भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 7

7.1

मय्य् अनन्तमहाम्भोधौ विश्वपोत इतस्ततः
भ्रमति स्वान्तवातेन न ममास्त्य् असहिष्णुता ॥

7.2

मय्य् अनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः
उदेतु वस्तम् आयातु न मे वृद्धिर् न च क्षतिः ॥

7.3

मय्य् अनन्तमहाम्भोधौ विश्वं नाम विकल्पना
अतिशान्तो निराकार एतद् एवाहम् आस्थितः ॥

7.4

नात्मा भावेषु नो भावस् तत्रानन्ते निरन्जने
इत्य् असक्तो ऽस्पृहः शान्त एतद् एवाहम् आस्तितः ॥

7.5

अहो चिन्मात्रम् एवाहम् इन्द्रजालोपमं जगत्
अतो मम कथं कुत्र हेयोपादेयकल्पना ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc