भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.39

1.39.1

अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.39.2

क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटुकलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः क्रिम्याममेदोविषापहः सर्वशस्त्रानुशस्त्राणां च वरिष्ठः छेदनभेदनपाटनलेखनकरणाद्यतश्च सम्बाधावकाशजेषु दुःखावचारणीयशस्त्रेषु नासार्शो ऽर्बुदादिषु शस्त्रेण चासिध्यस्तु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते ।
स द्विविधो बाह्याभ्यन्तरपरिमार्जनभेदेन ॥

1.39.3

तत्रार्शो ऽर्बुदभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुखरोगकुष्ठकिलासतिलकालकादिषु बहिः परिमार्जनेन ।
अन्तःपरिमार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्मरीशर्करादिषु स यथास्वमेवोपदेक्ष्यते ॥

1.39.4

न तूभयो ऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्वरातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचकातुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्गशूलविषमद्यपीतेषु ।
मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात् ।
तथा शीतोष्णवर्षदुर्दिनप्रवातेषु च ॥

1.39.5

अथ बहिः परिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च ।
तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्ते ऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपहतं महान्तं कालमुष्ककं सुरापललसुमनो ऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत् ॥

1.39.6

दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः ।
गन्तुमर्हन्त्यसङ्क्रुद्धास्त्यक्त्वेमं वासमव्ययम् ॥

1.39.7

भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम् ।
वृक्षं न लोभान्न क्रोधाद् ब्राह्मणार्थे विशेषतः ॥

1.39.8

इति ।
अथापरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारूढे सवितरि ब्राह्मणान् वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत् ।
एवं च पारिभद्रपलाशाश्वकर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षास्फोतसप्तच्छदनक्तमालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्रकार्ककाकजङ्घापामार्गाग्निमन्थान् वसन्ते सङ्गृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सवान् समूलफलपत्रशाखान् खण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्ककनिचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत् ।
दग्ध्वा च शान्ते ऽग्नौ पृथक् सुधाशर्कराभस्म कृत्वेतरत् सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवादिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रावयेत् ।
यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत् ।
ततः स्नेहपाकविधिना पाचयेत् ।
पच्यमाने च तस्मिंस्ताः सुधाभस्मशर्कराः क्षीरबकं शङ्खनाभिचायसे पात्रे ऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात् ।
ततश्च सुतरां दर्व्यावघट्टयन् विपचेत् यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वीप्रलेपी स्यात्तदैनमवतार्यायोघटे यवरशौ सुगुप्तं स्थापयेत् ।
एष मध्यमः क्षारः ॥

1.39.9

मृदौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत् ।
तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिडस्वर्जिकाकनकक्षीरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्खशुक्तीः पूर्ववत् प्रतिवापं दद्यात् ।
तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत ।
क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत् ।
तत्रनातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीघ्रः पिच्छिलः शिखरी सुखनिर्वाप्यो ऽल्परुगनभिष्यन्दी चेति दश क्षारस्य गुणाः ।
दशैव च दोषाः ।
तद्यथा ।
अत्युष्णो ऽतिशीतो ऽतितीक्ष्णो ऽतिमृदुरतितनुरतिघनो ऽतिपिच्छिलोविसर्पी हीनौषधो हीनपाकश्चेति ॥

1.39.10

तत्र क्षारकर्मण्युपहारेत् पिचुवर्तिशलाकादर्व्यञ्जलिकाघृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासनादीनि ।
अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारकगृहीतस्य व्याधिं छित्वावलिख्य प्रच्छाय वा पिचुप्लोतान्यतरावगुण्ठितया शलाकया क्षारं पातयेत् ।
ततो मात्राशतमुपेक्षेत ।
वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षारलेपः ।
घ्राणजेषु त्वर्शो ऽर्बुदेष्वादित्याभिमुखस्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः ।
तद्वच्छ्रोत्रजेषु ।
गुदार्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव ।
ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत्सर्पिर्मधुभ्यां शुक्ततुषोदकमस्तुक्षीरादिभिश्च ।
ततः परं शीतमधुरैः सघृतैः प्रदिह्यात् ।
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ।
स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुवर्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा ।
मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम् ।
एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम् ।
नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा ।
यथाव्याधिदोषं च व्रणमुपक्रमेत् ।
तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः ॥

1.39.11

तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोपशान्तौ च सम्यग्दग्धं भवति ।
तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्चदुर्दग्धम् ।
तत्र पुनः पातयेत् ।
ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तकोपैरतिदग्धम् ।
अपि च ।
नेत्रे ऽतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः ।
घ्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च ।
तद्वच्छोत्रादिष्वपि च यथास्वं व्यापत् ।
गुदे विण्मूत्ररोधो ऽतीसारः पुंस्त्वोपघातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः ।
शकृन्मूत्रवातविधारणाशक्तिर्वा ।
तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनःपुनर्निर्वापयेत् ।
अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति ।
भवति चात्र ॥

1.39.12

अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः ।
यात्याशु स्वादुतां तमादम्लैर्निर्वापयेत्तराम् ॥

1.39.13

ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः ॥
कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः ॥

1.39.14

पाययेतातियोगे ऽतस्तं शीघ्रं सघृतं दधि ।
सगुडं वा दधिसरं तैलं वा ससितोपलम् ॥

1.39.15

धात्रीफलकपित्थाम्लदाडिमस्वरसे घृतम् ।
द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम् ॥

1.39.16

दाडिमामलकाम्रातकपित्थकरमर्दकान् ।
आम्राच्च मातुलुङ्गाच्च रसं मृद्वग्निना पचेत् ॥

1.39.17

ततो ऽतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम् ।
क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति ॥

1.39.18

शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc