अष्टाङ्गसंग्रह · अध्याय 3.10
अथातः प्रमेहनिदानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
विंशतिः प्रमेहा भवन्ति ।
तद्यथा ।
कफादुदकेक्षुसान्द्रसुरापिष्टशुक्रसिकताशीतशनैर्लालाप्रमेहाः दश ।
पित्तात् क्षारकालनीलहारिद्रमाञ्जिष्ठशोणितमेहाः षट् ।
वाताद्वसामज्जहस्तिमधुमेहाश्चत्वार इति ॥
तेषां यत्किञ्चिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः ।
तत्र वातपित्तमेदःक्लेदमांसशुक्ररसैरन्वितो बस्तिगतः श्लेष्मा प्रमेहान् जनयति ।
तैः कफशोणिताभ्यां च युक्तं पित्तम् ।
तैर्वसालसीकामज्जौजोभिश्च वायुः ॥
त्रयाणामपि दोषाणां श्लेष्मा प्रमेहेषु प्राक् प्रकोपमापद्यते श्लेष्माधिष्ठानत्वान्मूत्रस्य ।
तद्वृद्धेर्मेद एव च तेन प्रथमं दूष्यते ऽत्यन्तसभागत्वात् ।
तदनन्तरं देहक्लेदादयः ।
ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपि दूषयति ।
तत्क्षये ऽपि वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति ॥
तस्मात् कफपित्तवातजाः क्रमेण साध्ययाप्यासाध्याः ।
तथा पित्तजाः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्च ।
वातजः पुनः क्षीणेषु धातुषु महात्ययतया विरुद्धोपक्रमत्वाच्च ।
मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः ॥
धातुसम्पर्कात् पुनः सर्वमेहेषु मूत्रमाविलं भूरि च भवति ।
दोषाणां दूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णरसस्पर्शगन्धविशेषाद्वर्णानामिव शुक्लकृष्णादीनां शबलकल्माषादयः प्रमेहाणां प्रभेदा भवन्ति ॥
तेषां पूर्वरूपाण्यतिवृद्धिर्नखादीनां जटिलीभावश्च केशानां माधुर्यमास्यस्य तालुकण्ठशोषः ।
पिपासा मलाधिक्यं बहिःकाये कायछिद्रेषु च शीतेच्छा स्नेहः स्वेदः सुप्तता चाङ्गेषु पाणिपाददाहोतिमाधुर्यात् पिपीलिकोपसर्पणं विस्रगन्धता च मूत्रशरीरयोः शुक्लता च मूत्रे श्वासनिद्रातन्द्रालस्यप्रकर्षश्च ॥
तत्र शीतं श्वेतमगन्धमच्छमुदकमिवोदकमेही मेहति ।
इक्षुरसमिवातिमधुरं शीतमीषत्पिच्छिलाविलामिक्षुमेही ।
पर्युषितं सान्द्रीभवत् सान्द्रमेही ।
सुरातुल्यमुपरि प्रसन्नमधःसान्द्रं सुरामेही ।
हृष्टरोमा पिष्टमिव सान्द्रं सितं च पिष्टमेही ।
शुक्राभं शुक्रमिश्रं वा शुक्रमेही ।
सरुजं ससिकतं सिकतामेही ।
प्रायो मधुरमतिशीतं शीतमेही ।
मन्दंमन्दं शनैःशनैः शनैर्मेही ।
पिच्छिलं तन्तुबद्धमिव लालामेही ।
वर्णगन्धरसस्पर्शैः स्रुतक्षारोपमं क्षारमेही ।
उष्णं मषीकालं कालमेही ।
सफेनमच्छमम्लं चाषपत्रनीलं नीलमेही ।
कटुकं सदाहं हरिद्रायुक्तमिव हारिद्रमेही ।
विस्रं मञ्जिष्ठोदकवर्णमिव मञ्जिष्ठामेही ।
विस्रमुष्णं सलवणं शोणितसङ्काशं शोणितमेही ।
वसामिश्रं वसां वा वसामेही ।
मज्जमिश्रं मज्जानं वा मज्जमेही ।
सलसीकं मधुरमवेगं लसीकयैव च विबद्धमनुबद्धमजस्रं मत्त इव हस्ती स्रवति हस्तिमेही ॥
औजः स्निग्धमधुरं तद्रौक्ष्याद्वायुः कषायत्वेनोपसृजति तेन कषायमधुरानुयातं मध्विव मेहति मधुमेही ।
स तु द्विधा कैश्चिदिष्यते ।
धातुक्षयेणानिलकोपाद्दोषावरणेन वा ।
तदावृतो हि वायुराहारप्रसादमादाय मुहुर्मुहुरनिमित्तं दोषलिङ्गानि वृद्धिक्षयौ चाविर्भावयन् कृच्छ्रसाध्यं मधुमेहं प्रवर्तयति ।
सर्व एव चोपेक्ष्यमाणा मधुमेहत्वमायान्ति ।
तस्मात्सर्वे ऽपि मधुमेहशब्देनोच्यन्ते ।
यतः सर्वेष्वपि प्राङ्मधिविव मधुरं मेहति मधुररसश्चास्य देहो भवतीति ॥
तत्र प्रतिश्यायः शरीरशैथिल्यमरोचकाविपाकौ प्रसेकच्छर्दिर्निद्रा कासश्च श्लेष्मजानामुपद्रवा भवन्ति ।
वृषणावदरणं बस्तिर्मेढ्रतोदो ऽम्लकः पिपासा ज्वरो दाहो मूर्च्छातीसारः पाण्डुरोगश्च पित्तजानाम् ।
हृद्ग्रहो लौल्यमनिद्रता कम्पः शूलं बद्धपुरीषत्वं शोषः कासः श्वासश्च वातजानाम् ॥
अथैवमस्य मेदःक्लेदादिभिरभिष्यण्णदहेस्य दोषैरनुगतधातोः प्रमेहाभिवृद्धौ मांसलेष्ववकाशेषु सन्धिमर्मसु च प्रदेशविशेषाश्रयत्वात् प्राणापहारिण्यो भूयः कष्टतमोपद्रवा दश पिटका जायन्ते ।
सुतरां चाधःकाये ।
तदभिमुखा हि प्रमेहिणां दोषाः ।
तद्यथा ।
शराविका कच्छपिका जालिनी पुत्रिणी विदारिका सर्षपिका मसूरिकालजी विनता विद्रधिश्च ॥
तत्र श्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका ।
महामूलावगाढार्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभा कच्छपिका ।
महाशयार्तितोदा स्तब्धा स्निग्धस्राविणी सूक्ष्मच्छिद्रा मांससिराजालावृता जालिनी ।
महती पिटकाभिरल्पाभिराचिता पुत्रिणी ।
कंठिना विदारीकन्दवद्वृत्ता विदारिका ।
शीघ्रपाका महावेदना सर्षपाकृतिप्रमाणा तद्विधाभिश्च पिटकाभिश्चिता सर्षपिका ।
मसूराकार प्रमाणा मसूरिका ।
त्वचमुत्थान एव दहन्ती स्फोटैरावृता विसर्पन्ती रक्ता कृष्णातितृण्मोहज्वरकरी दाहभूयिष्ठातिकष्टा चालजी ।
महती नीलावगाढरुजाक्लेदा पृष्ठोदरान्यतराधिष्ठाना विनता विनता ।
विद्रधिस्तु वक्ष्यते पृथगेव ॥
तासामाद्याः पञ्चातिबलश्लेष्ममेदःसम्भवेन मूलव्याध्येकरूपत्वात्तद्वृद्धिकारितया दुःसहाः ।
न त्वितराः पित्तोल्बणतयाल्पकफमेदोभावात् ।
प्रमेहवशाच्च पिटकासु यथास्वं दोषोद्रेको भवतीति ।
भवति चात्र श्लोकः ॥
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ।
तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः ॥
हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम् ।
यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तं विदुः ॥
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्यात् द्विविधो विचारः ।
सम्पूरणाच्छ्रलेष्मसमुद्भवः स्यात् क्षीणेषु दोषोष्वनिलात्मको वा ॥
सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः ।
साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0