भाषा

ENहिગુ
ग्रंथ पाठ

आश्वलायनगृह्यसूत्र · अध्याय 4

4.1-1

आहित.अग्निम्.चेद्.उपतपेत्.प्राच्याम्.उदीच्याम्.अपराजितायाम्.वा.दिश्य्.उदवस्येत्.।

4.1-2

ग्राम.कामा.अग्नय.इत्य्.उदाहरन्ति.।

4.1-3

आशंसन्त.एनम्.ग्रामम्.आजिगमिषन्तो.अगदम्.कुर्युर्.इति.ह.विज्ञायते.।

4.1-4

अगदः.सोमेन.पशुना.इष्ट्या.इष्ट्वा.आवस्येत्.।

4.1-5

अनिष्ट्वा.वा.।

4.1-6

संस्थिते.भूमि.भागम्.खानयेद्.दक्षिण.पूर्वस्याम्.दिशि.दक्षिण.अपरस्याम्.वा.।

4.1-7

दक्षिणा.प्रवणम्.प्राग्.दक्षिणा.प्रवणम्.वा.।

4.1-8

प्रत्यग्.दक्षिणा.प्रवणम्.इत्य्.एके.।

4.1-9

यावान्.उद्बाहुकः.पुरुषस्.तावद्.आयामम्.।

4.1-10

व्याम.मात्रम्.तिर्यक्.।

4.1-11

वितस्त्य्.अवाक्.।

4.1-12

अभित.आकाशम्.श्मशानम्.।

4.1-13

बहुल.ओषधिकम्.।

4.1-14

कण्टकि.क्षीरिणस्.त्व्.इति.यथा.उक्तम्.पुरस्तात्.।

4.1-15

यत्र.सर्वत.आपः.प्रस्यन्देरन्न्.एतद्.आदहनस्य.लक्षणम्.श्मशानस्य.।

4.1-16

केश.श्मश्रु.लोम.नखानि.वापयन्ति.इत्य्.उक्तम्.पुरस्तात्.।

4.1-17

विगुल्फम्.बर्हिर्.आज्यम्.च.।

4.1-18

दधन्य्.अत्र.सर्पिर्.आनयन्ति.।

4.1-19

एतत्.पित्र्यम्.पृषद्.आज्यम्.।

4.2-1

अथ.एताम्.दिशम्.अग्नीन्.नयन्ति.यज्ञ.पात्राणि.च.।

4.2-2

अन्वञ्चम्.प्रेतम्.अयुजो.अमिथुनाः.प्रवयसः.।

4.2-3

पीठ.चक्रेण.गो.युक्तेन.इत्य्.एके.।

4.2-4

अनुस्तरणीम्.।

4.2-5

गाम्.।

4.2-6

अजाम्.वा.एक.वर्णाम्.।

4.2-7

कृष्णाम्.एके.।

4.2-8

सव्ये.बाहौ.बद्ध्वा.अनुसंकालयन्ति.।

4.2-9

अन्वञ्चो.अमात्या.अधो.निवीताः.प्रवृत्त.शिखा.ज्येष्ठ.प्रथमाः.कनिष्ठ.जघन्याः.।

4.2-10

प्राप्य.एवम्.भूमि.भागम्.कर्ता.उदकेन.शमी.शाखया.त्रिः.प्रसव्यम्.आयतनम्.परिव्रजन्.प्रोक्षत्य्.अपेत.वीत.वि.च.सर्पतात.इति.।

4.2-11

दक्षिण.पूर्व.उद्धान्त.आहवनीयम्.निदधाति.।

4.2-12

उत्तर.पश्चिमे.गार्हपत्यम्.।

4.2-13

दक्षिण.पश्चिमे.दक्षिणम्.।

4.2-14

अथ.एनम्.अन्तर्.वेदि.इध्म.चितिम्.चिनोति.यो.जानाति.।

4.2-15

तस्मिन्.बर्हिर्.आस्तीर्य.कृष्ण.अजिनम्.च.उत्तर.लोम.तस्मिन्.प्रेतम्.संवेशयन्त्य्.उत्तरेण.गार्हपत्यम्.हृत्वा.आहवनीयम्.अभिशिरसम्.।

4.2-16

उत्तरतः.पत्नीम्.।

4.2-17

धनुश्.च.क्षत्रियाय.।

4.2-18

ताम्.उत्थापयेद्.देवरः.पति.स्थानीयो.अन्तेवासी.जरद्.दासो.वा.उदीर्ष्व.नार्य्.अभि.जीव.लोकम्.इति.।

4.2-19

कर्ता.वृषले.जपेत्.।

4.2-20

धनुर्.हस्ताद्.आददानो.मृतस्य.इति.धनुः.।

4.2-21

उक्तम्.वृषले.।

4.2-22

अधिज्यम्.कृत्वा.संचितिम्.अचित्वा.संशीर्य.अनुप्रहरेत्.।

4.3-1

अथ.एतानि.पात्राणि.योजयेत्.।

4.3-3

दक्षिणे.हस्ते.जुहूम्.।

4.3-3

सव्य.उपभृतम्.।

4.3-4

दक्षिणे.पार्श्वे.स्फ्यम्.सव्ये.अग्नि.होत्र.हवणीम्.।

4.3-5

उरसि.ध्रुवाम्.शिरसि.कपालानि.दत्सु.ग्राव्णः.।

4.3-6

नासिकयोः.स्रुवौ.।

4.3-7

भित्त्वा.च.एकम्.।

4.3-8

कर्णयोः.प्राशित्र.हरणे.।

4.3-9

भित्त्वा.च.एकम्.।

4.3-10

उदरे.पात्रीम्.।

4.3-11

समवत्तधानम्.च.चमसम्.।

4.3-13

उपस्थे.शम्याम्.।

4.3-13

अरणी.ऊर्वोः.।

4.3-14

उलूखल.मुसले.जङ्घयोः.।

4.3-15

पादयोश्.शूर्पे.।

4.3-16

छित्त्वा.च.एकम्.।

4.3-17

आसेचनवन्ति.पृषद्.आज्यस्य.पूरयन्ति.।

4.3-18

अमा.पुत्रो.दृषद्.उपले.कुर्वीत.।

4.3-19

लौहायसम्.च.कौलालम्.।

4.3-20

अनुस्तरण्या.वपाम्.उत्खिद्य.शिरो.मुखम्.प्रच्छादयेद्.अग्नेर्.वर्म.परि.गोभिर्.व्ययस्व.इति.।

4.3-21

वृक्का.उद्धृत्य.पाण्योर्.आदध्याद्.अति.द्रव.सारमेयौ.श्वानाव्.इति.दक्षिणे.दक्षिणम्.सव्ये.सव्यम्.।

4.3-23

हृदये.हृदयम्.।

4.3-23

पिण्ड्यौ.च.एके.।

4.3-24

वृक्क.अपचार.इत्य्.एके.।

4.3-25

सर्वाम्.यथा.अङ्गम्.विनिक्षिप्य.चर्मणा.प्रच्छाद्य.इमम्.अग्ने.चमसम्.मा.विजिह्वर.इति.प्रणीता.प्रणयनम्.अनुमन्त्रयते.।

4.3-26

सव्यम्.जान्.आच्य.दक्षिण.अग्नाव्.आज्य.आहुतीर्.जुहुयाद्.अग्नये.स्वाहा.कामाय.स्वाहा.लोकाय.स्वाहा.अनुमतये.स्वाहा.इति.।

4.3-27

पञ्चमीम्.उरसि.प्रेतस्य.अस्माद्.वै.त्वम्.अजायथा.अयम्.त्वद्.अधि.जायताम्.असौ.स्वर्गाय.लोकाय.स्वाहा.इति.।

4.4-1

प्रेष्यति.युगपद्.अग्नीन्.प्रज्वालयत.इति.।

4.4-2

आहवनीयश्.चेत्.पूर्वम्.प्राप्नुयात्.स्वर्ग.लोक.एनम्.प्रापद्.इति.विद्याद्.रात्स्यत्य्.असाव्.अमुत्र.एवम्.अयम्.अस्मिन्न्.इति.पुत्रः.।

4.4-3

गार्हपत्यश्.चेत्.पूर्वम्.प्राप्नुयाद्.अन्तरिक्ष.लोक.एनम्.प्रापद्.इति.विद्याद्.रात्स्यत्य्.असाव्.अमुत्र.एवम्.अयम्.अस्मिन्न्.इति.पुत्रः.।

4.4-4

दक्षिण.अग्निश्.चेत्.पूर्वम्.प्राप्नुयान्.मनुष्य.लोक.एनम्.प्रापद्.इति.विद्याद्.रात्स्यत्य्.असाव्.अमित्र.एवम्.अयम्.अस्मिन्न्.इति.पुत्रः.।

4.4-5

युगपत्.प्राप्तौ.पराम्.ऋद्धिम्.वदन्ति.।

4.4-6

तम्.दह्यमानम्.अनुमन्त्रयते.प्रेहि.प्रेहि.पथिभिः.पूर्वेभिर्.इति.समानम्.।

4.4-7

स.एवंविदा.दह्यमानः.सह.एव.धूमेन.स्वर्गम्.लोकम्.एति.इति.ह.विज्ञायते.।

4.4-8

उत्तर.पुरस्ताद्.आहवनीयस्य.जानु.मात्रम्.गर्तम्.खात्वा.अवकाम्.शीपालम्.इत्य्.अवधापयेत्.ततो.ह.वा.एष.निष्क्रम्य.सह.एव.धूमेन.स्वर्गम्.लोकम्.एति.इति.ह.विज्ञायते.।

4.4-9

इमे.जीव.वि.मृतैर्.आववृत्रन्न्.इति.सव्य.आवृतो.व्रजन्त्य्.अनवेक्षमाणाः.।

4.4-10

यत्र.उदकम्.अवहद्.भवति.तत्.प्राप्य.सकृद्.उन्मज्ज्य.एक.अञ्जलिम्.उत्सृज्य.तस्य.गोत्रम्.नाम.च.गृहीत्वा.उत्तीर्य.अन्यानि.वासांसि.परिधाय.सकृद्.एनान्य्.आपीड्य.उदग्.दशानि.विसृज्य.आसत.आ.नक्षत्र.दर्शनात्.।

4.4-11

आदित्यस्य.वा.दृश्यमाने.प्रविशेयुः.।

4.4-12

कनिष्ठ.प्रथमा.ज्येष्ठ.जघन्याः.।

4.4-13

प्राप्य.अगारम्.अश्मानम्.अग्निम्.गोमयम्.अक्षतांस्.तिलान्.अप.उपस्पृशन्ति.।

4.4-14

न.एतस्याम्.रात्र्याम्.अन्नम्.पचेरन्.।

4.4-15

क्रीत.उत्पन्नेन.वा.वर्तेरन्.।

4.4-16

त्रिरात्रम्.अक्षार.अलवण.अशिनः.स्युः.।

4.4-17

द्वादश.रात्रम्.वा.महा.गुरुषु.दान.अध्ययने.वर्जयेरन्.।

4.4-18

दशाहम्.सपिण्डेषु.।

4.4-19

गुरौ.च.असपिण्डे.।

4.4-20

अप्रत्तासु.च.स्त्रीषु.।

4.4-21

त्रिरात्रम्.इतरेष्व्.आचार्येषु.।

4.4-22

ज्ञातौ.च.असपिण्डे.।

4.4-23

प्रत्तासु.च.स्त्रीषु.।

4.4-24

अदन्त.जाते.।

4.4-25

अपरिजाते.च.।

4.4-26

एकाहम्.सब्रह्मचारिणि.।

4.4-27

समान.ग्रामीये.च.श्रोत्रिये.।

4.5-1

संचयनम्.ऊर्ध्वम्.दशम्याः.कृष्ण.पक्षस्य.अयुजास्व्.एक.नक्षत्रे.।

4.5-2

अलक्षणे.कुम्भे.पुमांसम्.अलक्षणायाम्.स्त्रियम्.।

4.5-3

अयुजो.अमिथुनाः.प्रवयसः.।

4.5-4

क्षीर.उदकेन.शमी.शाखया.त्रिः.प्रसव्यम्.परिव्रजन्.प्रोक्षति.शीतिके.शीतिकावती.इति.।

4.5-5

अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.एक.एकम्.अस्थ्य्.असंह्रादयन्तो.अवदध्युः.।

4.5-6

पादौ.पूर्वम्.शिर.उत्तरम्.।

4.5-7

सुसंचितम्.संचित्य.पवनेन.सम्पूय.यत्र.सर्वत्र.आपो.न.अभिस्यन्देरन्न्.अन्या.वर्षाभ्यस्.तत्र.गर्ते.अवदध्युर्.उपसर्प.मातरम्.भूमिम्.एताम्.इति.।

4.5-8

उत्तरया.पांसून्.अवकिरेत्.।

4.5-9

अवकीर्त.उत्तराम्.।

4.5-10

उत्.ते.स्तभ्नामि.इति.कपालेन.अपिधाय.अथ.अनवेक्षम्.प्रत्याव्रज्य.अप.उपस्पृश्य.श्राद्धम्.अस्मै.दद्युः.।

4.6-1

गुरुणा.अभिमृता.अन्यतो.वा.अपक्षीयमाणा.अमावास्यायाम्.शान्ति.कर्म.कुर्वीरन्.।

4.6-2

पुरोदयाद्.अग्निम्.सह.भस्मानम्.सह.आयतनम्.दक्षिणा.हरेयुः.क्रव्यादम्.अग्निम्.प्रहिणोमि.दूरम्.इत्य्.अर्धर्चेन.।:(.पुरस्.उदयाद्.;.पुरो.दयात्.)

4.6-3

तम्.चतुष्पथे.न्युप्य.यत्र.वा.त्रिः.प्रसव्यम्.परियन्ति.सव्यैः.पाणिभिः.सव्यान्.ऊरून्.आघ्नानाः.।

4.6-4

अथ.अनवेक्षम्.प्रत्याव्रज्य.अप.उपस्पृश्य.केश.श्मश्रु.लोम.नखानि.वापयित्वा.उपकल्पयीरन्.नवान्.मणिकान्.कुम्भान्.आचमनीयांश्.च.शमी.सुमनो.मालिनः.शमीमयम्.इध्मम्.शमीमय्य्.आवरणी.परिधींश्.च.अनडुहम्.गोमयम्.चर्म.च.नव.नीतम्.अश्मानम्.च.यावत्यो.युवतयस्.तावन्ति.कुश.पिञ्जूलानि.।

4.6-5

अग्नि.वेलायाम्.अग्निम्.जनयेद्.इह.एव.अयम्.इतरो.जात.वेदा.इत्य्.अर्धर्चेन.।

4.6-6

तम्.दीपयमाना.आसत.आ.शान्त.रात्राद्.आयुष्मताम्.कथाः.कीर्तयन्तो.माङ्गल्यानि.इतिहास.पुराणानि.इत्य्.आख्यापयमानाः.।

4.6-7

उपरतेषु.शब्देषु.सम्प्रविष्टेषु.वा.गृहम्.निवेशनम्.वा.दक्षिणाद्.द्वार.पक्षात्.प्रक्रम्य.अविच्छिनाम्.उदक.धाराम्.हरेत्.तन्तुम्.तन्वन्.रजसो.भानुम्.अन्विहि.इत्य्.आ.उत्तरस्मात्.।

4.6-8

अथ.अग्निम्.उपसमाधाय.पश्चाद्.अस्य.अनडुहम्.चर्म.आस्तीर्य.प्राग्.ग्रीवम्.उत्तर.लोम.तस्मिन्न्.अमात्यान्.आरोहयेद्.आरोहत.आयुर्.जरसम्.वृणाना.इति.।

4.6-9

इमम्.जीवेभ्यः.परिधिम्.दधामि.इति.परिधिम्.परिदध्यात्.।

4.6-10

अन्तर्.मृत्युम्.दधताम्.पर्वतेन.इत्य्.उत्तरतो.अश्मानम्.अग्नेः.कृत्वा.परम्.मृत्यो.अनु.परेहि.पन्थाम्.इति.चतसृभिः.प्रत्यृचम्.हुत्वा.यथा.अहान्य्.अनुपूर्वम्.भवन्ति.इत्य्.अमात्यान्.ईक्षेत.।

4.6-11

युवतयः.पृथक्.पाणिभ्याम्.दर्भ.तरुणकैर्.नव.नीतेन.अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.अक्षिणी.आज्य.पराच्यो.विसृजेयुः.।

4.6-12

इमा.नारीर्.अविधवाः.सुपत्नीर्.इत्य्.अञ्जाना.ईक्षेत.।

4.6-13

अश्मन्वती.रीयते.संरभध्वम्.इत्य्.अश्मानम्.कर्ता.प्रथमो.अभिमृशेत्.।

4.6-15

पिङ्गलो.अनड्वान्.परिणेयः.स्याद्.इत्य्.उदाहरन्ति.।

4.6-17

अथ.उपविशन्ति.यत्र.अभिरंस्यमाना.भवन्त्य्.अहतेन.वाससा.प्रच्छाद्य.।

4.6-17

आसते.अस्वपन्त.आ.उदयात्.।

4.6-18

उदित.आदित्ये.सौर्याणि.स्वस्त्ययनानि.च.जपित्वा.अन्नम्.संस्कृत्य.अप.नः.शोशुचद्.अघम्.इति.प्रत्यृचम्.हुत्वा.ब्राह्मणान्.भोजयित्वा.स्वस्त्ययनम्.वाचयीत.।

4.6-19

गौः.कंसो.अहतम्.वासश्.च.दक्षिणा.।

4.7-1

अथ.अतः.पार्वणे.श्राद्धे.काम्य.आभ्युदयिक.एक.उद्दिष्टे.वा.।

4.7-2

ब्राह्मणाम्.श्रुत.शील.वृत्त.सम्पन्नान्.एकेन.वा.काले.ज्ञापितान्.स्नातान्.कृत.पच्छौचान्.आचान्तान्.उदन्.मुखान्.पितृवद्.उपवेश्य.एक.एकम्.एक.एकस्य.द्वौ.द्वौ.त्रींस्.त्रीन्.वा.।

4.7-3

वृद्धौ.फल.भूयस्त्वम्.।

4.7-4

न.त्व्.एव.एकम्.सर्वेषाम्.।

4.7-5

कामम्.अनाद्ये.।

4.7-6

पिण्डैर्.व्याख्यातम्.।

4.7-7

अपः.प्रदाय.।

4.7-8

दर्भान्.द्वि.गुण.भुग्नान्.आसनम्.प्रदाय.।

4.7-9

अपः.प्रदाय.।

4.7-10

तैजस.अश्ममय.मृन्मयेषु.त्रिषु.पात्रेष्व्.एक.द्रव्येषु.वा.दर्भ.अन्तर्हितेष्व्.अप.आसिच्य.।

4.7-11

शम्.नो.देवीर्.अभिष्टय.इत्य्.अनुमन्त्रितासु.तिलान्.आवपति.तिलो.असि.सोम.देवत्यो.गोसवे.देव.निर्मितः.।.प्रत्नवद्भिः.प्रत्तः.स्वधया.पितॄन्.इमांल्.लोकान्.प्रीणया.हि.नः.स्वधा.नम.इति.।

4.7-13

इतर.पाण्य्.अङ्गुष्ठ.अन्तरेण.उपवीतित्वाद्.दक्षिणेन.वा.सव्य.उपगृहीतेन.पितर्.इदम्.ते.अर्घ्यम्.पितामह.इदम्.ते.अर्घ्यम्.प्रपितामह.इदम्.ते.अर्घ्यम्.इत्य्.अपूर्वम्.।

4.7-14

ताः.प्रतिग्राहयिष्यंत्.सकृत्.सकृत्.स्वधा.अर्घ्या.इति.।

4.7-15

प्रसृष्टा.अनुमन्त्रयेत.या.दिव्या.आपः.पृथिवी.सम्बभूवुर्.या.अन्तरिक्ष्या.उत.पार्थिवीयाः.।.हिरण्य.वर्णा.यज्ञियास्.ता.न.आपः.शम्.स्योना.भवन्त्व्.इति.संस्रवान्.समवनीय.ताभिर्.अद्भिः.पुत्र.कामो.मुखम्.अनक्ति.।

4.7-16

न.उद्धरेत्.प्रथमम्.पात्रम्.पितॄणाम्.अर्घ्य.पातितम्.।.आवृतास्.तत्र.तिष्ठन्ति.पितरः.शौनको.अब्रवीत्.।

4.7-17

एतस्मिन्.काले.गन्ध.माल्य.धूप.दीप.आच्छादनानाम्.प्रदानम्.।

4.7-18

उद्धृत्य.घृत.अक्तम्.अन्नम्.अनुज्ञापयत्य्.अग्नौ.करिष्ये.करवै.करवाणि.इति.वा.।

4.7-19

प्रत्यभ्यनुज्ञा.क्रियताम्.कुरुष्व.कुर्व्.इति.।

4.7-20

अथ.अग्नौ.जुहोति.यथा.उक्तम्.पुरस्तात्.।

4.7-21

अभ्यनुज्ञायाम्.पाणिष्व्.एव.वा.।

4.7-22

अग्नि.मुखा.वै.देवाः.पाणि.मुखाः.पितर.इति.ह.ब्राह्मणम्.।

4.7-23

यदि.पाणिष्व्.आचान्तेष्व्.अन्यद्.अन्नम्.अनुदिशति.।

4.7-24

अन्नम्.अन्ने.।

4.7-25

सृष्टम्.दत्तम्.ऋध्नुकम्.इति.।

4.7-26

तृप्ताम्.ज्ञात्वा.मधुमतीः.श्रावयेद्.अक्षन्न्.अमीमदन्त.इति.च.।

4.7-27

सम्पन्नम्.इति.पृष्ट्वा.यद्.यद्.अन्नम्.उपयुक्तम्.तत्.तत्.स्थाली.पाकेन.सह.पिण्ड.अर्थम्.उद्धृत्य.शेषम्.निवेदयेत्.।

4.7-28

अभिमते.अनुमते.वा.भुक्तवत्स्व्.अनाचान्तेषु.पिण्डान्.निदध्यात्.।

4.7-29

आचान्तेष्व्.एके.।

4.7-30

प्रकीर्य.अन्नम्.उपवीय.ओम्.स्वधा.उच्यताम्.इति.विसृजेत्.।

4.7-31

अस्तु.स्वधा.इति.वा.।

4.8-1

अथ.शूलगवः.।

4.8-2

शरदि.वसन्ते.वा.आर्द्रया.।

4.8-3

श्रेष्ठम्.स्वस्य.यूथस्य.।

4.8-4

अकुष्टिपृषत्.।

4.8-5

कल्माषम्.इत्य्.एके.।

4.8-6

कामम्.कृष्णम्.आलोहवांश्.चेत्.।

4.8-7

व्रीहि.यवमतीभिर्.अद्भिर्.अभिषिच्य.।

4.8-8

शिरस्त.आ.भसतः.।

4.8-9

रुद्राय.महा.देवाय.जुष्टो.वर्धस्व.इति.।

4.8-10

तम्.वर्धयेत्.सम्पन्न.दन्तम्.ऋषभम्.वा.।

4.8-11

यज्ञियायाम्.दिशि.।

4.8-12

असंदर्शने.ग्रामात्.।

4.8-13

ऊर्ध्वम्.अर्ध.रात्रात्.।

4.8-14

उदित.इत्य्.एके.।

4.8-15

वैद्यम्.चरित्रवन्तम्.ब्रह्माणम्.उपवेश्य.सपलाशाम्.आर्द्र.शाखाम्.यूपम्.निखाय.व्रतत्यौ.कुश.रज्जू.वा.रशने.अन्यतरया.यूपम्.परिवीय.अन्यतरया.अर्ध.शिरसि.पशुम्.बद्ध्वा.यूपे.रशनायाम्.वा.नियुनक्ति.यस्मै.नमस्.तस्मै.त्वा.जुष्टम्.नियुनज्मि.इति.।

4.8-16

प्रोक्षण.आदि.समानम्.पशुना.।

4.8-17

विशेषान्.वक्ष्यामः.।

4.8-18

पात्र्या.पलाशेन.वा.वपाम्.जुहुयाद्.इति.विज्ञायते.।

4.8-19

हराय.मृदाय.शर्वाय.शिवाय.भवाय.महा.देवाय.उग्राय.भीमाय.पशु.पतये.रुद्राय.शंकराय.ईशानाय.स्वाहा.इति.।

4.8-20

षड्भिर्.वा.उत्तरैः.।

4.8-21

रुद्राय.स्वाहा.इति.वा.।

4.8-22

चतसृषु.चतसृषु.कुश.सूनासु.चतसृषु.दिक्षु.बलिम्.हरेद्.यास्.ते.रुद्र.पूर्वस्याम्.दिशि.सेनास्.ताभ्य.एनन्.नमस्.ते.अस्तु.मामा.हिंसीर्.इत्य्.एवम्.प्रतिदिशम्.त्व्.आदेशनम्.।

4.8-23

चतुर्भिः.सूक्तैश्.चतस्रो.दिश.उपतिष्ठेत.कद्.रुद्राय.इमा.रुद्राया.ते.(.रुद्रायाते.).पितरम्.आ.रुद्राय.स्थिर.धन्वन.इति.।

4.8-25

तुषान्.फली.करणांश्.च.पुच्छम्.चर्म.शिरः.पादान्.इत्य्.अग्नाव्.अनुप्रहरेत्.।

4.8-26

भोगम्.चर्मणा.कुर्वीत.इति.शांवत्यः.।

4.8-27

उत्तरतो.अग्नेर्.दर्भ.वीतासु.कुश.सूनासु.वा.शोणितम्.निनयेत्.श्वासिनीर्.घोषिणीर्.विचिन्वतीः.समश्नुवतीः.सर्पा.यद्.वो.अत्र.तद्द्.हरध्वम्.इति.।

4.8-28

अथ.उदन्न्.आवृत्य.श्वासिनीर्.घोषिणीर्.विचिन्वतीः.समश्नुवीः.सर्पा.यद्.वो.अत्र.तद्द्.हरध्वम्.इति.सर्पेभ्यो.यत्.तत्र.असृग्.ऊवध्यम्.वा.अवस्रुतम्.भवति.तद्द्.हरन्ति.सर्पाः.।

4.8-29

सर्वाणि.ह.वा.अस्य.नाम.धेयानि.सर्वाः.सेनाः.सर्वाण्य्.उच्छ्रयणानि.इत्य्.एवंविद्.यजमानम्.प्रीणाति.।

4.8-30

न.अस्य.ब्रुवाणम्.चन.हिनस्ति.इति.विज्ञायते.।

4.8-31

न.अस्य.प्राश्नीयात्.।

4.8-32

न.अस्य.ग्रामम्.आहरेयुर्.अभिमारुको.ह.एष.देवः.प्रजा.भवति.इति.।

4.8-33

अमात्यान्.अन्ततः.प्रतिषेधयेत्.।

4.8-34

नियोगात्.तु.प्राश्नीयात्.स्वस्त्ययन.इति.।

4.8-35

स.एष.शूलगवो.धन्यो.लोक्यः.पुण्यः.पुत्र्यः.पशव्य.आयुष्यो.यशस्यः.।

4.8-36

इष्ट्वा.अन्यम्.उत्सृजेत्.।

4.8-39

शंतातीयम्.जपन्.गृहान्.इयात्.।

4.8-40

पशूनाम्.उपताप.एतम्.एव.देवम्.मध्ये.गोष्ठस्य.यजेत.।

4.8-41

स्थाली.पाकम्.सर्व.हुतम्.।

4.8-42

बर्हिर्.आज्यम्.च.अनुप्रहृत्य.धूमतो.गा.आनयेत्.।

4.8-43

शंतातीयम्.जपन्.पशूनाम्.मध्यम्.इयात्.।

4.8-44

नमः.शौनकाय.नमः.शौनकाय.।

मूल पाठ: Āśvalāyanagṛhyasūtra · Edition: A.F. Stenzler, Abhandlungen für die Kunde des Morgenlandes, 3,4 (1864) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc