अर्थशास्त्र · अध्याय 08.5
बल.व्यसनानि - अमानितम्, विमानितम्, अभृतम्, व्याधितम्, नव.आगतम्, दूर.आयातम्, परिश्रान्तम्, परिक्षीणम्, प्रतिहतम्, हत.अग्र.वेगम्, अनृतु.प्राप्तम्, अभूमि.प्राप्तम्, आशा.निर्वेदि, परिसृप्तम्, कलत्र.गर्भि, अन्तः.शल्यम्, कुपित.मूलम्, भिन्न.गर्भम्, अपसृतम्, अतिक्षिप्तम्, उपनिविष्टम्, समाप्तम्, उपरुद्धम्, परिक्षिप्तम्, छिन्न.धान्य.पुरुष.वीवधम्,
स्व.विक्षिप्तम्, मित्र.विक्षिप्तम्, दूष्य.युक्तम्, दुष्ट.पार्ष्णि.ग्राहम्, शून्य.मूलम्, अस्वामि.संहतम्, भिन्न.कूटम्, अन्धम् इति ॥
तेषाम् अमानित.विमानित.अनियतयोर् अमानितं कृत.अर्थ.मानं युध्येत, न विमानितम् अन्तः.कोपम् ॥
अभृत.व्याधितयोर् अभृतं तदात्व.कृत.वेतनं युध्येत, न व्याधितम् अकर्मण्यम् ॥
नव.आगत.दूर.आयातयोर् नव.आगतम् अन्यत उपलब्ध.देशम् अनव.मिश्रं युध्येत, न दूर.आयतम् आयत.गत.परिक्लेशम् ॥
परिश्रान्त.परिक्षीणयोः परिश्रान्तं स्नान.भोजन.स्वप्न.लब्ध.विश्रामं युध्येत, न परिक्षीणम् अन्यत्र^आहवे क्षीणयुग्य.पुरुषम् ॥
प्रतिहत.हत.अग्र.वेगयोः प्रतिहतम् अग्र.पात.भग्नं प्रवीर.पुरुष.संहतं युध्येत, न हत.अग्र.वेगम् अग्र.पात.हत.वीरम् ॥
अनृत्व्.अभूमि.प्राप्तयोर् अनृतु.प्राप्तं यथ.ऋतु.युग्य.शस्त्र.आवरणं युध्येत, न^अभूमि.प्राप्तम् अवरुद्ध.प्रसार.व्यायामम् ॥
आशा.निर्वेदि.परिसृप्तयोर् आशा.निर्वेदि लब्ध.अभिप्रायं युध्येत, न परिसृप्तम् अपसृत.मुख्यम् ॥
कलत्र.गर्भ्य्.अन्तः.शल्ययोः कलत्र.गर्भि उन्मुच्य कलत्रं युध्येत, न^अन्तः.शल्यम् अन्तर.मित्रम् ॥
कुपित.मूल.भिन्न.गर्भयोः कुपित.मूलं प्रशमित.कोपं साम.आदिभिर् युध्येत, न भिन्न.गर्भम् अन्योन्यस्माद् भिन्नम् ॥
अपसृत.अतिक्षिप्तयोर् अपसृतम् एक.राज्य.अतिक्रान्तं मन्त्र.व्यायामाभ्यां सत्त्र.मित्र.अपाश्रयं युध्येत, न^अतिक्षिप्तम् अनेक.राज्य.अतिक्रान्तं बह्व्.आबाधत्वात् ॥
उपनिविष्ट.समाप्तयोर् उपनिविष्टं पृथग्.यान.स्थानम् अतिसंधाय^अरिं युध्येत, न समाप्तम् अरिणा^एक.स्थान.यानम् ॥
उपरुद्ध.परिक्षिप्तयोर् उपरुद्धम् अन्यतो निष्क्रम्य^उपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् ॥
छिन्न.धान्य.पुरुष.वीवधयोः छिन्न.धान्यम् अन्यतो धान्यम् आनीय जङ्गम.स्थावर.आहारं वा युध्येत, न छिन्न.पुरुष.वीवधम् अनभिसारम् ॥
स्व.विक्षिप्त.मित्र.विक्षिप्तयोः स्व.विक्षिप्तं स्व.भूमौ विक्षिप्तं सैन्यम् आपदि शक्यम् आवाहयितुम्, न मित्र.विक्षिप्तं विप्रकृष्ट.देश.कालत्वात् ॥
दूष्य.युक्त.दुष्ट.पार्ष्णि.ग्राहयोर् दूष्य.युक्तम् आप्त.पुरुष.अधिष्ठितम् असंहतं युध्येत, न दुष्ट.पार्ष्णि.ग्राहं पृष्ठ.अभिघात.त्रस्तम् ॥
शून्य.मूल.अस्वामि.संहतयोः शून्य.मूलं कृत.पौर.जानपद.आरक्षं सर्व.संदोहेन युध्येत, न^अस्वामि.संहतं राज.सेना.पति.हीनम् ॥
भिन्न.कूट.अन्धयोर् भिन्न.कूटम् अन्य.अधिष्ठितं युध्येत, न^अन्धम् अदेशिकं - इति ॥
कz08.5.19अब्। दोष.शुद्धिर् बल.आवापः सत्त्र.स्थान.अतिसंहितम् ।
कz08.5.19च्द्। संधिश् च^उत्तर.पक्षस्य बल.व्यसन.साधनम् ॥
कz08.5.20अब्। रक्षेत् स्व.दण्डं व्यसने शत्रुभ्यो नित्यम् उत्थितः ।
कz08.5.20च्द्। प्रहरेद् दण्ड.रन्ध्रेषु शत्रूणां नित्यम् उत्थितः ॥
कz08.5.21अब्। यतो निमित्तं व्यसनं प्रकृतीनाम् अवाप्नुयात् ।
कz08.5.21च्द्। प्राग् एव प्रतिकुर्वीत तन् निमित्तम् अतन्द्रितः ।
कz08.5.22अब्। अभियातं स्वयं मित्रं सम्भूय^अन्य.वशेन वा ॥
कz08.5.22च्द्। परित्यक्तम् अशक्त्या वा लोभेन प्रणयेन वा ।
कz08.5.23अब्। विक्रीतम् अभियुञ्जाने संग्रामे वा^अपवर्तिना ॥
कz08.5.23च्द्। द्वैधी.भावेन वा^अमित्रं यास्यता वा^अन्यम् अन्यतः ।
कz08.5.24अब्। पृथग् वा सह.याने वा विश्वासेन^अतिसंहितम् ॥
कz08.5.24च्द्। भय.अवमान.आलस्यैर् वा व्यसनान् न प्रमोक्षितम् ।
कz08.5.25अब्। अवरुद्धं स्व.भूमिभ्यः समीपाद् वा भयाद् गतम् ॥
कz08.5.25च्द्। आच्छेदनाद् अदानाद् वा दत्त्वा वा^अप्य् अवमानितम् ।
कz08.5.26अब्। अत्याहारितम् अर्थं वा स्वयं पर.मुखेन वा ॥
कz08.5.26च्द्। अतिभारे नियुक्तं वा भङ्क्त्वा परम् उपस्थितम् ।
कz08.5.27अब्। उपेक्षितम् अशक्त्या वा प्रार्थयित्वा विरोधितम् ॥
कz08.5.27च्द्। कृच्छ्रेण साध्यते मित्रं सिद्धं च^आशु विरज्यति ।
कz08.5.28अब्। कृत.प्रयासं मान्यं वा मोहान् मित्रम् अमानितम् ।
कz08.5.28च्द्। मानितं वा न सदृशं शक्तितो वा निवारितम् ॥
कz08.5.29अब्। मित्र.उपघात.त्रस्तं वा शङ्कितं वा^अरि.संहितात् ।
कz08.5.29च्द्। दूष्यैर् वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ॥
कz08.5.30अब्। तस्मान् न^उत्पादयेद् एनान् दोषान् मित्र.उपघातकान् ।
कz08.5.30च्द्। उत्पन्नान् वा प्रशमयेद् गुणैर् दोष.उपघातिभिः ॥ए
(शक्ति.देश.काल.बल.अबल.ज्नानम् - यात्रा.कालाह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0