भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनश्रौतसूत्र · अध्याय 12

12.1-1

गवाम्.अयनेन.आदित्यानाम्.अयनम्.व्याख्यातम्.। (सत्त्र: आदित्यानाम्.अयन)

12.1-2

सर्वे.त्व्.अभिप्लवास्.त्रिवृत्.पञ्चदशाः.। (सत्त्र: आदित्यानाम्.अयन)

12.1-3

मासाश्.च.पृष्ठ्य.मध्यमा.नव.।.षष्ठ.सप्तम.उत्तमान्.वर्जयित्वा.। (सत्त्र: आदित्यानाम्.अयन)

12.1-4

बृहस्पति.सव.इन्द्र.स्तुतौ.च.अभिजिद्.विश्वजितोः.स्थाने.। (सत्त्र: आदित्यानाम्.अयन)

12.1-5

सप्तमस्य.च.मासस्य.उत्तमयोर्.अभिप्लवयोः.स्थाने.त्रिवृद्.द्व्यूळ्हो.दशरात्र.उद्भिद्.बलभिदौ.च.। (सत्त्र: आदित्यानाम्.अयन)

12.1-6

उत्तमस्य.च.मासस्य.आदौ.ये.अभिप्लवास्.त्रय.उद्धृत्य.तेषाम्.मध्यमम्.अथ.स्युः.पृष्ठ्य.मध्यमाः.। (सत्त्र: आदित्यानाम्.अयन)

12.1-7

समूळ्हो.दशरात्रः.। (सत्त्र: आदित्यानाम्.अयन)

12.2-1

आदित्यानाम्.अयनेन.अङ्गिरसाम्.अयनम्.व्याख्यातम्.। (सत्त्र: अङ्गिरसाम्.अयन)

12.2-2

त्रिवृतस्.त्व्.अभिप्लवाः.सव.। (सत्त्र: अङ्गिरसाम्.अयन)

12.2-3

पृष्ठ्य.आदयश्.च.आद्या.मासाः.पञ्च.पूर्वस्य.पक्षसः.। (सत्त्र: अङ्गिरसाम्.अयन)

12.2-4

चत्वारस्.तु.उत्तरस्य.पृष्ठ्य.अन्ता.अष्टम.आदयः.। (सत्त्र: अङ्गिरसाम्.अयन)

12.2-5

उत्तमस्य.च.मासस्य.आदौ.ये.षळहास्.त्रयः.पृष्ठ्य.अन्ता.एवम्.ते.अपि.स्युः.। (सत्त्र: अङ्गिरसाम्.अयन)

12.2-6

पूर्वौ.स्याताम्.अभिप्लवौ.। (सत्त्र: अङ्गिरसाम्.अयन)

12.3-1

दृति.वातवतोर्.अयनम्.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-2

प्रायणीयो.अतिरात्रः.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-3

त्रिवृता.मासम्.पञ्चदशेन.मासम्.सप्तदशेन.मासम्.एकविंशेन.मासम्.त्रिणवेन.मासम्.त्रयस्.त्रिंशेन.मासम्.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-4

व्रतम्.विषुवत्.स्थाने.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-5

एतैर्.एव.मासैः.प्रतिलोमैः.पक्ष.उत्तरम्.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-6

उदयनीयो.अतिरात्रः.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-7

एतेषाम्.एव.अह्नाम्.अतिरात्राव्.इति.। (सत्त्र: दृति.वातवतोर्.अयन)

12.3-8

अपरम्.अन्यत्र.अप्य्.आदिष्टैः.काल.पूरणेन.चेत्.संथा.नियमः.। (सत्त्र: दृति.वातवतोर्.अयन)

12.4-1

कुण्ड.पायिनाम्.अयनम्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-2

मासम्.दीक्षिता.भवन्ति.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-3

ते.मासि.सोमम्.क्रीणन्ति.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-4

तेषाम्.द्वादश.उपसदो.भवन्ति.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-5

सोमम्.उपनह्य.प्रवर्ग्य.पात्राण्य्.उत्साद्य.उपनह्य.वा.मासम्.अग्निहोत्रम्.जुह्वति.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-6

मासम्.दर्श.पूर्ण.मासाभ्याम्.यजन्ते.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-7

मासम्.वैश्वदेवेन.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-8

मासम्.वरुण.प्रघासैः.।.मासम्.साक.मेधैः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-9

मासम्.शुना.सीरीयेण.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-10

यद्.अहर्.मासः.पूर्यते.तद्.अहर्.इष्टिम्.समाप्य.अग्नि.प्रणयन.आदि.धर्म.उत्सादन.आदि.वा.औपवसथिकम्.कर्म.कृत्वा.श्वो.भूते.प्रसुनुयुः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-11

तद्.ध.एक.उपसद्भ्य.एव.अनन्तरम्.कुर्वन्ति.तथा.दृष्टत्वात्.सौत्यान्.मासान्.अग्निहोत्र.आदीन्.वदन्तः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-12

तद्.अनुपपन्नम्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-13

पश्व्.अर्थम्.ह्य्.अग्नि.प्रणयनम्.तस्य.च.श्वः.सुत्या.निमित्तम्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-14

अतिप्रणीत.चर्यायाम्.च.वैगुण्यम्.दर्श.पूर्ण.मासयोः.।.तथा.अग्निहोत्रस्य.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-15

सदो.हविर्.धानाय्.आग्नीध्रीय.अग्नी.षोम.प्रणयन.वसतीवरी.ग्रहणानि.पश्व्.अर्थानि.भवन्ति.सुत्या.अर्थान्य्.एके.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-16

तत्.कालश्.चैव.तद्.गुणाः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-17

सिद्ध.स्वभावानाम्.न.व्यवधानाद्.अन्यत्वम्.यथा.पृष्ठ्य.अभिप्लवयोः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-18

सगुणानाम्.ह्य्.एव.कर्मणाम्.उद्धार.उपजनो.वा.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-19

सुब्रह्मण्या.त्व्.अत्यन्तम्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-20

अनवधृत.इह.काल.संशयत्वात्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-21

उत्सर्गम्.एके.स्तुया.उपसद्.गुणत्वात्.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-22

क्रिया.त्व्.एव.प्रवृत्ते.ह्य्.अन्तम्.अगत्वा.अवस्थाने.दोषः.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-23

त्रिवृता.मासम्.।.पञ्चदशेन.मासम्.।.सप्तदशेन.मासम्.।.एकविंशेन.मासम्.।.त्रिणवेन.मासम्.।.अष्टादश.त्रयस्.त्रिंशानि.।.द्वादश.अहस्य.दश.अहानि.।.महा.व्रतम्.च.अतिरात्रश्.च.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.4-24

सर्वेण.यज्ञेन.यजन्ते.य.एतद्.उपयन्ति.। (सत्त्र: कुण्डपायिनाम्.अयन)

12.5-1

सर्पाणाम्.अयनम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-2

गो.आयुषी.ईदृशी.स्तोमे.। (सत्त्र: सर्पाणाम्.अयन)

12.5-3

अनुलोमे.षण्.मासान्.।.प्रतिलोमे.षट्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-4

ज्योतिर्.द्वादशी.स्तोमो.विषुवत्.स्थाने.। (सत्त्र: सर्पाणाम्.अयन)

12.5-5

प्रकाश.कामा.उपेयुः.। (सत्त्र: सर्पाणाम्.अयन)

12.5-6

त्रैवर्षिकम्.प्रजा.कामाः.। (सत्त्र: सर्पाणाम्.अयन)

12.5-7

गवाम्.अयनम्.प्रथमः.संवत्सरः.।.अथ.आदित्यानाम्.।.अथ.अङ्गिरसाम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-8

चत्वारि.तापश्.चितानि.। (सत्त्र: सर्पाणाम्.अयन)

12.5-9

क्षुल्लक.तापश्.चितम्.प्रथमम्.संवत्सरम्.सदीक्षा.उपसत्कम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-10

तस्य.चत्वारः.सौत्या.मासाः.गवाम्.अयनस्य.प्रथम.षष्ठ.सप्तम.उत्तमाः.। (सत्त्र: सर्पाणाम्.अयन)

12.5-11

त्रैवर्षिकम्.तापश्.चितम्.।.तस्य.सौत्यः.संवत्सरः.। (सत्त्र: सर्पाणाम्.अयन)

12.5-12

उक्तो.गवाम्.अयनेन.।.ज्योतिर्.गौर्.आयुर्.अभिजिद्.विश्वजिन्.महा.व्रतम्.चतुर्विंशानाम्.वा.एक.एकम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-13

द्वादश.वर्षिकम्.तापश्.चितम्.।.तस्य.चत्वारः.सौत्याः.संवत्सराः.।.गवाम्.अयन.शस्याः.पूर्वेण.एव.न्यायेन.। (सत्त्र: सर्पाणाम्.अयन)

12.5-14

षट्.त्रिंशद्.वर्षिकम्.महा.तापश्.चितम्.।.तस्य.द्वादश.सौत्याः.संवत्सराः.।.गवाम्.अयन.शंस्याः.पूर्वेण.एव.न्यायेन.।.अपि.वा.उत्तरस्य.पक्षसो.द्वाविंशतिः.सवन.मासा.भवेयुः.।.त्रयो.विंशतिः.पूर्वस्य.। (सत्त्र: सर्पाणाम्.अयन)

12.5-15

प्रजापतेर्.द्वादश.संवत्सरम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-17

एक.एकेन.नव.नव.वर्षाणि.। (सत्त्र: सर्पाणाम्.अयन)

12.5-18

एतैर्.एव.स्तोमैः.साध्यानाम्.शत.संवत्सरम्.।.एक.एकेन.पञ्चविंशतिः.पञ्चविंशतिर्.वर्षाणि.। (सत्त्र: सर्पाणाम्.अयन)

12.5-19

एतैर्.एव.स्तोमैर्.विश्वसृजाम्.सहस्र.संवत्सरम्.एक.एकेन.अर्ध.तृतीयान्य्.अर्ध.तृतीयानि.वर्ष.शतानि.। (सत्त्र: सर्पाणाम्.अयन)

12.5-20

अग्नेः.। (सत्त्र: सर्पाणाम्.अयन)

12.5-21

अग्निष्टोम.सहस्रम्.। (सत्त्र: सर्पाणाम्.अयन)

12.5-22

सहस्र.साव्यम्.इत्य्.एतद्.आचक्षते.। (सत्त्र: सर्पाणाम्.अयन)

12.6-1

अथ.सारस्वतानि.। (सत्त्र: सरस्वती.षत्त्र)

12.6-2

सरस्वत्याः.पश्चिम.उदक.अन्ते.दीक्षेरन्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-3

ते.तत्र.एव.दीक्षा.उपसदः.कृत्वा.प्रायणीयम्.च.सरस्वतीम्.दक्षिणेन.तीरेण.शम्या.प्रासे.शम्या.प्रासे.अहर्.अहर्.यजमाना.अनुव्रजेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-4

संहार्य.उलूखल.बुध्नो.यूपः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-5

चक्रीवन्ति.सदो.हविर्.धानानि.। (सत्त्र: सरस्वती.षत्त्र)

12.6-6

आग्नीध्रीयम्.पत्नी.शालम्.च.। (सत्त्र: सरस्वती.षत्त्र)

12.6-7

दक्षिण.पुरस्ताद्.आहवनीयस्य.अवस्थाय.ब्रह्मा.शम्याम्.प्रहरेत्.।.सा.यत्र.निपतेत्.तद्.गार्हपत्यस्य.आयतनम्.।.ततो.अधिविहारः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-8

विषमे.चेन्.निपतेद्.उद्धृत्य.समे.विहरेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-9

अप्सु.चेद्.वारुणम्.पुरोळाशम्.निर्वपेयुः.।.आपान्नपुत्रे.चरुम्.।.अपान्नपादा.ह्य्.अस्थाद्.उपस्थम्.समन्या.यन्त्य्.उपयन्त्य्.अन्या.इति.।.आ.अतः.समानम्.सर्वेषाम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-10

मित्रा.वरुणयोर्.अयनम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-11

कुण्ड.पायिनाम्.अयनस्य.आद्यान्.षण्.मासान्.आवर्तयन्तो.व्रजेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-12

मासि.मासि.च.गो.आयुषो.उपेयुः.।.आयुर्.अयुग्मेषु.।.गौर्.युग्मेषु.। (सत्त्र: सरस्वती.षत्त्र)

12.6-13

इति.नु.प्रथमः.कल्पः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-14

अथ.द्वितीयः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-15

यथा.अमावास्यायाम्.अतिरात्रः.स्यात्.तथा.दीक्षेरन्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-16

ते.अमावास्यायाम्.अतिरात्रम्.संस्थाप्य.तद्.अहर्.एव.अमावास्यस्य.साम्नाय्य.वत्सान्.अपाकुर्युः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-17

तम्.पक्षम्.आमावास्येन.व्रजित्वा.पौर्णमास्य.अङ्गाम्.उपेयुः.तम्.पूर्व.पक्षम्.आमावास्येन.व्रजित्वा.पौर्णमास्य.अङ्गाम्.उपेयुः.।.पौर्णमासेन.उत्तरम्.व्रजित्वा.अमावास्यायाम्.आयुषम्.उपेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-18

एवम्.आवर्तयन्तो.व्रजेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-19

इन्द्र.अग्न्योर्.अयनम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-20

गो.आयुषीभ्याम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-21

अर्यम्णोर्.अयनम्.त्रिकद्रुकैः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-22

सरस्वती.परिसर्पणस्य.शस्युम्.उक्तम्.गवाम्.अयनेन.। (सत्त्र: सरस्वती.षत्त्र)

12.6-23

एक.पातीनि.त्व्.अहान्य्.अतिरात्राः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-24

पृष्ठ्य.अहश्.चतुर्थम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-25

इति.नु.गतयः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-26

अथ.उत्थानानि.। (सत्त्र: सरस्वती.षत्त्र)

12.6-27

प्लाक्षम्.प्रस्रवणम्.प्राप्य.उत्थानम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-28

ते.यमुनायाम्.कार.पचवे.अवभृथम्.अभ्युपेयुः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-29

उदेत्य.आग्नेये.कामाय.इष्टिर्.वैराज.तन्त्रा.। (सत्त्र: सरस्वती.षत्त्र)

12.6-30

तस्याम्.अश्वीम्.च.पुरुषीम्.च.धेनुके.दद्युः.। (सत्त्र: सरस्वती.षत्त्र)

12.6-31

एतद्.वा.उत्थानम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-32

ऋषभ.एक.शतानाम्.वा.गवाम्.सहस्र.भावे.। (सत्त्र: सरस्वती.षत्त्र)

12.6-33

सर्वस्व.ज्यान्याम्.। (सत्त्र: सरस्वती.षत्त्र)

12.6-34

गृहपति.मरणे.वा.।.ज्यान्याम्.तु.उत्तिष्ठन्तो.विश्वजिता.अतिरात्रेण.उत्तिष्ठेयुः.।.गृहपति.मरण.आयुषा.।.गवा.गवाम्.सहस्र.भावे.। (सत्त्र: सरस्वती.षत्त्र)

12.6-35

इति.शस्यम्.। (सत्त्र: सरस्वती.षत्त्र)

12.7-1

अथ.सवनीयाः.। (सत्त्र: रोले ओf पशु)

12.7-2

क्रतु.पशवो.वा.अत्यन्तम्.। (सत्त्र: रोले ओf पशु)

12.7-3

आग्नेयो.वा.ऐन्द्राग्नो.वा.। (सत्त्र: रोले ओf पशु)

12.7-4

आग्नेयम्.वा.रथन्तर.पृष्ठेषु.। (सत्त्र: रोले ओf पशु)

12.7-5

ऐन्द्रम्.बृहत्.पृष्ठेषु.। (सत्त्र: रोले ओf पशु)

12.7-6

ऐकादशिनान्.वा.। (सत्त्र: रोले ओf पशु)

12.7-7

प्रायणीय.उदयनीययोर्.अतिरात्रयोः.समस्तान्.आलभेरन्.।.ऐन्द्राग्नम्.अन्तर्धौ.वा.। (सत्त्र: रोले ओf पशु)

12.7-8

अन्वहम्.वा.एक.एकश.ऐकादशिनान्.। (सत्त्र: रोले ओf पशु)

12.7-9

न.त्व्.एव.ऐकादशिनीम्.न्यूनाम्.आभेरन्.। (सत्त्र: रोले ओf पशु)

12.7-10

एतेन.चेत्.पश्व्.अयनेन.ईयुस्.तृतीये.अहनि.दशरात्रस्य.द्वात्रिंशतम्.ऐकादशिन्यः.संतिष्ठन्ते.अत.एतस्मिन्.नवरात्रे.अतिरिक्त.पशून्.आलभेरन्.। (सत्त्र: रोले ओf पशु)

12.7-11

वैष्णवम्.वामनम्.एकविंशे.। (सत्त्र: रोले ओf पशु)

12.7-12

ऐन्द्राग्नम्.।.त्रिणवे.।.वैश्वदेवम्.त्रयस्त्रिंशे.।.द्यावा.पृथिवीयम्.धेनुम्.चतुर्विंशे.।.तस्या.एव.वत्सम्.वायव्यम्.चतुश्.चत्वारिंशे.।.आदित्यानाम्.वशाम्.अष्टा.चत्वारिंशे.।.मैत्रा.वरुणीम्.अविवाक्ये.। (सत्त्र: रोले ओf पशु)

12.7-13

वैश्व.कर्मणम्.ऋषभम्.महा.व्रते.।.आग्नेयम्.उदयनीये.अतिरात्रे.। (सत्त्र: रोले ओf पशु)

12.7-14

अपि.वा.ऐकादशिनीम्.एव.त्रयस्.त्रिंशी.पूरयेयुः.।.अभिजिद्.विश्वजिद्.विषुवन्ति.द्वि.पशूनि.स्युः.। (सत्त्र: रोले ओf पशु)

12.8-1

अथ.सत्रि.धर्माः.। (सत्त्र: सत्त्रिन्स्)

12.8-2

दीक्षण.आदि.पित्र्याणाम्.दैवानाम्.च.धर्माणाम्.प्राकृतानाम्.निवृत्तिः.। (सत्त्र: सत्त्रिन्स्)

12.8-3

सर्वशश्.च.वर्जयेयुर्.ग्राम.चर्याम्.। (सत्त्र: सत्त्रिन्स्)

12.8-4

सरणम्.। (सत्त्र: सत्त्रिन्स्)

12.8-5

विवृत.स्मयनम्.। (सत्त्र: सत्त्रिन्स्)

12.8-6

स्त्र्य्.अभिहासम्.। (सत्त्र: सत्त्रिन्स्)

12.8-7

अनार्या.अभिभाषणम्.। (सत्त्र: सत्त्रिन्स्)

12.8-8

अनृतम्.क्रोधम्.अपाम्.प्रगाहणम्.। (सत्त्र: सत्त्रिन्स्)

12.8-9

अभिवर्षणम्.। (सत्त्र: सत्त्रिन्स्)

12.8-10

आरोहणम्.च.वृक्षस्य.नावो.वा.। (सत्त्र: सत्त्रिन्स्)

12.8-11

रथस्य.वा.। (सत्त्र: सत्त्रिन्स्)

12.8-12

दीक्षित.अभिवादनम्.। (सत्त्र: सत्त्रिन्स्)

12.8-13

दीक्षितस्.त्व्.औपसदम्.। (सत्त्र: सत्त्रिन्स्)

12.8-14

उभौ.सुन्वन्तम्.। (सत्त्र: सत्त्रिन्स्)

12.8-15

सम.सिद्धान्ताः.पूर्व.आरम्भिणम्.। (सत्त्र: सत्त्रिन्स्)

12.8-16

अभितप्ततरम्.वा.। (सत्त्र: सत्त्रिन्स्)

12.8-17

सर्व.साम्ये.यथा.वयः.। (सत्त्र: सत्त्रिन्स्)

12.8-18

नृत्य.गीत.वादितानि.। (सत्त्र: सत्त्रिन्स्)

12.8-19

अन्यांश्.च.अव्रत्य.उपचारान्.। (सत्त्र: सत्त्रिन्स्)

12.8-20

न.च.एनान्.बहिर्.वेदि.सदो.अभ्याश्रावयेयुः.। (सत्त्र: सत्त्रिन्स्)

12.8-21

न.उदक्यान्.। (सत्त्र: सत्त्रिन्स्)

12.8-22

नो.एव.अभ्युदियान्.न.अभ्यस्तम्.इयात्.। (सत्त्र: सत्त्रिन्स्)

12.8-23

तेषाम्.चेत्.किंचिद्.आपदा.उपनमेत्.त्वम्.अग्ने.व्रतपा.असि.इति.जपेत्.। (सत्त्र: सत्त्रिन्स्)

12.8-24

आख्याय.वा.इतरेषु.उपहवंल्.लीप्सेत.। (सत्त्र: सत्त्रिन्स्)

12.8-25

अवकीर्णिनम्.तैर्.एव.दीक्षित.द्रव्यैर्.अपर्युप्य.पुनर्.दीक्षयेयुः.। (सत्त्र: सत्त्रिन्स्)

12.8-26

आग्रयण.काले.नवानाम्.सवनीयान्.निर्वपेयुः.। (सत्त्र: सत्त्रिन्स्)

12.8-27

दीक्षा.उपसत्सु.व्रतदुघ.आदयेयुः.। (सत्त्र: सत्त्रिन्स्)

12.8-28

तेषाम्.व्रत्यानि.। (सत्त्र: सत्त्रिन्स्)

12.8-29

पयो.दीक्षासु.। (सत्त्र: सत्त्रिन्स्)

12.8-30

व्यतिनीय.कालम्.उपसदाम्.चतुर्थम्.एकस्या.दुग्धेन.। (सत्त्र: सत्त्रिन्स्)

12.8-31

तावद्.एव.त्रिभिस्.तनैः.।.तावद्.द्वाभ्याम्.।.एकेन.तावद्.एव.। (सत्त्र: सत्त्रिन्स्)

12.8-32

सुत्यासु.हविर्.उच्छिष्ट.भक्षा.एव.स्युः.। (सत्त्र: सत्त्रिन्स्)

12.8-33

धानाः.करम्भः.परिवापः.पुरोळाशः.परस्य.इति.एषाम्.यद्यत्.कामयीरंस्.तत्.तद्.उपविगुल्फयेयुः.। (सत्त्र: सत्त्रिन्स्)

12.8-34

आशिर्.अदुघो.दध्य्.अर्थम्.। (सत्त्र: सत्त्रिन्स्)

12.8-35

सौम्यम्.वा.विगुल्फम्.निवपेयुर्.इति.शौनको.यावत्.शरावम्.मन्येरन्.। (सत्त्र: सत्त्रिन्स्)

12.8-36

वैश्वदेवम्.एके.। (सत्त्र: सत्त्रिन्स्)

12.8-37

बार्हस्पत्यम्.एके.। (सत्त्र: सत्त्रिन्स्)

12.8-38

सर्वान्.वा.अनुसवनम्.। (सत्त्र: सत्त्रिन्स्)

12.8-39

अपि.वा.अन्यत्र.सिद्धम्.गार्हपत्ये.पुनर्.अधिश्रित्य.उपव्रतयेरन्.। (सत्त्र: सत्त्रिन्स्)

12.8-40

अन्यान्.वा.पथ्यान्.भक्षान्.आ.मूल.फलेभ्यः.। (सत्त्र: सत्त्रिन्स्)

12.8-41

एतेन.वर्तयेयुः.पशुना.च.। (सत्त्र: सत्त्रिन्स्)

12.9-1

तस्य.विभागम्.वक्ष्यामः.। (सत्त्र: पशु.विभाग)

12.9-2

हनू.सजिह्वे.प्रस्तोतुः.। (सत्त्र: पशु.विभाग)

12.9-3

श्येनम्.वक्ष.उद्गातुः.। (सत्त्र: पशु.विभाग)

12.9-4

कण्ठः.ककुद्रः.प्रतिहर्तुः.। (सत्त्र: पशु.विभाग)

12.9-5

दक्षिणा.श्रोणिर्.होतुः.।.सव्या.ब्रह्मणः.।.दक्षिणम्.सक्थि.मैत्रावरुणस्य.।.सव्यम्.ब्राह्मणाच्छंसिनः.।.दक्षिणम्.पार्श्वम्.सांसम्.अध्वर्योः.। (सत्त्र: पशु.विभाग)

12.9-6

सव्यम्.उपगन्तॄणाम्.।.सव्य.अंसः.प्रतिप्रस्थातुः.।.दक्षिणम्.दोर्.नेष्टुः.।.सव्यम्.पोतुः.। (सत्त्र: पशु.विभाग)

12.9-7

दक्षिण.ऊरुर्.अच्छावाकस्य.।.सव्य.आग्नीध्रस्य.।.दक्षिणो.बाहुर्.आत्रेयस्य.।.सव्यः.सदस्यस्य.।.सदम्.च.अनूकम्.च.गृहपतेः.। (सत्त्र: पशु.विभाग)

12.9-8

दक्षिणौ.पादौ.गृहपतेर्.व्रत.प्रदस्य.। (सत्त्र: पशु.विभाग)

12.9-9

सव्यौ.पादौ.गृहपतेर्.भार्यायै.व्रत.प्रदस्य.।.ओष्ठ.एनयोः.साधारणो.भवति.तम्.गृहपतिर्.एव.प्रशिंष्यात्.। (सत्त्र: पशु.विभाग)

12.9-10

जाघनीम्.पत्नीभ्यो.हरन्ति.।.ताम्.ब्राह्मणाय.दद्युः.। (सत्त्र: पशु.विभाग)

12.9-11

स्कन्ध्याश्.च.मणिकास्.तिस्रश्.च.किकसा.ग्रावस्तुतः.। (सत्त्र: पशु.विभाग)

12.9-12

तिस्रश्.चैव.कीकसा.अर्धम्.च.वैकर्तस्य.उन्नेतुः.।.द्वयोस्.तक्तयोः.सूत्रयोस्.त्रीण्.त्रीणि.।.अर्धम्.चैव.वैकर्तस्य.क्लोमा.च.शमितुस्.तद्.ब्राह्मणाय.दद्यात्.। (सत्त्र: पशु.विभाग)

12.9-13

यद्य्.अब्राह्मणः.स्यात्.। (सत्त्र: पशु.विभाग)

12.9-14

शिरः.सुब्रह्मण्यायै.।.यः.श्वः.सुत्याम्.प्राह.तस्य.अजिनम्.।.इळा.सर्वेषाम्.।.होतुर्.वा.।.ता.वा.एताः.षट्.त्रिंशतम्.एक.पदा.यज्ञम्.वहन्ति.। (सत्त्र: पशु.विभाग)

12.9-16

बार्हताः.स्वर्ग.लोकास्.तत्.प्राणेषु.चैव.तत्.स्वर्गेषु.च.लोकेषु.प्रतितिष्ठन्तो.यन्ति.। (सत्त्र: पशु.विभाग)

12.9-17

स.एषः.स्वर्ग्यः.पशुर्.य.एनम्.एवम्.विभजन्त्य्.अथ.ये.ते.अन्यथा.तद्.यथा.सेलगावा.पाप.कृतो.वा.पशुम्.विमथ्नीरंस्.तादृक्.तत्.। (सत्त्र: पशु.विभाग)

12.9-18

ताम्.वा.एताम्.पशोर्.विभक्तिम्.श्रौत.ऋषिर्.देव.भागो.विदाम्.चकार.ताम्.उ.ह.अप्रोच्य.एव.अस्माल्.लोकाद्.उच्चक्राम.ताम्.उ.ह.गिरिजाय.बाभ्रव्याया.मनुष्यः.प्रोवाच.ततो.ह.एनाम्.एतद्.अर्वान्.मनुष्या.अधीयते.। (सत्त्र: पशु.विभाग)

12.10-1

सर्व.समान.गोत्राः.स्युर्.इति.गाणगारिः.कथम्.ह्य्.आप्री.सूक्तानि.भवेयुः.कथम्.प्रयाजा.इति.। (प्रवर: भृगुस्)

12.10-2

अपि.नाना.गोत्राः.स्युर्.इति.शौनकस्.तन्त्राणाम्.व्यापित्वात्.। (प्रवर: भृगुस्)

12.10-3

गृहपति.गोत्र.अन्वया.विशेषाः.। (प्रवर: भृगुस्)

12.10-4

तस्य.राद्धिम्.अनु.राद्धिः.सर्वेषाम्.। (प्रवर: भृगुस्)

12.10-5

प्रवरास्.त्व्.आवर्तेरन्न्.आवाप.धर्मित्वात्.। (प्रवर: भृगुस्)

12.10-6

जामदग्ना.वत्सास्.तेषाम्.पच.आर्षेयो.भार्गव.च्यावन.आप्नवान.और्व.जामदग्न.इति.। (प्रवर: भृगुस्)

12.10-7

अथ.ह.अजामदग्नानाम्.भार्गव.च्यावन.आप्नवान.इति.। (प्रवर: भृगुस्)

12.10-8

आर्ष्टिषेणानाम्.भार्गव.च्यावन.आप्नवान.आर्ष्टिषेण.अनूप.इति.। (प्रवर: भृगुस्)

12.10-9

बिदानाम्.भार्गव.च्यावन.आप्नवान.और्व.बैद.इति.। (प्रवर: भृगुस्)

12.10-10

यस्क.वाधौल.मौन.मौक.शार्कराक्षि.सार्ष्टि.सावर्णि.शालङ्कायन.जैमिनि.दैवन्त्यायनानाम्.भार्गव.वैतहव्य.सावेतस.इति.। (प्रवर: भृगुस्)

12.10-11

श्यैतानाम्.भार्गव.वैन्य.पार्थ.इति.। (प्रवर: भृगुस्)

12.10-12

मित्रयुवाम्.वाध्र्यश्व.इति.त्रि.प्रवरम्.वा.भार्गव.दैवोदास.वाध्र्यश्व.इति.। (प्रवर: भृगुस्)

12.10-13

शुनकानाम्.गृत्समद.इति.त्रि.प्रवरम्.वा.भार्गव.शौनहोत्र.गार्त्समद.इति.। (प्रवर: भृगुस्)

12.11-1a

गोतमानाम्.आङ्गिरस.आयास्य.गौतम.इति.।.उचथ्यानाम्.आङ्गिरस.औचथ्य.गौतम.इति.।.रहूगणानाम्.आङ्गिरस.राहूगण्य.गौतम.इति.। (प्रवर: अङ्गिरसेस्)

12.11-1b

सोम.राजकीनाम्.आङ्गिरस.सौम.राज्य.गौतम.इति.।.वामदेवानाम्.आङ्गिरस.वामदेव्य.गौतम.इति.।.बृहदुक्थानाम्.आङ्गिरस.बार्हदुक्थ.गौतम.इति.।.पृषदश्वानाम्.आङ्गिरस.पार्षदश्व.वैरूप.इति.। (प्रवर: अङ्गिरसेस्)

12.11-1c

अष्टादंष्ट्रम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.अष्टादंष्ट्र.पार्षदश्व.वैरूप.इति.। (प्रवर: अङ्गिरसेस्)

12.11-2

ऋक्षाणाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.बान्दन.मातवचस.इति.। (प्रवर: अङ्गिरसेस्)

12.11-3

कक्षीवताम्.आङ्गिरस.औचथ्य.गौतम.औशिज.काक्षीवत.इति.। (प्रवर: अङ्गिरसेस्)

12.11-4

दीर्घतमसाम्.आङ्गिरस.औचथ्य.दौर्घतमस.इति.। (प्रवर: अङ्गिरसेस्)

12.11-5

भरद्वाज.आग्निवेश्यानाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.इति.। (प्रवर: अङ्गिरसेस्)

12.12-1

मुद्गलानाम्.आङ्गिरस.भार्म्यश्व.मौद्गल्य.इति.।.तार्क्ष्यम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.तार्क्ष्य.भार्म्यश्व.मौद्गल्य.इति.। (प्रवर: अङ्गिरसेस्)

12.12-2

विष्णु.वृद्धानाम्.आङ्गिरस.पौरुकुत्स्य.त्रासदस्यव.इति.।.गर्गाणाम्.आङ्गिरस.बार्हस्पत्य.भारद्वाज.गार्ग्य.शैन्य.इति.।.आङ्गिरस.शैन्य.गार्ग्य.इति.वा.। (प्रवर: अङ्गिरसेस्)

12.12-3

हरित.कुत्सपिङ्ग.शङ्ख.दर्भ.भैमगवानाम्.आङ्गिरस.आम्बरीष.यौवनाश्व.इति.। (प्रवर: अङ्गिरसेस्)

12.12-4

मन्धातारम्.ह.एके.ब्रुवते.अतीत्य.आङ्गिरसम्.मान्धातृ.आम्बरीष.यौवनाश्व.। (प्रवर: अङ्गिरसेस्)

12.12-5

संकृति.पूतिमाष.तण्डि.शम्बु.शैवगवानाम्.आङ्गिर.गौरिवीत.सांकृत्य.इति.। (प्रवर: अङ्गिरसेस्)

12.12-6

शाक्त्यो.वा.मूलम्.शाक्त्य.गौरिवीत.सांकृत्य.इति.। (प्रवर: अङ्गिरसेस्)

12.13-1

कण्वानाम्.आङ्गिरस.आजमीळ्ह.काण्व.इति.घोरम्.उ.ह.एके.ब्रुवते.अवकृष्य.आजमीळ्हम्.आङ्गिरस.घौर.काण्व.इति.। (प्रवर: अङ्गिरसेस्)

12.13-2

कपीनाम्.आङ्गिरस.आमहीयव.उरुक्षयसे.अथ.य.एते.द्वि.प्रवाचना.यथा.एतत्.शौङ्ग.शैशिरयः.।.भरद्वाजाह.शुङ्गाः.कताः.शैशिरयः.। (प्रवर: अङ्गिरसेस्)

12.13-3

तेषाम्.उभयतः.प्रवृणीत.एकम्.इतरतो.द्वाव्.इतरतः.। (प्रवर: अङ्गिरसेस्)

12.13-4

द्वौ.वा.इतरतस्.त्रीन्.इतरतः.। (प्रवर: अङ्गिरसेस्)

12.13-5

न.हि.चतुर्णाम्.प्रवरो.अस्ति.न.पञ्चानाम्.अतिप्रवरणम्.। (प्रवर: अङ्गिरसेस्)

12.13-6

आङ्गिरस.बार्हस्पत्य.भारद्वाज.कात्य.आत्कील.इति.। (प्रवर: अङ्गिरसेस्)

12.14-1

अत्रीणाम्.आत्रेय.अर्चनानस.श्यावाश्व.इति.गविष्ठिराणाम्.आत्रेय.गाविष्ठिर.पौर्वातिथ.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-2

चिकित.गालव.काल.बव.मनु.तन्तु.कुशिकानाम्.वैश्वामित्र.देवरात.औदल.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-3

श्रौमत.कामकायनानाम्.वैश्वामित्र.दैव.श्रवस.दैव.तरस.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-4

धनञ्जयानाम्.वैश्वामित्र.माधुच्छन्दस.धानञ्जय.इति.।.अजानाम्.वैश्वमित्र.माधुच्छन्दस.आज्य.इति.।.रौहिणानाम्.वैश्वामित्र.माधुच्छन्दस.अष्टक.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-5

पूरण.वारिधापयन्तानाम्.वैश्वामित्र.देवरात.पौरण.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-6

कतानाम्.वैश्वामित्र.कात्य.आत्कील.इति.।.अघमर्षणानाम्.वैश्वामित्र.आघमर्षण.कौशिक.इति.।.रेणूनाम्.वैश्वामित्र.गाथिन.रैणव.इति.।.वेणूनाम्.वैश्वामित्र.गाथिन.वैणव.इति.।.शालङ्कायन.शालाक्ष.लोहित.अक्ष.लोहित.जह्नूनाम्.वैश्वामित्र.शालङ्कायन.कौशिक.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-7

कश्यपानाम्.काश्यप.आवत्सार.असित.इति.।.निध्रुवाणाम्.काश्यप.आवत्सार.नैध्रुव.इति.।.रेभाणाम्.काश्यप.आवत्सार.रैभ्य.इति.।.शाण्डिलानाम्.शाण्डिल.असित.दैवल.इति.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.14-8

काश्यप.असित.दैवल.इति.वा.। (प्रवर: अत्रिस्:विश्वामित्रस्:कश्यपस्)

12.15-1

वासिष्ठ.इति.वसिष्ठानाम्.ये.अन्य.उपमन्यु.पराशर.कुण्डिनेभ्यः.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-2

उपमन्यूनाम्.वासिष्ठ.आभरद्वस्व्.इन्द्र.प्रमद.इति.।.पराशराणाम्.वासिष्ठ.शाक्त्य.पाराशर्य.इति.।.कुण्डिनानाम्.वासिष्ठ.मैत्रा.वरुण.कौण्डिन्य.इति.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-3

अगस्तीनाम्.आगस्त्य.दार्ढच्युत.इध्मवाह.इति.।.सोम.वाहो.वा.उत्तम.आगस्त्य.दार्ढाच्युत.सोम.वाह.इति.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-4

पुरोहित.प्रवरो.राज्ञाम्.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-5

अथ.यदि.सार्ष्टम्.प्रवृणीरन्.मानव.ऐल.पौरूरवस.इति.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-6

इति.सत्राणि.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-7

तान्य्.अदक्षिणानि.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-8

तेषाम्.अन्ते.ज्योतिष्टोमः.पृष्ठ्य.शमनीयः.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-9

सहस्र.दक्षिणः.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-10

अन्यो.वा.प्रज्ञात.दक्षिणः.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-11

दक्षिणावता.पृष्ठ्या.शमयेरन्न्.इति.विज्ञायते.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-12

स.एव.हेतुः.प्रकृति.भावे.प्रकृति.भावे.।.नमो.ब्रह्मणे.नमो.ब्रह्मणे.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-13

नम.आचार्येभ्यो.नम.आचार्येभ्यः.। (प्रवर: वसिष्ठस्:अगस्तिस्)

12.15-14

नमः.शौनकाय.नमः.शौनकाय.। (प्रवर: वसिष्ठस्:अगस्तिस्)

मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc