भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 55

55.1

चिकित्सास्थान
केवलानिल-जं कासं स्नेहैर् आदाव् उपाचरेत् ।
वात-घ्न-सिद्धैः स्निग्धैश् च पेया-यूष-रसादिभिः

55.2

लेहैर् धूमैस् तथाभ्यङ्ग-स्वेद-सेकावगाहनैः ।
वस्तिभिर् बद्ध-विड्-वातं स-पित्तं तूर्ध्व-भक्तिकैः

55.3

3.2द्व् स-पित्तं वोर्ध्व-भक्तिकैः 3.2द्व् स-पित्तं वोर्ध्व-भक्तिकैः
घृतैः क्षीरैश् च स-कफं जयेत् स्नेह-विरेचनैः ।
गुडूची-कण्टकारीभ्यां पृथक् त्रिंशत्-पलाद् रसे

55.4

प्रस्थः सिद्धो घृताद् वात-कास-नुद् वह्नि-दीपनः ।
क्षार-रास्ना-वचा-हिङ्गु-पाठा-यष्ट्य्-आह्व-धान्यकैः

55.5

द्वि-शाणैः सर्पिषः प्रस्थं पञ्च-कोल-युतैः पचेत् ।
दश-मूलस्य निर्यूहे पीतो मण्डानुपायिना

55.6

स कास-श्वास-हृत्-पार्श्व-ग्रहणी-रोग-गुल्म-नुत् ।
द्रोणे ऽपां साधयेद् रास्ना-दश-मूल-शतावरीः

55.7

पलोन्मिता द्वि-कुडवं कुलत्थं बदरं यवं ।
तुलार्धं चाज-मांसस्य तेन साध्यं घृताढकम्

55.8

सम-क्षीरं पलांशैश् च जीवनीयैः समीक्ष्य तत् ।
प्रयुक्तं वात-रोगेषु पान-नावन-वस्तिभिः

55.9

पञ्च-कासाञ् छिरः-कम्पं योनि-वङ्क्षण-वेदनाम् ।
सर्वाङ्गैकाङ्ग-रोगांश् च स-प्लीहोर्ध्वानिलाञ् जयेत्

55.10

विदार्य्-आदि-गण-क्वाथ-कल्क-सिद्धं च कास-जित् ।
अशोक-बीज-क्षवक-जन्तुघ्नाञ्जन-पद्मकैः

55.11

स-विडैश् च घृतं सिद्धं तच्-चूर्णं वा घृत-प्लुतम् ।
लिह्यात् पयश् चानुपिबेद् आजं कासाति-पीडितः

55.12

3.11द्व् आजं कासाभिपीडितः 3.11द्व् आजं कासादि-पीडितः
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश् च तच् चूर्णं पिबेद् वा घृत-मात्रया

55.13

स-कफे ऽनिल-जे कासे श्वास-हिध्मा-हताग्निषु ।
दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम्

55.14

3.13द्व् शुण्ठीं द्राक्षां सितोपलाम्
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वात-जे ।
दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम्

55.15

पुराण-गुड-तैलाभ्यां चूर्णितान्य् अवलेहयेत् ।
तद्-वत् स-कृष्णां शुण्ठीं च स-भार्गीं तद्-वद् एव च

55.16

पिबेच् च कृष्णां कोष्णेन सलिलेन स-सैन्धवाम् ।
मस्तुना स-सितां शुण्ठीं दध्ना वा कण-रेणुकाम्

55.17

3.16द्व् दध्ना वा कण-रेणुकम्
पिबेद् बदर-मज्ज्ञो वा मदिरा-दधि-मस्तुभिः ।
अथ-वा पिप्पली-कल्कं घृत-भृष्टं स-सैन्धवम्

55.18

3.17अव् पिबेद् बदर-मज्जां वा
कासी स-पीनसो धूमं स्नैहिकं विधिना पिबेत् ।
हिध्मा-श्वासोक्त-धूमांश् च क्षीर-मांस-रसाशनः

55.19

ग्राम्यानूपौदकैः शालि-यव-गोधूम-षष्टिकान् ।
रसैर् माषात्मगुप्तानां यूषैर् वा भोजयेद् धितान्

55.20

3.19अव् ग्राम्यानूपोद्भवैः शालि-
यवानी-पिप्पली-बिल्व-मध्य-नागर-चित्रकैः ।
रास्नाजाजी-पृथक्पर्णी-पलाश-शठि-पौष्करैः

55.21

सिद्धां स्निग्धाम्ल-लवणां पेयाम् अनिल-जे पिबेत् ।
कटी-हृत्-पार्श्व-कोष्ठार्ति-श्वास-हिध्मा-प्रणाशनीम्

55.22

दश-मूल-रसे तद्-वत् पञ्च-कोल-गुडान्विताम् ।
पिबेत् पेयां सम-तिलां क्षैरेयीं वा स-सैन्धवाम्

55.23

मात्स्य-कौक्कुट-वाराहैर् मांसैर् वा साज्य-सैन्धवाम् ।
वास्तुको वायसी-शाकं कासघ्नः सुनिषण्णकः

55.24

कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् ।
स्नेहास् तैलादयो भक्ष्याः क्षीरेक्षु-रस-गौडिकाः

55.25

दधि-मस्त्व्-आरनालाम्ल-फलाम्बु-मदिराः पिबेत् ।
पित्त-कासे तु स-कफे वमनं सर्पिषा हितम्

55.26

तथा मदन-काश्मर्य-मधुक-क्वथितैर् जलैः ।
फल-यष्ट्य्-आह्व-कल्कैर् वा विदारीक्षु-रसाप्लुतैः

55.27

पित्त-कासे तनु-कफे त्रिवृतां मधुरैर् युताम् ।
युञ्ज्याद् विरेकाय युतां घन-श्लेष्मणि तिक्तकैः

55.28

हृत-दोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् ।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्

55.29

लेहः पैत्ते सिता-धात्री-क्षौद्र-द्राक्षा-हिमोत्पलैः ।
स-घृतः सानिले हितः स-कफे साब्द-मरिचः

55.30

3.29अव् लेहः पित्ते सिता-धात्री-
मृद्वीकार्ध-शतं त्रिंशत् पिप्पलीः शर्करा-पलम् ।
लेहयेन् मधुना गोर् वा क्षीर-पस्य शकृद्-रसम्

55.31

त्वग्-एला-व्योष-मृद्वीका-पिप्पली-मूल-पौष्करैः ।
लाज-मुस्ता-शठी-रास्ना-धात्री-फल-विभीतकैः

55.32

शर्करा-क्षौद्र-सर्पिर्भिर् लेहो हृद्-रोग-कास-हा ।
मधुरैर् जाङ्गल-रसैर् यव-श्यामाक-कोद्रवाः

55.33

मुद्गादि-यूषैः शाकैश् च तिक्तकैर् मात्रया हिताः ।
घन-श्लेष्मणि लेहाश् च तिक्तका मधु-संयुताः

55.34

शालयः स्युस् तनु-कफे षष्टिकाश् च रसादिभिः ।
शर्कराम्भो ऽनु-पानार्थं द्राक्षेक्षु-स्व-रसाः पयः

55.35

काकोली-बृहती-मेदा-द्वयैः स-वृष-नागरैः ।
पित्त-कासे रस-क्षीर-पेया-यूषान् प्रकल्पयेत्

55.36

द्राक्षां कणां पञ्च-मूलं तृणाख्यं च पचेज् जले ।
तेन क्षीरं शृतं शीतं पिबेत् स-मधु-शर्करम्

55.37

साधितां तेन पेयां वा सु-शीतां मधुनान्विताम् ।
शठी-ह्रीवेर-बृहती-शर्करा-विश्व-भेषजम्

55.38

पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृत-मूर्छितम् ।
मेदां विदारीं काकोलीं स्वयङ्गुप्ता-फलं बलाम्

55.39

शर्करां जीवकं मुद्ग-माषपर्ण्यौ दुरालभाम् ।
कल्की-कृत्य पचेत् सर्पिः क्षीरेणाष्ट-गुणेन तत्

55.40

पान-भोजन-लेहेषु प्रयुक्तं पित्त-कास-जित् ।
लिह्याद् वा चूर्णम् एतेषां कषायम् अथ-वा पिबेत्

55.41

कफ-कासी पिबेद् आदौ सुरकाष्ठात् प्रदीपितात् ।
स्नेहं परिस्रुतं व्योष-यव-क्षारावचूर्णितम्

55.42

3.41अव् कफ-कासे पिबेद् आदौ
स्निग्धं विरेचयेद् ऊर्ध्वम् अधो मूर्ध्नि च युक्तितः ।
तीक्ष्णैर् विरेकैर् बलिनं संसर्गीं चास्य योजयेत्

55.43

यव-मुद्ग-कुलत्थान्नैर् उष्ण-रूक्षैः कटूत्कटैः ।
कासमर्दक-वार्ताक-व्याघ्री-क्षार-कणान्वितैः

55.44

धान्व-बैल-रसैः स्नेहैस् तिल-सर्षप-निम्ब-जैः ।
दश-मूलाम्बु घर्माम्बु मद्यं मध्व्-अम्बु वा पिबेत्

55.45

3.44अव् धान्व-बैल-रसैर् लेहैस् 3.44ब्व् तिल-सर्षप-बिल्व-जैः
मूलैः पौष्कर-शम्याक-पटोलैः संस्थितं निशाम् ।
पिबेद् वारि सह-क्षौद्रं कालेष्व् अन्नस्य वा त्रिषु

55.46

3.45ब्व् -पटोलैर् अन्वितं निशाम्
पिप्पली पिप्पली-मूलं शृङ्गवेरं विभीतकम् ।
शिखि-कुक्कुट-पिच्छानां मषी क्षारो यवोद्भवः

55.47

विशाला पिप्पली-मूलं त्रिवृता च मधु-द्रवाः ।
कफ-कास-हरा लेहास् त्रयः श्लोकार्ध-योजिताः

55.48

मधुना मरिचं लिह्यान् मधुनैव च जोङ्गकम् ।
पृथग् रसांश् च मधुना व्याघ्री-वार्ताक-भृङ्ग-जान्

55.49

कासघ्नस्याश्व-शकृतः सुरसस्यासितस्य च ।
देवदारु-शठी-रास्ना-कर्कटाख्या-दुरालभाः

55.50

3.49ब्व् सुरसस्यासितस्य वा
पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला ।
लाजाः सितोपला सर्पिः शृङ्गी धात्री-फलोद्भवा

55.51

3.50द्व् शृङ्गी धात्री-फलाद् रजः
मधु-तैल-युता लेहास् त्रयो वातानुगे कफे ।
द्वे पले दाडिमाद् अष्टौ गुडाद् व्योषात् पल-त्रयम्

55.52

रोचनं दीपनं स्वर्यं पीनस-श्वास-कास-जित् ।
गुड-क्षारोषण-कणा-दाडिमं श्वास-कास-जित्

55.53

3.52द्व् -दाडिमाच् छ्वास-कास-जित्
क्रमात् पल-द्वयार्धाक्ष-कर्षार्धाक्ष-पलोन्मितम् ।
पिबेज् ज्वरोक्तं पथ्यादि स-शृङ्गीकं च पाचनम्

55.54

3.53ब्व् -कर्षाक्षार्ध-पलोन्मितम्
अथ-वा दीप्यक-त्रिवृद्-विशाला-घन-पौष्करम् ।
स-कणं क्वथितं मूत्रे कफ-कासी जले ऽपि वा

55.55

तैल-भृष्टं च वैदेही-कल्काक्षं स-सितोपलम् ।
पाययेत् कफ-कास-घ्नं कुलत्थ-सलिलाप्लुतम्

55.56

दश-मूलाढके प्रस्थं घृतस्याक्ष-समैः पचेत् ।
पुष्कराह्व-शठी-बिल्व-सुरसा-व्योष-हिङ्गुभिः

55.57

3.56च्व् पुष्कराख्य-शठी-बिल्व-
पेयानु-पानं तत् सर्व-वात-श्लेष्मामयापहम् ।
निर्गुण्डी-पत्त्र-निर्यास-साधितं कास-जिद् घृतम्

55.60

घृतं रसे विडङ्गानां व्योष-गर्भं च साधितम् ॥ 57ऊअब् ॥
पुनर्नव-शिवातिका-सरल-कासमर्दामृता- ॥ 58अ ॥
पटोल-बृहती-फणिज्जक-रसैः पयः-संयुतैः ॥ 58ब् ॥
घृतं त्रि-कटुना च सिद्धम् उपयुज्य संजायते ॥ 58च् ॥
न कास-विषम-ज्वर-क्षय-गुदाङ्कुरेभ्यो भयम् ॥ 58द् ॥
स-मूल-फल-पत्त्रायाः कण्टकार्या रसाढके ॥ 59अब् ॥
3.59अव् स-मूल-फल-शाखायाः
घृत-प्रस्थं बला-व्योष-विडङ्ग-शठि-दाडिमैः ।
सौवर्चल-यव-क्षार-मूलामलक-पौष्करैः

55.61

वृश्चीव-बृहती-पथ्या-यवानी-चित्रकर्द्धिभिः ।
मृद्वीका-चव्य-वर्षाभू-दुरालभाम्ल-वेतसैः

55.62

शृङ्गी-तामलकी-भार्गी-रास्ना-गोक्षुरकैः पचेत् ।
कल्कैस् तत् सर्व-कासेषु श्वास-हिध्मासु चेष्यते

55.63

कण्टकारी-घृतं चैतत् कफ-व्याधि-विनाशनम् ।
पचेद् व्याघ्री-तुलां क्षुण्णां वहे ऽपाम् आढक-स्थिते

55.64

क्षिपेत् पूते तु संचूर्ण्य व्योष-रास्नामृताग्निकान् ।
शृङ्गी-भार्गी-घन-ग्रन्थि-धन्वयासान् पलार्धकान्

55.65

3.64अव् क्षिपेत् पूते च संचूर्ण्य
सर्पिषः षो-डश-पलं चत्वारिंशत् पलानि च ।
मत्स्यण्डिकायाः शुद्धायाः पुनश् च तद् अधिश्रयेत्

55.66

दर्वी-लेपिनि शीते च पृथग् द्वि-कुडवं क्षिपेत् ।
पिप्पलीनां तवक्षीर्या माक्षिकस्या-नवस्य च

55.67

3.66च्व् पिप्पलीनां तुकाक्षीर्या
लेहो ऽयं गुल्म-हृद्-रोग-दुर्-नाम-श्वास-कास-जित् ।
शमनं च पिबेद् धूमं शोधनं बहले कफे

55.68

3.67द्व् शोधनं बहुले कफे
मनःशिलाल-मधुक-मांसी-मुस्तेङ्गुदी-त्वचः ।
धूमं कास-घ्न-विधिना पीत्वा क्षीरं पिबेद् अनु

55.69

निष्ठ्यूतान्ते गुड-युतं कोष्णं धूमो निहन्ति सः ।
वात-श्लेष्मोत्तरान् कासान् अ-चिरेण चिरन्-तनान्

55.70

तमकः कफ-कासे तु स्याच् चेत् पित्तानुबन्ध-जः ।
पित्त-कास-क्रियां तत्र यथावस्थं प्रयोजयेत्

55.71

कफानुबन्धे पवने कुर्यात् कफ-हरां क्रियाम् ।
पित्तानुबन्धयोर् वात-कफयोः पित्त-नाशिनीम्

55.72

वात-श्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् ।
कासे कर्म स-पित्ते तु कफ-जे तिक्त-संयुतम्

55.73

3.72ब्व् स्निग्धं चार्द्रे विरूक्षणम्
उरस्य् अन्तः-क्षते सद्यो लाक्षां क्षौद्र-युतां पिबेत् ।
क्षीरेण शालीन् जीर्णे ऽद्यात् क्षीरेणैव स-शर्करान्

55.74

पार्श्व-वस्ति-स-रुक् चाल्प-पित्ताग्निस् तां सुरा-युताम् ।
भिन्न-विट्कः स-मुस्तातिविषा-पाठां स-वत्सकाम्

55.75

लाक्षां सर्पिर् मधूच्छिष्टं जीवनीयं गणं सिताम् ।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्

55.76

3.75च्व् त्वक्क्षीरीं संमितं क्षीरे
इक्ष्वारिका-बिस-ग्रन्थि-पद्म-केसर-चन्दनैः ।
शृतं पयो मधु-युतं संधानार्थं पिबेत् क्षती

55.77

यवानां चूर्णम् आमानां क्षीरे सिद्धं घृतान्वितम् ।
ज्वर-दाहे सिता-क्षौद्र-सक्तून् वा पयसा पिबेत्

55.78

3.77ब्व् क्षीर-सिद्धं घृतान्वितम्
कास-वांस् तु पिबेत् सर्पिर् मधुरौषध-साधितम् ।
गुडोदकं वा क्वथितं स-क्षौद्र-मरिचं हितम्

55.79

3.78अव् कास-वांश् च पिबेत् सर्पिर्
चूर्णम् आमलकानां वा क्षीरे पक्वं घृतान्वितम् ।
रसायन-विधानेन पिप्पलीर् वा प्रयोजयेत्

55.80

3.79ब्व् क्षीर-पक्वं घृतान्वितम्
कासी पर्वास्थि-शूली च लिह्यात् स-घृत-माक्षिकाः ।
मधूक-मधुक-द्राक्षा-त्वक्क्षीरी-पिप्पली-बलाः

55.81

3.80ब्व् लिह्यात् स-घृत-माक्षिकान् 3.80द्व् -त्वक्क्षीरी-पिप्पली-बलान्
त्रि-जातम् अर्ध-कर्षांशं पिप्पल्य्-अर्ध-पलं सिता ।
द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्ण-चूर्णितम्

55.82

मधुना गुटिका घ्नन्ति ता वृष्याः पित्त-शोणितम् ।
कास-श्वासा-रुचि-च्छर्दि-मूर्छा-हिध्मा-मद-भ्रमान्

55.83

3.82द्व् -मूर्छा-हिध्मा-वमि-भ्रमान्
क्षत-क्षय-स्वर-भ्रंश-प्लीह-शोषाढ्य-मारुतान् ।
रक्त-निष्ठीव-हृत्-पार्श्व-रुक्-पिपासा-ज्वरान् अपि

55.84

3.83ब्व् -प्लीह-शोफाढ्य-मारुतान्
वर्षाभू-शर्करा-रक्त-शालि-तण्डुल-जं रजः ।
रक्त-ष्ठीवी पिबेत् सिद्धं द्राक्षा-रस-पयो-घृतैः

55.85

मधूक-मधुक-क्षीर-सिद्धं वा तण्डुलीयकम् ।
यथा-स्वं मार्ग-विसृते रक्ते कुर्याच् च भेषजम्

55.86

मूढ-वातस् त्व् अजा-मेदः सुरा-भृष्टं स-सैन्धवम् ।
क्षामः क्षीणः क्षतोरस्को मन्द-निद्रो ऽग्नि-दीप्ति-मान्

55.87

शृत-क्षीर-सरेणाद्यात् स-घृत-क्षौद्र-शर्करम् ।
शर्करा-यव-गोधूमं जीवकर्षभकौ मधु

55.88

3.87च्व् शर्करां यव-गोधूमं
शृत-क्षीरानु-पानं वा लिह्यात् क्षीणः क्षतः कृशः ।
क्रव्यात्-पिशित-निर्यूहं घृत-भृष्टं पिबेच् च सः

55.89

पिप्पली-क्षौद्र-संयुक्तं मांस-शोणित-वर्धनम् ।
न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-शाल-प्रियङ्गुभिः

55.90

ताल-मस्तक-जम्बू-त्वक्-प्रियालैश् च स-पद्मकैः ।
साश्वकर्णैः शृतात् क्षीराद् अद्याज् जातेन सर्पिषा

55.91

शाल्य्-ओदनं क्षतोरस्कः क्षीण-शुक्र-बलेन्द्रियः ।
वात-पित्तार्दिते ऽभ्यङ्गो गात्र-भेदे घृतैर् मतः

55.92

तैलैश् चानिल-रोग-घ्नैः पीडिते मातरिश्वना ।
हृत्-पार्श्वार्तिषु पानं स्याज् जीवनीयस्य सर्पिषः

55.93

3.92च्व् हृत-पार्श्वार्तौ तु पानं स्याज्
कुर्याद् वा वात-रोग-घ्नं पित्त-रक्ता-विरोधि यत् ।
यष्ट्य्-आह्व-नागबलयोः क्वाथे क्षीर-समे घृतम्

55.94

पयस्या-पिप्पली-वांशी-कल्कैः सिद्धं क्षते हितम् ।
जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा

55.95

बला-भार्गी-स्वगुप्तर्द्धि-शठी-तामलकी-कणाः ।
शृङ्गाटकं पयस्या च पञ्च-मूलं च यल् लघु

55.96

द्राक्षाक्षोटादि च फलं मधुर-स्निग्ध-बृंहणम् ।
तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्ण-कल्कितैः

55.97

क्षीर-धात्री-विदारीक्षु-च्छाग-मांस-रसान्वितम् ।
प्रस्थार्धं मधुनः शीते शर्करार्ध-तुला-रजः

55.98

पलार्धकं च मरिच-त्वग्-एला-पत्त्र-केसरम् ।
विनीय प्रसृतं तस्माल् लिह्यान् मात्रां यथा-बलम्

55.99

3.98द्व् लिह्यान् मात्रां यथानलम्
अमृत-प्राशम् इत्य् एतन् नराणाम् अमृतं घृतम् ।
सुधामृत-रसं प्राश्यं क्षीर-मांस-रसाशिना

55.100

नष्ट-शुक्र-क्षत-क्षीण-दुर्-बल-व्याधि-कर्शितान् ।
स्त्री-प्रसक्तान् कृशान् वर्ण-स्वर-हीनांश् च बृंहयेत्

55.101

3.100ब्व् -दुर्-बल-व्याधि-कर्षितान्
कास-हिध्मा-ज्वर-श्वास-दाह-तृष्णास्र-पित्त-नुत् ।
पुत्र-दं छर्दि-मूर्छा-हृद्-योनि-मूत्रामयापहम्

55.102

श्वदंष्ट्रोशीर-मञ्जिष्ठा-बला-काश्मर्य-कट्तृणम् ।
दर्भ-मूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्

55.103

पालिकानि पचेत् तेषां रसे क्षीर-चतुर्-गुणे ।
कल्कैः स्वगुप्ता-जीवन्ती-मेदर्षभक-जीवकैः

55.104

शतावर्य्-ऋद्धि-मृद्वीका-शर्करा-श्रावणी-बिसैः ।
प्रस्थः सिद्धो घृताद् वात-पित्त-हृद्-रोग-शूल-नुत्

55.105

3.104द्व् -पित्त-हृद्-द्रव-शूल-नुत्
मूत्र-कृच्छ्र-प्रमेहार्शः-कास-शोष-क्षयापहः ।
धनुः-स्त्री-मद्य-भाराध्व-खिन्नानां बल-मांस-दः

55.106

मधुकाष्ट-पल-द्राक्षा-प्रस्थ-क्वाथे पचेद् घृतम् ।
पिप्पल्य्-अष्ट-पले कल्के प्रस्थं सिद्धे च शीतले

55.107

पृथग् अष्ट-पलं क्षौद्र-शर्कराभ्यां विमिश्रयेत् ।
सम-सक्तु क्षत-क्षीण-रक्त-गुल्मेषु तद् धितम्

55.108

धात्री-फल-विदारीक्षु-जीवनीय-रसाद् घृतात् ।
गव्याजयोश् च पयसोः प्रस्थं प्रस्थं विपाचयेत्

55.109

सिद्ध-शीते सिता-क्षौद्रं द्वि-प्रस्थं विनयेत् ततः ।
यक्ष्मापस्मार-पित्तासृक्-कास-मेह-क्षयापहम्

55.110

3.109अव् सिद्ध-पूते सिता-क्षौद्रं 3.109द्व् -कास-मेह-ज्वरापहम्
वयः-स्थापनम् आयुष्यं मांस-शुक्र-बल-प्रदम् ।
घृतं तु पित्ते ऽभ्यधिके लिह्याद् वाते ऽधिके पिबेत्

55.111

3.110द्व् लिह्याद् वाताधिके पिबेत्
लीढं निर्वापयेत् पित्तम् अल्प-त्वाद् धन्ति नानलम् ।
आक्रामत्य् अनिलं पीतम् ऊष्माणं निरुणद्धि च

55.112

क्षाम-क्षीण-कृशाङ्गानाम् एतान्य् एव घृतानि तु ।
त्वक्क्षीरी-शर्करा-लाज-चूर्णैः स्त्यानानि योजयेत्

55.113

3.112च्व् त्वक्क्षीरी-पिप्पली-लाज- 3.112द्व् -चूर्णैः पानानि योजयेत्
सर्पिर्-गुडान् स-मध्व्-अंशान् कृत्वा दद्यात् पयो ऽनु च ।
रेतो वीर्यं बलं पुष्टिं तैर् आशु-तरम् आप्नुयात्

55.114

वीत-त्वग्-अस्थि-कूष्माण्ड-तुलां स्विन्नां पुनः पचेत् ।
घट्टयन् सर्पिषः प्रस्थे क्षौद्र-वर्णे ऽत्र च क्षिपेत्

55.115

3.114द्व् क्षौद्र-वर्णे तु निक्षिपेत्
खण्डाच् छतं कणा-शुण्ठ्योर् द्वि-पलं जीरकाद् अपि ।
त्रि-जात-धान्य-मरिचं पृथग् अर्ध-पलांशकम्

55.116

अवतारित-शीते च दत्त्वा क्षौद्रं घृतार्धकम् ।
खजेनामथ्य च स्थाप्यं तन् निहन्त्य् उपयोजितम्

55.117

कास-हिध्मा-ज्वर-श्वास-रक्त-पित्त-क्षत-क्षयान् ।
उरः-संधान-जननं मेधा-स्मृति-बल-प्रदम्

55.118

अश्विभ्यां विहितं हृद्यं कूष्माण्डक-रसायनम् ।
पिबेन् नागबला-मूलस्यार्ध-कर्षाभिवर्धितम्

55.119

3.118द्व् ंयार्ध-कर्षादि-वर्धितम् 3.118द्व् ंयार्ध-कर्ष-विवर्धितम्
पलं क्षीर-युतं मासं क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एष प्रयोगः पुष्ट्य्-आयुर्-बल-वर्ण-करः परम्

55.120

मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या विश्वौषधस्य च ।
पाद-शेषं जल-द्रोणे पचेन् नागबला-तुलाम्

55.121

तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ।
पलार्धिकैश् चातिबला-बला-यष्टी-पुनर्नवैः

55.122

प्रपौण्डरीक-काश्मर्य-प्रियाल-कपिकच्छुभिः ।
अश्वगन्धा-सिताभीरु-मेदा-युग्म-त्रिकण्टकैः

55.123

काकोली-क्षीर-काकोली-क्षीरशुक्ला-द्वि-जीरकैः ।
मृणाल-बिस-खर्जूर-शृङ्गाटक-कसेरुकैः

55.124

3.123ब्व् -क्षीरशुक्ला-द्वि-जीवकैः
एतन् नागबला-सर्पिः पित्त-रक्त-क्षत-क्षयान् ।
जयेत् तृड्-भ्रम-दाहांश् च बल-पुष्टि-करं परम्

55.125

वर्ण्यम् आयुष्यम् ओजस्यं वली-पलित-नाशनम् ।
उपयुज्य च षण् मासान् वृद्धो ऽपि तरुणायते

55.126

3.125च्व् उपयुज्य तु षण्-मासाद्
दीप्ते ऽग्नौ विधिर् एष स्यान् मन्दे दीपन-पाचनः ।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे

55.127

दश-मूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।
हस्ति-पिप्पल्य्-अपामार्ग-पिप्पली-मूल-चित्रकान्

55.128

भार्गीं पुष्कर-मूलं च द्वि-पलांशं यवाढकम् ।
हरीतकी-शतं चैकं जल-पञ्चाढके पचेत्

55.129

3.128ब्व् द्वि-पलांशान् यवाढकम् 3.128द्व् जले पञ्चाढके पचेत्
यव-स्वेदे कषायं तं पूतं तच् चाभया-शतम् ।
पचेद् गुड-तुलां दत्त्वा कुडवं च पृथग् घृतात्

55.130

3.129अव् यवे स्विन्ने कषायं तं
तैलात् स-पिप्पली-चूर्णात् सिद्ध-शीते च माक्षिकात् ।
लेहं द्वे चाभये नित्यम् अतः खादेद् रसायनात्

55.131

3.130च्व् लेहे द्वे चाभये नित्यम्
तद् वली-पलितं हन्याद् वर्णायुर्-बल-वर्धनम् ।
पञ्च-कासान् क्षयं श्वासं स-हिध्मं विषम-ज्वरम्

55.132

मेह-गुल्म-ग्रहण्य्-अर्शो-हृद्-रोगा-रुचि-पीनसान् ।
अगस्त्य-विहितं धन्यम् इदं श्रेष्ठं रसायनम्

55.133

दश-मूलं बलां मूर्वां हरिद्रे पिप्पली-द्वयम् ।
पाठाश्वगन्धापामार्ग-स्वगुप्तातिविषामृताः

55.134

3.133ब्व् हरिद्रा-पिप्पली-द्वयम् 3.133द्व् -स्वगुप्तातिविषामृतम्
बाल-बिल्वं त्रिवृद्-दन्ती-मूलं पत्त्रं च चित्रकात् ।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात्

55.135

बोट-स्थविर-भल्लात-विकङ्कत-शतावरीः ।
पूति-करञ्ज-शम्याक-चन्द्रलेखा-सहाचरम्

55.136

3.135द्व् -चन्द्रलेखा-सहाचरात्
शौभाञ्जनक-निम्ब-त्वग्-इक्षुरं च पलांशकम् ।
पथ्या-सहस्रं स-शतं यवानां चाढक-द्वयम्

55.137

पचेद् अष्ट-गुणे तोये यव-स्वेदे ऽवतारयेत् ।
पूते क्षिपेत् स-पथ्ये च तत्र जीर्ण-गुडात् तुलाम्

55.138

3.137च्व् पूते क्षिपेत् स-पथ्यां च
तैलाज्य-धात्री-रसतः प्रस्थं प्रस्थं ततः पुनः ।
अधिश्रयेन् मृदाव् अग्नौ दर्वी-लेपे ऽवतार्य च

55.139

शीते प्रस्थ-द्वयं क्षौद्रात् पिप्पली-कुडवं क्षिपेत् ।
चूर्णी-कृतं त्रि-जाताच् च त्रि-पलं निखनेत् ततः

55.140

धान्ये पुराण-कुम्भ-स्थं मासं खादेच् च पूर्व-वत् ।
रसायनं वसिष्ठोक्तम् एतत् पूर्व-गुणाधिकम्

55.141

स्वस्थानां निष्-परीहारं सर्वर्तुषु च शस्यते ।
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले

55.142

कुडवांशानि वृक्षाम्लं दाडिमं पत्त्रम् आर्जकात् ।
एकैकां मरिचाजाज्योर् धान्यकाद् द्वे चतुर्थिके

55.143

3.142ब्व् दाडिमं पत्त्रम् आर्जकम्
शर्करायाः पलान्य् अत्र दश द्वे च प्रदापयेत् ।
कृत्वा चूर्णम् अतो मात्राम् अन्न-पानेषु दापयेत्

55.144

रुच्यं तद् दीपनं बल्यं पार्श्वार्ति-श्वास-कास-जित् ।
एकां षो-डशिकां धान्याद् द्वे द्वे चाजाजि-दीप्यकात्

55.145

3.144ब्व् पार्श्वार्ति-श्वास-कास-नुत्
ताभ्यां दाडिम-वृक्षाम्ले द्विर् द्विः सौवर्चलात् पलम् ।
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च

55.146

3.145च्व् शुण्ठ्याः कर्षं कपित्थस्य
तच् चूर्णं षो-डश-पलैः शर्कराया विमिश्रयेत् ।
षाडवो ऽयं प्रदेयः स्याद् अन्न-पानेषु पूर्व-वत्

55.147

विधिश् च यक्ष्म-विहितो यथावस्थं क्षते हितः ।
निवृत्ते क्षत-दोषे तु कफे वृद्ध उरः शिरः

55.148

दाल्यते कासिनो यस्य स ना धूमान् पिबेद् इमान् ।
द्वि-मेदा-द्वि-बला-यष्टी-कल्कैः क्षौमे सु-भाविते

55.149

3.148अव् दाल्येते कासिनो यस्य 3.148ब्व् स धूमान् ना पिबेद् इमान्
वर्तिं कृत्वा पिबेद् धूमं जीवनीय-घृतानुपः ।
मनःशिला-पलाशाजगन्धा-त्वक्क्षीरि-नागरैः

55.150

तद्-वद् एवानु-पानं तु शर्करेक्षु-गुडोदकम् ।
पिष्ट्वा मनःशिलां तुल्याम् आर्द्रया वट-शुङ्गया

55.151

स-सर्पिष्कं पिबेद् धूमं तित्तिरि-प्रतिभोजनम् ।
क्षय-जे बृंहणं पूर्वं कुर्याद् अग्नेश् च वर्धनम्

55.152

3.151ब्व् तित्तिरि-प्रतिभोजितम्
बहु-दोषाय स-स्नेहं मृदु दद्याद् विरेचनम् ।
शम्याकेन त्रिवृतया मृद्वीका-रस-युक्तया

55.153

तिल्वकस्य कषायेण विदारी-स्व-रसेन च ।
सर्पिः सिद्धं पिबेद् युक्त्या क्षीण-देहो विशोधनम्

55.154

पित्ते कफे धातुषु च क्षीणेषु क्षय-कास-वान् ।
घृतं कर्कटकी-क्षीर-द्वि-बला-साधितं पिबेत्

55.155

विदारीभिः कदम्बैर् वा ताल-सस्यैश् च साधितम् ।
घृतं पयश् च मूत्रस्य वैवर्ण्ये कृच्छ्र-निर्गमे

55.156

शूने स-वेदने मेढ्रे पायौ स-श्रोणि-वङ्क्षणे ।
घृत-मण्डेन लघुनानुवास्यो मिश्रकेण वा

55.157

जाङ्गलैर् प्रतिभुक्तस्य वर्तकाद्या बिले-शयाः ।
क्रम-शः प्रसहास् तद्-वत् प्रयोज्याः पिशिताशिनः

55.158

औष्ण्यात् प्रमाथि-भावाच् च स्रोतोभ्यश् च्यावयन्ति ते ।
कफं शुद्धैश् च तैः पुष्टिं कुर्यात् सम्यग् वहन् रसः

55.159

चविका-त्रि-फला-भार्गी-दश-मूलैः स-चित्रकैः ।
कुलत्थ-पिप्पली-मूल-पाठा-कोल-यवैर् जले

55.160

शृतैर् नागर-दुःस्पर्शा-पिप्पली-शठि-पौष्करैः ।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर् विपाचयेत्

55.161

सिद्धे ऽस्मिंश् चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ।
दत्त्वा युक्त्या पिबेन् मात्रां क्षय-कास-निपीडितः

55.162

3.161ब्व् द्वौ पञ्च लवणानि तु
कासमर्दाभया-मुस्ता-पाठा-कट्फल-नागरैः ।
पिप्पल्या कटु-रोहिण्या काश्मर्या सुरसेन च

55.163

अक्ष-मात्रैर् घृत-प्रस्थं क्षीर-द्राक्षा-रसाढके ।
पचेच् छोष-ज्वर-प्लीह-सर्व-कास-हरं शिवम्

55.164

वृष-व्याघ्री-गुडूचीनां पत्त्र-मूल-फलाङ्कुरात् ।
रस-कल्कैर् घृतं पक्वं हन्ति कास-ज्वरा-रुचीः

55.165

द्वि-गुणे दाडिम-रसे सिद्धं वा व्योष-संयुतम् ।
पिबेद् उपरि भुक्तस्य यव-क्षार-युतं नरः

55.166

3.165च्व् पिबेद् उपरि भक्तस्य 3.165द्व् यव-क्षार-घृतं नरः 3.165द्व्
यव-क्षार-युतं घृतम्
पिप्पली-गुड-सिद्धं वा छाग-क्षीर-युतं घृतम् ।
एतान्य् अग्नि-विवृद्ध्य्-अर्थं सर्पींषि क्षय-कासिनाम्

55.167

स्युर् दोष-बद्ध-कण्ठोरः-स्रोतसां च विशुद्धये ।
प्रस्थोन्मिते यव-क्वाथे विंशतिं विजयाः पचेत्

55.168

स्विन्ना मृदित्वा तास् तस्मिन् पुराणात् षट्-पलं गुडात् ।
पिप्पल्या द्वि-पलं कर्षं मनोह्वाया रसाञ्जनात्

55.169

दत्त्वार्धाक्षं पचेद् भूयः स लेहः श्वास-कास-जित् ।
श्वाविधां सूचयो दग्धाः स-घृत-क्षौद्र-शर्कराः

55.170

3.169ब्व् स लेहः श्वास-कास-नुत्
श्वास-कास-हरा बर्हि-पादौ वा मधु-सर्पिषा ।
एरण्ड-पत्त्र-क्षारं वा व्योष-तैल-गुडान्वितम्

55.171

लेहयेत् क्षारम् एवं वा सुरसैरण्ड-पत्त्र-जम् ।
लिह्यात् त्र्य्-ऊषण-चूर्णं वा पुराण-गुड-सर्पिषा

55.172

पद्मकं त्रि-फला व्योषं विडङ्गं देवदारु च ।
बला रास्ना च तच्-चूर्णं समस्तं सम-शर्करम्

55.173

3.172द्व् समस्त-सम-शर्करम्
खादेन् मधु-घृताभ्यां वा लिह्यात् कास-हरं परम् ।
तद्-वन् मरिच-चूर्णं वा स-घृत-क्षौद्र-शर्करम्

55.174

3.173च्व् तद्-वन् मरिच-चूर्णं च
पथ्या-शुण्ठी-घन-गुडैर् गुटिकां धारयेन् मुखे ।
सर्वेषु श्वास-कासेषु केवलं वा विभीतकम्

55.175

पत्त्र-कल्कं घृत-भृष्टं तिल्वकस्य स-शर्करम् ।
पेया वोत्कारिका छर्दि-तृट्-कासामातिसार-जित्

55.176

3.175च्व् पेया चोत्कारिका छर्दि- 3.175द्व् -तृट्-कासामातिसार-नुत्
कण्टकारी-रसे सिद्धो क्षीरं यूषान् रसान् अपि ।
स-गौरामलकः साम्लः सर्व-कास-भिषग्-जितम्

55.177

वात-घ्नौषध-निःक्वाथे क्षीरं यूषान् रसान् अपि ।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षय-कासिने

55.178

क्षत-कासे च ये धूमाः सानु-पाना निदर्शिताः ।
क्षय-कासे ऽपि ते योज्या वक्ष्यते यच् च यक्ष्मणि

55.179

3.178द्व् वक्ष्यन्ते ये च यक्ष्मणि
बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् ।
व्यत्यासात् क्षय-कासिभ्यो बल्यं सर्वं प्रशस्यते

55.180

संनिपातोद्भवो घोरः क्षय-कासो यतस् ततः ।
यथा-दोष-बलं तस्य संनिपात-हितं हितम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc