भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 64

64.1

चिकित्सास्थान
मेहिनो बलिनः कुर्याद् आदौ वमन-रेचने ।
स्निग्धस्य सर्षपारिष्ट-निकुम्भाक्ष-करञ्ज-जैः

64.2

तैलस् त्रिकण्टकाद्येन यथा-स्वं साधितेन वा ।
स्नेहेन मुस्त-देवाह्व-नागर-प्रतिवाप-वत्

64.3

सुरसादि-कषायेण दद्याद् आस्थापनं ततः ।
न्यग्रोधादेस् तु पित्तार्तं रसैः शुद्धं च तर्पयेत्

64.4

12.3च्व् न्यग्रोधादेस् तु पित्तार्ते
मूत्र-ग्रह-रुजा-गुल्म-क्षयाद्यास् त्व् अपतर्पणात् ।
ततो ऽनुबन्ध-रक्षार्थं शमनानि प्रयोजयेत्

64.5

अ-संशोध्यस्य तान्य् एव सर्व-मेहेषु पाययेत् ।
धात्री-रस-प्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम्

64.6

दार्वी-सुराह्व-त्रि-फला-मुस्ता वा क्वथिता जले ।
चित्रक-त्रि-फला-दार्वी-कलिङ्गान् वा स-माक्षिकान्

64.8

मधु-युक्तं गुडूच्या वा रसम् आमलकस्य वा ॥ 7अब् ॥
लोध्राभया-तोयद-कट्फलानां पाठा-विडङ्गार्जुन-धन्वनानाम् ॥ 7च्द् ॥
गायत्रि-दार्वी-कृमिहृद्-धवानां कफे त्रयः क्षौद्र-युताः कषायाः ॥ 7एf ॥
उशीर-लोध्रार्जुन-चन्दनानां पटोल-निम्बामलकामृतानाम् ।
लोध्राम्बु-कालीयक-धातकीनां पित्ते त्रयः क्षौद्र-युताः कषायाः

64.10

यथा-स्वम् एभिः पानान्नं यव-गोधूम-भावनाः ॥ 9अब् ॥
12.9ब्व् यव-गोधूम-भावनाम् 12.9ब्व् यव-गोधूम-भावनम्
वातोल्बणेषु स्नेहांश् च प्रमेहेषु प्रकल्पयेत् ।
अपूप-सक्तु-वाट्यादिर् यवानां विकृतिर् हिता

64.11

गजाश्व-गुद-मुक्तानाम् अथ-वा वेणु-जन्मनाम् ।
तृण-धान्यानि मुद्गाद्याः शालिर् जीर्णः स-षष्टिकः

64.12

श्री-कुक्कुटो ऽम्लः खलकस् तिल-सर्षप-किट्ट-जः ।
कपित्थं तिन्दुकं जम्बूस् तत्-कृता राग-षाडवाः

64.13

तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः स-सक्तवः ।
धन्व-मांसानि शूल्यानि परिशुष्काण्य् अयस्-कृतिः

64.14

मध्व्-अरिष्टासवा जीर्णाः सीधुः पक्व-रसोद्भवः ।
तथासनादि-साराम्बु दर्भाम्भो माक्षिकोदकम्

64.15

वासितेषु वरा-क्वाथे शर्वरीं शोषितेष्व् अहः ।
यवेषु सु-कृतान् सक्तून् स-क्षौद्रान् सीधुना पिबेत्

64.16

शाल-सप्ताह्व-कम्पिल्ल-वृक्षकाक्ष-कपित्थ-जम् ।
रोहीतकं च कुसुमं मधुनाद्यात् सु-चूर्णितम्

64.17

कफ-पित्त-प्रमेहेषु पिबेद् धात्री-रसेन वा ।
त्रिकण्टक-निशा-लोध्र-सोमवल्क-वचार्जुनैः

64.18

पद्मकाश्मन्तकारिष्ट-चन्दनागुरु-दीप्यकैः ।
पटोल-मुस्त-मञ्जिष्ठा-माद्री-भल्लातकैः पचेत्

64.19

तैलं वात-कफे पित्ते घृतं मिश्रेषु मिश्रकम् ।
दश-मूल-शठी-दन्ती-सुराह्वं द्वि-पुनर्नवम्

64.20

मूलं स्नुग्-अर्कयोः पथ्यां भूकदम्बम् अरुष्करम् ।
करञ्जौ वरुणान् मूलं पिप्पल्याः पौष्करं च यत्

64.21

12.20च्व् करञ्ज-वरुणान् मूलं
पृथग् दश-पलं प्रस्थान् यव-कोल-कुलत्थतः ।
त्रींश् चाष्ट-गुणिते तोये विपचेत् पाद-वर्तिना

64.22

तेन द्वि-पिप्पली-चव्य-वचा-निचुल-रोहिषैः ।
त्रिवृद्-विडङ्ग-कम्पिल्ल-भार्गी-विश्वैश् च साधयेत्

64.23

12.22द्व् -भार्गी-बिल्वैश् च साधयेत्
प्रस्थं घृताज् जयेत् सर्वांस् तन् मेहान् पिटिका विषम् ।
पाण्डु-विद्रधि-गुल्मार्शः-शोष-शोफ-गरोदरम्

64.24

श्वासं कासं वमिं वृद्धिं प्लीहानं वात-शोणितम् ।
कुष्ठोन्मादाव् अपस्मारं धान्वन्तरम् इदं घृतम्

64.25

लोध्र-मूर्वा-शठी-वेल्ल-भार्गी-नत-नख-प्लवान् ।
कलिङ्ग-कुष्ठ-क्रमुक-प्रियङ्ग्व्-अतिविषाग्निकान्

64.26

द्वे विशाले चतुर्-जातं भूनिम्बं कटु-रोहिणीम् ।
यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फल-त्रयम्

64.27

कर्षांशम् अम्बु-कलशे पाद-शेषे स्रुते हिमे ।
द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षम् उपेक्षया

64.28

लोध्रासवो ऽयं मेहार्शः-श्वित्र-कुष्ठा-रुचि-कृमीन् ।
पाण्डु-त्वं ग्रहणी-दोषं स्थूल-तां च नियच्छति

64.29

साधयेद् असनादीनां पलानां विंशतिं पृथक् ।
द्वि-वहे ऽपां क्षिपेत् तत्र पाद-स्थे द्वे शते गुडात्

64.30

क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम् ।
तत् क्षौद्र-पिप्पली-चूर्ण-प्रदिग्धे घृत-भाजने

64.31

12.30ब्व् वत्सकादि च कल्कितम्
स्थितं दृढे जतु-सृते यव-राशौ निधापयेत् ।
खदिराङ्गार-तप्तानि बहु-शो ऽत्र निमज्जयेत्

64.32

तनूनि तीक्ष्ण-लोहस्य पत्त्राण्य् आ-लोह-संक्षयात् ।
अयस्-कृतिः स्थिता पीता पूर्वस्माद् अधिका गुणैः

64.33

रूक्षम् उद्वर्तनं गाढं व्यायामो निशि जागरः ।
यच् चान्यच् छ्लेष्म-मेदो-घ्नं बहिर् अन्तश् च तद् धितम्

64.34

सु-भावितां सार-जलैस् तुलां पीत्वा शिलोद्भवात् ।
साराम्बुनैव भुञ्जानः शालीञ् जाङ्गल-जै रसैः

64.35

12.34द्व् शालिं जाङ्गल-जै रसैः
सर्वान् अभिभवेन् मेहान् सु-बहूपद्रवान् अपि ।
गण्ड-मालार्बुद-ग्रन्थि-स्थौल्य-कुष्ठ-भगन्दरान्

64.36

कृमि-श्लीपद-शोफांश् च परं चैतद् रसायनम् ।
अ-धनश् छत्त्र-पाद-त्र-रहितो मुनि-वर्तनः

64.37

चन्दनम् उत्पलं द्राक्षा उशीरं च पुनर्नवा ।
यष्टीमधुक-श्रीखण्डं त्रि-फलोत्पल-शारिवा ॥ 36.1+1 ॥
शमी वंश-फलं लोध्रं त्रि-जातं नागकेसरम् ।
पद्मकं च कणा-चूर्णं तत्-तुल्या शर्करा शुभा ॥ 36.1+2 ॥
एतच् चूर्णं पिबेत् प्रातस् तण्डुलोदक-वारिणा ।
प्रमेहे रक्त-पित्ते च कृच्छ्र-दोषे च दारुणे ॥ 36.1+3 ॥
योजनानां शतं यायात् खनेद् वा सलिलाशयान् ।
गो-शकृन्-मूत्र-वृत्तिर् वा गोभिर् एव सह भ्रमेत्

64.38

बृंहयेद् औषधाहारैर् अ-मेदो-मूत्रलैः कृशम् ।
शराविकाद्याः पिटिकाः शोफ-वत् समुपाचरेत्

64.39

अ-पक्वा व्रण-वत् पक्वास् तासां प्राग्-रूपम् एव च ।
क्षीरि-वृक्षाम्बु पानाय बस्त-मूत्रं च शस्यते

64.40

तीक्ष्णं च शोधनं प्रायो दुर्-विरेच्या हि मेहिनः ।
तैलम् एलादिना कुर्याद् गणेन व्रण-रोपणम्

64.41

उद्वर्तने कषायं तु वर्गेणारग्वधादिना ।
परिषेको ऽसनाद्येन पानान्ने वत्सकादिना

64.42

12.41च्व् परिषेके ऽसनाद्येन
पाठा-चित्रक-शार्ङ्गष्टा-शारिवा-कण्टकारिकाः ।
सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम्

64.43

संचूर्ण्य मधुना लिह्यात् तद्-वच् चूर्णं नवायसम् ।
मधु-मेहि-त्वम् आपन्नो भिषग्भिः परिवर्जितः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc