भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 13.5

13.5.01

द्विविधं विजिगीषोः समुत्थानं - अटव्य्.आदिकम् एक.ग्राम.आदिकं च ॥

13.5.02

त्रिविधश् च^अस्य लम्भः - नवो, भूत.पूर्वः, पित्र्य इति ॥

13.5.03

नवम् अवाप्य लाभं पर.दोषान् स्व.गुणैश् छादयेत्, गुणान् गुण.द्वैगुण्येन ॥

13.5.04

स्व.धर्म.कर्म.अनुग्रह.परिहार.दान.मान.कर्मभिश् च प्रकृति.प्रिय.हितान्य् अनुवर्तेत ॥

13.5.05

यथा.सम्भाषितं च कृत्य.पक्षम् उपग्राहयेत्, भूयश् च कृत.प्रयासम् ॥

13.5.06

अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृति.विरुद्ध.आचारश् च ॥

13.5.07

तस्मात् समान.शील.वेष.भाषा.आचारताम् उपगछेत् ॥

13.5.08

देश.दैवत.स्माज.उत्सव.विहारेषु च भक्तिम् अनुवर्तेत ॥

13.5.09

देश.ग्राम.जाति.संघ.मुख्येषु च^अभीक्ष्णं सत्त्रिणः परस्य^अपचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामि.सत्कारं च विद्यमानम् ॥

13.5.10

उचितैश् च^एनान् भोग.परिहार.रक्षा.अवेक्षणैर् भुञ्जीत ॥

13.5.11

सर्व.देवता.आश्रम.पूजनं च विद्या.वाक्य.धर्म.शूर.पुरुषाणां च भूमि.द्रव्य.दान.परिहारान् कारयेत्, सर्व.बन्धन.मोक्षणम् अनुग्रहं दीन.अनाथ.व्याधितानां च ॥

13.5.12

चातुर्मास्येष्व् अर्ध.मासिकम् अघातम्, पौर्णमासीषु च चातूरात्रिकं राज.देश.नक्षत्रेष्व् ऐकरात्रिकम् ॥

13.5.13

योनि.बाल.वधं पुंस्त्व.उपघातं च प्रतिषेधयेत् ॥

13.5.14

यच् च कोश.दण्ड.उपघातकम् अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्य.व्यवहारं स्थापयेत् ॥

13.5.15

चोर.प्रकृतीनां म्लेच्छ.जातीनां च स्थान.विपर्यासम् अनेकस्थं कारयेत्, दुर्ग.राष्ट्र.दण्ड.मुख्यानां च ॥

13.5.16

परा.उपगृहीतानां च मन्त्रि.पुरोहितानां परस्य प्रत्यन्तेष्व् अनेकस्थं वासं कारयेत् ॥

13.5.17

अपकार.समर्थान् अनुक्षियतो वा भर्तृ.विनाशम् उपांशु.दण्डेन प्रशमयेत् ॥

13.5.18

स्व.देशीयान् वा परेण वा^अपरुद्धान् अपवाहित.स्थानेषु स्थापयेत् ॥

13.5.19

यश् च तत्.कुलीनः प्रत्यादेयम् आदातुं शक्तः, प्रत्यन्त.अटवीस्थो वा प्रबाधितुम् अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश् चतुर्.भागं वा कोश.दण्ड.दानम् अवस्थाप्य, यद् उपकुर्वाणः पौर.जानपदान् कोपयेत् ॥

13.5.20

कुपितैस् तैर् एनं घातयेत् ॥

13.5.21

प्रकृतिभिर् उपक्रुष्टम् अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति ॥

13.5.22

भूत.पूर्वे येन दोषेण^अपवृत्तस् तं प्रकृति.दोषं छादयेत्, येन च गुणेन^उपावृत्तस् तं तीव्री.कुर्यात् - इति ॥

13.5.23

पित्र्ये पितुर् दोषांश् छादयेत्, गुणांश् च प्रकाशयेत् - इति ॥
कz13.5.24अब्। चरित्रम् अकृतं धर्म्यं कृतं च^अन्यैः प्रवर्तयेत् ।
कz13.5.24च्द्। प्रवर्तयेन् न च^अधर्म्यं कृतं च^अन्यैर् निवर्तयेत् ॥ए
पर.बल.घात.प्रयोगह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc