आर्यभटीय (टीका सहित) · अध्याय 22
[ भुजकोटिकर्णानाम् सम्बन्धः ]
कर्णानयनार्थम् आह ã
यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः ।
यः च भुजावर्गः यः च कोटिवर्गः एतौ वर्गौ एकत्र कर्णवर्गः भवति ।
उद्देशकः ã
त्रिचतुष्कभुजाकोट्योः षडष्टसङ्ख्यानयोः तयोः च अपि ।
द्वादशकनवकयोः च क्रमेण कर्णाः विनिर्देश्याः
न्यासः ã
परिलेखः 43
करणम् ã एते भुजाकोटी 3, 4; एतयोः वर्गौ 9, 16; एकत्र कर्णवर्गः 25, अस्य मूलम् कर्णः 5 । एवम् अध्यर्धाश्रिक्षेत्रे आयतचतुरश्रक्षेत्रे वा कर्णः योज्यः । एवम् परिशिष्टक्षेत्रयोः कर्णौ लब्धौ 10, 15 ॥
[ वृत्ते अर्धज्याशरयोः सम्बन्धः ]
वृत्तक्षेत्रावगाहज्यानयनआय आर्यापश्चार्धम् आह ã
वृत्ते शरसंवर्गः अर्धज्यावर्गः स खलु धनुषोः
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0