भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 69

69.1

अयस्-तिल-त्र्य्-ऊषण-कोल-भागैः सर्वैः समं माक्षिक-धातु-चूर्णम् ।
तैर् मोदकः क्षौद्र-युतो ऽनु-तक्रः पाण्ड्व्-आमये दूर-गते ऽपि शस्तः ॥ 57+1 ॥
चिकित्सास्थान
सर्व-त्र सर्वाङ्ग-सरे दोष-जे श्वयथौ पुरा ।
सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत्

69.2

नागरातिविषा-दारु-विडङ्गेन्द्रयवोषणम् ।
अथ-वा विजया-शुण्ठी-देवदारु-पुनर्नवम्

69.3

नवायसं वा दोषाढ्यः शुद्ध्यै मूत्र-हरीतकीः ।
वरा-क्वाथेन कटुका-कुम्भायस्-त्र्य्-ऊषणानि च

69.4

17.3ब्व् शुद्ध्यै मूत्र-हरीतकीम्
अथ-वा गुग्गुलुं तद्-वज् जतु वा शैल-संभवम् ।
मन्दाग्निः शीलयेद् आम-गुरु-भिन्न-विबन्ध-विट्

69.5

तक्रं सौवर्चल-व्योष-क्षौद्र-युक्तं गुडाभयाम् ।
तक्रानु-पानाम् अथ-वा तद्-वद् वा गुड-नागरम्

69.6

आर्द्रकं वा सम-गुडं प्रकुञ्चार्ध-विवर्धितम् ।
परं पञ्च-पलं मासं यूष-क्षीर-रसाशनः

69.7

गुल्मोदरार्शः-श्वयथु-प्रमेहाञ् छ्वास-प्रतिश्यालसका-विपाकान् ।
स-कामला-शोष-मनो-विकारान् कासं कफं चैव जयेत् प्रयोगः

69.8

घृतम् आर्द्रक-नागरस्य कल्क-स्व-रसाभ्यां पयसा च साधयित्वा ।
श्वयथु-क्षवथूदराग्नि-सादैर् अभिभूतो ऽपि पिबन् भवत्य् अ-रोगः

69.9

रसस् तथैवार्द्रक-नागरस्य पेयो ऽथ जीर्णे पयसान्नम् अद्यात् ।
शिलाह्वयं वा त्रि-फला-रसेन हन्यात् त्रि-दोषं श्वयथुं प्रसह्य ॥ 8+1 ॥
पुनर्नवा-निम्ब-पटोल-शुण्ठी- तिक्तामृता-दार्व्य्-अभया-कषायः ।
सर्वाङ्ग-शोफोदर-कास-शूल-श्वासान्वितं पाण्डु-गदं च हन्ति ॥ 8+2 ॥
निर्-आमो बद्ध-शमलः पिबेच् छ्वयथु-पीडितः ।
त्रि-कटु-त्रिवृता-दन्ती-चित्रकैः साधितं पयः

69.10

मूत्रं गोर् वा महिष्या वा स-क्षीरं क्षीर-भोजनः ।
सप्ताहं मासं अथ-वा स्याद् उष्ट्र-क्षीर-वर्तनः

69.11

17.10द्व् स्याद् उष्ट्री-क्षीर-वर्तनः
यवानकं यव-क्षारं यवानीं पञ्च-कोलकम् ।
मरिचं दाडिमं पाठां धानकाम् अम्ल-वेतसम्

69.12

बाल-बिल्वं च कर्षांशं साधयेत् सलिलाढके ।
तेन पक्वो घृत-प्रस्थः शोफार्शो-गुल्म-मेह-हा

69.13

दध्नश् चित्रक-गर्भाद् वा घृतं तत्-तक्र-संयुतम् ।
पक्वं स-चित्रकं तद्-वद् गुणैर् युञ्ज्याच् च काल-वित्

69.14

धान्वन्तरं महा-तिक्तं कल्याणम् अभया-घृतम् ।
दश-मूल-कषायस्य कंसे पथ्या-शतं पचेत्

69.15

दत्त्वा गुड-तुलां तस्मिन् लेहे दद्याद् विचूर्णितम् ।
त्रि-जातकं त्रि-कटुकं किञ्-चिच् च यव-शूक-जम्

69.18

प्रस्थार्धं च हिमे क्षौद्रात् तन् निहन्त्य् उपयोजितम् ॥ 16अब् ॥
प्रवृद्ध-शोफ-ज्वर-मेह-गुल्म-कार्श्याम-वाताम्लक-रक्त-पित्तम् ॥ 16च्द् ॥
वैवर्ण्य-मूत्रानिल-शुक्र-दोष-श्वासा-रुचि-प्लीह-गरोदरं च ॥ 16एf ॥
पुराण-यव-शाल्य्-अन्नं दश-मूलाम्बु-साधितम् ॥ 17अब् ॥
अल्पम् अल्प-पटु-स्नेहं भोजनं श्वयथोर् हितम् ।
क्षार-व्योषान्वितैर् मौद्गैः कौलत्थैः स-कणै रसैः

69.19

17.18ब्व् भोजनं श्वयथौ हितम्
तथा जाङ्गल-जैः कूर्म-गोधा-शल्यक-जैर् अपि ।
अन्-अम्लं मथितं पाने मद्यान्य् औषध-वन्ति च

69.20

अजाजी-शठी-जिवन्ती-कारवी-पौष्कराग्निकैः ।
बिल्व-मध्य-यव-क्षार-वृक्षाम्लैर् बदरोन्मितैः

69.21

कृता पेयाज्य-तैलाभ्यां युक्ति-भृष्टा परं हिता ।
शोफातीसार-हृद्-रोग-गुल्मार्शो-ऽल्पाग्नि-मेहिनाम्

69.22

गुणैस् तद्-वच् च पाठायाः पञ्च-कोलेन साधिता ।
शैलेय-कुष्ठ-स्थौणेय-रेणुकागुरु-पद्मकैः

69.23

श्रीवेष्टक-नख-स्पृक्का-देवदारु-प्रियङ्गुभिः ।
मांसी-मागधिका-वन्य-धान्य-ध्यामक-वालकैः

69.24

चतुर्-जातक-तालीश-मुस्ता-गन्ध-पलाशकैः ।
कुर्याद् अभ्यञ्जनं तैलं लेपं स्नानाय तूदकम्

69.25

स्नानं वा निम्ब-वर्षाभू-नक्तमालार्क-वारिणा ।
एकाङ्ग-शोफे वर्षाभू-करवीरक-किंशुकैः

69.26

विशाला-त्रि-फला-लोध्र-नलिका-देवदारुभिः ।
हिंस्रा-कोशातकी-माद्री-तालपर्णी-जयन्तिभिः

69.27

स्थूल-काकादनी-शाल-नाकुली-वृषपर्णिभिः ।
वृद्ध्यर्द्धि-हस्तिकर्णैश् च सुखोष्णैर् लेपनं हितम्

69.28

अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत् ।
तैलम् एरण्ड-जं वात-विड्-विबन्धे तद् एव तु

69.29

प्राग्-भक्तं पयसा युक्तं रसैर् वा कारयेत् तथा ।
स्वेदाभ्यङ्गान् समीर-घ्नान् लेपम् एकाङ्ग-गे पुनः

69.30

मातुलुङ्गाग्निमन्थेन शुण्ठी-हिंस्रामराह्वयैः ।
पैत्ते तिक्तं पिबेत् सर्पिर् न्यग्रोधाद्येन वा शृतम्

69.31

क्षीरं तृड्-दाह-मोहेषु लेपाभ्यङ्गाश् च शीतलाः ।
पटोल-मूल-त्रायन्ती-यष्ट्य्-आह्व-कटुकाभयाः

69.32

17.31च्व् पटोल-मूर्वा-त्रायन्ती-
दारु दार्वी हिमं दन्ती विशाला निचुलं कणा ।
तैः क्वाथः स-घृतः पीतो हन्त्य् अन्तस्-ताप-तृड्-भ्रमान्

69.33

17.32च्व् तत्-क्वाथः स-घृतः पीतो
स-संनिपात-वीसर्प-शोफ-दाह-विष-ज्वरान् ।
आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत्

69.34

17.33ब्व् -शोफ-दाह-मद-ज्वरान्
स्रोतो-विबन्धे मन्दे ऽग्नाव् अ-रुचौ स्तिमिताशयः ।
क्षार-चूर्णासवारिष्ट-मूत्र-तक्राणि शीलयेत्

69.35

कृष्णा-पुराण-पिण्याक-शिग्रु-त्वक्-सिकतातसीः ।
प्रलेपोन्मर्दने युञ्ज्यात् सुखोष्णा मूत्र-कल्किताः

69.36

स्नानं मूत्राम्भसी सिद्धे कुष्ठ-तर्कारि-चित्रकैः ।
कुलत्थ-नागराभ्यां वा चण्डागुरु विलेपने

69.37

कालाजशृङ्गी-सरल-बस्तगन्धा-हयाह्वयाः ।
एकैषीका च लेपः स्याच् छ्वयथाव् एक-गात्र-गे

69.38

यष्टी-दुग्ध-तिलैर् लेपो नव-नीतेन संयुतः ।
शोफम् आरुष्करं हन्ति वृन्तैः शाल-दलस्य वा ॥ 37+1 ॥
यथा-दोषं यथासन्नं शुद्धिं रक्तावसेचनम् ।
कुर्वीत मिश्र-दोषे तु दोषोद्रेक-बलात् क्रियाम्

69.39

अजाजि-पाठा-घन-पञ्च-कोल-व्याघ्री-रजन्यः सुख-तोय-पीताः ।
शोफं त्रि-दोषं चिर-जं प्रवृद्धं निघ्नन्ति भूनिम्ब-महौषधे च

69.40

अमृता-द्वितयं शिवातिका सुरकाष्ठं स-पुरं स-गो-जलम् ।
श्वयथूदर-कुष्ठ-पाण्डु-ता-कृमि-मेहोर्ध्व-कफानिलापहम्

69.41

इति निजम् अधिकृत्य पथ्यम् उक्तं क्षत-जनिते क्षत-जं विशोधनीयम् ।
स्रुति-हिम-घृत-लेप-सेक-रेकैर् विष-जनिते विष-जिच् च शोफ इष्टम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc