आश्वलायनश्रौतसूत्र · अध्याय 11
अथ.एतेषाम्.अह्नाम्.योग.विशेषान्.वक्ष्यामो.यथा.युक्तानि.यस्मै.यस्मै.कामाय.भवन्ति.। (सत्त्र: द्वादश अस् थे मोदेल्)
अयम्.एव.एकाहो.अतिरात्र.आदौ.प्रायणीयः.। (सत्त्र: द्वादश अस् थे मोदेल्)
एषो.अन्त्य.उदयनीयः.। (सत्त्र: द्वादश अस् थे मोदेल्)
अव्यक्तो.मध्ये.। (सत्त्र: द्वादश अस् थे मोदेल्)
अहीनेषु.वैश्वानर.एष.एव.। (सत्त्र: द्वादश अस् थे मोदेल्)
ताव्.अन्तरेण.व्यूळ्हो.दशरात्रः.। (सत्त्र: द्वादश अस् थे मोदेल्)
एषा.प्रकृतिः.सत्राणाम्.। (सत्त्र: द्वादश अस् थे मोदेल्)
तत्र.आवाप.स्थानम्.। (सत्त्र: द्वादश अस् थे मोदेल्)
ऊर्ध्वम्.दशरात्राद्.एकाह.अर्थे.महा.व्रतम्.। (सत्त्र: द्वादश अस् थे मोदेल्)
प्राग्.दशरात्राद्.इतरेषाम्.अह्नाम्.। (सत्त्र: द्वादश अस् थे मोदेल्)
द्व्यह.अर्थे.गो.आयुषो.।.त्र्यह.अर्थे.त्रिकद्रुकाः.।.अभिप्लव.त्र्यहम्.पूर्वम्.त्रिकद्रुका.इत्य्.आचक्षते.।.चतुरह.अर्थे.त्रिकद्रुका.महा.व्रतम्.च.। (सत्त्र: द्वादश अस् थे मोदेल्)
पञ्चाह.अर्थे.अभिप्लव.पञ्चाहः.।.उत्तमस्य.तु.षष्ठात्.तृतीय.सवनम्.। (सत्त्र: द्वादश अस् थे मोदेल्)
षळह.अर्थे.अभिप्लवः.षळहः.।.एवम्.न्याया.आवापाः.। (सत्त्र: द्वादश अस् थे मोदेल्)
षळह.अन्ताः.पुनः.पुनः.। (सत्त्र: द्वादश अस् थे मोदेल्)
पूर्णः.पूर्णश्.च.षळहस्.तन्त्रताम्.एव.गच्छति.। (सत्त्र: द्वादश अस् थे मोदेल्)
द्वौ.त्रयोदश.रात्रौ.। (सत्त्र: 13-20 दय्स्)
ऋद्धि.कामानाम्.प्रथमम्.।.पृष्ठ्यम्.छन्दोमाश्.च.अन्तरा.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र: 13-20 दय्स्)
न्याय.क्लृप्तम्.व्रतवन्तम्.प्रतिष्ठा.कामा.द्वितीयम्.। (सत्त्र: 13-20 दय्स्)
द्वौ.पृष्ठ्याव्.आवृत्त.उत्तरः.। (सत्त्र: 13-20 दय्स्)
तल्पे.वा.उदके.वा.विवाहे.वा.मीमांस्यमाना.द्वितीयम्.। (सत्त्र: 13-20 दय्स्)
पृट्ष्ह्यम्.अभितस्.त्रिकद्रुकाः.। (सत्त्र: 13-20 दय्स्)
न्याय.क्लृप्तम्.द्व्यह.उपजनम्.प्रतिष्ठा.कामास्.तृतीयम्.। (सत्त्र: 13-20 दय्स्)
चत्वारि.पञ्चदश.रात्राणि.देवतम्.ईप्सताम्.प्रथमम्.।.प्रथमस्य.चतुर्दश.रात्रस्य.पृष्ठ्य.मध्ये.महा.व्रतम्.। (सत्त्र: 13-20 दय्स्)
ब्रह्म.वर्चस.कामा.द्वितीयम्.।.द्वितीयस्य.चतुर्.दशरात्रस्य.अग्निष्टुत्.प्रायणीयाद्.अनन्तरः.। (सत्त्र: 13-20 दय्स्)
सात्राहीनिका.उभौ.लोकाव्.आप्स्यताम्.तृतीयम्.। (सत्त्र: 13-20 दय्स्)
तृतीयस्य.चतुर्.दशरात्रस्य.अग्निष्टुत्.प्रायणीय.स्थाने.न्याय.क्लृप्तस्.त्र्यह.उपजनः.शेषः.। (सत्त्र: 13-20 दय्स्)
न्याय.क्लृप्तम्.त्र्यह.उपजनम्.प्रतिष्ठा.कामाश्.चतुर्थम्.। (सत्त्र: 13-20 दय्स्)
षोळशरात्रम्.चतूर्.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र: 13-20 दय्स्)
सप्तदश.रात्रम्.पञ्चरात्र.उपजनम्.पशु.कामाः.। (सत्त्र: 13-20 दय्स्)
अष्टादश.रात्रम्.आयुष्.कामाः.। (सत्त्र: 13-20 दय्स्)
षळहश्.च.अत्र.पूर्यते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.। (सत्त्र: 13-20 दय्स्)
एकान्नविंशति.रात्रम्.एक.रात्र.उपजनम्.ग्राम्य.आरण्यान्.पशून्.अवरुरुत्स्यमानाः.। (सत्त्र: 13-20 दय्स्)
विंशति.रात्रम्.प्रतिष्ठा.कामाः.।.अभिजिद्.विश्वजिताव्.अभिप्लवाद्.ऊर्ध्वम्.। (सत्त्र: 13-20 दय्स्)
द्वाव्.एकविंशति.रात्रौ.प्रतिष्ठा.कामानाम्.प्रथमम्.।.त्रयाणाम्.अभिप्लवानाम्.प्रथमाव्.अन्तरा.अतिरात्रः.। (सत्त्र: 21-32 दय्स्)
ब्रह्म.वर्चस.कामा.द्वितीयम्.।.नवरात्रस्य.अभिजिद्.विश्वजितोः.स्थाने.द्वौ.पृष्ठ्याव्.आवृत्त.उत्तरः.। (सत्त्र: 21-32 दय्स्)
संवत्सर.सम्मिता.इत्य्.आचक्षते.। (सत्त्र: 21-32 दय्स्)
द्वाविंशति.रात्रम्.चतू.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र: 21-32 दय्स्)
त्रयो.विंशति.रात्रम्.पञ्च.रात्र.उपजनम्.पशु.कामाः.। (सत्त्र: 21-32 दय्स्)
द्वौ.चतुर्.विंशति.रात्रौ.प्रजाति.कामाः.पशु.कामा.वा.प्रथमम्.। (सत्त्र: 21-32 दय्स्)
षळहश्.च.अत्र.पूर्यते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.स्वर्गे.लोके.सत्स्यन्तो.ब्रध्नस्य.विष्टपम्.रोक्ष्यन्तो.द्वितीयम्.। (सत्त्र: 21-32 दय्स्)
पृष्ठ्य.स्तोमस्.त्रयस्.त्रिंशो.निरुक्तो.विशालः.पृष्ठ्य.स्तोमा.एक.विंश.त्रिणव.त्रयस्.त्रिंशाः.प्रतिलोमाः.पूर्वस्मिंस्.त्र्यहे.अनुलोमा.उत्तरस्मिन्.सविशालो.अपि.वा.उत्तर.एव.त्र्यहः.प्रतिलोमो.अनुलोमश्.च.अनिरुक्तम्.अहर्.आवृत्तः.पृष्ठ्य.स्तोमः.। (सत्त्र: 21-32 दय्स्)
तृवृद्.अनिरुक्तः.। (सत्त्र: 21-32 दय्स्)
ज्योतिर्.उभय.सामा.। (सत्त्र: 21-32 दय्स्)
संसदाम्.अयनम्.इत्य्.एतद्.आचक्षते.।.पञ्च.विंशति.रात्रम्.एकरात्र.उपजनम्.अन्न.अद्य.कामाः.।.षड्विंशति.रात्रम्.द्विरात्र.उपजनम्.प्रतिष्ठा.कामाः.। (सत्त्र: 21-32 दय्स्)
सप्त.विंशति.रात्रम्.त्रिरात्र.उपजननम्.ऋद्धि.कामाः.।.अष्टाविंशति.रात्रम्.चतू.रात्र.उपजनम्.ब्रह्म.वर्चस.कामाः.। (सत्त्र: 21-32 दय्स्)
एकान्न.त्रिंशद्.रात्रम्.पञ्च.रात्र.उपजनम्.परमाम्.विजितिम्.विजिगीषमाणाः.।.त्रिंशद्.रात्रम्.अन्न.अद्य.कामाः.। (सत्त्र: 21-32 दय्स्)
षळहश्.च.अत्र.पूर्यते.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.एक.त्रिंशद्.रात्रम्.एक.रात्र.उपजननम्.अन्न.अद्य.कामाः.।.द्वा.त्रिंशद्.रात्रम्.द्वि.रात्र.उपजनम्.प्रतिष्ठा.कामाः.। (सत्त्र: 21-32 दय्स्)
त्रीणि.त्रयस्.त्रिंशद्.रात्राणि.प्रतिष्ठा.कामानाम्.प्रथमम्.।.त्रयाणाम्.अभिप्लवानाम्.उपरिष्टाद्.उपरिष्टाद्.अतिरात्रः.। (सत्त्र: 33- दय्स्)
ब्रह्म.वर्चस.कामा.द्वितीयम्.।.चतुर्णाम्.पञ्चरात्राणाम्.आवृत्त.उत्तमः.उत्तमौ.च.अन्तरा.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र: 33- दय्स्)
उभौ.लोकाव्.आप्स्यताम्.तृतीयम्.षण्णाम्.पञ्च.रात्राणाम्.मध्ये.विश्वजिद्.अतिरात्रः.। (सत्त्र: 33- दय्स्)
आवृत्तास्.तु.उत्तरे.त्रयः.। (सत्त्र: 33- दय्स्)
चतुस्.त्रिंशद्.रात्रम्.चतू.रात्र.उपजनम्.अन्न.अद्य.कामाः.। (सत्त्र: 33- दय्स्)
पशु.कामानाम्.उत्तराणि.चत्वारि.।.पञ्च.त्रिंशद्.रात्रः.पञ्च.रात्र.उपजनः.। (सत्त्र: 33- दय्स्)(7)
षट्.त्रिंशद्.रात्रे.षळह.उपजायते.।.सतन्त्रस्य.उपजनम्.वक्ष्यामः.।.सप्त.त्रिंशद्.रात्र.एक.रात्र.उपजनः.। (सत्त्र: 33- दय्स्)(8)
अष्टात्रिंशद्.रात्रो.द्वि.रात्र.उपजनः.(9)।.एकान्न.चत्वारिंशद्.रात्रम्.त्रि.रात्र.उपजनम्.अनन्ताम्.श्रियम्.इच्छन्तः.।.चत्वारिंशद्.रात्रम्.चतू.रात्र.उपजनम्.परमायाम्.विराजि.प्रतितिष्ठन्तः.। (सत्त्र: 33- दय्स्)(10)
एक.चत्वारिंशद्.रात्र.प्रभृतीन्य्.उत्तराणि.न्यायेन.अष्टा.चत्वारिंशद्.रात्रात्.।.पञ्चाशद्.रात्र.प्रभृतीनि.च.आ.षष्टि.रात्रात्.।.द्विषष्टि.रात्र.प्रभृतीनि.च.एकोन.शत.रात्रात्.। (सत्त्र: 33- दय्स्)(10)
तत्र.एक.रात्र.चतू.रात्र.उपजनानि.व्रतवन्ति.। (सत्त्र: 33- दय्स्)(10)
सप्त.एकान्न.पञ्चाशद्.रात्राणि.विपाप्मना.वत्स्यन्तः.प्रथमम्.। (सत्त्र: 49 दय्स्)
अतिरात्रस्.त्री.त्रिवृन्त्य्.अहान्य्.अतिरात्रो.दश.पञ्चदशान्य्.अतिरात्रो.द्वादशान्य्.अतिरात्रः.पृष्ठ्यो.अतिरात्रओ.द्वादश.एकविंशान्य्.अतिरात्रः.। (सत्त्र: 49 दय्स्)
त्रिवृताम्.प्रथमो.अग्निष्टोमः.षोळश्य्.उत्तमः.पञ्चदशानाम्.उक्थ्या.इतरे.विधृतय.इत्य्.आचक्षते.। (सत्त्र: 49 दय्स्)
यम.अतिरात्रम्.य्माम्.द्विगुणाम्.इव.श्रियम्.इच्छन्तः.। (सत्त्र: 49 दय्स्)
द्वाव्.अभिप्लवौ.गो.आयुषी.अतिरात्रौ.द्वाव्.अभिप्लवाव्.अभिजिद्.विश्वजिताव्.अतिरात्राव्.एको.अभिप्लवः.।.सर्व.स्तोम.नव.सप्त.दशाव्.अतिरात्रौ.महा.व्रतम्.। (सत्त्र: 49 दय्स्)
स्वानाम्.श्रैष्ठ्य.कामास्.तृतीयम्.।.चतुर्णाम्.पृष्ठ्य.अह्नाम्.एक.एकम्.नव.कृत्वः.। (सत्त्र: 49 दय्स्)
नव.वर्गाणाम्.प्रथम.षष्ठ.सप्तम.उत्तमान्य्.अहान्य्.अग्निष्टोमाः.। (सत्त्र: 49 दय्स्)
उक्थ्या.इतरे.पञ्च.महा.व्रतम्.। (सत्त्र: 49 दय्स्)
सवितुः.ककुभ.इत्य्.आचक्षते.। (सत्त्र: 49 दय्स्)
त्रयाणाम्.उत्तरेषाम्.न्याय.क्लृप्ता.अभिप्लवाः.। (सत्त्र: 49 दय्स्)
प्रथमस्य.तु.ऊर्ध्वम्.चतुर्थात्.सर्व.स्तोमो.अतिरात्रः.। (सत्त्र: 49 दय्स्)
उपसत्सु.गार्हपत्ये.गुग्गुलु.सुगन्धि.तेजन.पैतुदारुभिः.पृथक्.सर्पींषि.विपच्य.अनुसवनम्.सन्नेषु.नाराशंसेष्व्.आञ्जीरन्न्.अभ्यञ्जीरंश्.च.। (सत्त्र: 49 दय्स्)
य.वर्चसा.न.भायुर्.ये.वा.आत्मानम्.न.एव.जानीरंस्.त.एता.उपेयुः.। (सत्त्र: 49 दय्स्)
आञ्जन.अभ्यञ्जनीया.इत्य्.आचक्षते.। (सत्त्र: 49 दय्स्)
एता.एव.प्रतिष्ठा.कामानाम्.आञ्जन.अभ्यञ्जन.वर्जम्.। (सत्त्र: 49 दय्स्)
एतासाम्.एव.सर्व.स्तोम.स्थाने.महा.व्रतम्.। (सत्त्र: 49 दय्स्)
ऐन्द्रमत्य्.अन्त्याः.प्रजा.बुभूषन्तः.। (सत्त्र: 49 दय्स्)
एतासाम्.एव.सर्व.स्तोमम्.उद्धृत्य.यथा.स्थानम्.महा.व्रतम्.। (सत्त्र: 49 दय्स्)
संवत्सर.कामान्.आप्स्यन्त.उत्तमम्.। (सत्त्र: 49 दय्स्)
अतिरात्रश्.चतुर्विंशम्.त्रयो.अभिप्लवा.नवरात्रओ.अभिप्लवौ.यो.आयुषी.दशरात्रो.व्रतम्.अतिरात्रः.। (सत्त्र: 49 दय्स्)
संवत्सर.सम्मिता.इत्य्.आचक्षते.। (सत्त्र: 49 दय्स्)
एक.षष्टि.रात्रम्.प्रतिष्ठा.कामाः.।.एतासाम्.एव.पृष्ठ्याव्.अभितो.नव.रात्रम्.। (सत्त्र: 49 दय्स्)
तयोर्.आवृत्त.उत्तरः.। (सत्त्र: 49 दय्स्)
शतरात्रम्.आयुष्.कामाः.।.चतुर्दश.अभिप्लवाश्.चतुरह.उपजनाः.। (सत्त्र: 49 दय्स्)
इति.रात्रि.सत्राणि.। (सत्त्र: 49 दय्स्)
अथ.गवाम्.अयनम्.सर्व.कामाः.। (सत्त्र: गवामयन)
प्रायणीय.चतुर्विंशे.उपेत्य.चतुर्.अभिप्लवान्.पृष्ठ्य.पञ्चमान्.पञ्च.मासान्.उपयन्ति.। (सत्त्र: गवामयन)
अथ.षष्ठम्.सम्भरन्ति.। (सत्त्र: गवामयन)
त्रीन्.अभिप्लवान्.पृष्ठ्यम्.अभिजितम्.स्वर.साम्न.इति.। (सत्त्र: गवामयन)
आद्याभ्याम्.पूर्यते.अहोभ्याम्.। (सत्त्र: गवामयन)
इति.नु.पूर्वम्.पक्षः.। (सत्त्र: गवामयन)
अथ.विषुवान्.एकविंशः.। (सत्त्र: गवामयन)
न.पूर्वस्य.पक्षसो.न.उत्तरस्य.। (सत्त्र: गवामयन)
आवृत्ताः.स्वर.सामानः.षळहाश्.च.उत्तरस्य.पक्षसः.। (सत्त्र: गवामयन)
स्वर.सामम्नो.विश्वजितम्.पृष्ठम्.त्रीन्.अभिप्लवान्.इति.सप्तमम्.द्विरात्र.ऊनम्.कृत्वा.अथ.पृष्ठ्य.मुखांश्.चतुर्.अभिप्लवांश्.चतुरो.मासान्.उपयन्ति.। (सत्त्र: गवामयन)
अथ.उत्तमम्.सम्भरन्ति.।.त्रीन्.अभिप्लवान्.गो.आयुषी.दशरात्रम्.व्रत.उदयनीयाभ्याम्.सप्तमः.पूर्यते.। (सत्त्र: गवामयन)
इति.न्व्.एक.सम्भार्यम्.उत्तरम्.पक्षः.। (सत्त्र: गवामयन)
अथ.द्वि.सम्भार्यम्.। (सत्त्र: गवामयन)
व्रत.उदयनीये.एव.उत्तमस्य.।.गो.आयुषी.सप्तमस्य.। (सत्त्र: गवामयन)
गो.आयुषो.वा.विहरेयुः.। (सत्त्र: गवामयन)
गाम्.विश्वजितो.अनन्तरम्.। (सत्त्र: गवामयन)
आयुषम्.पूर्वम्.दशरात्रात्.। (सत्त्र: गवामयन)
अपि.वा.ऊर्ध्वम्.विश्वजितः.सप्तमः.सवन.मासम्.कृत्वा.उद्धरेयुर्.यो.आयुषी.दशरात्रम्.च.। (सत्त्र: गवामयन)
अपि.वा.उत्तरस्य.पक्षसो.अहान्य्.एव.आवर्तेरन्न्.अनुलोमाः.षळहाः.स्युः.षळहा.वा.आवर्तेरन्न्.अनुलोमान्य्.अहानि.। (सत्त्र: गवामयन)
इति.गवाम्.अयनम्.। (सत्त्र: गवामयन)
सर्वे.वा.षडहा.अभिप्लवाः.स्युर्.अभिप्लवाः.स्युः.। (सत्त्र: गवामयन)
मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0