भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनश्रौतसूत्र · श्लोक 12.15-9-09

01

भृगूणाम्.न.विवाहो.अस्ति.चतुर्णाम्.आदितो.मिथः.।.श्यैत.आदयस्.त्रयस्.तेषाम्.विवाहो.मिथ.इष्यते.।(प्रवर: परिशिष्ट)

02

षण्णाम्.वै.गौतम.आदीनाम्.विवाहो.न.इष्यते.मिथ.।.दीर्घतमा.औचथ्यः.कक्षीवांश्.च.एक.गोत्रजाः.।(प्रवर: परिशिष्ट)

03

भरद्वाज.आग्निवेश्य.ऋक्षाः.शुङ्गाः.शैशिरयः.कताः.।.एते.समान.गोत्राः.स्युर्.गर्गान्.एके.वदन्ति.वै.।(प्रवर: परिशिष्ट)

04

पृषदश्वा.मुद्गला.विष्णु.वृद्धा.कण्वो.अगस्त्यो.हरितः.संकृतिः.कपि.।.यस्कश्.च.एषाम्.मिथ.इष्टो.विवाहः.सर्वैर्.अन्यैर्.जामदग्न.आदिभिश्.च.।(प्रवर: परिशिष्ट)

05

यावत्.समान.गोत्राः.स्युर्.विश्वामित्रो.अनुवर्तते.।.तावद्.वसिष्ठश्.च.अत्रिश्.च.कश्यपश्.च.पृथक्.पृथक्.।(प्रवर: परिशिष्ट)

06

द्व्यार्षेयाणाम्.त्र्यार्षेय.सम्निपाते.अविवाहः.।.त्र्यार्षेयाणाम्.पञ्च.आर्षेय.सम्निपाते.अविवाह.।(प्रवर: परिशिष्ट)

07

विश्वामित्रो.जमदग्निर्.भरद्वाजो.अथ.गौतमः.।.अत्रिर्.वसिष्ठः.कश्यप.इत्य्.एते.सप्त.ऋषयः.।(प्रवर: परिशिष्ट)

08

सप्तानाम्.ऋषीणाम्.अगस्त्य.अष्टमानाम्.यद्.अपत्यम्.तद्.गोत्रम्.इत्य्.आचक्षते.।(प्रवर: परिशिष्ट)

09

एक.एव.ऋषिर्.यावत्.प्रवरेष्व्.अनुवर्तते.।.तावत्.समान.गोत्रत्वम्.अन्यत्र.भृग्व्.अङ्गिरसाम्.गण.आद्.इत्य्.असमान.प्रवरणिर्.विवाहो.विवाहः.॥(प्रवर: परिशिष्ट)

मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc