भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 28

28.1

रक्त-जा व्यङ्ग-कुष्ठाद्याः कण्ठास्याक्षि-शिरो-गदाः ।
पलितारूंषिकाबाधाः शाम्यन्त्य् एते सिरा-व्यधात् ॥ 53+1 ॥
निर्-व्याधि-नीलोत्पल-पत्त्र-नेत्रं सु-व्यक्त-मूलासित-बद्ध-केशम् ।
चन्द्रोपमं पद्म-सु-गन्धि वक्त्रं भवेल् ललाटे तु सिरा-व्यधेन ॥ 53+2 ॥
सूत्रस्थान
वक्रर्जु-तिर्यग्-ऊर्ध्वाधः शल्यानां पञ्च-धा गतिः ।
ध्यामं शोफ-रुजा-वन्तं स्रवन्तं शोणितं मुहुः

28.2

अभ्युद्गतं बुद्बुद-वत् पिटिकोपचितं व्रणम् ।
मृदु-मांसं च जानीयाद् अन्तः-शल्यं समासतः

28.3

28.2अव् अभ्युन्नतं बुद्बुद-वत् 28.2च्व् मृदु-मांसं विजानीयाद्
विशेषात् त्वग्-गते शल्ये वि-वर्णः कठिनायतः ।
शोफो भवति मांस-स्थे चोषः शोफो विवर्धते

28.4

पीडना-क्षम-ता पाकः शल्य-मार्गो न रोहति ।
पेश्य्-अन्तर-गते मांस-प्राप्त-वच् छ्वयथुं विना

28.5

28.4अव् पीडने ऽ-क्षम-ता पाकः 28.4द्व् -प्राप्त-वच् छ्वयथोर् विना
आक्षेपः स्नायु-जालस्य संरम्भ-स्तम्भ-वेदनाः ।
स्नायु-गे दुर्-हरं चैतत् सिराध्मानं सिराश्रिते

28.6

28.5च्व् स्नाव-गे दुर्-हरं चैतत्
स्व-कर्म-गुण-हानिः स्यात् स्रोतसां स्रोतसि स्थिते ।
धमनी-स्थे ऽनिले रक्तं फेन-युक्तम् उदीरयेत्

28.7

28.6द्व् फेन-युक्तम् उदीरयन्
निर्याति शब्द-वान् स्याच् च हृल्-लासः साङ्ग-वेदनः ।
संघर्षो बल-वान् अस्थि-संधि-प्राप्ते ऽस्थि-पूर्ण-ता

28.8

28.7च्व् संहर्षो बल-वान् अस्थि-
नैक-रूपा रुजो ऽस्थि-स्थे शोफस् तद्-वच् च संधि-गे ।
चेष्टा-निवृत्तिश् च भवेद् आटोपः कोष्ठ-संश्रिते

28.9

आनाहो ऽन्न-शकृन्-मूत्र-दर्शनं च व्रणानने ।
विद्यान् मर्म-गतं शल्यं मर्म-विद्धोपलक्षणैः

28.10

यथा-स्वं च परिस्रावैस् त्वग्-आदिषु विभावयेत् ।
रुह्यते शुद्ध-देहानाम् अनुलोम-स्थितं तु तत्

28.11

28.10अव् यथा-यथं परिस्रावैस्
दोष-कोपाभिघातादि-क्षोभाद् भूयो ऽपि बाधते ।
त्वङ्-नष्टे यत्र तत्र स्युर् अभ्यङ्ग-स्वेद-मर्दनैः

28.12

राग-रुग्-दाह-संरम्भा यत्र चाज्यं विलीयते ।
आशु शुष्यति लेपो वा तत्-स्थानं शल्य-वद् वदेत्

28.13

28.12ब्व् यत्र वाज्यं विलीयते 28.12च्व् आशुष्यति प्रलेपो वा
मांस-प्रणष्टं संशुद्ध्या कर्शनाच् छ्लथ-तां गतम् ।
क्षोभाद् रागादिभिः शल्यं लक्षयेत् तद्-वद् एव च

28.14

28.13ब्व् कर्षणाच् छ्लथ-तां गतम्
पेश्य्-अस्थि-संधि-कोष्ठेषु नष्टम् अस्थिषु लक्षयेत् ।
अस्थ्नाम् अभ्यञ्जन-स्वेद-बन्ध-पीडन-मर्दनैः

28.15

प्रसारणाकुञ्चनतः संधि-नष्टं तथास्थि-वत् ।
नष्टे स्नायु-सिरा-स्रोतो-धमनीष्व् अ-समे पथि

28.16

अश्व-युक्तं रथं खण्ड-चक्रम् आरोप्य रोगिणम् ।
शीघ्रं नयेत् ततस् तस्य संरम्भाच् छल्यम् आदिशेत्

28.17

मर्म-नष्टं पृथङ् नोक्तं तेषां मांसादि-संश्रयात् ।
सामान्येन स-शल्यं तु क्षोभिण्या क्रियया स-रुक्

28.18

वृत्तं पृथु चतुष्-कोणं त्रि-पुटं च समासतः ।
अ-दृश्य-शल्य-संस्थानं व्रणाकृत्या विभावयेत्

28.19

तेषाम् आहरणोपायौ प्रतिलोमानुलोमकौ ।
अर्वाचीन-पराचीने निर्हरेत् तद्-विपर्ययात्

28.20

28.19च्व् अवाचीन-पराचीने
सुखाहार्यं यतश् छित्त्वा ततस् तिर्यग्-गतं हरेत् ।
शल्यं न निर्घात्यम् उरः-कक्षा-वङ्क्षण-पार्श्व-गम्

28.21

प्रतिलोमम् अन्-उत्तुण्डं छेद्यं पृथु-मुखं च यत् ।
नैवाहरेद् वि-शल्य-घ्नं नष्टं वा निर्-उपद्रवम्

28.22

अथाहरेत् कर-प्राप्यं करेणैवेतरत् पुनः ।
दृश्यं सिंहाहि-मकर-वर्मि-कर्कटकाननैः

28.23

अ-दृश्यं व्रण-संस्थानाद् ग्रहीतुं शक्यते यतः ।
कङ्क-भृङ्गाह्व-कुरर-शरारि-वायसाननैः

28.24

संदंशाभ्यां त्वग्-आदि-स्थं तालाभ्यां सुषिरं हरेत् ।
सुषिर-स्थं तु नलकैः शेषं शेषैर् यथा-यथम्

28.25

शस्त्रेण वा विशस्यादौ ततो निर्-लोहितं व्रणम् ।
कृत्वा घृतेन संस्वेद्य बद्धाचारिकम् आदिशेत्

28.26

28.25द्व् बद्धाचारिकम् आचरेत्
सिरा-स्नायु-विलग्नं तु चालयित्वा शलाकया ।
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना

28.27

28.26अव् सिरा-स्नायु-विलग्नं च 28.26अव् सिरा-स्नाव-विलग्नं तु
ततः स्थानान्तरं प्राप्तं आहरेत् तद् यथा-यथम् ।
यथा-मार्गं दुर्-आकर्षम् अन्यतो ऽप्य् एवम् आहरेत्

28.28

अस्थि-दष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत् ।
इत्य् अ-शक्ये सु-बलिभिः सु-गृहीतस्य किङ्करैः

28.29

28.28अव् अस्थि-दृष्टे नरं पद्भ्यां 28.28अव् अस्थि-नष्टे नरं पद्भ्यां
28.28अव् अस्थि-लग्नं नरं पद्भ्यां 28.28अव् अस्थि-स्थं न परं पद्भ्यां
तथाप्य् अ-शक्ये वारङ्गं वक्री-कृत्य धनुर्-ज्यया ।
सु-बद्धं वक्त्र-कटके बध्नीयात् सु-समाहितः

28.30

सु-संयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् ।
ताडयेद् इति मूर्धानं वेगेनोन्नमयन् यथा

28.31

28.30द्व् वेगेनोन्नमयेद् यथा
उद्धरेच् छल्यम् एवं वा शाखायां कल्पयेत् तरोः ।
बद्ध्वा दुर्-बल-वारङ्गं कुशाभिः शल्यम् आहरेत्

28.32

श्वयथु-ग्रस्त-वारङ्गं शोफम् उत्पीड्य युक्तितः ।
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत्

28.33

तैर् एव चानयेन् मार्गम् अ-मार्गोत्तुण्डितं तु यत् ।
मृदित्वा कर्णिनां कर्णं नाड्य्-आस्येन निगृह्य वा

28.34

28.33अव् तेनैव वा नयेन् मार्गम् 28.33ब्व् अ-मार्गोत्तुण्डितं च यत्
अयस्-कान्तेन निष्-कर्णं विवृतास्यम् ऋजु-स्थितम् ।
पक्वाशय-गतं शल्यं विरेकेण विनिर्हरेत्

28.35

दुष्ट-वात-विष-स्तन्य-रक्त-तोयादि चूषणैः ।
कण्ठ-स्रोतो-गते शल्ये सूत्रं कण्ठे प्रवेशयेत्

28.36

बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् ।
नाड्याग्नि-तापितां क्षिप्त्वा शलाकाम् अप्-स्थिरी-कृताम्

28.37

28.36ब्व् जतु-दिग्धम् अ-जातुषम्
आनयेज् जातुषं कण्ठाज् जतु-दिग्धाम् अ-जातुषम् ।
केशोन्दुकेन पीतेन द्रवैः कण्टकम् आक्षिपेत्

28.38

28.37ब्व् जतु-दिग्धम् अ-जातुषम् 28.37च्व् केशाण्डकेन पीतेन 28.37च्व्
केशाण्डुकेन पीतेन
28.37च्व् केशोण्डुकेन पीतेन
सहसा सूत्र-बद्धेन वमतस् तेन चेतरत् ।
अ-शक्यं मुख-नासाभ्याम् आहर्तुं परतो नुदेत्

28.39

अप्-पान-स्कन्ध-घाताभ्यां ग्रास-शल्यं प्रवेशयेत् ।
सूक्ष्माक्षि-व्रण-शल्यानि क्षौम-वाल-जलैर् हरेत्

28.40

अपां पूर्णं विधुनुयाद् अवाक्-शिरसम् आयतम् ।
वामयेच् चा-मुखं भस्म-राशौ वा निखनेन् नरम्

28.41

28.40च्व् वामयेद् आ-मुखं भस्म- 28.40च्व् वामयेद् वा-मुखं भस्म-
28.40च्व् वामयेद् वा सुखं भस्म-
कर्णे ऽम्बु-पूर्णे हस्तेन मथित्वा तैल-वारिणी ।
क्षिपेद् अधो-मुखं कर्णं हन्याद् वाचूषयेत वा

28.42

28.41द्व् हन्याद् वाचूषयेत् तदा 28.41द्व् हन्याद् वाचूषयेत च
कीटे स्रोतो-गते कर्णं पूरयेद् लवणाम्बुना ।
शुक्तेन वा सुखोष्णेन मृते क्लेद-हरो विधिः

28.43

जातुषं हेम-रूप्यादि-धातु-जं च चिर-स्थितम् ।
ऊष्मणा प्राय-शः शल्यं देह-जेन विलीयते

28.44

मृद्-वेणु-दारु-शृङ्गास्थि-दन्त-वालोपलानि न ।
विषाण-वेण्व्-अयस्-ताल-दारु-शल्यं चिराद् अपि

28.45

28.44ब्व् -दन्त-वालोपलादि न
प्रायो निर्भुज्यते तद् धि पचत्य् आशु पलासृजी ।
शल्ये मांसावगाढे चेत् स देशो न विदह्यते

28.46

28.45च्व् शल्ये मांसावगाढे च
ततस् तं मर्दन-स्वेद-शुद्धि-कर्षण-बृंहणैः ।
तीक्ष्णोपनाह-पानान्न-घन-शस्त्र-पदाङ्कनैः

28.47

28.46ब्व् -शुद्धि-कर्शन-बृंहणैः
पाचयित्वा हरेच् छल्यं पाटनैषण-भेदनैः ।
शल्य-प्रदेश-यन्त्राणाम् अवेक्ष्य बहु-रूप-ताम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc