अष्टाङ्गहृदयसूत्र · अध्याय 18
सूत्रस्थान
कफे विदध्याद् वमनं संयोगे वा कफोल्बणे ।
तद्-वद् विरेचनं पित्ते विशेषेण तु वामयेत्
नव-ज्वरातिसाराधः-पित्तासृग्-राज-यक्ष्मिणः ।
कुष्ठ-मेहापची-ग्रन्थि-श्लीपदोन्माद-कासिनः
श्वास-हृल्-लास-वीसर्प-स्तन्य-दोषोर्ध्व-रोगिणः ।
अ-वाम्या गर्भिणी रूक्षः क्षुधितो नित्य-दुःखितः
18.3ब्व् -स्तन्य-रोगोर्ध्व-रोगिणः 18.3च्व् अ-वाम्या गर्भिणी-रूक्ष- 18.3द्व्
-क्षुधिता नित्य-दुःखिताः
बाल-वृद्ध-कृश-स्थूल-हृद्-रोगि-क्षत-दुर्-बलाः ।
प्रसक्त-वमथु-प्लीह-तिमिर-कृमि-कोष्ठिनः
ऊर्ध्व-प्रवृत्त-वाय्व्-अस्र-दत्त-वस्ति-हत-स्वराः ।
मूत्राघात्य् उदरी गुल्मी दुर्-वमो ऽत्य्-अग्निर् अर्शसः
18.5अव् ऊर्ध्व-प्रवृत्त-वातास्र-
उदावर्त-भ्रमाष्ठीला-पार्श्व-रुग्-वात-रोगिणः ।
ऋते विष-गरा-जीर्ण-विरुद्धाभ्यवहारतः
18.6अव् उदावर्त-श्रमाष्ठीला-
प्रसक्त-वमथोः पूर्वे प्रायेणाम-ज्वरो ऽपि च ।
धूमान्तैः कर्मभिर् वर्ज्याः सर्वैर् एव त्व् अ-जीर्णिनः
विरेक-साध्या गुल्मार्शो-विस्फोट-व्यङ्ग-कामलाः ।
जीर्ण-ज्वरोदर-गर-च्छर्दि-प्लीह-हलीमकाः
18.8च्व् जीर्ण-ज्वरोदर-च्छर्दि- 18.8द्व् -प्लीहानाह-हलीमकाः 18.8द्व्
-प्लीह-पाण्डु-हलीमकाः
विद्रधिस् तिमिरं काचः स्यन्दः पक्वाशय-व्यथा ।
योनि-शुक्राश्रया रोगाः कोष्ठ-गाः कृमयो व्रणाः
18.9च्व् योनि-शुक्र-गता रोगाः 18.9च्व् योनि-शुक्राशया रोगाः
वातास्रम् ऊर्ध्व-गं रक्तं मूत्राघातः शकृद्-ग्रहः ।
वाम्यश् च कुष्ठ-मेहाद्या न तु रेच्या नव-ज्वरी
18.10अव् वातासृग् ऊर्ध्व-गं रक्तं 18.10द्व् न तु रेच्यो नव-ज्वरी
अल्पाग्न्य्-अधो-ग-पित्तास्र-क्षत-पाय्व्-अतिसारिणः ।
स-शल्यास्थापित-क्रूर-कोष्ठाति-स्निग्ध-शोषिणः
18.11च्व् स-शल्याभिहत-क्रूर-
अथ साधारणे काले स्निग्ध-स्विन्नं यथा-विधि ।
श्वो-वम्यम् उत्क्लिष्ट-कफं मत्स्य-माष-तिलादिभिः
18.12द्व् मत्स्य-मांस-तिलादिभिः 18.12द्व् मांस-माष-तिलादिभिः
निशां सुप्तं सु-जीर्णान्नं पूर्वाह्णे कृत-मङ्गलम् ।
निर्-अन्नम् ईषत्-स्निग्धं वा पेयया पीत-सर्पिषम्
18.13अव् निशां सुप्तं च जीर्णान्नं
वृद्ध-बाला-बल-क्लीब-भीरून् रोगानुरोधतः ।
आ-कण्ठं पायितान् मद्यं क्षीरम् इक्षु-रसं रसम्
18.14च्व् आ-कण्ठं पाययेन् मद्यं
यथा-विकार-विहितां मधु-सैन्धव-संयुताम् ।
कोष्ठं विभज्य भैषज्य-मात्रां मन्त्राभिमन्त्रिताम्
ब्रह्म-दक्षाश्वि-रुद्रेन्द्र-भू-चन्द्रार्कानिलानलाः ।
ऋषयः सौषधि-ग्रामा भूत-संघाश् च पान्तु वः
रसायनम् इवर्षीणाम् अ-मराणाम् इवामृतम् ।
सुधेवोत्तम-नागानां भैषज्यम् इदम् अस्तु ते
18.17अव् रसायनम् इवर्षीणां 18.17ब्व् देवानाम् अमृतं यथा
नमो भग-वते भैषज्य-गुरवे वैडूर्य-प्रभ-राजाय ॥ 17+1 ॥
तथा-गतायार्हते सम्यक्-संबुद्धाय ॥ 17+2 ॥
तद् यथा ॥ 17+3 ॥
भैषज्ये भैषज्ये महा-भैषज्ये समुद्गते स्वाहा ॥ 17+4 ॥
18.17+4व् भैषज्ये भैषज्ये महा-भैषज्ये भैषज्य-समुद्गते स्वाहा
18.17+4व् भैषज्ये महा-भैषज्ये समुद्गते स्वाहा
प्राङ्-मुखं पाययेत् पीतो मुहूर्तम् अनुपालयेत् ।
तन्-मना जात-हृल्-लास-प्रसेकश् छर्दयेत् ततः
18.18अव् प्राङ्-मुखं पाययेत् पीतं 18.18अव् प्राङ्-मुखं पाययेत् पीते
18.18द्व् -प्रसेकं छर्दयेत् ततः
अङ्गुलीभ्याम् अन्-आयस्तो नालेन मृदुनाथ-वा ।
गल-ताल्व् अ-रुजन् वेगान् अ-प्रवृत्तान् प्रवर्तयन्
18.19द्व् ना-प्रवृत्तान् प्रवर्तयन् 18.19द्व् ना-प्रवृत्तान् प्रवर्तयेत् 18.19द्व्
अ-प्रवृत्तान् प्रवर्तयेत्
प्रवर्तयन् प्रवृत्तांश् च जानु-तुल्यासने स्थितः ।
उभे पार्श्वे ललाटं च वमतश् चास्य धारयेत्
प्रपीडयेत् तथा नाभिं पृष्ठं च प्रतिलोमतः ।
कफे तीक्ष्णोष्ण-कटुकैः पित्ते स्वादु-हिमैर् इति
वमेत् स्निग्धाम्ल-लवणैः संसृष्टे मरुता कफे ।
पित्तस्य दर्शनं यावच् छेदो वा श्लेष्मणो भवेत्
हीन-वेगः कणा-धात्री-सिद्धार्थ-लवणोदकैः ।
वमेत् पुनः पुनस् तत्र वेगानाम् अ-प्रवर्तनम्
प्रवृत्तिः स-विबन्धा वा केवलस्यौषधस्य वा ।
अ-योगस् तेन निष्ठीव-कण्डू-कोठ-ज्वरादयः
निर्-विबन्धं प्रवर्तन्ते कफ-पित्तानिलाः क्रमात् ।
सम्यग्-योगे ऽति-योगे तु फेन-चन्द्रक-रक्त-वत्
18.25द्व् फेन-चन्द्रिक-रक्त-वत्
मनः-प्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत् ।
वैपरीत्यम् अ-योगानां न चाति-महती व्यथा ॥ 25.1+(1) ॥
18.25.1+(1)अव् मनः-प्रसादः स्वास्थ्यं च 18.25.1+(1)ब्व् अवस्थानं स्वयं
भवेत्
वमितं क्षाम-ता दाहः कण्ठ-शोषस् तमो भ्रमः ।
घोरा वाय्व्-आमया मृत्युर् जीव-शोणित-निर्गमात्
सम्यग्-योगेन वमितं क्षणम् आश्वास्य पाययेत् ।
धूम-त्रयस्यान्य-तमं स्नेहाचारम् अथादिशेत्
ततः सायं प्रभाते वा क्षुद्-वान् स्नातः सुखाम्बुना ।
भुञ्जानो रक्त-शाल्य्-अन्नं भजेत् पेयादिकं क्रमम्
18.28च्व् पुराण-रक्त-शालीनाम् 18.28च्व् भुञ्जानो ऽन्नम् अपेक्षेत 18.28द्व्
अ-स्नेह-लवणोषणम्
18.28द्व् पेयादिकम् इमं क्रमम् 18.28द्व् पेयादिकम् इमं क्रमात् 18.28द्व्
पेयादिकम् अमुं क्रमम्
पेयां विलेपीम् अ-कृतं कृतं च यूषं रसं त्रीन् उभयं तथैकम् ।
क्रमेण सेवेत नरो ऽन्न-कालान् प्रधान-मध्यावर-शुद्धि-शुद्धः
यथाणुर् अग्निस् तृण-गो-मयाद्यैः संधुक्ष्यमाणो भवति क्रमेण ।
महान् स्थिरः सर्व-पचस् तथैव शुद्धस्य पेयादिभिर् अन्तराग्निः
18.30द्व् शुद्धस्य पेयादिभिर् अन्तर्-अग्निः
जघन्य-मध्य-प्रवरे तु वेगाश् चत्वार इष्टा वमने षड् अष्टौ ।
दशैव ते द्वि-त्रि-गुणा विरेके प्रस्थस् तथा स्याद् द्वि-चतुर्-गुणश् च
पित्तावसानं वमनं विरेकाद् अर्धं कफान्तं च विरेकम् आहुः ।
द्वि-त्रान् स-विट्कान् अपनीय वेगान् मेयं विरेके वमने तु पीतम्
अथैनं वामितं भूयः स्नेह-स्वेदोपपादितम् ।
श्लेष्म-काले गते ज्ञात्वा कोष्ठं सम्यग् विरेचयेत्
बहु-पित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते ।
प्रभूत-मारुतः क्रूरः कृच्छ्राच् छ्यामादिकैर् अपि
कषाय-मधुरैः पित्ते विरेकः कटुकैः कफे ।
स्निग्धोष्ण-लवणैर् वायाव् अ-प्रवृत्तौ तु पाययेत्
उष्णाम्बु स्वेदयेद् अस्य पाणि-तापेन चोदरम् ।
उत्थाने ऽल्पे दिने तस्मिन् भुक्त्वान्ये-द्युः पुनः पिबेत्
अ-दृढ-स्नेह-कोष्ठस् तु पिबेद् ऊर्ध्वं दशाहतः ।
भूयो ऽप्य् उपस्कृत-तनुः स्नेह-स्वेदैर् विरेचनम्
यौगिकं सम्यग् आलोच्य स्मरन् पूर्वम् अतिक्रमम् ।
हृत्-कुक्ष्य्-अ-शुद्धिर् अ-रुचिर् उत्क्लेशः श्लेष्म-पित्तयोः
18.38ब्व् स्मरन् पूर्वम् अनुक्रमम्
कण्डू-विदाहः पिटिकाह् पीनसो वात-विड्-ग्रहः ।
अ-योग-लक्षणं योगो वैपरीत्ये यथोदितात्
18.39अव् कण्डू-विदाहः पिटिका
विट्-पित्त-कफ-वातेषु निःसृतेषु क्रमात् स्रवेत् ।
निः-श्लेष्म-पित्तम् उदकं श्वेतं कृष्णं स-लोहितम्
मांस-धावन-तुल्यं वा मेदः-खण्डाभम् एव वा ।
गुद-निःसरणं तृष्णा भ्रमो नेत्र-प्रवेशनम्
18.41द्व् श्रमो नेत्र-प्रवेशनम्
भवन्त्य् अति-विरिक्तस्य तथाति-वमनामयाः ।
सम्यग्-विरिक्तम् एनं च वमनोक्तेन योजयेत्
धूम-वर्ज्येन विधिना ततो वमित-वान् इव ।
क्रमेणान्नानि भुञ्जानो भजेत् प्रकृति-भोजनम्
मन्द-वह्निम् अ-संशुद्धम् अ-क्षामं दोष-दुर्-बलम् ।
अ-दृष्ट-जीर्ण-लिङ्गं च लङ्घयेत् पीत-भेषजम्
स्नेह-स्वेदौषधोत्क्लेश-सङ्गैर् इति न बाध्यते ।
संशोधनास्र-विस्राव-स्नेह-योजन-लङ्घनैः
यात्य् अग्निर् मन्द-तां तस्मात् क्रमं पेयादिम् आचरेत् ।
स्रुताल्प-पित्त-श्लेष्माणं मद्य-पं वात-पैत्तिकम्
पेयां न पाययेत् तेषां तर्पणादि-क्रमो हितः ।
अ-पक्वं वमनं दोशान् पच्यमानं विरेचनम्
18.47ब्व् तर्पणादिः क्रमो हितः 18.47ब्व् तर्पणादिः क्रमो मतः 18.47ब्व्
तर्पणादि-क्रमो मतः
निर्हरेद् वमनस्यातः पाकं न प्रतिपालयेत् ।
दुर्-बलो बहु-दोषश् च दोष-पाकेन यः स्वयम्
विरिच्यते भेदनीयैर् भोज्यैस् तम् उपपादयेत् ।
दुर्-बलः शोधितः पूर्वम् अल्प-दोषः कृशो नरः
18.49ब्व् भोज्यैस् तं समुपाचरेत्
अ-परिज्ञात-कोष्ठश् च पिबेन् मृद्व् अल्पम् औषधम् ।
वरं तद् अ-सकृत्-पीतम् अन्य-था संशयावहम्
18.50अव् वरं तद् अ-सकृत्-पीतं 18.50ब्व् नान्य-था संशयावहम्
हरेद् बहूंश् चलान् दोषान् अल्पान् अल्पान् पुनः पुनः ।
दुर्-बलस्य मृदु-द्रव्यैर् अल्पान् संशमयेत् तु तान्
क्लेशयन्ति चिरं ते हि हन्युर् वैनम् अ-निर्हृताः ।
मन्दाग्निं क्रूर-कोष्ठं च स-क्षार-लवणैर् घृतैः
18.52ब्व् हन्युश् चैनम् अ-निर्हृताः
संधुक्षिताग्निं विजित-कफ-वातं च शोधयेत् ।
रूक्ष-बह्व्-अनिल-क्रूर-कोष्ठ-व्यायाम-शीलिनाम्
दीप्ताग्नीनां च भैषज्यम् अ-विरेच्यैव जीर्यति ।
तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम्
18.54च्व् तेभ्यो वस्तिं पुरो दद्यात्
शकृन् निर्हृत्य वा किञ्-चित् तीक्ष्णाभिः फल-वर्तिभिः ।
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम्
विषाभिघात-पिटिका-कुष्ठ-शोफ-विसर्पिणः ।
कामला-पाण्डु-मेहार्तान् नाति-स्निग्धान् विशोधयेत्
18.56द्व् नाति-स्निग्धान् विरेचयेत्
सर्वान् स्नेह-विरेकैश् च रूक्षैस् तु स्नेह-भावितान् ।
कर्मणां वमनादीनां पुनर् अप्य् अन्तरे ऽन्तरे
18.57ब्व् रूक्षैश् च स्नेह-भावितान्
स्नेह-स्वेदौ प्रयुञ्जीत स्नेहम् अन्ते बलाय च ।
मलो हि देहाद् उत्क्लेश्य ह्रियते वाससो यथा
स्नेह-स्वेदैस् तथोत्क्लिष्टः शोध्यते शोधनैर् मलः ।
स्नेह-स्वेदाव् अन्-अभ्यस्य कुर्यात् संशोधनं तु यः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0