ग्रंथ पाठ
अष्टावक्र गीता · अध्याय 5
5.1
न ते सङ्गो ऽस्ति केनापि किं शुद्धस् त्यक्तुम् इच्छसि
सङ्घातविलयं कुर्वन्न् एवम् एव लयं व्रज ॥
5.2
उदेति भवतो विश्वं वारिधेर् इव बुद्बुदः
इति ज्ञत्वैकम् आत्मानम् एवम् एव लयं व्रज ॥
5.3
प्रत्यक्षम् अप्य् अवस्तुत्वाद् विश्वं नास्त्य् अमले त्वयि
रज्जुसर्प इव व्यक्तम् एवम् एव लयं व्रज ॥
5.4
समदुःखसुखः पूर्ण आशानैराश्ययोः समः
समजीवितमृत्युः सन्न् एवम् एव लयं व्रज ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0