातुः.।.स.प्रत्युदैद्.धरुणम्.मध्वो.अग्रम्.स्वाम्.यत्.तनूम्.तन्वाम्.ऐरयत.इति.। (च्म्: पित्र्या)

2.19-33

आवृत्य.त्व्.एव.इतरौ.। (च्म्: पित्र्या)

2.19-34

आहवनीयम्.सुसंदृशम्.त्वा.इत्.पङ्क्त्या.। (च्म्: पित्र्या)

2.19-35

गार्हपत्यम्.अग्निम्.तम्.मन्य.इत्य्.एकया.ऋचा.न.सूक्तेन.। (च्म्: पित्र्या)

2.19-36

अथ.एनम्.अबिह्समायन्ति.मा.प्रमा.मा.अग्ने.त्वम्.न.इति.जपन्तः.। (च्म्: पित्र्या)

2.19-37

पूर्वेण.गार्हपत्य.सूक्ते.समाप्य.सव्य.आवृतस्.त्र्यम्बकान्.वर्जन्ति.। (च्म्: पित्र्या)

2.19-38

तत्र.अध्वर्यवः.कर्म.अधीयते.। (च्म्: पित्र्या)

2.19-39

प्रत्येत्य.आदित्यया.चरन्ति.। (च्म्: पित्र्या)

2.19-40

पुष्टिमन्तौ.धाय्ये.विराजौ.। (च्म्: पित्र्या)

2.20-1

पञ्चम्याम्.पौर्णमास्याम्.शुना.सीरीयया.। (च्म्: शुना.सीरीय)

2.20-2

अर्वाग्.यथा.उपपत्ति.वा.। (च्म्: शुना.सीरीय)

2.20-3

वाजिन.वर्जम्.समाना.वैश्वदेव्या.।.हविषाम्.तु.स्थाने.षष्ठ.प्रभृतीनाम्.वायुर्.नियुत्वान्.वायुर्.वा.शुना.सीराव्.इन्द्रो.वा.शुना.सीर.इन्द्रो.वा.शुनः.सूर्य.उत्तमः.। (च्म्: शुना.सीरीय)

2.20-4a

आ.वायो.भूष.शुचिपा.उप.नः.प्रयाभिर्.यासि.दाश्वांसम्.अच्छ.स.त्वम्.नो.देव.मनसा.ईशानाय.प्रहुतिम्.यस्.त.आनट्.शुनासीराव्.इमाम्.वाचम्.जुषेथाम्.शुनम्.नः.फाला.विकृषन्तु.भूमिम्.इन्द्र.वयम्.शुना.सीर.मे.अस्मिन्.पक्षे.हवामहे.। (च्म्: शुना.सीरीय)

2.20-4b

स.वाजेषु.प्र.नो.अविषत्.।.अश्वायन्तो.गव्यन्तो.वाजयन्तः.शुनम्.हुवेम.मघवानम्.इन्द्रम्.अश्वायन्तो.गव्यन्तो.वाजयन्तस्.तरणिर्.विश्व.दर्शतश्.चित्रम्.देवानाम्.उद्.अगाद्.अनीकम्.इति.याज्या.अनुवाक्याः.। (च्म्: शुना.सीरीय)

2.20-5

समाप्य.सोमेन.यजेत.अशक्तौ.पशुना.। (च्म्: शुना.सीरीय)

2.20-6

चातुर्मास्यानि.वा.पुनश्.चातुर्मास्यानि.वा.पुनः.। (च्म्: शुना.सीरीय)

मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc