अष्टाध्यायी · अध्याय 7.2
सिचि वृद्धिः परस्मैपदेषु
अतो ल्रान्तस्य
वद-व्रज-हलन्तस्य अचः
नेटि
ः-म्-यन्त-क्षण-श्वस-जागृ-णि-श्व्य्-एद्-इताम्
ऊर्णोतेर् विभाषा
अतो हलादेर् लघोः
न-इड् वशि कृति
ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च
एकाच उपदेशे ऽनुदात्तात्
श्र्य्-उकः किति
सनि ग्रह-गुहोश् च
कृ-सृ-भृ-वृ-स्तु-द्रु-स्रु-श्रुवो लिटि
श्वि-इदितो निष्थायाम्
यस्य विभाषा
आदितश् च
विभाषा भाव-आदिकर्मणोः
क्षुब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि मन्थ-मनस्-तमः-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु
धृषी शसी वैयात्ये
दृढः स्थूलबलयोः
प्रभौ परिवृढः
कृच्छ्र-गहनयोः कषः
घुषिर् अविशब्दने
अर्देः सं-नि-विभ्यः
अभेश् च आविदूर्ये
णेर् अध्ययने वृत्तम्
वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्ताः
रुष्य्-अम-त्वर-सङ्घुष-आस्वनाम्
हृषेर् लोमसु
अपचितश् च
ह्रु ह्वरेश् छन्दसि
अपरिह्वृताश् च
सोमे ह्वरितः
ग्रसित-स्कभित-स्तभित-उत्तभित-चत्त-विकस्ता विशस्तृ-शंस्तृ-शास्तृ-तरुतृ-तरूतृ-वरुतृ-वरूतृ-वरूत्रीर्-उज्ज्वलिति-क्षरिति-क्षमिति-वमित्य्-अमिति इति च
आर्धधातुकस्य+इड् वलादेः
स्नु-क्रमोर् अनात्मनेपदनिमित्ते
ग्रहो ऽलिटि दीर्घः
वॄतो वा
न लिङि
सिचि च परस्मैपदेषु
इट् सनि वा
लिङ्सिचोर् आत्मनेपदेषु
ऋतश् च संयोगादेः
स्वरति-सूति-सूयति-धूञ्-ऊदितो वा
रधादिभ्यश् च
निरः कुषः
इण् निष्ठायाम्
ति-इष-सह-लुभ-रुष-रिषः
सनि इवन्त-र्ध-भ्रस्ज-दम्भु-श्रि-स्वृ-यु-ऊर्णु-भर-ज्ञपि-सनाम्
क्लिशः क्त्वानिष्ठयोः
पूङश् च
वसति-क्षुधोर् इट्
अञ्चेः पूजायाम्
लुभो विमोहने
जॄ-व्रश्च्योः क्त्वि
उदितो वा
से ऽसिचि कृत-चृत-च्छृद-तृद-नृतः
गमेर् इट् परस्मैपदेषु
न वृद्भ्यश् चतुर्भ्यः
तासि च क्ल्̥पः
अचस् तास्वत् थल्य् अनिटो नित्यम्
उपदेशे ऽत्वतः
ऋतो भारद्वाजस्य
वभूथ-आततन्थ-जगृभ्म-ववर्थ+इति निगमे
विभाषा सृजिदृशोः
इड् अत्त्य्-अर्ति-व्ययतीनाम्
वस्व् एकाज्-आद्-घसाम्
विभाषा गम-हन-विद-विशाम्
सनिंससनिवांसम्
ऋद्धनोः स्ये
अज्ञेः सिचि
स्तु-सु-धूञ्भ्यः परस्मैपदेषु
यम-रम-नम-आतां सक् च
स्मि-पूङ्-र्-अञ्ज्व्-अशां सनि
किरश् च पञ्चभ्यः
रुदादिभ्यः सार्वधातुके
ईशः से
ईड-जनोर् ध्वे च
लिङः सलोपो ऽनन्त्यस्य
अतो येयः
आतो ङितः
आने मुक्
ईदासः
अष्टन आ विभक्तौ
रायो हलि
युष्मद्-अस्मदोर् अनादेशे
द्वितीयायां च
प्रथमायाश् च द्विवचने भाषायाम्
यो ऽचि
शेषे लोपः
मपर्यन्तस्य
वक्ष्यति - युवावौ द्विवचने
यूयवयौ जसि
त्वाहौ सौ
तुभ्य-मह्यौ ङयि
तव-ममौ ङसि
त्व-माव् एकवचने
प्रत्यय-उत्तरपदयोश् च
त्रि-चतुरोः स्त्रियां तिसृ-चतसृ
अचि र ऋतः
जराया जरस् अन्यतरस्याम्
त्यदादीनाम् अः
किमः कः
कु ति-होः
क्व अति
तदोः सः सावनन्त्ययोः
अदस औ सुलोपश् च
इदमो मः
दश् च
यः सौ
इदो ऽय् पुंसि
अन-आप्य् अकः
हलि लोपः
मृजेर् वृद्धिः
अचो ञ्णिति
अत उपधायाः
तद्धितेष्व् अचाम् आदेः
किति च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0