भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 46

46.1

निदानस्थान
प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः ।
षट् चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम्

46.2

अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् ।
स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम्

46.3

नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् ।
एक-स्थानासन-रतिः शयनं विधि-वर्जितम्

46.4

वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः ।
दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम्

46.5

10.4द्व् -स्वेद-मेदो-वसामिषम्
पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् ।
धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः

46.6

साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः ।
समासम् अ-क्रिय-तया महात्यय-तयापि च

46.7

सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता ।
दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः

46.8

10.7ब्व् प्रभूताकुल-मूत्र-ता
मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम्

46.9

मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् ।
इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः

46.10

सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति ।
सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम्

46.11

संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् ।
शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति

46.12

10.11ब्व् पिष्ट-वद् बहुलं सितम्
मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् ।
शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम्

46.13

10.12अव् मूत्राणून् सिकता-मेही 10.12अव् मूत्रे ऽणून् सिकता-मेही
शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति ।
लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम्

46.14

गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् ।
नील-मेहेन नीलाभं काल-मेही मषी-निभम्

46.15

हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् ।
विस्रं माञ्जिष्ठ-मेहेन मञ्जिष्ठा-सलिलोपमम्

46.16

विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः ।
वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः

46.17

मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः ।
हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम्

46.18

10.17अव् मज्जाभं मज्ज-मिश्रं वा
स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति ।
मधु-मेही मधु-समं जायते स किल द्वि-धा

46.19

10.18च्व् मधु-मेहे मधु-समं
क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा ।
आवृतो दोष-लिङ्गानि सो ऽ-निमित्तं प्रदर्शयेत्

46.20

10.19ब्व् दोषावृत-पथे ऽपि वा
क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् ।
कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम्

46.21

मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति ।
सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः

46.22

अ-विपाको ऽ-रुचिश् छर्दिर् निद्रा कासः स-पीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम्

46.23

वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः ।
दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम्

46.24

वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः ।
शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते

46.25

10.24ब्व् -कण्ठ-हृद्-ग्रह-लोल-ताः
शराविका कच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्रिणी स-विदारिका

46.26

10.25द्व् पुत्रिणी च विदारिका
विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश ।
संधि-मर्मसु जायन्ते मांसलेषु च धामसु

46.27

अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता ।
शराव-मान-संस्थाना पिटिका स्याच् छराविका

46.28

अवगाढार्ति-निस्तोदा महा-वस्तु-परिग्रहा ।
श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता

46.29

स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया ।
रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी

46.30

10.29ब्व् स्निग्ध-स्रावा महाश्रया
अवगाढ-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा ।
महती पिटिका नीला विनता विनता स्मृता

46.31

दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी ।
रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी

46.32

मान-संस्थानयोस् तुल्या मसूरेण मसूरिका ।
सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा

46.33

सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता ।
पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता

46.34

10.33अव् सर्षपा सर्षपा-तुल्य- 10.33द्व् -सु-सूक्ष्म-पिटिकावृता 10.33द्व्
-सु-सूक्ष्म-पिटिकान्विता
विदारी-कन्द-वद् वृत्ता कठिना च विदारिका ।
विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम्

46.35

पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः ।
सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः

46.37

तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥ 36अब् ॥
प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥ 36च्द् ॥
तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥ 36एf ॥
हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् ।
यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः

46.38

10.37द्व् रक्त-पित्तं तु तं विदुः 10.37द्व् रक्त-पित्तं च तद् विदुः
स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः ।
हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः

46.39

10.38ब्व् शय्यासन-स्थान-सुखाभिलाषः
शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः ।
भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च

46.40

दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः ।
संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा

46.41

10.40च्व् संतर्पणाद् वा कफ-संभवः स्यात्
स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः ।
साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc