अष्टाध्यायी · अध्याय 7.3
देविका-शिंशपा-दित्यवाड्-दीर्घसत्र-श्रेयसाम् आत्
केकय-मित्रयु-प्रलयानां य-आदेर् इयः
न य्-वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्याम् ऐच्
द्वारादीनां च
न्यग्रोधस्य च केवलस्य
न कर्मव्यतिहारे
स्व्-आगत-आदीनां च
श्व-आदेर् इञि
पदान्तस्य अन्यतरस्याम्
उत्तरपदस्य
वक्ष्यति - अवयवादृतोः
सु-सर्व-अर्धाज् जनपदस्य
दिशो ऽमद्राणाम्
प्राचां ग्राम-नगराणाम्
सङ्ख्यायाः संवत्सर-सङ्ख्यस्य च
वर्षस्य अभविष्यति
परिमाणान्तस्य असञ्ज्ञा-शाणयोः
जे प्रोष्ठपदानाम्
हृद्-भग-सिन्ध्वन्ते पूर्वपदस्य च
अनुशतिक-आदीनाम् च
देवताद्वन्द्वे च
न+इन्द्रस्य परस्य
दिर्घाच् च वरुणस्य
प्राचां नगरान्ते
जङ्गल-धेनु-वलजान्तस्य विभाषितम् उत्तरम्
अर्धात् परिमाणस्य पूर्वस्य तु वा
नातः परस्य
प्रवाहणस्य ढे
तत्प्रत्ययस्य च
नञः शुचि-ईश्वर-क्षेत्रज्ञ-कुशल-निपुणानाम्
यथातथ-यथापुरयोः पर्यायेण
हनस् तो ऽचिण्-णलोः
आतो युक् चिण्-कृतोः
न+उदात्त-उपदेशस्य म-अन्तस्य अनाचमेः
जनि-वध्योश् च
अर्ति-ह्वी-व्ली-री-क्नूयी-क्ष्माय्य्-आतां पुग् णौ
शा-च्छा-सा-ह्वा-व्या-वे-पां युक्
वो विधूनने जुक्
ली-लोर् नुग्-लुकाव् अन्यतरस्यां स्नेहविपातने
भियो हेतुभये षुक्
स्फायो वः
शदेर् अगतौ तः
रुहः पो ऽन्यतरस्याम्
प्रत्ययस्थात् कात् पूर्वस्य अत इद् आप्य् असुपः
न या-सयोः
उदीचामातः स्थाने यकपूर्वायाः
भस्त्रा-एषा-अजा-ज्ञा-द्वा-स्वा नञ्पूर्वाणाम् अपि
अभाषितपुंस्काच् च
आद्-आचार्याणाम्
ठस्य+इकः
इस्-उस्-उक्-तान्तात् कः
च-जोः कु घिण्-ण्यतोः
न्यङ्क्व्-आदीनां च
हो हन्तेर् ञ्-णिन्-नेषु
अभ्यासाच् च
हेर् अचङि
सन्-लिटोर् जेः
विभाषा चेः
न क्व्-आदेः
अजि-व्रज्योश् च
भुज-न्युब्जौ पाण्य्-उपतापयोः
प्रयाज-अनुयाजौ यज्ञाङ्गे
वञ्चेर् गतौ
ओक उचः के
ण्य आवश्यके
यज-याच-रुच-प्रवच-र्चश् च
वचो ऽशब्दसञ्ज्ञायां
प्रयोज्य-नियोज्यौ शक्यार्थे
भोज्यं भक्ष्ये
घोर् लोपो लेटि वा
ओतः श्यनि
क्षस्य अचि
लुग् वा दुह-दिह-लिह-गुहाम् आत्मनेपदे दन्त्ये
शमाम् अष्टानां दीर्घः श्यनि
ष्ठिवु-क्लम्य्-आचमां शिति
क्रमः परस्मैपदेषु
इषु-गमि-यमां छः
पा-घ्रा-ध्मा-स्हा-म्ना-दाण्-दृश्य्-अर्ति-सर्ति-शद-सदां पिब-जिघ्र-धम-तिष्थ-मन-यच्छ-पश्य-र्च्छ-धौ-शीय-सीदाः
ज्ञा-जनोर् जा
प्व्-आदीनां ह्रस्वः
मीनातेर् निगमे
मिदेर् गुणः
जुसि च
सार्वधातुक-आर्धधातुकयोः
जाग्रो ऽवि-चिण्-णल्-ङित्सु
पुगन्त-लघूपधस्य च
न अभ्यस्तस्य अचि पिति सार्वधातुके
भू-सुवोस् तिङि
उतो वृद्धिर् लुकि हलि
ऊर्णोतेर् विभाषा
गुणो ऽपृक्तो
तृणह इम्
ब्रुव ईट्
यङो वा
तु-रु-स्तु-शम्य्-अमः सार्वधातुके
अस्ति-सिचो ऽपृक्ते
बहुलं छन्दसि
रुदश् च पञ्चभ्यः
अड् गार्ग्यगालवयोः
अदः सर्वेषाम्
अतो दीर्घो यञि
सुपि च
बहुवचने झल्येत्
ओसि च
आङि चापः
सम्बुद्धौ च
अम्बार्थनद्योर् ह्रस्वः
ह्रस्वस्य गुणः
जसि च
ऋतो ङि-सर्वनामस्थानयोः
घेर् ङिति
आण् नद्याः
याड् आपः
सर्वनाम्नः स्याड् ढ्रस्वश् च
विभाषा द्वितीया-तृतीयाभ्याम्
ङेराम् नद्य्-आम्-नीभ्यः
इद्-उद्भ्याम्
औत्
अच् च घेः
आङो ना ऽस्त्रियाम्
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0