भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनश्रौतसूत्र · अध्याय 1

1.1-1

अथ.एतस्य.समाम्नायस्य.विताने.योग.आपत्तिम्.वक्ष्यामः.। (दर्श: होतृ)

1.1-2

अग्न्य्.आधेय.प्रभृतीन्य्.आह.वैतानिकानि.। (दर्श: होतृ)

1.1-3

दर्श.पूर्ण.मासौ.तु.पूर्वम्.व्याक्यास्यामस्.तन्त्रस्य.तत्र.आम्नातत्वात्.। (दर्श: होतृ)

1.1-4

दर्श.पूर्ण.मासयोर्.हविःष्व्.आसन्नेषु.होता.आमन्त्रितः.प्राग्.उदग्.आहवनीयाद्.अवस्थाय.प्रान्.मुखो.यज्ञ.उपवीत्य्.आचम्य.दक्षिणावृद्.विहारम्.प्रपद्यते.पूर्वेण.उत्करम्.अपरेण.प्रणीताः.। (दर्श: होतृ)

1.1-5

इध्मम्.अपरेण.अप्रणीते.। (दर्श: होतृ)

1.1-6

चात्वालम्.चात्वालवत्सु.। (दर्श: होतृ)

1.1-7

एतत्.तीर्थम्.इत्य्.आचक्षते.। (दर्श: होतृ)

1.1-8

तस्य.नित्याः.प्राञ्चश्.चेष्टाः.। (दर्श: होतृ)

1.1-9

अङ्ग.धारणा.च.। (दर्श: होतृ)

1.1-10

यज्ञ.उपवीत.शौचे.च.। (दर्श: होतृ)

1.1-11

विहाराद्.अव्यावृत्तिश्.च.तत्र.चेत्.कर्म.। (दर्श: होतृ)

1.1-12

एक.अङ्ग.वचने.दक्षिणम्.प्रतीयात्.। (दर्श: होतृ)

1.1-13

अनादेशे.। (दर्श: होतृ)

1.1-14

कर्म.चोदनायाम्.होतारम्.। (दर्श: होतृ)

1.1-15

ददाति.इति.यजमानम्.। (दर्श: होतृ)

1.1-16

जुहोति.जपति.इति.प्रायश्चित्ते.ब्रह्माणम्.। (दर्श: होतृ)

1.1-17

ऋचम्.पाद.ग्रहणे.। (दर्श: होतृ)

1.1-18

सूक्तम्.सूक्त.आदौ.हीने.पादे.। (दर्श: होतृ)

1.1-19

अधिके.तृचम्.सर्वत्र.। (दर्श: होतृ)

1.1-20

जप.अनुमन्त्रण.आप्यायन.उपस्थानान्य्.उपांशु.। (दर्श: होतृ)

1.1-21

मन्त्राश्.च.कर्म.करणाः.। (दर्श: होतृ)

1.1-22

प्रसङ्गाद्.अपवादो.बलीयान्.। (दर्श: होतृ)

1.1-23

प्रपद्य.अभिहृततरेण.पादेन.वेदि.श्रोण्या.उत्तरया.पार्ष्णीम्.समाम्.निधाय.प्रपदेन.बर्हिर्.आक्रम्य.संहतौ.पाणी.धारयन्न्.आकाशवत्य्.अङ्गुली.हृदय.सम्मिताव्.अङ्क.सम्मितौ.वा.द्यावा.पृथिव्योः.संधिम्.ईक्षमाणः.। (दर्श: होतृ)

1.1-24

एतद्द्.होतुः.स्थानम्.। (दर्श: होतृ)

1.1-25

आसनम्.वा.सर्वत्र.एवम्.भूतः.। (दर्श: होतृ)

1.1-26

वचनाद्.अन्यत्.। (दर्श: होतृ)

1.1-27

प्रेषितो.जपति.। (दर्श: होतृ)

1.2-1

नमः.प्रवक्त्रे.नम.उपद्रष्ट्रे.नमो.अनुख्यात्रे.क.इदम्.अनुवक्ष्यति.स.इदम्.अनुवक्ष्यति.षण्.मा.उर्वीर्.अंहस्.पान्तु.द्यौश्.च.पृथिवी.च.अहश्.च.रात्रिश्.च.आपश्.च.ओषधयश्.च.वाक्.समस्थित.यज्ञः.साधु.छन्दांसि.प्रपद्ये.अहम्.एव.माम्.अमुम्.इति.स्वम्.नाम.आदिशेत.भूते.भविष्यति.जाते.जनिष्यमाण.आभजाम्य्.अपाव्यम्.वाचो.अशान्तिम्.वह.इत्य्.अङ्गुल्य्.अग्राण्य्.अवकृष्य.जात.वेदो.रमया.पशून्.मयि.इति.प्रतिसंदध्यात्.।.वर्म.मे.द्यावा.पृथिवी.वर्म.अग्निर्.वर्म.सूर्यो.वर्म.मे.सन्तु.तिरश्चिकाः.।.तद्.अद्य.वाचः.प्रथमम्.मसीय.इति.। (दर्श: होतृ)

1.2-2

समाप्य.सामिधेनीर्.अन्वाह.। (दर्श: होतृ)(चोम्म्: अनुब्रूयाद्.इत्य्.अर्थह्)

1.2-3

हिम्3.इति.हिम्.कृत्य.भूर्.भुवः.स्वर्.ओम्.इति.जपति.। (दर्श: होतृ)

1.2-4

एषो.अभिहिंकारः.। (दर्श: होतृ)

1.2-5

भूर्.भुवः.स्वर्.इत्य्.एव.जपित्वा.कौत्सो.हिम्.करोति.। (दर्श: होतृ)

1.2-6

न.च.पूर्वम्.जपम्.जपति.। (दर्श: होतृ)

1.2-7

अथ.सामिधेन्यः.प्र.वो.वाजा.अभिद्यवो.अग्न.आ.याहि.वीतये.गृणान्.ईळेन्यो.नमस्यस्.तिरो.अग्निम्.दूतम्.वृणीमहे.समिध्यमानो.अध्वरे.समिद्धो.अग्न.आहुत.इति.द्वे.। (दर्श: होतृ)

1.2-8

ता.एक.श्रुति.संततम्.अनुब्रूयात्.। (दर्श: होतृ)

1.2-9

उदात्त.अनुदात्त.स्वरितानाम्.परः.सम्निकर्ष.ऐकश्रुत्यम्.। (दर्श: होतृ)

1.2-10

स्वर.आदिम्.ऋग्.अन्तम्.ओ.कारम्.त्रिमात्रम्.म.कार.अन्तम्.कृत्वा.उत्तरस्या.अर्धर्चे.अवस्येत्.।.तत्.संततम्.। (दर्श: होतृ)

1.2-11

एतद्.अवसानम्.। (दर्श: होतृ)

1.2-12

उत्तर.आदानम्.अविप्रमोहे.। (दर्श: होतृ)

1.2-13

समाप्तौ.प्रणवेन.अवसानम्.। (दर्श: होतृ)

1.2-14

चतुर्.मात्रो.अवसाने.। (दर्श: होतृ)

1.2-15

तस्य.अन्त.आपत्तिः.। (दर्श: होतृ)

1.2-16

स्पर्शेषु.स्व.वर्ग्यम्.उत्तमम्.। (दर्श: होतृ)

1.2-17

अन्तस्थासु.ताम्.ताम्.अनुनासिकाम्.। (दर्श: होतृ)

1.2-18

रेफ.ऊष्मस्व्.अनुस्वारम्.। (दर्श: होतृ)

1.2-19

त्रिः.प्रथम.उत्तमे.अन्वाह.अध्यर्धकारम्.। (दर्श: होतृ)

1.2-20

अध्यर्धाम्.उक्त्वा.अवस्येद्.अथ.द्वे.। (दर्श: होतृ)

1.2-21

द्वे.प्रथमम्.उत्तमस्याम्.अथ.अध्यर्धाम्.। (दर्श: होतृ)

1.2-22

ताः.पञ्चदश.अभ्यस्ताभिः.। (दर्श: होतृ)

1.2-23

एतेन.शस्त्र.याज्या.निगद.अनुवचन.अभिष्टवन.संस्तवनानि.। (दर्श: होतृ)

1.2-24

न.त्व्.अन्यत्र.अध्यर्धकारम्.न.जपः.प्राग्.अभिहिंकारान्.न.अभिहिंकार.अभ्यासाव्.अबहुषु.प्रकृत्या.। (दर्श: होतृ)

1.2-25

न.अवच्छेद.आदौ.। (दर्श: होतृ)

1.2-26

शस्त्रेष्व्.एव.होत्रकाणाम्.अभिहिंकारः.। (दर्श: होतृ)

1.2-27

सामिधेनीनाम्.उत्तमेन.प्रणवेन.अग्ने.महान्.असि.ब्राह्मण.भारत.इति.निगदे.अवसाय.। (दर्श: होतृ)

1.3-1

यजमानस्य.आर्षेयान्.प्रवृणीते.यावन्तः.स्युः.। (दर्श: होतृ)

1.3-2

परम्.परम्.प्रथमम्.। (दर्श: होतृ)

1.3-3

पौरोहित्यान्.राज.विशाम्.। (दर्श: होतृ)

1.3-4

राज.ऋषीन्.वा.राज्ञाम्.। (दर्श: होतृ)

1.3-5

सर्वेषाम्.मानव.इति.संशये.। (दर्श: होतृ)

1.3-6

देव.इद्धो.मन्व्.इद्ध.ऋषि.ष्टुतो.विप्र.अनुमदितः.कवि.शस्तो.ब्रह्म.संशितो.घृत.आहवन.प्रणीर्.यज्ञानाम्.रथीर्.अध्वराणाम्.अतूर्तो.होता.तूर्णिर्.हव्य.वाऌ.इत्य्.अवसाय.आस्पात्रम्.जुहूर्.देवानाम्.चमसो.देव.पानो.अराम्.इव.अग्ने.नेमिर्.देवांस्.त्वम्.परिभूर्.अस्य्.आवह.देवान्.यजमानाय.इति.प्रतिपद्य.देवता.द्वितीयया.विभक्त्या.आदेशम्.आदेशम्.आवह.इत्य्.आवाहयत्य्.आदिम्.प्लावयन्.। (दर्श: होतृ)

1.3-7

अग्न.आवह.इति.तु.प्रथम.देवताम्.। (दर्श: होतृ)

1.3-8

अग्निम्.सोमम्.इत्य्.आज्य.भागौ.। (दर्श: होतृ)

1.3-9

अग्निम्.अग्नी.षोमाव्.इति.पौर्णमास्याम्.। (दर्श: होतृ)

1.3-10

अग्नी.षोमयोः.स्थान.इन्द्र.अग्नी.अमावास्यायाम्.असम्नयतः.। (दर्श: होतृ)

1.3-11

इन्द्रम्.महेन्द्रम्.वा.सम्नयतः.। (दर्श: होतृ)

1.3-12

अन्तरेण.हविषी.विष्णुम्.उपांश्व्.ऐतरेयिणः.। (दर्श: होतृ)

1.3-13

अग्नीषोमीयम्.पौर्णमास्याम्.वैष्णवम्.अमावास्यायाम्.एके.न.एके.कंचन.। (दर्श: होतृ)

1.3-14

अन्येषाम्.अप्य्.उपांशूनाम्.आवह.स्वाहा.अयाट्.प्रिया.धामानि.इदम्.हविर्.महो.ज्याय.इत्य्.उच्चैः.। (दर्श: होतृ)

1.3-15

ये.अन्ये.तद्.वचनाः.परोक्षास्.तान्.उपांशु.उच्चैर्.वा.। (दर्श: होतृ)

1.3-16

प्रत्यक्षम्.उपांशु.। (दर्श: होतृ)

1.3-17

प्रतिचोदनम्.आवाहनम्.। (दर्श: होतृ)

1.3-18

सर्वा.आदिश्य.सकृद्.एक.प्रदानाः.। (दर्श: होतृ)

1.3-19

तथा.इतरेषु.निगमेष्व्.एकाम्.इव.संस्तुयात्.। (दर्श: होतृ)

1.3-20

समानाम्.देवताम्.समान.अर्थाम्.। (दर्श: होतृ)

1.3-21

अव्यवहिताम्.सकृन्.निगमेषु.। (दर्श: होतृ)

1.3-22a

ओळ्हास्व्.आवापिकासु.देवान्.आज्यपान्.आवह.अग्निम्.होत्राय.आवह.स्वम्.महिमानम्.आवह.आवह.जात.वेदः.सुजयायज.इत्य्.आवाह्य.यथा.स्थितम्.ऊर्ध्व.जानुर्.उपविश्य.उदग्.वेदेर्.व्युह्य.तृणानि.भूमौ.प्रादेशम्.कुर्याद्.।

1.3-22b

अदितिर्.माता.अस्य.अन्तरिक्षान्.मा.छेत्सीर्.इदम्.अहम्.अग्निना.देवेन.देवतया.त्रिवृता.स्तोमेन.रथन्तरेण.साम्ना.गायत्रेण.छन्दसा.अग्निष्टोमेन.यज्ञेन.वषट्.कारेण.वज्रेण.यो.अस्मान्.द्वेष्टि.यम्.च.वयम्.द्विष्मस्.तम्.हन्मि.इति.। (दर्श: होतृ)

1.3-23a

आश्रावयिष्यन्तम्.अनुमन्त्रयेत.आश्रावय.यज्ञम्.देवेष्व्.आश्रावय.माम्.मनुष्येषु.कीर्त्यै.यशसे.ब्रह्म.वर्चसाय.इति.।.प्रवृणानम्.देव.सवितर्.एतम्.त्वा.वृणुते.अग्निम्.होत्राय.सह.पित्रा.वैश्वानरेण.द्यावा.पृथिवी.माम्.पाताम्.अग्निर्.होता.अहम्.मानुष.इति.।

1.3-23b

मानुष.इत्य्.अध्वर्योः.श्रुत्वा.उद्.आयुषा.स्वायुषा.उद्.ओषधीनाम्.रसेन.उत्.पर्जन्यस्य.धामभिर्.उदस्थाम्.अमृतान्.अन्व्.इत्य्.उत्तिष्ठेत्.। (दर्श: होतृ)

1.3-24

षष्टिश्.च.अध्वर्यो.नवतिश्.च.पाशा.अग्निम्.होतारम्.अन्तरा.विचृत्ताः.।.सिनन्ति.पाकम्.अतिधीर.एति.इत्य्.उत्थाय.। (दर्श: होतृ)

1.3-25

ऋतस्य.पन्थाम्.अन्वेमि.होता.इत्य्.अभिक्रम्य.अंसे.अध्वर्युम्.अन्वारभेत.पार्श्वस्थेन.पाणिना.। (दर्श: होतृ)

1.3-26

आग्नीध्रम्.अङ्क.देशेन.सव्येन.वा.। (दर्श: होतृ)

1.3-27

इन्द्रम्.अन्वारभामहे.होतृ.वूर्ये.पुरोहितम्.।.येन.आयन्न्.उत्तमम्.स्वर्.देवा.अङ्गिरसो.दिवम्.इति.। (दर्श: होतृ)

1.3-28

सम्मार्ग.तृणैस्.त्रिर्.अभ्यात्मम्.मुखम्.सम्मृजीत.सम्मार्गो.असि.सम्.माम्.प्रजया.पशुभिर्.मृड्ढि.(?).इति.। (दर्श: होतृ)

1.3-29

सकृन्.मन्त्रेण.द्विस्.तूष्णीम्.।.सर्वत्र.एवम्.कर्म.आवृत्तौ.। (दर्श: होतृ)

1.3-30

स्पृष्ट्वा.उदकम्.होतृ.षदनम्.अबिह्मन्त्रयेत.आह.दैधिषव्य.उद्.अतस्.तिष्ठान्य्.अस्य.सदने.सीद.यो.अस्मत्.पाकतर.इति.। (दर्श: होतृ)

1.3-31

अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.होतृ.षदनात्.तृणम्.प्रत्यग्.दक्षिणा.निरसेत्.निरस्तः.परावसुर्.इति.इदम्.अहम्.अर्वावसोः.सदने.सीदामि.इत्य्.उपविशेद्.दक्षिण.उत्तरिणा.उपस्थेन.। (दर्श: होतृ)

1.4-32

एते.निरसन.उपवेशने.सर्व.आसनेषु.सर्वेषाम्.अहर्.अहः.प्रथम.उपवेशने.अपि.समाने.। (दर्श: होतृ)

1.4-33

द्विर्.इति.गौतमः.। (दर्श: होतृ)

1.4-1

ब्रह्म.ओदने.प्राशिष्यमाणे.अग्न्य्.आधेये.ब्रह्मा.। (दर्श: होतृ)

1.4-2

बहिष्.पवमानात्.प्रत्येत्य.सोमे.। (दर्श: होतृ)

1.4-3

प्रसृप्य.होता.। (दर्श: होतृ)

1.4-4

स्रुग्.आदापने.पशौ.। (दर्श: होतृ)

1.4-5

न.पत्नी.साम्याजिके.। (दर्श: होतृ)

1.4-6

न.अन्यत्र.होतुर्.इति.कौत्सः.। (दर्श: होतृ)

1.4-7

उपविश्य.देव.बर्हिः.स्वासस्थम्.त्वा.अध्यासदेयम्.इति.। (दर्श: होतृ)

1.4-8

अभिहिष.होतः.प्रतराम्.बर्हिषद्.भव.इति.जानु.शिरसा.बर्हिर्.उपस्पृश्य.अत.ऊर्ध्वम्.जपेत्.। (दर्श: होतृ)

1.4-9a

भूपतये.नमो.भुवन.पतये.नमो.भूतानाम्.पतये.नमो.भूतये.नमः.प्राणम्.प्रपद्ये.अपानम्.प्रपद्ये.व्यानम्.प्रपद्ये.वाचम्.प्रपद्ये.चक्षुः.प्रपद्ये.श्रोत्रम्.प्रपद्ये.मनः.प्रपद्य.आत्मानम्.प्रपद्ये.। (दर्श: होतृ)

1.4-9b

गायत्रीम्.प्रपद्ये.त्रिष्टुभम्.प्रपद्ये.जगतीम्.प्रपद्ये.अनुष्टुभम्.प्रपद्ये.छन्दांसि.प्रपद्ये.सूर्यो.नो.दिवस्पातु.नमो.महद्भ्यो.नमो.अर्भकेभ्यो.। (दर्श: होतृ)

1.4-9c

विश्वे.देवाः.शास्त.न.मा.यथा.इह.अराधि.होता.निषदा.यजीयांस्.तद्.अद्य.वाचः.प्रथमम्.मसीय.इति.समाप्य.प्रदीप्त.इध्मे.स्रुचाव्.आदापयेन्.निगदेन.। (दर्श: होतृ)

1.4-10

अग्निः.होता.वेत्त्व्.अग्नेर्.होत्रम्.वेत्तु.प्रावित्रम्.साधु.ते.यजमान.देवता.यो.अग्निम्.इत्य्.अवसाय.होतारम्.अवृथाः.इति.जपेत्.। (दर्श: होतृ)

1.4-11

अथ.समापयेद्.घृतवतीम्.अध्वर्यो.स्रुचम्.आस्यस्व.देवयुवम्.विश्व.वारे.इळामहै.देवान्.ईळे.अन्यान्.नमस्याम.नमस्यान्.यजाम.यज्ञियान्.इति.। (दर्श: होतृ)

1.4-12

समाप्ते.अस्मिन्.निगदे.अध्वर्युर्.आश्रावयति.। (दर्श: होतृ)

1.4-13

प्रत्याश्रावयेद्.आग्नीध्र.उत्कर.देशे.तिष्ठन्.स्फ्यम्.इध्म.सम्नहनानि.इत्य्.आदाय.दक्षिणा.मुख.इति.शाट्यायनकम्.।.अस्तु.श्रौषऌ.इत्य्.औ.कारम्.प्लावयन्.। (दर्श: होतृ)

1.5-1

प्रयाजैश्.चरन्ति.। (दर्श: होतृ)

1.5-2

पञ्च.एते.भवन्ति.। (दर्श: होतृ)

1.5-3

एक.एकम्.प्रेषितो.यजति.। (दर्श: होतृ)

1.5-4

आगूर्.याज्या.आदिर्.अनुयाज.वर्जम्.। (दर्श: होतृ)(.आगुर्.)

1.5-5

ये.यजामह.इत्य्.आगूर्.(.आगुर्.).वषट्.कारो.अन्त्यः.सर्वत्र.। (दर्श: होतृ)

1.5-6

उच्चैस्तराम्.बलीयान्.याज्यायाः.। (दर्श: होतृ)

1.5-7

तयोर्.आदी.प्लावयेत्.। (दर्श: होतृ)

1.5-8

याज्या.अन्तम्.च.। (दर्श: होतृ)

1.5-9

विविच्य.संध्य्.अक्षराणाम्.अकारम्.न.चेद्.द्वैवचनो.व्यञ्जन.अन्तो.वा.। (दर्श: होतृ)

1.5-10

विसर्जनीयो.अनत्यक्षर.उपधो.रिफ्यते.। (दर्श: होतृ)

1.5-11

इतरश्.च.रेफी.। (दर्श: होतृ)

1.5-12

लुप्यते.अरेफी.। (दर्श: होतृ)

1.5-13

प्रथमः.स्वम्.तृतीयम्.। (दर्श: होतृ)

1.5-14

नित्यम्.मकारे.। (दर्श: होतृ)

1.5-15

ये.यजामहे.समिधः.समिधो.अग्न.आज्यस्य.व्यन्तु.वओषऌ.इति.वषट्.कारः.। (दर्श: होतृ)

1.5-16

इति.प्रथमः.। (दर्श: होतृ)

1.5-17

वाग्.ओजः.सह.ओजो.मयि.प्राण.अपानाव्.इति.वषट्.कारम्.उक्त्वा.उक्त्वा.अनुमन्त्रयते.। (दर्श: होतृ)

1.5-18

दिवा.कीर्त्यो.वषट्.कारः.। (दर्श: होतृ)

1.5-19

तथा.अनुमन्त्रणम्.। (दर्श: होतृ)

1.5-20

एतद्.याज्या.निदर्शनम्.। (दर्श: होतृ)

1.5-21

तनूनपाद्.अग्न.आज्यस्य.वेत्व्.इति.द्वितीयो.अन्यत्र.वसिष्ठ.शुनक.अत्रि.वध्र्य्.अश्व.राजन्येभ्यः.। (दर्श: होतृ)

1.5-22

नराशंसो.अग्न.आज्यस्य.वेत्व्.इति.तेषाम्.। (दर्श: होतृ)

1.5-23

इळो.अग्न.आज्यस्य.व्यन्त्व्.इति.तृतीयः.। (दर्श: होतृ)

1.5-24

बहिर्.अग्न.आज्यस्य.वेत्व्.इति.चतुर्थः.।.आगूर्.(.आगुर्.).य.पञ्चमे.स्वाहा.अमुम्.स्वाहा.अमुम्.इति.यथा.आवाहितम्.अनुद्रुत्य.देवता.यथा.चोदितम्.अनावाहिताः.स्वाहा.देवा.आज्यपा.जुषाणा.अग्न.आज्यस्य.व्यन्त्व्.इति.। (दर्श: होतृ)

1.5-25

आ.अतो.मन्द्रेण.। (दर्श: होतृ)

1.5-26

ऊर्ध्वम्.च.शम्यु.वाकात्.। (दर्श: होतृ)

1.5-27

मध्यमेन.हवींष्य्.आ.स्विष्टकृतः.। (दर्श: होतृ)

1.5-28

उत्तमेन.शेषः.। (दर्श: होतृ)

1.5-29

आग्निर्.वृत्राणि.जङ्घनद्.इति.पूर्वस्य.आज्य.भागस्य.अनुवाक्या.।.त्वम्.सोम.असि.सत्.पतिर्.इत्य्.उत्तरस्य.।.जुषाणो.अग्निर्.आज्यस्य.वेत्व्.इति.पूर्वस्य.याज्या.।.जुषाणः.सोम.आज्यस्य.हविषो.वेत्व्.इत्य्.उत्तरस्य.।.ताव्.आगूर्या.आदेशम्.यजति.। (दर्श: होतृ)(.आगुर्.)

1.5-30

सर्वाश्.च.अनुवाक्यावत्यो.अप्रैषा.।.अन्या.अन्वायात्याभ्यः.। (दर्श: होतृ)

1.5-31

सौमिकीभ्यश्.च.या.अन्तरेण.वैश्वानरीयम्.पत्नी.सम्याजांश्.च.। (दर्श: होतृ)

1.5-32

एतौ.वार्त्रघ्नौ.पौर्णमास्याम्.। (दर्श: होतृ)

1.5-33

अनुवाक्या.लिङ्ग.विशेषान्.नाम.धेय.अन्यत्वम्.ततो.विचारः.। (दर्श: होतृ)

1.5-34

नित्ये.याज्ये.। (दर्श: होतृ)

1.5-35

वृधन्वन्ताव्.अमावास्यायाम्.।.अग्निः.प्रत्नेन.मन्मना.सोम.गीर्भिष्.ट्वा.वयम्.इति.।.आ.अतो.वाग्.यमनम्.। (दर्श: होतृ)

1.5-36

अन्तरा.च.याज्या.अनुवाक्ये.।.निगद.अनुवचन.अभिष्टवन.शस्त्र.जपानाम्.च.आरभ्या.समाप्तेः.। (दर्श: होतृ)

1.5-37

अन्यद्.यज्ञस्य.साधनात्.। (दर्श: होतृ)

1.5-38

आपद्य.अतो.देवा.अवन्तु.न.इति.जपेत्.। (दर्श: होतृ)

1.5-39

अपि.वा.अन्याम्.वैष्णवीम्.। (दर्श: होतृ)

1.6-1a

उक्ता.देवताः.।.तासाम्.याज्या.अनुवाक्याः.।.अग्निर्.मूर्धा.भुवो.यज्ञस्य.अयम्.अग्निः.सहस्रिण.इति.वेदम्.विष्णुर्.विचक्रमे.त्रिर्.देवः.पृथिवीम्.एष.एताम्.अग्नी.षोमा.सवेदसा.युवम्.एतानि.दिवि.रोचनानि.। (दर्श: होतृ)

1.6-1b

इन्द्र.अग्नी.अवसा.गतम्.गीर्भिर्.विप्रः.प्रमितिम्.इच्छमान.आ.इन्द्र.सानसिम्.रयिम्.प्र.ससाहिषे.पुरु.हूत.शत्रून्.महान्.इन्द्रो.यो.ओजसा.भुवस्.त्वम्.इन्द्र.ब्रह्मणा.महान्.इति.। (दर्श: होतृ)

1.6-1c

यद्य्.अग्नी.षोमीय.उपांशु.याजो.अग्नी.षोमा.यो.अद्य.वाम्.अन्यम्.दिवो.मातरिश्वा.जभार.इति.। (दर्श: होतृ)

1.6-2

अथ.स्विष्टकृतः.पिप्रीहि.देवान्.उशतो.यविष्ठ.इत्य्.अनुवाक्या.। (दर्श: होतृ)

1.6-3

ये.यजामहे.अग्निम्.स्विष्टकृतम्.अयाऌ.अग्निर्.इत्य्.उक्त्वा.षष्ठ्या.विभवत्या.देवताम्.आदिश्य.प्रिया.धामान्य्.अयाऌ.इत्य्.उपसंतनुयात्.। (दर्श: होतृ)

1.6-4

एवम्.उत्तरा.अयाऌ.अयाऌ.इति.त्व्.एव.तासाम्.पुरस्तात्.। (दर्श: होतृ)

1.6-5

आज्यप.अन्तम्.अनुक्रम्य.देवानाम्.आज्यपानाम्.प्रिया.धामानि.यक्षद्.अग्नेर्.होतुः.प्रिया.धामानि.यक्षत्.स्वम्.महिमानम्.आयजताम्.(?).एज्या.इषः.कृणोतु.सो.अध्वरा.जात.वेदा.जुषताम्.हविर्.अग्ने.यद्.अद्य.विशो.अध्वरस्य.होतर्.इत्य्.अनवानम्.यजति.। (दर्श: होतृ)

1.6-6

प्रकृत्या.वा.। (दर्श: होतृ)

1.7-1

प्रदेशिन्याः.पर्वणी.उत्तमे.अञ्जयित्वा.ओष्ठयोर्.अभ्यात्मम्.निमार्ष्टि.। (दर्श: होतृ)

1.7-2

वाचस्पतिना.ते.हुतस्य.इषे.प्राणाय.प्राश्नामि.इत्य्.उत्तरम्.उत्तरे.।.मनसस्.पतिना.ते.हुतस्य.ऊर्जे.अपानाय.प्राश्नामि.इत्य्.अधरम्.अधरे.। (दर्श: होतृ)

1.7-3

स्पृष्ट्वा.उदकम्.अञ्जलिना.इळाम्.प्रतिगृह्य.सव्ये.पाणौ.कृत्वा.पश्चाद्.अस्या.उदग्.अङ्गुलिम्.पाणिम्.उपधाय.अवान्तर.इळाम्.अवदापयीत.। (दर्श: होतृ)

1.7-4

अन्तरेण.अङ्गुष्ठम्.अङ्गुलीश्.च.स्वयम्.द्वितीयम्.आददीत.। (दर्श: होतृ)

1.7-5

प्रत्यालब्धाम्.अङ्गुष्ठेन.अभिसंगृह्य.प्रत्याहृत्य.। (दर्श: होतृ)

1.7-6

अङ्गुलीर्.अमुष्टिम्.कृत्वा.दक्षिणत.इळाम्.परिगृह्य.आस्य.सम्मिताम्.उपह्वयते.प्राण.सम्मिताम्.वा.। (दर्श: होतृ)

1.7-7a

इळा.उपहूता.सह.दिवा.बृहता.आदित्येन.उप.अस्मान्.इळा.ह्वयताम्.सह.दिवा.बृहता.आदित्येन.इळा.उपहूता.सह.अन्तरिक्षेण.वामदेव्येन.वायुना.उप.अस्मान्.इळा.ह्वयताम्.सह.अन्तरिक्षेण.वामदेव्येन.वायुना.इळा.उपहूता.। (दर्श: होतृ)

1.7-7b

सह.पृथिव्या.रथन्तरेण.अग्निना.उप.अस्मान्.इळा.ह्वयताम्.सह.पृथिव्या.रथन्तरेण.अग्निना.उपहूता.गावः.सह.आशिर.उप.माम्.गावः.सह.आशिराह्वयन्ताम्.। (दर्श: होतृ)

1.7-7c

उपहूता.धेनुः.सह.ऋषभा.उप.माम्.धेनुः.सह.ऋषभा.ह्वयताम्.उपहूता.गौर्.घृतपद्य्.उप.माम्.गौर्.घृत.पदी.ह्वयताम्.उपहूता.दिव्याः.सप्त.होतार.उप.माम्.दिव्याः.सप्त.होतारो.ह्वयन्ताम्.। (दर्श: होतृ)

1.7-7d

उपहूतः.सखा.भक्ष.उप.माम्.सखा.भक्षो.ह्वयताम्.उपहूता.इळा.वृष्टिर्.उप.माम्.इळा.वृष्टिर्.ह्वयताम्.इत्य्.उपांश्व्.अथ.उच्चैः.इळा.उपहूता.उपहूता.इळा.उप.अस्मान्.इळा.ह्वयताम्.इळा.उपहूता.। (दर्श: होतृ)

1.7-7e

मानवी.घृत.पदी.मैत्रा.वरुणी.ब्रह्म.देव.कृतम्.उपहूतम्.दैव्या.अध्वर्यव.उपहूता.उपहूता.मनुष्याः.। (दर्श: होतृ)

1.7-7f

य.इमम्.यज्ञम्.अव.अन्ये.च.यज्ञ.पतिम्.वर्धान्.उपहूते.द्यावा.पृथिवी.पूर्वजे.ऋतावरी.देवी.देव.पुत्रे.।.उपहूतो.अयम्.यजमान.उत्तरस्याम्.देव.यज्यायाम्.उपहूतो.भूयसि.हविष्.करणम्.इदम्.मे.देवा.हविर्.जुषन्ताम्.इति.तस्मिन्न्.उपहूत.इति.। (दर्श: होतृ)

1.7-8a

उपहूय.अवान्तरेळाम्.प्राश्नीयाद्.इळे.भागम्.जुषस्व.नः.पिन्वम्.गा.जिन्व.अर्वतो.रायस्.पोषस्य.ईशिषे.तस्य.नो.रास्व.तस्य.नो.दास्.तस्याअस्.ते.भागम्.अशीमहि.। (दर्श: होतृ)

1.7-8b

सर्व.आत्मनः.सर्व.तनवः.सर्व.वीराः.सर्व.पूरुषाः.सर्व.पुरुषा.इति.वा.। (दर्श: होतृ)

1.8-1

मार्जयित्वा.अनुयाजैश्.चरन्ति.। (दर्श: होतृ)

1.8-2

परिस्तरणैर्.अञ्जलिम्.अन्तर्धाय.अप.आसेचयते.तन्.मार्जनम्.। (दर्श: होतृ)

1.8-3

देव.आदयो.अनुयाजाः.। (दर्श: होतृ)

1.8-4

वीतवत्.पद.अन्ताः.। (दर्श: होतृ)

1.8-5

त्रयः.। (दर्श: होतृ)

1.8-6

एक.एकम्.प्रेषितो.यजति.। (दर्श: होतृ)

1.8-7

देवम्.बर्हिर्.वसुवने.वसु.धेयस्य.वेतु.।.देवो.नराशंसो.वसुवने.वसु.धेयस्य.वेतु.।.देवो.अग्निः.स्विष्टकृत्.सुद्रविणा.मन्द्रः.कविः.सत्य.मन्मा.आयजी.होता.होतुर्.होतुर्.आयजीयान्.अग्ने.यान्.देवान्.अयाड्यान्.अपिप्रेर्.प्रे.ते.होत्रे.अमत्सत.ताम्.ससनुषीम्.होत्राम्.देवम्.गमाम्.दिवि.देवेषु.यज्ञम्.एरय.इमम्.स्विष्टकृच्.च.अग्ने.होता.भूर्.वसुवने.वसु.धेयस्य.नमो.वाके.वीहि.इत्य्.अनवानम्.वा.। (दर्श: होतृ)

1.9-1a

सूक्त.वाकाय.सम्प्रेषित.इदम्.द्यावा.पृथिवी.भद्रम्.अभूद्.आर्ध्म.सूक्त.वाकम्.उत.नमो.वाकम्.ऋध्यास्म.सूक्त.चुयम्.अग्ने.त्वम्.सूक्त.वाग्.असि.। (दर्श: होतृ)

1.9-1b

उपश्रुती.दिवस्पृथिव्योर्.ओमन्वती.ते.ते.अस्मिन्.यज्ञे.यजमान.द्यावा.पृथिवी.स्ताम्.।.शङ्गयी.जीर.दानू.अत्रस्नू.अप्रवेदे.उरु.गव्यूती.अभयम्.कृतौ.। (दर्श: होतृ)

1.9-1c

वृष्टि.द्यावा.रीत्यापाशम्भुवौ.मयोभुवा.ऊर्जस्वती.पयस्वती.सूप.चरणा.च.स्वधि.चरणा.च.तयोर्.आविदि.इत्य्.अवसाय.प्रथमया.विभक्त्या.आदिश्य.देवताम्.इदम्.हविर्.अजषत.अवीवृधत.महो.ज्यायो.अकृत.इत्य्.उपसंतनुयात्.। (दर्श: होतृ)

1.9-2

एवम्.उत्तराः.। (दर्श: होतृ)

1.9-3

अक्राताम्.अक्रत.इति.यथा.अर्थम्.। (दर्श: होतृ)

1.9-4

उक्तम्.उपांशोः.। (दर्श: होतृ)

1.9-5a

आवापिक.अन्तम्.अनुद्रुत्य.देवा.आज्यपा.आज्यम्.अजुषन्त.अवीवृधन्त.महो.ज्यायो.अकृत.अग्निहोत्रेण.इदम्.हविर्.अजुषत.अवीवृधन्त.महो.ज्यायो.अकृत.। (दर्श: होतृ)

1.9-5b

अस्याम्.ऋधेद्द्.होत्रायाम्.देवम्.गमायाम्.आशास्ते.अयम्.यजमानो.असाव्.असाव्.इत्य्.अस्य.आदिश्य.नामनी.उपांशु.सम्निधौ.गुरोर्.आयुर्.आशस्ते.सुप्रजास्.त्वम्.आशास्ते.रायस्.पोषम्.आशास्ते.। (दर्श: होतृ)

1.9-5c

सजातवनस्याम्.आशास्त.उत्तराम्.देव.याज्याम्.आशास्ते.भूयो.हविष्.करणम्.आशास्ते.दिव्यम्.धाम.आशास्ते.विश्वम्.प्रियम्.आशास्ते.। (दर्श: होतृ)

1.9-5d

यद्.अनेन.हविषा.आशास्ते.तद्.अस्याम्.तद्.ऋध्यात्.तद्.अस्मै.देवा.रासन्ताम्.तद्.अग्निर्.देवो.देवेभ्यो.अवनते.वयम्.अग्नेर्.मानुषाः.। (दर्श: होतृ)

1.9-5e

इष्टम्.च.वित्तम्.च.उभे.च.नो.द्यावा.पृथिवी.अंहसस्यायाम्.(.अंहसः.पाताम्.).गतिर्.वाम्.अस्य.अस्य.इदम्.नमो.देवेभ्य.इति.। (दर्श: होतृ)

1.10-1

शम्यु.वाकाय.सम्प्रेषितस्.तत्.शम्योर्.आवृणीमह.इत्य्.आह.अनुवाक्यावद्.अप्रणवाम्.। (दर्श: होतृ)

1.10-2

वेदम्.अस्मै.प्रयच्छत्य्.अध्वर्युः.। (दर्श: होतृ)

1.10-3

तम्.गृह्णीयाद्.वेदो.असि.वेदो.विदेय.इति.। (दर्श: होतृ)

1.10-4

उद्.आयुष.इत्य्.एतेन.उपोत्थाय.पश्चाद्.गार्हपत्यस्य.उपविश्य.सोमम्.त्वष्टारम्.देवानाम्.पत्नीर्.अग्निम्.गृह.पतिम्.इत्य्.आज्येन.यजन्ति.। (दर्श: होतृ)

1.10-5

आप्यायस्व.समेतु.ते.सम्.त्.पयांसि.समुयन्तु.वाजा.इह.त्वष्टारम्.अग्रियम्.तन्.नस्.तुरीयम्.अधपोषयित्नु.देवानाम्.पत्नीर्.उशतीर्.अवन्तु.न.इति.द्वे.अग्निर्.होता.गृह.पतिः.स.राजा.हव्य.वाऌ.अग्निर्.अजरः.पिता.न.इति.पत्नी.सम्याजाः.। (दर्श: होतृ)

1.10-6

अथ.प्रजा.कामो.राकाम्.सिनीवालीम्.कुहूम्.इति.प्राग्.गृहपतेर्.यजेत.। (दर्श: होतृ)

1.10-7

राकाम्.अहम्.सिनीवलि.कुहूम्.अहम्.इति.द्वे.द्वे.याज्या.अनुवाक्ये.। (दर्श: होतृ)

1.10-8a

कुहूम्.अहम्.सुवृतम्.विद्मापसम्.अस्मिन्.यज्ञे.सुहवाम्.जोहवीमि.।.सा.नो.ददातु.श्रवणम्.पितॄणाम्.तस्य.एते.देवि.हविषा.विधेम.।.कुहूर्.देवानाम्.अमृतस्य.पत्नी.हव्या.नो.अस्य.हविषः.शृणोतु.। (दर्श: होतृ)

1.10-8b

संदाशुषे.किरतु.भूरि.वामम्.रायस्.पोषम्.यजमाने.दधात्व्.इति.आज्यम्.पाणि.तले.अवदापयीत.इळाम्.उपहूय.सर्वाम्.प्राश्नीयात्.। (दर्श: होतृ)

1.10-9

शम्यु.वाको.भवेन्.न.वा.। (दर्श: होतृ)

1.11-1a

वेदम्.पत्न्यै.प्रदाय.वाचयेद्द्.होता.अध्वर्युर्.वा.वेदो.असि.वित्तिर्.असि.विदेय.कर्मा.असि.करणम्.असि.क्रिया.संसनिर्.असि.सनिता.असि.सनेयम्.घृतवन्तम्.कुलायिनम्.रायस्.पोषम्.सहस्रिणम्.वेदो.ददातु.वाजिनम्.। (दर्श: होतृ)

1.11-1b

यम्.बहव.उपजीवन्ति.यो.जनानाम्.असद्.वशी.।.तम्.विदेय.प्रजाम्.विदेय.कामाय.त्वा.इति.। (दर्श: होतृ)

1.11-2

वेद.शिरसा.नाभि.देशम्.आलभेत.प्रजा.कामा.चेत्.। (दर्श: होतृ)

1.11-3

अथ.अस्याअ.योक्त्रम्.विचृतेत्.प्र.त्वा.मुञ्चामि.वरुणस्य.पाशाद्.इति.। (दर्श: होतृ)

1.11-4

तत्.प्रत्यग्.गार्हपत्याद्.द्वि.गुणम्.प्राक्.पाशम्.निधाय.उपरिष्टाद्.अस्य.उदग्.अग्राणि.वेद.तृणानि.करोति.। (दर्श: होतृ)

1.11-5

पुरस्तात्.पूर्ण.पात्रम्.संश्लिष्टम्.वेद.तृणैः.। (दर्श: होतृ)

1.11-6

अभिमृश्य.वाचयेत्.पूर्णम्.असि.पूर्णम्.मे.भूयाः.सुपूर्णम्.असि.सुपूर्णम्.मे.भूयाः.सद्.असि.सन्.मे.भूयाः.सर्वम्.असि.सर्वम्.मे.भूया.अक्षितिर्.असि.मा.मे.क्षेष्ठा.इति.। (दर्श: होतृ)

1.11-7a

अथ.एनाम्.पूर्ण.पात्रात्.पतिदिशम्.उदकम्.उदुक्षन्न्.उदुक्षन्तीम्.वाचयति.प्राच्याम्.दिशि.देवा.ऋत्विजो.मार्जयन्ताम्.दक्षिणस्याम्.दिशि.मासाः.पितरो.मार्जयन्तम.प्रतीच्याम्.दिशि.गृहाः.पशवो.मार्जयन्ताम्.।

1.11-7b

उदीच्याम्.दिश्य्.आप.ओषधयो.वनस्पतये.मार्जयन्ताम्.ऊर्ध्वाम्.दिशि.यज्ञः.संवत्सरः.प्रजापतिर्.मार्जयन्ताम्.मार्जयन्ताम्.इति.वा.। (दर्श: होतृ)

1.11-8

अथ.अस्या.उत्तानम्.अञ्जलिम्.अधस्ताद्.योक्त्रस्य.निधाय.आत्मनश्.च.सव्यम्.पूर्ण.पात्रम्.निनयन्.वाचयेन्.मा.अहम्.प्रजाम्.परासिचम्.या.नः.सयावरी.स्थन.।.समुद्रे.वो.निनयानि.स्वम्.पाथो.अपीथ.इति.। (दर्श: होतृ)

1.11-9

वेद.तृणान्य्.अग्रे.गृहीत्वा.अविधून्वन्त्.संततम्.स्तृणन्.सव्येन.गार्हपत्याद्.आहवनीयम्.एति.तन्तुम्.तन्वन्.रजसो.भानम्.अन्विहि.इति.। (दर्श: होतृ)

1.11-10

शेषम्.निधाय.प्रत्यग्.उदग्.आहवनीयाद्.अवस्थाय.स्थाल्याः.स्रुवेण.आदाय.सर्व.प्रायश्.चित्तानि.जुहुयात्.स्वाहा.कार.अन्तैर्.मन्त्रैर्.न.चेन्.मन्त्रे.पठितः.। (दर्श: होतृ)

1.11-11

यत्.किंच.अप्रेषितो.यजेद्.अन्यत्र.अपि.। (दर्श: होतृ)

1.11-12

एवम्.भूतो.अव्यक्त.होम.अभ्याधान.उपस्थानानि.च.। (दर्श: होतृ)

1.11-13a

अयाश्.च.अग्ने.अनभिशस्तीश्.च.सत्यम्.इत्.त्वम्.अया.असि.।.अयासा.वयसा.कृतो.अयासन्.हव्यम्.ऊहिषे.या.नो.धेहि.भेषजम्.स्वाहा.। (दर्श: होतृ)

1.11-13b

अतो.देवा.अवन्तु.न.इति.द्वाभ्याम्.व्याहृतिभिश्.च.भूः.स्वाहा.भवः.स्वाहा.स्वः.स्वाहा.भूर्.भुवः.स्वः.स्वाहा.इति.। (दर्श: होतृ)

1.11-14

हुत्वा.संस्था.जपेन.उपस्हाय.तीर्थे.निष्क्रम्य.अनियमः.। (दर्श: होतृ)

1.11-15

ओम्.च.मे.स्वरश्.च.मे.यज्ञ.उप.च.ते.नमश्.च.।.यत्.ते.न्यूनम्.तस्मै.त.उपयत्.ते.अतिरिक्तम्.तस्मै.ते.नम.इति.संस्था.जपः.। (दर्श: होतृ)

1.11-16

इति.होतुः.। (दर्श: होतृ)

1.12-1

अथ.ब्रह्मणः.। (ब्रह्मन्: गेनेरल्)

1.12-2

होत्रा.आचमन.यज्ञ.उपवीत.शौचानि.। (ब्रह्मन्: गेनेरल्)

1.12-3

नित्यः.सर्व.कर्मणाम्.दक्षिणतो.ध्रुवाणाम्.व्रजताम्.वा.। (ब्रह्मन्: गेनेरल्)

1.12-4

बर्हिर्.वेदि.याम्.दिशम्.व्रजेयुः.सा.एव.तत्र.प्राची.। (ब्रह्मन्: गेनेरल्)

1.12-5

चेष्टास्व्.अमन्त्रासु.स्थान.आसनयोर्.विकल्पः.। (ब्रह्मन्: गेनेरल्)

1.12-6

तिष्ठेद्द्.होमाश्.च.ये.अवषट्.काराः.। (ब्रह्मन्: गेनेरल्)

1.12-7

आसीत.अन्यत्र.। (ब्रह्मन्: गेनेरल्)

1.12-8

समस्त.पाण्य्.अङ्गुष्ठे.अग्रेण.आहवनीयम्.परीत्य.दक्षिणतः.कुशेषु.उपविशेत्.। (ब्रह्मन्: गेनेरल्)

1.12-9

बृहस्पतिर्.ब्रह्मा.ब्रह्म.सदन.आसिष्यते.बृहस्पते.यज्ञम्.गोपाय.इत्य्.उपविश्य.जपेत्.। (ब्रह्मन्: गेनेरल्)

1.12-10

एष.ब्रह्म.जपः.सर्व.यज्ञ.तन्त्रेषु.साग्नौ.यत्र.उपवेशनम्.। (ब्रह्मन्: गेनेरल्)

1.12-11

उपविष्टम्.अतिसर्जयते.। (ब्रह्मन्: गेनेरल्)

1.12-12

ब्रह्मन्न्.अपः.प्रणेष्यामि.इति.श्रुत्वा.भूर्.भुवः.स्वर्.बृहस्पति.प्रसूत.इति.जपित्वा.ओम्.प्रणय.इत्य्.अतिसृजेत्.सर्वत्र.। (ब्रह्मन्: गेनेरल्)

1.12-13

यथा.कर्म.त्व्.आदेशाः.। (ब्रह्मन्: गेनेरल्)

1.12-14

प्रणव.आद्य्.उच्चैः.। (ब्रह्मन्: गेनेरल्)

1.12-15

ऊर्ध्वम्.वा.प्रणवात्.। (ब्रह्मन्: गेनेरल्)

1.12-16

अत.ऊर्ध्वम्.वाग्.यत.आस्त.आ.हविष्कृत.उद्वादनात्.। (ब्रह्मन्: गेनेरल्)

1.12-17

आमर्जनात्.पशौ.। (ब्रह्मन्: गेनेरल्)

1.12-18

सोमे.घर्म.आदि.च.अतिप्रैष.आदि.च.आ.सुब्रह्मण्यायाः.। (ब्रह्मन्: गेनेरल्)

1.12-19

प्रातर्.अनुवाक.आद्य्.आ.अन्तर्यामात्.। (ब्रह्मन्: गेनेरल्)

1.12-20

हरिवतो.अनुसवनम्.आ.इळायाः.। (ब्रह्मन्: गेनेरल्)

1.12-21

स्तोत्रेष्व्.अतिसर्जन.आद्य्.आ.वषट्.कारात्.। (ब्रह्मन्: गेनेरल्)

1.12-22

आ.उदृचः.पवमानेषु.। (ब्रह्मन्: गेनेरल्)

1.12-23

यच्.च.किंच.मन्त्रवत्.। (ब्रह्मन्: गेनेरल्)

1.12-24

होत्रा.शेषः.। (ब्रह्मन्: गेनेरल्)

1.12-25

आपत्तिश्.च.। (ब्रह्मन्: गेनेरल्)

1.12-26

यत्र.त्व्.अग्निः.प्रणीयते.अपि.ससोमे.तद्.आदि.तत्र.वाग्.यमनम्.। (ब्रह्मन्: गेनेरल्)

1.12-27

दक्षिणतश्.च.व्रजन्.जपत्य्.आशुः.शिशान.इति.सूक्तम्.। (ब्रह्मन्: गेनेरल्)

1.12-28

समाप्य.उपवेशन.आद्य्.उक्तम्.। (ब्रह्मन्: गेनेरल्)

1.12-29

न.तु.सौमिके.प्रणयने.ब्रह्म.जपः.। (ब्रह्मन्: गेनेरल्)

1.12-30

अन्यत्र.विसृष्ट.वाग्.अबहु.भाषी.यज्ञ.मनाः.। (ब्रह्मन्: गेनेरल्)

1.12-31

विपर्यासे.अन्तरिते.मन्त्रे.कर्मणि.वा.आख्याते.वा.उपलक्ष्य.वा.जान्व्.आच्य.आहुतिम्.जुहुयात्.। (ब्रह्मन्: गेनेरल्)

1.12-32

ऋक्तश्.चेद्.भूर्.इति.गार्हपत्ये.।.यजुष्टो.भुव.इति.दक्षिणे.।.आग्नीध्रीये.सोमेषु.। (ब्रह्मन्: गेनेरल्)

1.12-33

सामतः.स्वर्.इत्य्.आहवनीये.सर्वतो.अविज्ञाते.वा.भूर्.भुवः.स्वर्.इत्य्.आहवनीय.एव.। (ब्रह्मन्: गेनेरल्)

1.12-34

प्राक्.प्राअजेभ्यो.अङ्गारम्.बहिष्.परिधि.निर्वृत्तम्.स्रुव.दण्डेन.अभिनिदध्यान्.मा.तपो.मा.यज्ञस्.तपन्.मा.यज्ञ.पतिस्.तपत्.।.नमस्.ते.अस्त्व्.आयते.नमो.रुद्र.परायते.।.नमो.यत्र.निषीदसि.इति.। (ब्रह्मन्: गेनेरल्)

1.12-35

अमुम्.मा.हिंसीर्.अमुम्.मा.हिंसीर्.इति.च.प्रतिदिशम्.अध्वर्यु.यजमानौ.पुरस्ताच्.चेत्.।.ब्रह्म.यजमानौ.दक्षिणतः.।.होतृ.पत्नी.यजमानान्.पश्चात्.।.आग्नीध्र.यजमाना.उत्तरतः.। (ब्रह्मन्: गेनेरल्)

1.12-36

अथ.एनम्.अनुप्रहरेद्.आ.अहम्.यज्ञम्.दधे.निरृतेर्.उपस्थात्.तम्.देवेषु.परिददामि.विद्वान्.।.सुप्रजास्.त्वम्.शतम्.हि.माम्.अदन्त.इह.नो.देवा.मयि.शर्म.यच्छत.इति.। (ब्रह्मन्: गेनेरल्)

1.12-37

तम्.अभिजुहुयात्.सहस्र.शृङ्गो.वृषभो.जात.वेदा.स्तोम.पृष्ठो.घृतवान्त्.सुप्रतीकः.।.मा.नो.हिंसीद्द्.हिंसितो.दधामि.न.त्वा.जहामि.गो.पोषम्.च.नो.वीर.पोषम्.च.यच्छ.स्वाहा.इति.। (ब्रह्मन्: गेनेरल्)

1.13-1a

प्राशित्रम्.आह्रियमाणम्.ईक्षते.मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति.।.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति.।.तद्.अञ्जलिना.प्रतिगृह्य.पृथिव्यास्.त्वा.नाभौ.सादयाम्य्.अदित्या.उपस्थ.इति.। (दर्श: ब्रह्मन्)

1.13-1b

कुशेषु.प्राग्.दण्डम्.निधाय.अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.अस्ंखादन्.प्राश्नीयात्.।.अग्नेष्.ट्वा.आस्येन.प्राश्नामि.बृहस्पतेर्.मुखेन.इति.। (दर्श: ब्रह्मन्)

1.13-1c

आचम्यान्.वा.आचामेत्.सत्येन.त्वा.अभिजिघर्मि.या.अप्स्व्.अन्तर्.देवतास्.ता.इदम्.शमयन्तु.चक्षुः.श्रोत्रम्.प्राणान्.मे.मा.हिंसीर्.इति.इन्द्रस्य.त्वा.जठरे.दधामि.इति.नाभिम्.आलभेत.।.प्रक्षाल्य.प्राशित्र.हरणम्.त्रिर्.अनेन.अभ्यात्मम्.अपो.निनयते.। (दर्श: ब्रह्मन्)

1.13-2

मार्जयित्वा.अस्मिन्.ब्रह्म.भागम्.निदध्यात्.। (दर्श: ब्रह्मन्)

1.13-3

पश्चात्.कुशेषु.यजमान.भागम्.। (दर्श: ब्रह्मन्)

1.13-4

अन्वाहार्यम्.अवेक्षेत.प्रजापतेर्.भागो.अस्य्.ऊर्जस्वान्.पयस्वान्.अक्षितिर्.असि.मा.मा.ईक्षेष्ठा.अस्मिंश्.च.लोके.अमुष्मिंश्.च.। (दर्श: ब्रह्मन्)

1.13-5

प्राण.अपानौ.मे.पाहि.कामाय.त्वा.इत्य्.अस्पृशन्न्.अवघ्राय.अङ्गुष्ठा.उपकनिष्ठिकाभ्याम्.शिष्टम्.गृहीत्वा.ब्रह्म.भागे.निदध्यात्.। (दर्श: ब्रह्मन्)

1.13-6

ब्रह्मन्.प्रस्थास्याम.इति.श्रुत्वा.बृहस्पतिर्.ब्रह्मा.ब्रह्म.सदन.आसिष्ट.बृहस्पते.यज्ञम्.अजूगुपः.स.यज्ञम्.पाहि.यज्ञपतिम्.पाहि.स.माम्.पाहि.। (दर्श: ब्रह्मन्)

1.13-7

भूर्.भुवः.स्वर्.बृहस्पति.प्रसूत.इति.जपित्वा.ओम्.प्रतिष्ठा.इति.समिधम्.अनुजानीयात्.।.संस्थिते.जघन.ऋत्विजाम्.सर्व.प्रायश्.चित्तानि.जुहुयात्.तम्.इतरे.अन्वालभेरन्.। (दर्श: ब्रह्मन्)

1.13-8

होतारम्.वा.। (दर्श: ब्रह्मन्)

1.13-9

एतयोर्.नित्य.होमः.। (दर्श: ब्रह्मन्)

1.13-10

सर्वे.संस्था.जपेन.उपतिष्ठन्त.उपतिष्ठन्ते.। (दर्श: ब्रह्मन्)

मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc