भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 102

102.1

21.69अव् गल-गण्डः स्वर-भ्रंशः
उत्तरस्थान
खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रण-वद् आचरेत् ।
यष्टी-ज्योतिष्मती-लोध्र-श्रावणी-शारिवोत्पलैः

102.2

पटोल्या काकमाच्या च तैलम् अभ्यञ्जनं पचेत् ।
नस्यं च तैलं वात-घ्न-मधुर-स्कन्ध-साधितम्

102.3

महा-स्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर् हितः ।
देव-धूप-मधूच्छिष्ट-गुग्गुल्व्-अमरदारुभिः

102.4

यष्ट्य्-आह्व-चूर्ण-युक्तेन तेनैव प्रतिसारणम् ।
नाड्य्-ओष्ठं स्वेदयेद् दुग्ध-सिद्धैर् एरण्ड-पल्लवैः

102.5

22.4अव् यष्ट्य्-आह्व-चूर्ण-युक्तैस् तु 22.4ब्व् तैर् एव प्रतिसारणम्
खण्डौष्ठ-विहितं नस्यं तस्य मूर्ध्नि च तर्पणम् ।
पित्ताभिघात-जाव् ओष्ठौ जलौकोभिर् उपाचरेत्

102.6

लोध्र-सर्ज-रस-क्षौद्र-मधुकैः प्रतिसारणम् ।
गुडूची-यष्टि-पत्तङ्ग-सिद्धम् अभ्यञ्जने घृतम्

102.7

पित्त-विद्रधि-वच् चात्र क्रिया शोणित-जे ऽपि च ।
इदम् एव नवे कार्यं कर्मौष्ठे तु कफातुरे

102.8

22.7च्व् इदम् एव भवेत् कार्यं 22.7द्व् कर्मौष्ठे तु कफोत्तरे
पाठा-क्षार-मधु-व्योषैर् हृतास्रे प्रतिसारणम् ।
धूम-नावन-गण्डूषाः प्रयोज्याश् च कफ-च्छिदः

102.9

स्विन्नं भिन्नं वि-मेदस्कं दहेन् मेदो-जम् अग्निना ।
प्रियङ्गु-लोध्र-त्रि-फला-माक्षिकैः प्रतिसारयेत्

102.10

स-क्षौद्रा घर्षणं तीक्ष्णा भिन्न-शुद्धे जलार्बुदे ।
अवगाढे ऽति-वृद्धे वा क्षारो ऽग्निर् वा प्रतिक्रिया

102.11

22.10अव् स-क्षौद्रैर् घर्षणं तीक्ष्णैर् 22.10द्व् क्षारो वह्निः प्रतिक्रिया
आमाद्य्-अवस्थास्व् अलजीं गण्डे शोफ-वद् आचरेत् ।
स्विन्नस्य शीत-दन्तस्य पालीं विलिखितां दहेत्

102.12

तैलेन प्रतिसार्या च स-क्षौद्र-घन-सैन्धवैः ।
दाडिम-त्वग्-वरा-तार्क्ष्य-कान्ता-जम्ब्व्-अस्थि-नागरैः

102.13

कवडः क्षीरिणां क्वाथैर् अणु-तैलं च नावनम् ।
दन्त-हर्षे तथा भेदे सर्वा वात-हरा क्रिया

102.14

22.13च्व् दन्त-भेदे तथा हर्षे 22.13द्व् सर्वा वात-हराः क्रियाः
तिल-यष्टीमधु-शृतं क्षीरं गण्डूष-धारणम् ।
स-स्नेहं दश-मूलाम्बु गण्डूषः प्रचलद्-द्वि-जे

102.15

22.14च्व् स-स्नेह-दश-मूलाम्बु- 22.14द्व् -गण्डूषाः प्रचले द्वि-जे
तुत्थ-लोध्र-कणा-श्रेष्ठा-पत्तङ्ग-पटु-घर्षणम् ।
स्निग्धाः शील्या यथावस्थं नस्यान्न-कवडादयः

102.16

22.15द्व् गण्डूष-कवडादयः
अधि-दन्तकम् आलिप्तं यदा क्षारेण जर्जरम् ।
कृमि-दन्तम् इवोत्पाट्य तद्-वच् चोपचरेत् तदा

102.17

अन्-अवस्थित-रक्ते च दग्धे व्रण इव क्रिया ।
अ-हिंसन् दन्त-मूलानि दन्तेभ्यः शर्करां हरेत्

102.18

क्षार-चूर्णैर् मधु-युतैस् ततश् च प्रतिसारयेत् ।
कपालिकायाम् अप्य् एवं हर्षोक्तं च समाचरेत्

102.19

जयेद् विस्रावणैः स्विन्नम् अ-चलं कृमि-दन्तकम् ।
स्निग्धैश् चालेप-गण्डूष-नस्याहारैश् चलापहैः

102.20

22.19ब्व् अ-बलं कृमि-दन्तकम्
गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् ।
सप्तच्छदार्क-क्षीराभ्यां पूरणं कृमि-शूल-जित्

102.21

हिङ्गु-कट्फल-कासीस-स्वर्जिका-कुष्ठ-वेल्ल-जम् ।
रजो रुजं जयत्य् आशु वस्त्र-स्थं दशने घृतम्

102.22

22.21द्व् वस्त्र-स्थं दशनैर् घृतम्
अलक्तकं वा सिन्धूत्थं वेल्ल-धूमं स-हिङ्गु वा ।
धान्याम्ल-सिद्धं शेवालं कोष्णं वा दशन-स्थितम् ॥ 21+1 ॥
22.21+1ब्व् वेश्म-धूमं स-हिङ्गु वा
वराहकर्णी-मूलं वा शरपुङ्खा-जटाथ-वा ।
वर्तिर् वावल्गुज-फलैर् बीजपूर-जटान्वितैः ॥ 21+2 ॥
गण्डूषं ग्राहयेत् तैलम् एभिर् एव च साधितम् ।
क्वाथैर् वा युक्तम् एरण्ड-द्वि-व्याघ्री-भूकदम्ब-जैः

102.23

22.22अव् गण्डूषं धारयेत् तैलम् 22.22द्व् -व्याघ्री-भूर्ज-कदम्बकैः
क्रिया-योगैर् बहु-विधैर् इत्य् अ-शान्त-रुजं भृशम् ।
दृढम् अप्य् उद्धरेद् दन्तं पूर्वं मूलाद् विमोक्षितम्

102.24

संदंशकेन लघुना दन्त-निर्घातनेन वा ।
तैलं स-यष्ट्य्-आह्व-रजो गण्डूषो मधु वा ततः

102.25

22.24द्व् गण्डूषो मधुना ततः
ततो विदारि-यष्ट्य्-आह्व-शृङ्गाटक-कसेरुभिः ।
तैलं दश-गुण-क्षीरं सिद्धं युञ्जीत नावनम्

102.26

कृश-दुर्-बल-वृद्धानां वातार्तानां च नोद्धरेत् ।
नोद्धरेच् चोत्तरं दन्तं बहूपद्रव-कृद् धि सः

102.27

एषाम् अप्य् उद्धृतौ स्निग्ध-स्वादु-शीत-क्रमो हितः ।
विस्रावितास्रे शीतादे स-क्षौद्रैः प्रतिसारणम्

102.28

22.27अव् एषाम् अप्य् उद्धृतैः स्निग्ध-
मुस्तार्जुन-त्वक्-त्रि-फला-फलिनी-तार्क्ष्य-नागरैः ।
तत्-क्वाथः कवडो नस्यं तैलं मधुर-साधितम्

102.29

दन्त-मांसान्य् उप-कुशे स्विन्नान्य् उष्णाम्बु-धारणैः ।
मण्डलाग्रेण शाकादि-पत्त्रैर् वा बहु-शो लिखेत्

102.30

ततश् च प्रतिसार्याणि घृत-मण्ड-मधु-द्रुतैः ।
लाक्षा-प्रियङ्गु-पत्तङ्ग-लवणोत्तम-गैरिकैः

102.31

22.30ब्व् घृत-मण्ड-मधु-प्लुतैः
स-कुष्ठ-शुण्ठी-मरिच-यष्टीमधु-रसाञ्जनैः ।
सुखोष्णो घृत-मण्डो ऽनु तैलं वा कवड-ग्रहः

102.32

22.31द्व् तैलं वा कवड-ग्रहे
घृतं च मधुरैः सिद्धं हितं कवड-नस्ययोः ।
दन्त-पुप्पुटके स्विन्न-च्छिन्न-भिन्न-विलेखिते

102.33

22.32अव् घृतं वा मधुरैः सिद्धं
यष्ट्य्-आह्व-स्वर्जिका-शुण्ठी-सैन्धवैः प्रतिसारणम् ।
विद्रधौ कटु-तीक्ष्णोष्ण-रूक्षैः कवड-लेपनम्

102.34

घर्षणं कटुका-कुष्ठ-वृश्चिकाली-यवोद्भवैः ।
रक्षेत् पाकं हिमैः पक्वः पाट्यो दाह्यो ऽवगाढकः

102.35

सुषिरे छिन्न-लिखिते स-क्षौद्रैः प्रतिसारणम् ।
लोध्र-मुस्त-मिशि-श्रेष्ठा-तार्क्ष्य-पत्तङ्ग-किंशुकैः

102.36

22.35अव् सौषिरे छिन्न-लिखिते
स-कट्फलैः कषायैश् च तेषां गण्डूष इष्यते ।
यष्टी-लोध्रोत्पलानन्ता-शारिवागुरु-चन्दनैः

102.37

22.36अव् स-कट्फलैः कषायश् च
स-गैरिक-सिता-पुण्ड्रैः सिद्धं तैलं च नावनम् ।
छित्त्वाधि-मांसकं चूर्णैः स-क्षौद्रैः प्रतिसारयेत्

102.38

वचा-तेजोवती-पाठा-स्वर्जिका-यव-शूक-जैः ।
पटोल-निम्ब-त्रि-फला-कषायः कवडो हितः

102.39

22.38ब्व् -स्वर्जिका-याव-शूक-जैः
विदर्भे दन्त-मूलानि मण्डलाग्रेण शोधयेत् ।
क्षारं युञ्ज्यात् ततो नस्यं गण्डूषादि च शीतलम्

102.40

संशोध्योभयतः कायं शिरश् चोपचरेत् ततः ।
नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत्

102.41

कुब्जां नैक-गतिं पूर्णां गुडेन मदनेन वा ।
धावनं जाति-मदन-खदिर-स्वादुकण्टकैः

102.42

22.41अव् न्युब्जां नैक-गतिं पूर्णां 22.41ब्व् गुडेन मधुनाथ-वा
क्षीरि-वृक्षाम्बु-गण्डूषो नस्यं तैलं च तत्-कृतम् ।
कुर्याद् वातौष्ठ-कोपोक्तं कण्टकेष्व् अनिलात्मसु

102.43

जिह्वायां पित्त-जातेषु घृष्टेषु रुधिरे स्रुते ।
प्रतिसारण-गण्डूष-नावनं मधुरैर् हितम्

102.44

तीक्ष्णैः कफोत्थेष्व् एवं च सर्षप-त्र्य्-ऊषणादिभिः ।
नवे जिह्वालसे ऽप्य् एवं तं तु शस्त्रेण न स्पृशेत्

102.45

22.44अव् तीक्ष्णैः कफोत्थेष्व् अप्य् एवं 22.44अव् तीक्ष्णैः कफोत्थेष्व् एवं तु
उन्नम्य जिह्वाम् आकृष्टां बडिशेनाधि-जिह्विकाम् ।
छेदयेन् मण्डलाग्रेण तीक्ष्णोष्णैर् घर्षणादि च

102.46

उप-जिह्वां परिस्राव्य यव-क्षारेण घर्षयेत् ।
कफ-घ्नैः शुण्डिका साध्या नस्य-गण्डूष-घर्षणैः

102.47

एर्वारु-बीज-प्रतिमं वृद्धायाम् अ-सिरा-ततम् ।
अग्रं निविष्टं जिह्वाया बडीशाद्य्-अवलम्बितम्

102.48

22.47च्व् अग्रं निविष्टं जिह्वायां 22.47च्व् अग्रे निविष्टं जिह्वाया
छेदयेन् मण्डलाग्रेण नात्य्-अग्रे न च मूलतः ।
छेदे ऽत्य् असृक्-क्षयान् मृत्युर् हीने व्याधिर् विवर्धते

102.49

22.48ब्व् नात्य्-अग्रे नाति-मूलतः
मरिचातिविषा-पाठा-वचा-कुष्ठ-कुटन्नटैः ।
छिन्नायां स-पटु-क्षौद्रैर् घर्षणं कवडः पुनः

102.50

कटुकातिविषा-पाठा-निम्ब-रास्ना-वचाम्बुभिः ।
संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत्

102.51

अ-पक्वे तालु-पाके तु कासीस-क्षौद्र-तार्क्ष्य-जैः ।
घर्षणं कवडः शीत-कषाय-मधुरौषधैः

102.52

22.51च्व् घर्षणं कवडः शीतः 22.51द्व् कषाय-मधुरौषधैः
पक्वे ऽष्टा-पद-वद् भिन्ने तीक्ष्णोष्णैः प्रतिसारणम् ।
वृष-निम्ब-पटोलाद्यैस् तिक्तैः कवड-धारणम्

102.53

तालु-शोषे त्व् अ-तृष्णस्य सर्पिर् उत्तर-भक्तिकम् ।
कणा-शुण्ठी-शृतं पानम् अम्लैर् गण्डूष-धारणम्

102.54

22.53अव् तालु-शोषे तृषार्तस्य
धन्व-मांस-रसाः स्निग्धाः क्षीर-सर्पिश् च नावनम् ।
कण्ठ-रोगेष्व् असृङ्-मोक्षस् तीक्ष्णैर् नस्यादि कर्म च

102.55

क्वाथः पानं च दार्वी-त्वङ्-निम्ब-तार्क्ष्य-कलिङ्ग-जः ।
हरीतकी-कषायो वा पेयो माक्षिक-संयुतः

102.56

श्रेष्ठा-व्योष-यव-क्षार-दार्वी-द्वीपि-रसाञ्जनैः ।
स-पाठा-तेजिनी-निम्बैः शुक्त-गो-मूत्र-साधितैः

102.57

कवडो गुटिका वात्र कल्पिता प्रतिसारणम् ।
निचुलं कटभी मुस्तं देवदारु महौषधम्

102.58

22.57अव् कवडो गुटिका चात्र 22.57च्व् निचुलं कटभी मुस्ता
वचा दन्ती च मूर्वा च लेपः कोष्णो ऽर्ति-शोफ-हा ।
अथान्तर्-बाह्यतः स्विन्नां वात-रोहिणिकां लिखेत्

102.59

अङ्गुली-शस्त्रकेणाशु पटु-युक्त-नखेन वा ।
पञ्च-मूलाम्बु कवडस् तैलं गण्डूष-नावनम्

102.60

विस्राव्य पित्त-संभूतां सिता-क्षौद्र-प्रियङ्गुभिः ।
घर्षेत् स-लोध्र-पत्तङ्गैः कवडः क्वथितैश् च तैः

102.61

द्राक्षा-परूषक-क्वाथो हितश् च कवड-ग्रहे ।
उपाचरेद् एवम् एव प्रत्याख्यायास्र-संभवाम्

102.62

सागार-धूमैः कटुकैः कफ-जां प्रतिसारयेत् ।
नस्य-गण्डूषयोस् तैलं साधितं च प्रशस्यते

102.63

अपामार्ग-फल-श्वेता-दन्ती-जन्तुघ्न-सैन्धवैः ।
तद्-वच् च वृन्द-शालूक-तुण्डिकेरी-गिलायुषु

102.64

22.63द्व् -तुण्डिकेरी-गलायुषु
विद्रधौ स्राविते श्रेष्ठा-रोचना-तार्क्ष्य-गैरिकैः ।
स-लोध्र-पटु-पत्तङ्ग-कणैर् गण्डूष-घर्षणे

102.65

22.64द्व् -कणैर् गण्डूष-धारणम् 22.64द्व् -कणैर् गण्डूष-घर्षणम्
गल-गण्डः पवन-जः स्विन्नो निःस्रुत-शोणितः ।
तिलैर् बीजैश् च लट्वोमा-प्रियाल-शण-संभवैः

102.66

22.65ब्व् स्विन्नो विस्रुत-शोणितः
उपनाह्यो व्रणे रूढे प्रलेप्यश् च पुनः पुनः ।
शिग्रु-तिल्वक-तर्कारी-गज-कृष्णा-पुनर्नवैः

102.67

कालामृतार्क-मूलैश् च पुष्पैश् च करहाट-जैः ।
एकैषीकान्वितैः पिष्टैः सुरया काञ्जिकेन वा

102.68

22.67अव् ताल-मूलार्क-मूलैश् च 22.67ब्व् पुष्पैश् च करघाट-जैः
गुडूची-निम्ब-कुटज-हंसपदी-बला-द्वयैः ।
साधितं पाययेत् तैलं स-कृष्णा-देवदारुभिः

102.69

कर्तव्यं कफ-जे ऽप्य् एतत् स्वेद-विम्लापने त्व् अति ।
लेपो ऽजगन्धातिविषा-विशल्याः स-विषाणिकाः

102.70

गुञ्जालाबु-शुकाह्वाश् च पलाश-क्षार-कल्किताः ।
मूत्र-स्रुतं हठ-क्षारं पक्त्वा कोद्रव-भुक् पिबेत्

102.71

22.70च्व् मूत्र-शृतं यव-क्षारं 22.70च्व् मूत्र-स्रुतं यव-क्षारं 22.70च्व्
सूत्र-स्रुतं यव-क्षारं
साधितं वत्सकाद्यैर् वा तैलं स-पटु-पञ्चकैः ।
कफ-घ्नान् धूम-वमन-नावनादींश् च शीलयेत्

102.72

22.71च्व् कफ-घ्नान् धूम-गण्डूषान् 22.71द्व् वमनादींश् च शीलयेत्
मेदो-भवे सिरां विध्येत् कफ-घ्नं च विधिं भजेत् ।
असनादि-रजश् चैनं प्रातर् मूत्रेण पाययेत्

102.73

अ-शान्तौ पाचयित्वा च सर्वान् व्रण-वद् आचरेत् ।
मुख-पाकेषु स-क्षौद्रा प्रयोज्या मुख-धावनाः

102.74

22.73अव् अ-शान्तौ पाटयित्वा च 22.73द्व् प्रयोज्या मुख-पावनाः
क्वथितास् त्रि-फला-पाठा-मृद्वीका-जाति-पल्लवाः ।
निष्ठेव्या भक्षयित्वा वा कुठेरादिर् गणो ऽथ-वा

102.75

22.74च्व् निघृष्टव्या भक्षयित्वा
मुख-पाके ऽनिलात् कृष्णा-पट्व्-एलाः प्रतिसारणम् ।
तैलं वात-हरैः सिद्धं हितं कवड-नस्ययोः

102.76

पित्तास्रे पित्त-रक्त-घ्नः कफ-घ्नश् च कफे विधिः ।
लिखेच् छाकादि-पत्त्रैश् च पिटिकाः कठिनाः स्थिराः

102.77

22.76अव् पित्तास्रे रक्त-पित्त-घ्नः
यथा-दोषोदयं कुर्यात् संनिपाते चिकित्सितम् ।
नवे ऽर्बुदे त्व् अ-संवृद्धे छेदिते प्रतिसारणम्

102.78

स्वर्जिका-नागर-क्षौद्रैः क्वाथो गण्डूष इष्यते ।
गुडूची-निम्ब-कल्कोत्थो मधु-तैल-समन्वितः

102.79

यवान्न-भुक् तीक्ष्ण-तैल-नस्याभ्यङ्गांस् तथाचरेत् ।
वमिते पूति-वदने धूमस् तीक्ष्णः स-नावनः

102.80

समङ्गा-धातकी-लोध्र-फलिनी-पद्मकैर् जलम् ।
धावनं वदनस्यान्तश् चूर्णितैर् अवचूर्णितम्

102.82

22.80द्व् चूर्णितैर् अवचूर्णनम्
शीतादोप-कुशोक्तं च नावनादि च शीलयेत् ॥ 81अब् ॥
फल-त्रय-द्वीपि-किराततिक्त-यष्ट्य्-आह्व-सिद्धार्थ-कटु-त्रिकाणि ॥ 81च्द् ॥
मुस्ता-हरिद्रा-द्वय-याव-शूक-वृक्षाम्लकाम्लाग्रिम-वेतसाश् च ॥ 81एf ॥
अश्वत्थ-जम्ब्व्-आम्र-धनञ्जय-त्वक् त्वक् चाहिमारात् खदिरस्य सारः ।
क्वाथेन तेषां घन-तां गतेन तच्-चूर्ण-युक्ता गुटिका विधेयाः

102.83

ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठ-ताल्व्-आदि-गदान् सु-कृच्छ्रान् ।
विशेषतो रोहिणिकास्य-शोष-गन्धान् विदेहाधिपति-प्रणीताः

102.84

खदिर-तुलाम् अम्बु-घटे पक्त्वा तोयेन तेन पिष्टैश् च ।
चन्दन-जोङ्गक-कुङ्कुम-परिपेलव-वालकोशीरैः

102.85

सुरतरु-लोध्र-द्राक्षा-मञ्जिष्ठा-चोच-पद्मक-विडङ्गैः ।
स्पृक्का-नत-नख-कट्फल-सूक्ष्मैला-ध्यामकैः स-पत्तङ्गैः

102.86

तैल-प्रस्थं विपचेत् कर्षांशैः पान-नस्य-गण्डूषैस् तत् ।
हत्वास्ये सर्व-गदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम्

102.87

22.86ब्व् कर्षांशैः पान-नस्य-गण्डूषैः 22.86च्व् हन्त्य् आस्ये सर्व-गदान्
उद्वर्तितं च प्रपुनाट-लोध्र-दार्वीभिर् अभ्यक्तम् अनेन वक्त्रम् ।
निर्-व्यङ्ग-नीली-मुख-दूषिकादि संजायते चन्द्र-समान-कान्ति

102.88

22.87च्व् निर्-व्यङ्ग-नीली-मुख-दूषिकं च
पल-शतं बाणात् तोय-घटे पक्त्वा रसे ऽस्मिंश् च पलार्धिकैः ।
खदिर-जम्बू-यष्ट्यानन्ताम्रैर् अहिमार-नीलोत्पलान्वितैः

102.89

22.88च्व् खदिर-जम्बू-यष्ट्यानन्ता-लोध्रैर्
तैल-प्रस्थं पाचयेच् छ्लक्ष्ण-पिष्टैर् एभिर् द्रव्यैर् धारितं तन् मुखेन ।
रोगान् सर्वान् हन्ति वक्त्रे विशेषात् स्थैर्यं धत्ते दन्त-पङ्क्तेश् चलायाः

102.90

22.89अव् तैल-प्रस्थं पाचयेत् सूक्ष्म-पिष्टैर् 22.89ब्व् एभिर् द्रव्यैर् धारितं
तत् सुखेन
खदिर-साराद् द्वे तुले पचेद् वल्कात् तुलां चारिमेदसः ।
घट-चतुष्के पाद-शेषे ऽस्मिन् पूते पुनः क्वथनाद् घने

102.91

22.90अव् खदिर-साराद् द्वे तुले विपचेद् 22.90ब्व् वल्क-तुलां चारिमेदसः
22.90ब्व् वल्कल-तुलां चारिमेदसः 22.90ब्व् वल्कल-तुलां चारिमेदतः
22.90द्व् ऽस्मिन् पूते पुनः क्वाथनाद् घने 22.90द्व् ऽस्मिन् पूते पुनः क्वाथयेद्
घने
आक्षिकं क्षिपेत् सु-सूक्ष्मं रजः सेव्याम्बु-पत्तङ्ग-गैरिकम् ।
चन्दन-द्वय-लोध्र-पुण्ड्राह्व-यष्ट्य्-आह्व-लाक्षाञ्जन-द्वयम्

102.92

22.91अव् आक्षिकं क्षिपेत् सु-सूक्ष्म-रजः 22.91अव् आक्षिकं च क्षिपेत्
सूक्ष्म-रजः
22.91अव् कार्षिकं क्षिपेत् सु-सूक्ष्म-रजः 22.91च्व्
चन्दन-द्वय-श्यामा-पुण्ड्राह्व-
धातकी-कट्फल-द्वि-निशा-त्रि-फला-चतुर्-जात-जोङ्गकम् ।
मुस्त-मञ्जिष्ठा-न्यग्रोध-प्ररोह-मांसी-यवासकम्

102.93

22.92द्व् ंध-प्ररोह-वचा-मांसी-यवासकम्
पद्मकैला-समङ्गाश् च शीते तस्मिंस् तथा पालिकां पृथक् ।
जातीपत्त्रिकां स-जाति-फलां सह-लवङ्ग-कण्कोल्लकाम्

102.94

22.93अव् पद्मकैलेय-समङ्गाश् च 22.93ब्व् शीते तथा पालिकां पृथक्
22.93द्व् सह-नख-लवङ्ग-कङ्कोल्लकाम्
स्फटिक-शुभ्र-सुरभि-कर्पूर-कुडवं च तत्रावपेत् ततः ।
कारयेद् गुटिकाः सदा चैता धार्या मुखे तद्-गदापहाः

102.95

22.94च्व् कारयेद् गुटिकाश् चैता 22.94च्व् कार्याश् चैता गुटिका
क्वाथ्यौषध-व्यत्यय-योजनेन तैलं पचेत् कल्पनयानयैव ।
सर्वास्य-रोगोद्धृतये तद् आहुर् दन्त-स्थिर-त्वे त्व् इदम् एव मुख्यम्

102.96

22.95अव् क्वाथौषध-व्यत्यय-योजनेन 22.95च्व् सर्वास्य-रोग-प्रशमार्थम्
उक्तं
22.95च्व् सर्वास्य-रोगे व्ययनं तद् आहुर्
खदिरेणैता गुटिकास् तैलम् इदं चारिमेदसा प्रथितम् ।
अनुशीलयन् प्रति-दिनं स्वस्थो ऽपि दृढ-द्वि-जो भवति

102.97

22.96द्व् वृद्धो ऽपि दृढ-द्वि-जो भवति
क्षुद्रा-गुडूची-सुमनः-प्रवाल-दार्वी-यवास-त्रि-फला-कषायः ।
क्षौद्रेण युक्तः कवड-ग्रहो ऽयं सर्वामयान् वक्त्र-गतान् निहन्ति

102.98

22.97अव् द्राक्षा-गुडूची-सुमनः-प्रवाल-
पाठा-दार्वी-त्वक्-कुष्ठ-मुस्ता-समङ्गा-तिक्ता-पीताङ्गी-लोध्र-तेजोवतीनाम् ।
चूर्णः स-क्षौद्रो दन्त-मांसार्ति-कण्डू-पाक-स्रावाणां नाशनो घर्षणेन

102.99

गृह-धूम-तार्क्ष्य-पाठा-व्योष-क्षाराग्न्य्-अयो-वरा-तेजो-ह्वैः ।
मुख-दन्त-गल-विकारे स-क्षौद्रः कालको विधार्यश् चूर्णः

102.100

22.99द्व् स-क्षौद्रः कालिको विधार्यश् चूर्णः
दार्वी-त्वक्-सिन्धूद्भव-मनःशिला-याव-शूक-हरितालैः ।
धार्यः पीतक-चूर्णो दन्तास्य-गलामये स-मध्व्-आज्यः

102.101

द्वि-क्षार-धूमक-वरा-पञ्च-पटु-व्योष-वेल्ल-गिरि-तार्क्ष्यैः ।
गो-मूत्रेण विपक्वा गलामय-घ्नी रस-क्रिया एषा

102.102

22.101अव् द्वि-क्षार-गृह-धूमक-वरा- 22.101च्व् गो-मूत्रेण पिबन् क्वाथं
गो-मूत्र-क्वथन-विलीन-विग्रहाणां पथ्यानां जल-मिशि-कुष्ठ-भावितानाम् ।
अत्तारं नरम् अणवो ऽपि वक्त्र-रोगाः श्रोतारं नृपम् इव न स्पृशन्त्य् अन्-अर्थाः

102.103

सप्तच्छदोशीर-पटोल-मुस्त-हरीतकी-तिक्तक-रोहिणीभिः ।
यष्ट्य्-आह्व-राजद्रुम-चन्दनैश् च क्वाथं पिबेत् पाक-हरं मुखस्य

102.104

पटोल-शुण्ठी-त्रि-फला-विशाला-त्रायन्ति-तिक्ता-द्वि-निशामृतानाम् ।
पीतः कषायो मधुना निहन्ति मुखे स्थितश् चास्य-गदान् अ-शेषान्

102.105

22.104द्व् मुखोत्थितांश् चाशु गदान् अ-शेषान्
स्व-रसः क्वथितो दार्व्या घनी-भूतः स-गैरिकः ।
आस्य-स्थः स-मधुर् वक्त्र-पाक-नाडी-व्रणापहः

102.106

पटोल-निम्ब-यष्ट्य्-आह्व-वासा-जात्य्-अरिमेदसाम् ।
खदिरस्य वरायाश् च पृथग् एवं प्रकल्पना

102.107

खदिरायो-वरा-पार्थ-मदयन्त्य्-अहिमारकैः ।
गण्डूषो ऽम्बु-शृतैर् धार्यो दुर्-बल-द्वि-ज-शान्तये

102.108

मुख-दन्त-मूल-गल-जाः प्रायो रोगाः कफास्र-भूयिष्ठाः ।
तस्मात् तेषाम् अ-सकृद् रुधिरं विस्रावयेद् दुष्टम्

102.109

काय-शिरसोर् विरेको वमनं कवड-ग्रहाश् च कटु-तिक्ताः ।
प्रायः शस्तं तेषां कफ-रक्त-हरं तथा कर्म

102.110

यव-तृण-धान्यं भक्तं विदलैः क्षारोषितैर् अप-स्नेहाः ।
यूषा भक्ष्याश् च हिता यच् चान्यच् छ्लेष्म-नाशाय

102.111

22.110अव् यव-तृण-धान्यं भुक्तं 22.110ब्व् विदलैः क्षारोषितैर् अप-स्नेहम्
प्राणानिल-पथ-संस्थाः श्वसितम् अपि निरुन्धते प्रमाद-वतः ।
कण्ठामयाश् चिकित्सितम् अतो द्रुतं तेषु कुर्वीत

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc