अष्टाध्यायी (अन्य संस्करण) · अध्याय 2.03
अनभिहिते
कर्मणि द्वितीया
तृतीया च होस् छन्दसि
अन्तरा=अन्तरेण युक्ते
काल=अध्वनोर् अत्यन्त-संयोगे
अपवर्गे तृतीया
सप्तमी-पञ्चम्यौ कारक-मध्ये
कर्मप्रवचनीय-युक्ते द्वितीया
यस्माद् अधिकम् यस्य च=ईश्वर-वचनम् तत्र सप्तमी
पञ्चमी=अप-आङ्-परि-भिः
प्रतिनिधि-प्रतिदाने च यस्मात्
गत्य्-अर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अन्-अध्वनि
चतुर्थी सम्प्रदाने
क्रिया=अर्था=उपपदस्य च कर्मणि स्तानिनः
तुम्-अर्थात्=च भाव-वचनात्
नमस्-स्वस्ति-स्वाहा-स्वधा=अलम्=वषट्=ओगात्=च
मन्य-कर्मणि=अन्-आदरे विभाषा=अ-प्राणिषु
कर्तृ-करणयोस् तृतीया
सह-युक्ते=अ-प्रधाने
येन=अऋग-विकारः
इत्थम्-भूत-लक्सणे
सं-ज्ञः=अन्यतरस्याम् कर्मणि
हेतौ
अ-कर्तरि=ऋणे पञ्चमी
विभाषा गुणे=अ-स्त्रियाम्
षष्ठी हेतु-प्रयोगे
सर्वनाम्नस् तृतीया च
अपादाने पञ्चमी
अन्य=आरत्=इतर=ऋते-दिक्-शब्द=अन्च्ः=उत्तरपद=आच्=आहि-उक्ते
षष्ठी=अतस्-अर्थ-प्रत्ययेन
एनपा द्वितीया
पृथक्-विना-नाना-ऊभिस् तृतीया=न्यतरस्याम्
करणे च स्तोक=अल्प-कृच्छ्र-अतिपयस्य अ-सत्त्व-वचनस्य
दूर=अन्तिक=अर्थैः षष्ठी=न्यतरस्याम्
दूर=अन्तिक=अर्थेभ्यो द्वितीया च
सप्तमी=अधिकरणे
यस्य च भावेन भाव-लक्षणम्
षष्ठी च=अन्-आदरे
स्वामि(न्)=ईश्वर=अधिपति-दायाद-साक्षि(न्)-प्रतिभू-प्रसुतैश् च
आयुक्त-कुशलाभ्याम् च=आसेवायाम्
यतस् च निर्धारणम्
पञ्चमी विभक्ते
साधु-निपुणाभ्याम् अर्चायां सप्तमी अ-प्रतेः
प्रसित=उत्सुकाभ्याम् तृतीया च
नक्षत्रे च लुपि
प्रातिपदिक=अर्थ-लिऋग-परिमाण-वचन-मात्रे प्रथमा
सम्बोधने च
सा=आमन्त्रितम्
एकवचनम् संबुद्धिः
षष्ठी शेषे
ज्नः=अ-विद्-अर्थस्य करणे
अधि=इक्=अर्थ-दय=ईशाम् कर्मणि
कृञः प्रतियत्ने
रुजा=अर्थानाम् भाव-वचनानाम् अ-ज्वरेः
आशिषि नाथः
जासि-नि-प्र-हण्ः-नाट-क्राथ-पिषां हिंसायाम्
व्य्-अव-हृ-पणोः सम्-अर्थयोः
दिवस् तद्-अर्थस्य
विभाषा=उपसर्गे
द्वितीया ब्राह्मणे
प्रेष्य-ब्रुवोर् हविषो देवता-सम्प्रदाने
चतुर्थ्य्-अर्थे बहुलम् छन्दसि
यजेश् च करणे
कृत्वस्=अर्थ-प्रयोगे काले=अधिकरणे
कर्तृ-कर्मणोः कृत्-इ
उभय-प्राप्तौ कर्मणि
क्तस्य च वर्तमाने
अधिकरन-वाचिनश् च
न ल=उ=उक-अव्यय-निष्ठा-खल्-र्थ-तृनाम्
अक=इनोर् भविष्यद्=आधमर्ण्ययोः
कृत्यानां कर्तरि वा
तुल्य=अर्थैर् अ-तुला=उपमाभ्यां तृतीया=अन्यतरस्याम्
चतुर्थी च=आशिषि=आयुष्य-मद्र-भद्र-कुशल-सुख=अर्थ-हितैः
पूर्ववत्=अश्व-वडवौ
मूल पाठ: Aṣṭādhyāyī · Data entry W. P. Lehmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0