भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 37

37.1

शरीरस्य ततः स्थानं शारीरम् इदम् उच्यते ॥ 73ऊअब् ॥
निदानस्थान
रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः ।
यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः

37.2

निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा ।
संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम्

37.3

निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः ।
निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते

37.4

उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः ।
लिङ्गम् अ-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम्

37.5

तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते ।
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः

37.6

हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् ।
औषधान्न-विहाराणाम् उपयोगं सुखावहम्

37.7

विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः ।
विपरीतो ऽन्-उपशयो व्याध्य्-अ-सात्म्याभिसंज्ञितः

37.8

यथा-दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः

37.9

संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति

37.10

दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना ।
स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत्

37.11

हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् ।
नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम्

37.12

इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति ।
सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः

37.13

1.12अव् इति प्रोक्तो निदानार्थः 1.12ब्व् तं व्यासेनोपदेक्ष्यते 1.12ब्व् तं
व्यासेनोपदिश्यते
1.12ब्व् स व्यासेनोपदेक्ष्यति 1.12ब्व् स व्यासेनोपदेक्ष्यते 1.12ब्व् स
व्यासेनोपदिश्यते
तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् ।
अ-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः

37.14

1.13च्व् अ-हितस् त्रि-विधो योगस्
तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः ।
धारणोदीरण-निशा-जागरात्य्-उच्च-भाषणैः

37.15

क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः ।
ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः

37.16

पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः ।
शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च

37.17

1.16द्व् -निदाघ-समयेषु च
स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः ।
आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः

37.18

1.17च्व् अति-स्वप्न-सुखा-जीर्ण-
प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः ।
पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात्

37.19

मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः ।
संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः

37.20

व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः ।
पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः

37.21

दोष-त्रय-करैस् तैस् तैस् तथान्न-परिवर्तनात् ।
ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात्

37.22

1.21ब्व् तथान्न-परिवर्ततः 1.21ब्व् तथान्न-परिवृत्तितः
दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-पीडनात् ।
मिथ्या-योगाच् च विविधात् पापानां च निषेवणात्

37.23

1.22अव् दुष्टामात् पर्वताश्लेषाद्
स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः ।
प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc