अष्टाङ्गहृदयसूत्र · अध्याय 23
22.34अव् कच-शदन-सित-त्व-पिञ्जर-त्वं 22.34अव्
कच-शदन-सित-त्व-पिञ्जर-त्व-
22.34अव् कच-सदन-सित-त्व-पिञ्जर-त्व-
सूत्रस्थान
सर्वेषाम् अक्षि-रोगाणाम् आदाव् आश्च्योतनं हितम् ।
रुक्-तोद-कण्डु-घर्षाश्रु-दाह-राग-निबर्हणम्
23.1द्व् -दाह-रोग-निबर्हणम्
उष्णं वाते कफे कोष्णं तच् छीतं रक्त-पित्तयोः ।
निवात-स्थस्य वामेन पाणिनोन्मील्य लोचनम्
शुक्तौ प्रलम्बयान्येन पिचु-वर्त्या कनीनिके ।
दश द्वा-दश वा बिन्दून् द्व्य्-अङ्गुलाद् अवसेचयेत्
ततः प्रमृज्य मृदुना चैलेन कफ-वातयोः ।
अन्येन कोष्ण-पानीय-प्लुतेन स्वेदयेन् मृदु
अत्य्-उष्ण-तीक्ष्णं रुग्-राग-दृङ्-नाशायाक्षि-सेचनम् ।
अति-शीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः
कषाय-वर्त्म-तां घर्षं कृच्छ्राद् उन्मेषणं बहु ।
विकार-वृद्धिम् अत्य्-अल्पं संरम्भम् अ-परिस्रुतम्
गत्वा संधि-शिरो-घ्राण-मुख-स्रोतांसि भेषजम् ।
ऊर्ध्व-गान् नयने न्यस्तम् अपवर्तयते मलान्
23.7अव् गत्वा संधि-सिरा-घ्राण-
अथाञ्जनं शुद्ध-तनोर् नेत्र-मात्राश्रये मले ।
पक्व-लिङ्गे ऽल्प-शोफाति-कण्डू-पैच्छिल्य-लक्षिते
23.8च्व् पक्व-लिङ्गे ऽल्प-शोफार्ति-
मन्द-घर्षाश्रु-रागे ऽक्ष्णि प्रयोज्यं घन-दूषिके ।
आर्ते पित्त-कफासृग्भिर् मारुतेन विशेषतः
लेखनं रोपणं दृष्टि-प्रसादनम् इति त्रि-धा ।
अञ्जनं लेखनं तत्र कषायाम्ल-पटूषणैः
रोपणं तिक्तकैर् द्रव्यैः स्वादु-शीतैः प्रसादनम् ।
तीक्ष्णाञ्जनाभिसंतप्ते नयने तत् प्रसादनम्
प्रयुज्यमानं लभते प्रत्यञ्जन-समाह्वयम् ।
दशाङ्गुला तनुर् मध्ये शलाका मुकुलानना
प्रशस्ता लेखने ताम्री रोपणे काल-लोह-जा ।
अङ्गुली च सुवर्णोत्था रूप्य-जा च प्रसादने
पिण्डो रस-क्रिया चूर्णस् त्रि-धैवाञ्जन-कल्पना ।
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत्
23.14च्व् गुरु-मध्य-लघौ दोषे 23.14द्व् ताः क्रमेण प्रयोजयेत्
पिण्डस्य तीक्ष्ण-द्रव्यस्य मृदु-द्रव्य-कृतस्य च ।
हरेणु-मात्रं द्वि-गुणं प्रमाणं कथयन्त्य् अपि ॥ 14+1 ॥
रस-क्रियायाम् अप्य् एवं विडङ्ग-फल-मात्रकम् ।
शलाकां द्वि-गुणां तीक्ष्णे चूर्णे च त्रि-गुणां मृदौ ॥ 14+2 ॥
हरेणु-मात्रा पिण्डस्य वेल्ल-मात्रा रस-क्रिया ।
तीक्ष्णस्य द्वि-गुणं तस्य मृदुनश् चूर्णितस्य च
23.15अव् पिण्डो हरेणु-मात्रस् तु 23.15अव् हरेणु-मात्रं पिण्डस्य 23.15अव्
हरेणु-मात्रः पिण्डस् तु
23.15ब्व् वल्ल-मात्रा रस-क्रिया 23.15द्व् मृदोश् चूर्णाञ्जनस्य च
द्वे शलाके तु तीक्ष्णस्य तिस्रस् तद्-इतरस्य च ।
निशि स्वप्ने न मध्याह्ने म्लाने नोष्ण-गभस्तिभिः
23.16ब्व् तिस्रः स्युर् इतरस्य च 23.16च्व् निशि स्वप्नेन मध्याह्ने 23.16द्व्
पानान्नोष्ण-गभस्तिभिः
अक्षि-रोगाय दोषाः स्युर् वर्धितोत्पीडित-द्रुताः ।
प्रातः सायं च तच्-छान्त्यै व्य्-अभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा
वदन्त्य् अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् ।
विरेक-दुर्-बलं चक्षुर् आदित्यं प्राप्य सीदति
स्वप्नेन रात्रौ कालस्य सौम्य-त्वेन च तर्पिता ।
शीत-सात्म्या दृग् आग्नेयी स्थिर-तां लभते पुनः
अत्य्-उद्रिक्ते बलासे तु लेखनीये ऽथ-वा गदे ।
कामम् अह्न्य् अपि नात्य्-उष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत्
अश्मनो जन्म लोहस्य तत एव च तीक्ष्ण-ता ।
उपघातो ऽपि तेनैव तथा नेत्रस्य तेजसः
न रात्राव् अपि शीते ऽति नेत्रे तीक्ष्णाञ्जनं हितम् ।
दोषम् अ-स्रावयेत् स्तब्धं कण्डू-जाड्यादि-कारि तत्
23.22च्व् दोषम् अ-स्रावयत् स्तब्धं 23.22च्व् दोषम् अ-स्रावयत् स्तम्भ-
23.22च्व् दोषं न स्रावयेत् स्तम्भ- 23.22द्व् -कण्डू-जाड्यादि-कारि तत्
नाञ्जयेद् भीत-वमित-विरिक्ताशित-वेगिते ।
क्रुद्ध-ज्वरित-तान्ताक्षि-शिरो-रुक्-शोक-जागरे
अ-दृष्टे ऽर्के शिरः-स्नाते पीतयोर् धूम-मद्ययोः ।
अ-जीर्णे ऽग्न्य्-अर्क-संतप्ते दिवा-सुप्ते पिपासिते
23.24द्व् दिवा-स्वप्ने पिपासिते
अति-तीक्ष्ण-मृदु-स्तोक-बह्व्-अच्छ-घन-कर्कशम् ।
अत्य्-अर्थ-शीतलं तप्तम् अञ्जनं नावचारयेत्
23.25च्व् अत्य्-अर्थं शीतलं तप्तम्
अथानुमीलयन् दृष्टिम् अन्तः संचारयेच् छनैः ।
अञ्जिते वर्त्मनी किञ्-चिच् चालयेच् चैवम् अञ्जनम्
तीक्ष्णं व्याप्नोति सहसा न चोन्मेष-निमेषणम् ।
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्
अपेतौषध-संरम्भं निर्वृतं नयनं यदा ।
व्याधि-दोषर्तु-योग्याभिर् अद्भिः प्रक्षालयेत् तदा
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं स-वाससा ।
ऊर्ध्व-वर्त्मनि संगृह्य शोध्यं वामेन चेतरत्
वर्त्म-प्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्य-था ।
कण्डू-जाड्ये ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0