अष्टाङ्गसंग्रह · अध्याय 3.8
अथातो ऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
अतीसारः स सुतरां जायते ऽत्यम्बुपानतः ॥
कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकः ।
मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात् ॥
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितो ऽनिलः ।
विस्रंसयत्यधोब्धातुं हत्वा तेनैव चानलम् ॥
व्यापद्यानुशकृत् कोष्ठं पुरीषं द्रवतां नयन् ।
प्रकल्पते ऽतिसाराय लक्षणं तस्य भाविनः ॥
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः ।
आध्यानमविपाकश्च तत्र वातेन विज्जलम् ॥
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते ।
रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः ॥
तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम् ।
शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन् ॥
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम् ।
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान् ॥
सशूलः पायुसन्तापपाकवान् श्लेष्मणा घनम् ।
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम् ॥
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक् ।
निद्रालुरलसो ऽन्नद्विडल्पाल्पं सप्रवाहिकम् ॥
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः ।
कृते ऽप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः ॥
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत् ।
वायुस्ततो ऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम् ॥
वातपित्तसमं लिङ्गैराहुस्तद्वच्च शोकतः ।
अतीसारः समासेन द्वेधा सामो निरामकः ॥
सासृङ्निरस्रस्तत्राद्ये गौरवादप्सु मज्जति ।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥
विपरीतो निरामस्तु कफात् पक्वो ऽपि मज्जति ॥
अतीसारेषु यो नातियत्नवान् ग्रहणीगदः ।
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः ॥
सामं शकृनिरामं वा जीर्णे येनातिसार्यते ।
सो ऽतिसारो ऽतिसरणादाशुकारी स्वभावतः ॥
सामं सान्नमजीर्णे ऽन्ने जीर्णे पक्वं तु नैव वा ।
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः ॥
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत् ॥
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ।
प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः ॥
प्रसेको वक्त्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः ।
आनद्धोदरता छर्दिःकर्णक्ष्वेडान्त्रकूजनम् ॥
सामान्यलक्षणं कार्श्यं धूमकस्तमको ज्वरः ।
मूर्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः ॥
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ।
पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विषूचिका ॥
रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका ।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ॥
वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशाङ्कितः ।
चिराद्दुःखं द्रवं शुष्कः तन्वामं शब्दफेनवत् ॥
पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान् ।
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम् ॥
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ।
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः ॥
आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः ।
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ॥
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम् ।
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् ॥
अकृशस्यापि दौर्बल्यं सर्वजे सर्वसङ्करः ॥
सिराविभागे ये चोक्ता विषमाद्यास्त्रयो ऽग्नयः ।
ते ऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम् ॥
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः ।
अर्शासि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0