अष्टाङ्गहृदयसूत्र · अध्याय 25
मालती-मल्लिका-पुष्पैर् बद्धाक्षो निवसेन् निशाम् ॥ 21ऊअब् ॥
24.21ऊब्व् बद्धाक्षो निवसेन् निशि
सर्वात्मना नेत्र-बलाय यत्नं कुर्वीत नस्याञ्जन-तर्पणाद्यैः ।
दृष्टिश् च नष्टा विविधं जगच् च तमो-मयं जायत एक-रूपम् ॥ 22ऊ ॥
सूत्रस्थान
नाना-विधानां शल्यानां नाना-देश-प्रबोधिनाम् ।
आहर्तुम् अभ्युपायो यस् तद् यन्त्रं यच् च दर्शने
25.1ब्व् नाना-देश-विबाधिनाम्
अर्शो-भगन्दरादीनां शस्त्र-क्षाराग्नि-योजने ।
शेषाङ्ग-परिरक्षायां तथा वस्त्य्-आदि-कर्मणि
घटिकालाबु-शृङ्गं च जाम्बवौष्ठादिकानि च ।
अनेक-रूप-कार्याणि यन्त्राणि विविधान्य् अतः
विकल्प्य कल्पयेत् बुद्ध्या यथा-स्थूलं तु वक्ष्यते ।
तुल्यानि कङ्क-सिंहर्क्ष-काकादि-मृग-पक्षिणाम्
मुखैर् मुखानि यन्त्राणां कुर्यात् तत्-संज्ञकानि च ।
अष्टा-दशाङ्गुलायामान्य् आयसानि च भूरि-शः
मसूराकार-पर्य्-अन्तैः कण्ठे बद्धानि कीलकैः ।
विद्यात् स्वस्तिक-यन्त्राणि मूले ऽङ्कुश-नतानि च
25.6द्व् मूले ऽङ्कुश-निभानि च
तैर् दृढैर् अस्थि-संलग्न-शल्याहरणम् इष्यते ।
कील-बद्ध-विमुक्ताग्रौ संदंशौ षो-डशाङ्गुलौ
त्वक्-सिरा-स्नायु-पिशित-लग्न-शल्यापकर्षणौ ।
षड्-अङ्गुलो ऽन्यो हरणे सूक्ष्म-शल्योप-पक्ष्मणाम्
मुचुण्डी सूक्ष्म-दन्तर्जुर् मूले रुचक-भूषणा ।
गम्भीर-व्रण-मांसानाम् अर्मणः शेषितस्य च
25.9अव् मुचुटी सूक्ष्म-दन्तर्जुर्
द्वे द्वा-दशाङ्गुले मत्स्य-ताल-वत् द्व्य्-एक-तालके ।
ताल-यन्त्रे स्मृते कर्ण-नाडी-शल्यापहारिणी
25.10ब्व् -तालु-वत् द्व्य्-एक-तालुके 25.10च्व् तालु-यन्त्रे स्मृते कर्ण-
25.10द्व् -नाडी-शल्यापहारणे 25.10द्व् -नाडी-शल्यापकर्षणी
नाडी-यन्त्राणि सुषिराण्य् एकानेक-मुखानि च ।
स्रोतो-गतानां शल्यानाम् आमयानां च दर्शने
25.11ब्व् एकानेक-मुखानि तु
क्रियाणां सु-कर-त्वाय कुर्याद् आचूषणाय च ।
तद्-विस्तार-परीणाह-दैर्घ्यं स्रोतो-ऽनुरोधतः
दशाङ्गुलार्ध-नाहान्तः-कण्ठ-शल्यावलोकिनी ।
नाडी पञ्च-मुख-च्छिद्रा चतुष्-कर्णस्य संग्रहे
25.13ब्व् -कण्ठ-शल्यावलोकने
वारङ्गस्य द्वि-कर्णस्य त्रि-च्छिद्रा तत्-प्रमाणतः ।
वारङ्ग-कर्ण-संस्थानानाह-दैर्घ्यानुरोधतः
नाडीर् एवं-विधाश् चान्या द्रष्टुं शल्यानि कारयेत् ।
पद्म-कर्णिकया मूर्ध्नि सदृशी द्वा-दशाङ्गुला
चतुर्थ-सुषिरा नाडी शल्य-निर्घातिनी मता ।
अर्शसां गो-स्तनाकारं यन्त्रकं चतुर्-अङ्गुलम्
नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षड्-अङ्गुलम् ।
द्वि-च्छिद्रं दर्शने व्याधेर् एक-च्छिद्रं तु कर्मणि
मध्ये ऽस्य त्र्य्-अङ्गुलं छिद्रम् अङ्गुष्ठोदर-विस्तृतम् ।
अर्धाङ्गुलोच्छ्रितोद्वृत्त-कर्णिकं च तद्-ऊर्ध्वतः
25.18द्व् -कर्णिकं तु तद्-ऊर्ध्वतः
शम्य्-आख्यं तादृग् अ-च्छिद्रं यन्त्रम् अर्शः-प्रपीडनम् ।
सर्व-थापनयेद् ओष्ठं छिद्राद् ऊर्ध्वं भगन्दरे
घ्राणार्बुदार्शसाम् एक-च्छिद्रा नाड्य्-अङ्गुल-द्वया ।
प्रदेशिनी-परीणाहा स्याद् भगन्दर-यन्त्र-वत्
अङ्गुली-त्राणकं दान्तं वार्क्षं वा चतुर्-अङ्गुलम् ।
द्वि-च्छिद्रं गो-स्तनाकारं तद्-वक्त्र-विवृतौ सुखम्
योनि-व्रणेक्षणं मध्ये सुषिरं षो-डशाङ्गुलम् ।
मुद्रा-बद्धं चतुर्-भित्तम् अम्भो-ज-मुकुलाननम्
25.22च्व् मुद्रा-बद्धं चतुर्-भिन्नम् 25.22च्व् मुद्रा-बद्धं चतुष्-कोणम्
चतुः-शलाकम् आक्रान्तं मूले तद् विकसेन् मुखे ।
यन्त्रे नाडी-व्रणाभ्यङ्ग-क्षालनाय षड्-अङ्गुले
वस्ति-यन्त्राकृती मूले मुखे ऽङ्गुष्ठ-कलाय-खे ।
अग्रतो ऽ-कर्णिके मूले निबद्ध-मृदु-चर्मणी
द्वि-द्वारा नलिका पिच्छ-नलिका वोदकोदरे ।
धूम-वस्त्य्-आदि-यन्त्राणि निर्दिष्टानि यथा-यथम्
त्र्य्-अङ्गुलास्यं भवेच् छृङ्गं चूषणे ऽष्टा-दशाङ्गुलम् ।
अग्रे सिद्धार्थक-च्छिद्रं सु-नद्धं चूचुकाकृति
स्याद् द्वा-दशाङ्गुलो ऽलाबुर् नाहे त्व् अष्टा-दशाङ्गुलः ।
चतुस्-त्र्य्-अङ्गुल-वृत्तास्यो दीप्तो ऽन्तः श्लेष्म-रक्त-हृत्
तद्-वद् घटी हिता गुल्म-विलयोन्नमने च सा ।
शलाकाख्यानि यन्त्राणि नाना-कर्माकृतीनि च
25.28द्व् नाना-कर्माकृतीनि तु
यथा-योग-प्रमाणानि तेषाम् एषण-कर्मणी ।
उभे गण्डू-पद-मुखे स्रोतोभ्यः शल्य-हारिणी
25.29ब्व् तेषाम् एषण-कर्मणि
मसूर-दल-वक्त्रे द्वे स्याताम् अष्ट-नवाङ्गुले ।
शङ्कवः षड् उभौ तेषां षो-डश-द्वा-दशाङ्गुलौ
व्यूहने ऽहि-फणा-वक्त्रौ द्वौ दश-द्वा-दशाङ्गुलौ ।
चालने शर-पुङ्खास्याव् आहार्ये बडिशाकृती
नतो ऽग्रे शङ्कुना तुल्यो गर्भ-शङ्कुर् इति स्मृतः ।
अष्टाङ्गुलायतस् तेन मूढ-गर्भं हरेत् स्त्रियाः
अश्मर्य्-आहरणं सर्प-फणा-वद् वक्रम् अग्रतः ।
शर-पुङ्ख-मुखं दन्त-पातनं चतुर्-अङ्गुलम्
25.33अव् अश्मर्य्-आहरणे सर्प- 25.33ब्व् -फणा-वद् वक्त्रम् अग्रतः
कार्पास-विहितोष्णीषाः शलाकाः षट् प्रमार्जने ।
पायाव् आसन्न-दूरार्थे द्वे दश-द्वा-दशाङ्गुले
द्वे षट्-सप्ताङ्गुले घ्राणे द्वे कर्णे ऽष्ट-नवाङ्गुले ।
कर्ण-शोधनम् अश्वत्थ-पत्त्र-प्रान्तं स्रुवाननम्
शलाका-जाम्बवौष्ठानां क्षारे ऽग्नौ च पृथक् त्रयम् ।
युञ्ज्यात् स्थूलाणु-दीर्घाणां शलाकाम् अन्त्र-वर्ध्मनि
मध्योर्ध्व-वृत्त-दण्डां च मूले चार्धेन्दु-संनिभाम् ।
कोलास्थि-दल-तुल्यास्या नासार्शो-ऽर्बुद-दाह-कृत्
अष्टाङ्गुला निम्न-मुखास् तिस्रः क्षारौषध-क्रमे ।
कनीनी-मध्यमानामी-नख-मान-समैर् मुखैः
25.38च्व् कनिष्ठा-मध्यमानामी-
स्वं स्वम् उक्तानि यन्त्राणि मेढ्र-शुद्ध्य्-अञ्जनादिषु ।
अनु-यन्त्राण्य् अयस्-कान्त-रज्जू-वस्त्राश्म-मुद्गराः
25.39च्व् अणु-यन्त्राण्य् अयस्-कान्त-
वध्रान्त्र-जिह्वा-वालाश् च शाखा-नख-मुख-द्वि-जाः ।
कालः पाकः करः पादो भयं हर्षश् च तत्-क्रियाः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0