भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 99

99.1

18.66ब्व् सद्यश्-छेदे ऽप्य् अयं विधिः
उत्तरस्थान
अवश्यायानिल-रजो-भाष्याति-स्वप्न-जागरैः ।
नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा

99.2

अत्य्-अम्बु-पान-रमण-च्छर्दि-बाष्प-ग्रहादिभिः ।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः

99.3

19.2च्व् क्षुब्धा वातोल्बणा दोषा 19.2च्व् वृद्धा वातोल्बणा दोषा
जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् ।
तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः

99.4

घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः ।
कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ

99.5

19.4च्व् कीटका इव सर्पन्ति
स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः ।
पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः

99.6

19.5च्व् पित्तात् तृष्णा-ज्वरो घ्राणे 19.5द्व् पिटिका-संभव-भ्रमाः
नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः ।
कफात् कासो ऽ-रुचिः श्वासो वमथुर् गात्र-गौरवम्

99.7

माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः ।
सर्व-जो लक्षणैः सर्वैर् अ-कस्माद् वृद्धि-शान्ति-मान्

99.8

19.7ब्व् स्निग्ध-शुक्ल-घन-स्रुतिः 19.7ब्व् स्निग्ध-शुक्ल-घना स्रुतिः
दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् ।
उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता

99.9

कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् ।
सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः

99.10

19.9ब्व् पित्तोत्थं चात्र लक्षणम्
यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः ।
साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः

99.11

कुप्यत्य् अ-कस्माद् बहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् ।
नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः

99.12

19.11ब्व् मुख-दौर्गन्ध्य-शोष-कृत्
पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः ।
मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः

99.13

19.12अव् पूयोपमासिता रक्ता 19.12ब्व् -ग्रथिता श्लेष्म-संस्रुतिः 19.12ब्व्
ग्रथित-श्लेष्म-संस्रुतिः
पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः ।
श्लेष्मा स-चिक्कणः पीतो ऽ-ज्ञानं च रस-गन्धयोः

99.14

19.13द्व् ज्ञानं च रस-गन्धयोः
तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः ।
वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि

99.15

19.14अव् तीक्ष्ण-घ्राणोपयोगार्क-
विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः

99.16

19.15ब्व् रुद्धः शृङ्गाटकं व्रजन् 19.15द्व् क्षवथुं स भृशङ्-क्षवः
शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः ।
शूक-पूर्णाभ-नासा-त्वं कृच्छ्राद् उच्छ्वसनं ततः

99.17

19.16अव् शोषयेन् नासिका-स्रोतः 19.16च्व् शूक-पूर्णाभ-कण्ठ-त्वं 19.16च्व्
शूक-पूर्णाभ-नास-त्वं
स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते ।
नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना

99.18

निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव ।
पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत्

99.19

स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः ।
अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते

99.20

कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् अ-पीनसम् ।
कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम्

99.21

19.20ब्व् रुद्धः स्रोतःसु पीनसम्
अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम्

99.22

रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा ।
भवेद् धूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च

99.23

तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् ।
श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम्

99.24

निचयाद् अभिघाताद् वा पूयासृङ् नासिका स्रवेत् ।
तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम्

99.25

पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् ।
कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत्

99.26

19.25च्व् कफं स शुष्क-पुट-तां
अर्शो-ऽर्बुदानि विभजेद् दोष-लिङ्गैर् यथा-यथम् ।
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः

99.27

19.26द्व् पीनसः प्रततं क्षवः 19.26द्व् पीनसः सततं क्षुतिः
सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा ।
अष्टा-दशानाम् इत्य् एषां यापयेद् दुष्ट-पीनसम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc