अष्टाङ्गहृदयसूत्र · अध्याय 77
2.62च्व् मद्यैश् च तैस् तैश् च मनो-ऽनुकूलैर्
कल्पस्थान
वमनं मृदु-कोष्ठेन क्षुद्-वताल्प-कफेन वा ।
अति-तीक्ष्ण-हिम-स्तोकम् अ-जीर्णे दुर्-बलेन वा
पीतं प्रयात्य् अधस् तस्मिन्न् इष्ट-हानिर् मलोदयः ।
वामयेत् तं पुनः स्निग्धं स्मरन् पूर्वम् अतिक्रमम्
3.2द्व् स्मरन् पूर्वम् अनु-क्रमम्
अ-जीर्णिनः श्लेष्म-वतो व्रजत्य् ऊर्ध्वं विरेचनम् ।
अति-तीक्ष्णोष्ण-लवणम् अ-हृद्यम् अति-भूरि वा
तत्र पूर्वोदिता व्यापत् सिद्धिश् च न तथापि चेत् ।
आशये तिष्ठति ततस् तृतीयं नावचारयेत्
अन्य-त्र सात्म्याद् धृद्याद् वा भेषजान् निर्-अपायतः ।
अ-स्निग्ध-स्विन्न-देहस्य पुराणं रूक्षम् औषधम्
3.5अव् अन्य-त्र सात्म्याद् धृद्याद् च 3.5च्व् अ-स्निग्धा-स्विन्न-देहस्य
दोषान् उत्क्लेश्य निर्हर्तुम् अ-शक्तं जनयेद् गदान् ।
विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम्
3.6च्व् चिद्-भ्रंशं श्वयथुं हिध्मां
पिण्डिकोद्वेष्टनं कण्डूम् ऊर्वोः सादं वि-वर्ण-ताम् ।
स्निग्ध-स्विन्नस्य वात्य्-अल्पं दीप्ताग्नेर् जीर्णम् औषधम्
3.7च्व् स्निग्ध-स्विन्नस्य चात्य्-अल्पं
शीतैर् वा स्तब्धम् आमे वा समुत्क्लेश्याहरन् मलान् ।
तान् एव जनयेद् रोगान् अ-योगः सर्व एव सः
3.8अव् शीतैर् वा स्तब्धम् आमैर् वा 3.8ब्व् समुत्क्लेश्याहरेन् मलान् 3.8ब्व्
समुत्क्लेश्य हरेन् मलान्
तं तैल-लवणाभ्यक्तं स्विन्नं प्रस्तर-संकरैः ।
निरूढः जाङ्गल-रसैर् भोजयित्वानुवासयेत्
3.9ब्व् स्विन्नं संस्तर-संकरैः 3.9ब्व् स्विन्नं संस्तर-शङ्करैः
फल-मागधिका-दारु-सिद्ध-तैलेन मात्रया ।
स्निग्धं वात-हरैः स्नेहैः पुनस् तीक्ष्णेन शोधयेत्
बहु-दोषस्य रूक्षस्य मन्दाग्नेर् अल्पम् औषधम् ।
सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः
3.11द्व् दोषान् मार्गं निरुध्य तैः
भृशम् आध्मापयेन् नाभिं पृष्ठ-पार्श्व-शिरो-रुजम् ।
श्वासं विण्-मूत्र-वातानां सङ्गं कुर्याच् च दारुणम्
3.12अव् भृशम् आध्मापयेन् नाभि- 3.12ब्व् -पृष्ठ-पार्श्व-शिरो-रुजम्
अभ्यङ्ग-स्वेद-वर्त्य्-आदि स-निरूहानुवासनम् ।
उदावर्त-हरम् सर्वं कर्माध्मातस्य शस्यते
पञ्च-मूल-यव-क्षार-वचा-भूतिक-सैन्धवैः ।
यवागूः सु-कृता शूल-विबन्धानाह-नाशनी
3.14अव् पञ्च-कोल-यव-क्षार-
पिप्पली-दाडिम-क्षार-हिङ्गु-शुण्ठ्य्-अम्ल-वेतसान् ।
स-सैन्धवान् पिबेन् मद्यैः सर्पिषोष्णोदकेन वा
प्रवाहिका-परिस्राव-वेदना-परिकर्तने ।
पीतौषधस्य वेगानां निग्रहान् मारुतादयः
3.16अव् प्रवाहिका-परिस्रावे 3.16ब्व् वेदना-परिकर्तने
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्-ग्रहम् ।
हिध्मा-पार्श्व-रुजा-कास-दैन्य-लालाक्षि-विभ्रमैः
जिह्वां खादति निः-संज्ञो दन्तान् कटकटाययन् ।
न गच्छेद् विभ्रमं तत्र वामयेद् आशु तं भिषक्
3.18ब्व् दन्तान् कटकटायते
मधुरैः पित्त-मूर्छार्तं कटुभिः कफ-मूर्छितम् ।
पाचनीयैस् ततश् चास्य दोष-शेषं विपाचयेत्
3.19च्व् पाचनीयैस् ततश् चाशु 3.19द्व् दोष-शेषं च पाचयेत्
कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत् ।
पवनेनाति-वमतो हृदयं यस्य पीड्यते
3.20ब्व् क्रमेणाभिप्रवर्तयेत्
तस्मै स्निग्धाम्ल-लवणान् दद्यात् पित्त-कफे ऽन्य-था ।
पीतौषधस्य वेगानां निग्रहेण कफेन वा
3.21अव् तस्मै स्निग्धाम्ल-लवणं
रुद्धो ऽति वा विशुद्धस्य गृह्णात्य् अङ्गानि मारुतः ।
स्तम्भ-वेपथु-निस्तोद-सादोद्वेष्टार्ति-भेदनैः
3.22अव् रुद्धो वाति विशुद्धस्य 3.22द्व् -सादोद्वेष्टाधिभेदनैः
तत्र वात-हरं सर्वं स्नेह-स्वेदादि शस्यते ।
बहु-तीक्ष्णं क्षुधार्तस्य मृदु-कोष्ठस्य भेषजम्
हृत्वाशु विट्-पित्त-कफान् धातून् आस्रावयेद् द्रवान् ।
तत्राति-योगे मधुरैः शेषम् औषधम् उल्लिखेत्
3.24ब्व् धातून् प्रस्रावयेद् द्रवान्
योज्यो ऽति-वमने रेको विरेके वमनं मृदु ।
परिषेकावगाहाद्यैः सु-शीतैः स्तम्भयेच् च तम्
3.25अव् योज्यो ऽति रेको वमिते
अञ्जनं चन्दनोशीरम् अजासृक्-शर्करोदकम् ।
लाज-चूर्णैः पिबेन् मन्थम् अति-योग-हरं परम्
3.26अव् अञ्जनं चन्दनोशीर- 3.26ब्व् -मज्जासृक्-शर्करोदकम्
वमनस्याति-योगे तु शीताम्बु-परिषेचितः ।
पिबेत् फल-रसैर् मन्थं स-घृत-क्षौद्र-शर्करम्
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्य-मुस्तयोः ।
स-मधूकाञ्जनं चूर्णं लेहयेन् मधु-संयुतम्
3.28ब्व् मूर्छायां धान्य-मुस्तयोः
वमतो ऽन्तः प्रविष्टायां जिह्वायां कवड-ग्रहाः ।
स्निग्धाम्ल-लवणा हृद्या यूष-मांस-रसा हिताः
3.29च्व् स्निग्धाम्ल-लवणा हृद्याश् 3.29द्व् छाग-मांस-रसा हिताः
फलान्य् अम्लानि खादेयुस् तस्य चान्ये ऽग्रतो नराः ।
निःसृतां तु तिल-द्राक्षा-कल्क-लिप्तां प्रवेशयेत्
3.30ब्व् तस्य चान्ये ऽग्रतो जनाः 3.30ब्व् तस्य चैवाग्रतो नराः 3.30द्व्
-कल्क-लिप्तां प्रयोजयेत्
वाग्-ग्रहानिल-रोगेषु घृत-मांसोपसाधिताम् ।
यवागूं तनुकां दद्यात् स्नेह-स्वेदौ च काल-वित्
अति-योगाच् च भैषज्यं जीवं हरति शोणितम् ।
तज् जीवादानम् इत्य् उक्तम् आदत्ते जीवितं यतः
3.32द्व् आधत्ते जीवनं नृणाम्
शुने काकाय वा दद्यात् तेनान्नम् असृजा सह ।
भुक्ते ऽ-भुक्ते वदेज् जीवं पित्तं वा भेषजेरितम्
3.33च्व् भुक्ता-भुक्तं वदेज् जीवं 3.33च्व् भुक्ते तस्मिन् वदेज् जीवम् 3.33च्व्
भुक्त्वा-भुक्ते वदेज् जीवं
3.33द्व् अ-भुक्ते पित्तम् आदिशेत्
शुक्लं वा भावितं वस्त्रम् आवानं कोष्ण-वारिणा ।
प्रक्षालितं वि-वर्णं स्यात् पित्ते शुद्धं तु शोणिते
3.34द्व् पित्तं शुद्धं तु शोणितं
तृष्णा-मूर्छा-मदार्तस्य कुर्याद् आ-मरणात् क्रियाम् ।
रक्त-पित्तातिसार-घ्नीं तस्याशु प्राण-रक्षणीम्
3.35ब्व् कुर्याद् आ-मरण-क्रियाम् 3.35द्व् तस्यापि प्राण-रक्षणीम्
मृग-गो-महिषाजानां सद्यस्कं जीवताम् असृक् ।
पिबेज् जीवाभिसंधानं जीवं तद् ध्य् आशु गच्छति
3.36द्व् जीवं तद् ध्य् आशु यच्छति
तद् एव दर्भ-मृदितं रक्तं वस्तौ निषेचयेत् ।
श्यामा-काश्मर्य-मधुक-दूर्वोशीरैः शृतं पयः
घृत-मण्डाञ्जन-युतं वस्तिं वा योजयेद् धिमम् ।
पिच्छा-वस्तिं सु-शीतं वा घृत-मण्डानुवासनम्
गुदं भ्रष्टं कषायैश् च स्तम्भयित्वा प्रवेशयेत् ।
वि-संज्ञं श्रावयेत् साम-वेणु-गीतादि-निस्वनम्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0