भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 97

97.1

16.67अव् तलोष्ण-संघट्टन-पीडनाद्यैस् 16.67अव्
मृल्-लोष्ट-संघट्टन-पीडनाद्यैस्
उत्तरस्थान
प्रतिश्याय-जल-क्रीडा-कर्ण-कण्डूयनैर् मरुत् ।
मिथ्या-योगेन शब्दस्य कुपितो ऽन्यैश् च कोपनैः

97.2

प्राप्य श्रोत्र-सिराः कुर्याच् छूलं स्रोतसि वेग-वत् ।
अर्धावभेदकं स्तम्भं शिशिरान्-अभिनन्दनम्

97.3

चिराच् च पाकं पक्वं तु लसीकाम् अल्प-शः स्रवेत् ।
श्रोत्रं शून्यम् अ-कस्माच् च स्यात् संचार-विचार-वत्

97.4

शूलं पित्तात् स-दाहोषा-शीतेच्छा-श्वयथु-ज्वरम् ।
आशु-पाकं प्रपक्वं च स-पीत-लसिका-स्रुति

97.5

17.4ब्व् -शीतेच्छा-श्वयथुर् ज्वरः
सा लसीका स्पृशेद् यद् यत् तत् तत् पाकम् उपैति च ।
कफाच् छिरो-हनु-ग्रीवा-गौरवं मन्द-ता रुजः

97.6

कण्डूः श्वयथुर् उष्णेच्छा पाकाच् छ्वेत-घन-स्रुतिः ।
करोति श्रवणे शूलम् अभिघातादि-दूषितम्

97.7

17.6ब्व् पाकाच् छ्वेत-घना स्रुतिः
रक्तं पित्त-समानार्ति किञ्-चिद् वाधिक-लक्षणम् ।
शूलं समुदितैर् दोषैः स-शोफ-ज्वर-तीव्र-रुक्

97.8

पर्यायाद् उष्ण-शीतेच्छां जायते श्रुति-जाड्य-वत् ।
पक्वं सितासिता-रक्त-घन-पूय-प्रवाहि च

97.9

शब्द-वाहि-सिरा-संस्थे शृणोति पवने मुहुः ।
नादान् अ-कस्माद् विविधान् कर्ण-नादं वदन्ति तम्

97.10

श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः ।
उच्चैः कृच्छ्राच् छ्रुतिं कुर्याद् बधिर-त्वं क्रमेण च

97.11

17.10द्व् बधिर-त्वं क्रमेण वा
वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् ।
रुग्-गौरवं पिधानं च स प्रतीनाह-संज्ञितः

97.12

कण्डू-शोफौ कफाच् छ्रोत्रे स्थिरौ तत्-संज्ञया स्मृतौ ।
कफो विदग्धः पित्तेन स-रुजं नी-रुजं त्व् अपि

97.13

17.12ब्व् स्थिरौ तत्-संज्ञितौ स्मृतौ 17.12द्व् स-रुजं नी-रुजं त्व् अथ
घन-पूति-बहु-क्लेदं कुरुते पूति-कर्णकम् ।
वातादि-दूषितं श्रोत्रं मांसासृक्-क्लेद-जा रुजम्

97.14

17.13द्व् मांसासृक्-क्लेद-जां रुजम्
खादन्तो जन्तवः कुर्युस् तीव्रां स कृमि-कर्णकः ।
श्रोत्र-कण्डूयनाज् जाते क्षते स्यात् पूर्व-लक्षणः

97.15

17.14च्व् श्रोतः-कण्डूयनाज् जाते
विद्रधिः पूर्व-वच् चान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् ।
तेषु रुक् पूति-कर्ण-त्वं बधिर-त्वं च बाधते

97.16

17.15ब्व् षो-ढार्शो ऽर्बुदम् ईरितम् 17.15द्व् बधिर-त्वं च जायते
गर्भे ऽनिलात् संकुचिता शष्कुली कुचि-कर्णकः ।
एको नी-रुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः

97.17

17.16ब्व् शष्कुली कुञ्चि-कर्णकः 17.16ब्व् शष्कुली कूचि-कर्णकः 17.16द्व्
गर्भे मांसाङ्कुरः स्थितः
पिप्पली पिप्पली-मानः संनिपाताद् विदारिका ।
स-वर्णः स-रुजः स्तब्धः श्वयथुः स उपेक्षितः

97.18

कटु-तैल-निभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
संकोचयति रूढा च सा ध्रुवं कर्ण-शष्कुलीम्

97.19

17.18ब्व् स्रवन् कृच्छ्रेण रोहति
सिरा-स्थः कुरुते वायुः पाली-शोषं तद्-आह्वयम् ।
कृशा दृढा च तन्त्री-वत् पाली वातेन तन्त्रिका

97.20

सु-कुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते ।
कर्णे शोफः स-रुक् पाल्याम् अरुणः परिपोट-वान्

97.21

परिपोटः स पवनाद् उत्पातः पित्त-शोणितात् ।
गुर्व्-आभरण-भाराद्यैः श्यावो रुग्-दाह-पाक-वान्

97.22

श्वयथुः स्फोट-पिटिका-रागोषा-क्लेद-संयुतः ।
पाल्यां शोफो ऽनिल-कफात् सर्वतो निर्-व्यथः स्थिरः

97.23

स्तब्धः स-वर्णः कण्डू-मान् उन्मन्थो गल्लिरश् च सः ।
दुर्-विद्धे वर्धिते कर्णे स-कण्डू-दाह-पाक-रुक्

97.24

17.23ब्व् उन्मन्थो गल्लिकश् च सः
श्वयथुः संनिपातोत्थः स नाम्ना दुःख-वर्धनः ।
कफासृक्-कृमि-जाः सूक्ष्माः स-कण्डू-क्लेद-वेदनाः

97.25

लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास् ता हि ।
पिप्पली सर्व-जं शूलं विदारी कुचि-कर्णकः

97.26

17.25अव् लिह्याख्याः पिटिकास् ता हि 17.25द्व् विदारी कूचि-कर्णकः
एषाम् अ-साध्या याप्यैका तन्त्रिकान्यांस् तु साधयेत् ।
पञ्च-विंशतिर् इत्य् उक्ताः कर्ण-रोगा विभागतः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc