अर्थशास्त्र · अध्याय 07.7
विजिगीषुर् द्वितीयां प्रकृतिम् एवम् उपगृह्णीयात् ॥
सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णि.ग्राहं वारयिष्यति, यातव्यं न^अभिसरिष्यति, बल.द्वैगुण्यं मे भविष्यति, वीवध.आसारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्.आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्ग.अटव्य्.अपसारेषु दण्डेन चरिष्यति, यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति,
लब्ध.लाभ.अंशो वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥
द्वैधी.भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानाम् अन्यतमाल् लिप्सेत ॥
तेषां ज्यायसो^अधिकेन^अंशेन समात् समेन हीनाद्द् हीनेन^इति सम.संधिः ॥
विपर्यये विषम.संधिः ॥
तयोर् विशेष.लाभाद् अतिसंधिः ॥
व्यसनिनम् अपाय.स्थाने सक्तम् अनर्थिनं वा ज्यायांसं हीनो बल.समेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
एवं.भूतो वा हीन.शक्ति.प्रताप.पूरण.अर्थं सम्भाव्य.अर्थ.अभिसारी मूल.पार्ष्णि.त्राण.अर्थं वा ज्यायांसं हीनो बल.समाद् विशिष्टेन लाभेन पणेत ॥
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥
जात.व्यसन.प्रकृति.रन्ध्रम् उपस्थित.अनर्थं वा ज्यायांसं हीनो दुर्ग.मित्र.प्रतिष्टब्धो वा ह्रस्वम् अध्वानं यातु.कामः शत्रुम् अयुद्धम् एक.अन्त.सिद्धिं वा लाभम् आदातु.कामो बल.समाद्द् हीनेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अरन्ध्र.व्यसनो वा ज्यायान् दुर्.आरब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामो दूष्य.दण्डं प्रवासयितु.कामो दूष्य.दण्डम् आवाहयितु.कामो वा पीडनीयम् उच्छेदनीयं वा हीनेन व्यथयितु.कामः संधि.प्रधानो वा कल्याण.बुद्धिर् हीनं लाभं प्रतिगृह्णीयात् ॥
कल्याण.बुद्धिना सम्भूय^अर्थं लिप्सेत, अन्यथा विक्रमेत ॥
एवं समः समम् अतिसंदध्याद् अनुगृह्णीयाद् वा ॥
पर.अनीकस्य प्रत्यनीकं मित्र.अटवीनां वा, शत्रोर् विभूमीनां देशिकं मूल.पार्ष्णि.त्राण.अर्थं वा समो बल.समेन लाभेन पणेत ॥
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥
जात.व्यसन.प्रकृति.रन्ध्रम् अनेक.विरुद्धम् अन्यतो लभमानो वा समो बल.समाद्द् हीनेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
एवं.भूतो वा समः सामन्त.आयत्त.कार्यः कर्तव्य.बलो वा बल.समाद् विशिष्टेन लाभेन पणेत ॥
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात् अन्यथा विक्रमेत ॥
जात.व्यसन.प्रकृति.रन्ध्रम् अभिहन्तु.कामः स्व्.आरब्धम् एक.अन्त.सिद्धिं वा^अस्य कर्म.उपहन्तु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्याद्.भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥
भूयो वा याचितः स्व.बल.रक्षा.अर्थं दुर्धर्षम् अन्य.दुर्गम् आसारम् अटवीं वा पर.दण्डेन मर्दितु.कामः प्रकृष्टे^अध्वनि काले वा पर.दण्डं क्षय.व्ययाभ्यां योक्तु.कामः पर.दण्डेन वा विवृद्धस् तम् एव^उच्छेत्तु.कामः पर.दण्डम् आदातु.कामो वा भूयो दद्यात् ॥
ज्यायान् वा हीनं यातव्य.अपदेशेन हस्ते कर्तु.कामः परम् उच्छिद्य वा तम् एव^उच्छेत्तु.कामः, त्यागं वा कृत्वा प्रत्यादातु.कामो बल.समाद् विशिष्टेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
यातव्य.संहितो वा तिष्ठेत्, दूष्य.अमित्र.अटवी.दण्डं वा^अस्मै दद्यात् ॥
जात.व्यसन.प्रकृति.रन्ध्रो वा ज्यायान् हीनं बल.समेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
एवं.भूतं हीनं ज्यायान् बल.समाद्द् हीनेन लाभेन पणेत ॥
पणितस् तस्य^अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
कz07.7.31अब्। आदौ बुध्येत पणितः पणमानश् च कारणम् ॥
कz07.7.31च्द्। ततो वितर्क्य.उभयतो यतः श्रेयश् ततो व्रजेत् ॥ए
(यातव्य.वृत्तिः - अनुग्राह्य.मित्र.विशेषाह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0