अष्टाङ्गहृदयसूत्र · अध्याय 48
11.63च्व् आटोपम् आध्मानम् अ-पक्त्य्-अ-शक्तिम्
निदानस्थान
रोगाः सर्वे ऽपि मन्दे ऽग्नौ सु-तराम् उदराणि तु ।
अ-जीर्णान् मलिनैश् चान्नैर् जायन्ते मल-संचयात्
ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीर् अम्बु-वाहिनीः ।
प्राणाग्न्य्-अपानान् संदूष्य कुर्युस् त्वङ्-मांस-संधि-गाः
आध्माप्य कुक्षिम् उदरम् अष्ट-धा तच् च भिद्यते ।
पृथग् दोषैः समस्तैश् च प्लीह-बद्ध-क्षतोदकैः
तेनार्ताः शुष्क-ताल्व्-ओष्ठाः शून-पाद-करोदराः ।
नष्ट-चेष्टा-बलाहाराः कृशाः प्रध्मात-कुक्षयः
स्युः प्रेत-रूपाः पुरुषा भाविनस् तस्य लक्षणम् ।
क्षुन्-नाशो ऽन्नं चिरात् सर्वं स-विदाहं च पच्यते
12.5द्व् स-विदाहं विपच्यते
जीर्णा-जीर्णं न जानाति सौहित्यं सहते न च ।
क्षीयते बलतः शश्वच् छ्वसित्य् अल्पे ऽपि चेष्टिते
वृद्धिर् विषो ऽ-प्रवृत्तिश् च किञ्-चिच् छोफश् च पादयोः ।
रुग्-वस्ति-संधौ तत-ता लघ्व्-अल्पा-भोजनैर् अपि
12.7अव् वृद्धिर् विषो ऽ-प्रवृत्तिर् वा
राजी-जन्म वली-नाशो जठरे जठरेषु तु ।
सर्वेषु तन्द्रा सदनं मल-सङ्गो ऽल्प-वह्नि-ता
दाहः श्वयथुर् आध्मानम् अन्ते सलिल-संभवः ।
सर्वं त्व् अ-तोयम् अरुणम् अ-शोफं नाति-भारिकम्
गवाक्षितं सिरा-जालैः सदा गुडगुडायते ।
नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति
मारुतो हृत्-कटी-नाभि-पायु-वङ्क्षण-वेदनाः ।
स-शब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम्
12.11ब्व् -पायु-वङ्क्षण-वेदना
नाति-मन्दो ऽनलो लौल्यं न च स्याद् वि-रसं मुखम् ।
तत्र वातोदरे शोफः पाणि-पान्-मुष्क-कुक्षिषु
कुक्षि-पार्श्वोदर-कटी-पृष्ठ-रुक् पर्व-भेदनम् ।
शुष्क-कासो ऽङ्ग-मर्दो ऽधो-गुरु-ता मल-संग्रहः
श्यावारुण-त्वग्-आदि-त्वम् अ-कस्माद् वृद्धि-ह्रास-वत् ।
स-तोद-भेदम् उदरं तनु-कृष्ण-सिरा-ततम्
12.14द्व् तनु कृष्ण-सिरा-ततम्
आध्मात-दृति-वच् छब्दम् आहतं प्रकरोति च ।
वायुश् चात्र स-रुक्-शब्दो विचरेत् सर्वतो-गतिः
पित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्य-ता ।
भ्रमो ऽतीसारः पीत-त्वं त्वग्-आदाव् उदरं हरित्
पीत-ताम्र-सिरानद्धं स-स्वेदं सोष्म दह्यते ।
धूमायति मृदु-स्पर्शं क्षिप्र-पाकं प्रदूयते
12.17च्व् धूमायते मृदु-स्पर्शं
श्लेष्मोदरे ऽङ्ग-सदनं स्वापः श्वयथु-गौरवम् ।
निद्रोत्क्लेशा-रुचि-श्वास-कास-शुक्ल-त्वग्-आदि-ता
12.18ब्व् स्वाप-श्वयथु-गौरवम्
उदरं स्तिमितं श्लक्ष्णं शुक्ल-राजी-ततं महत् ।
चिराभिवृद्धि कठिनं शीत-स्पर्शं गुरु स्थिरम्
12.19अव् उदरं स्तिमितं स्निग्धं
त्रि-दोष-कोपनैस् तैस् तैः स्त्री-दत्तैश् च रजो-मलैः ।
गर-दूषी-विषाद्यैश् च स-रक्ताः संचिता मलाः
कोष्ठं प्राप्य विकुर्वाणाः शोष-मूर्छा-भ्रमान्वितम् ।
कुर्युस् त्रि-लिङ्गम् उदरं शीघ्र-पाकं सु-दारुणम्
बाधते तच् च सु-तरां शीत-वाताभ्र-दर्शने ।
अत्य्-आशितस्य संक्षोभाद् यान-यानादि-चेष्टितैः
12.22ब्व् शीत-वाताभ्र-दर्शनैः
अति-व्यवाय-कर्माध्व-वमन-व्याधि-कर्शनैः ।
वाम-पार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ।
सो ऽष्ठीलेवाति-कठिनः प्राक् ततः कूर्म-पृष्ठ-वत्
12.24द्व् प्राकृतः कूर्म-पृष्ठ-वत्
क्रमेण वर्धमानश् च कुक्षाव् उदरम् आवहेत् ।
श्वास-कास-पिपासास्य-वैरस्याध्मान-रुग्-ज्वरैः
पाण्डु-त्व-मूर्छा-छर्दीभिर् दाह-मोहैश् च संयुतम् ।
अरुणाभं वि-वर्णं वा नील-हारिद्र-राजि-मत्
12.26अव् पाण्डु-त्व-मूर्छाति-छर्दि- 12.26ब्व् -दाह-मोहैश् च संयुतम्
उदावर्त-रुजानाहैर् मोह-तृड्-दहन-ज्वरैः ।
गौरवा-रुचि-काठिन्यैर् विद्यात् तत्र मलान् क्रमात्
12.27अव् उदावर्त-रुग्-आनाहैर्
प्लीह-वद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् ।
पक्ष्म-वालैः सहान्नेन भुक्तैर् बद्धायने गुदे
दुर्-नामभिर् उदावर्तैर् अन्यैर् वान्त्रोपलेपिभिः ।
वर्चः-पित्त-कफान् रुद्ध्वा करोति कुपितो ऽनिलः
12.29ब्व् अन्नैर् वान्त्रोपलेपिभिः
अपानो जठरं तेन स्युर् दाह-ज्वर-तृट्-क्षवाः ।
कास-श्वासोरु-सदनं शिरो-हृन्-नाभि-पायु-रुक्
12.30ब्व् स्युर् दाह-ज्वर-तृट्-क्षुधाः 12.30ब्व् स्युर् दाह-ज्वर-तृट्-क्षुतः
मल-सङ्गो ऽ-रुचिश् छर्दिर् उदरं मूढ-मारुतम् ।
स्थिरं नीलारुण-सिरा-राजी-नद्धम् अ-राजि वा
नाभेर् उपरि च प्रायो गो-पुच्छाकृति जायते ।
अस्थ्य्-आदि-शल्यैः सान्नैश् चेद् भुक्तैर् अत्य्-अशनेन वा
12.32च्व् अस्थ्य्-आदि-शल्यैः सान्नैश् च
भिद्यते पच्यते वान्त्रं तच्-छिद्रैश् च स्रवन् बहिः ।
आम एव गुदाद् एति ततो ऽल्पाल्पं स-विड्-रसः
12.33अव् भिद्यते पच्यते चान्त्रं 12.33द्व् ऽल्पाल्पः स-विड्-रसः
तुल्यः कुणप-गन्धेन पिच्छिलः पीत-लोहितः ।
शेषश् चापूर्य जठरं जठरं घोरम् आवहेत्
वर्धयेत् तद् अधो नाभेर् आशु चैति जलात्म-ताम् ।
उद्रिक्त-दोष-रूपं च व्याप्तं च श्वास-तृड्-भ्रमैः
12.35अव् वर्धते तद् अधो नाभेर् 12.35द्व् व्याप्तं च श्वास-तृड्-ज्वरैः
छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे ।
प्रवृत्त-स्नेह-पानादेः सहसामाम्बु-पायिनः
अत्य्-अम्बु-पानान् मन्दाग्नेः क्षीणस्याति-कृशस्य वा ।
रुद्ध्वाम्बु-मार्गान् अनिलः कफश् च जल-मूर्छितः
वर्धयेतां तद् एवाम्बु तत्-स्थानाद् उदराश्रितौ ।
ततः स्याद् उदरं तृष्णा-गुद-स्रुति-रुजान्वितम्
12.38द्व् -गुद-स्रुति-रुजा-युतम्
कास-श्वासा-रुचि-युतं नाना-वर्ण-सिरा-ततम् ।
तोय-पूर्ण-दृति-स्पर्श-शब्द-प्रक्षोभ-वेपथु
12.39ब्व् नाना-वर्ण-सिरान्वितम् 12.39ब्व् नाना-वर्ण-सिराचितम् 12.39ब्व्
नाना-वर्ण-सिरावृतम्
दकोदरं महत् स्निग्धं स्थिरम् आवृत्त-नाभि तत् ।
उपेक्षया च सर्वेषु दोषाः स्व-स्थानतश् च्युताः
पाकाद् द्रवा द्रवी-कुर्युः संधि-स्रोतो-मुखान्य् अपि ।
स्वेदश् च बाह्य-स्रोतःसु विहतस् तिर्यग्-आस्थितः
12.41अव् पाकाद् द्रवाद् द्रवी-कुर्युः
तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् ।
गुरूदरं स्थिरं वृत्तम् आहतं च न शब्द-वत्
मृदु व्यपेत-राजीकं नाभ्यां स्पृष्टं च सर्पति ।
तद् अनूदक-जन्मास्मिन् कुक्षि-वृद्धिस् ततो ऽधिकम्
सिरान्तर्धानम् उदक-जठरोक्तं च लक्षणम् ।
वात-पित्त-कफ-प्लीह-संनिपातोदकोदरम्
कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः ।
सर्वं च जात-सलिलं रिष्टोक्तोपद्रवान्वितम्
जन्मनैवोदरं सर्वं प्रायः कृच्छ्र-तमं मतम् ।
बलिनस् तद् अ-जाताम्बु यत्न-साध्यं नवोत्थितम्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0