भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.5

07.5.01

तुल्य.सामन्त.व्यसने यातव्यम् अमित्रं वा^इत्य् अमित्रम् अभियायात्, तत्.सिद्धौ यातव्यम् ॥

07.5.02

अमित्र.सिद्धौ हि यातव्यः साहाय्यं दद्यान् न^अमित्रो यातव्य.सिद्धौ ॥

07.5.03

गुरु.व्यसनं यातव्यं लघु.व्यसनम् अमित्रं वा^इति "गुरु.व्यसनं सौकर्यतो यायाद्" इत्य् आचार्याः ॥

07.5.04

न^इति कौटिल्यः ॥

07.5.05

लघु.व्यसनम् अमित्रं यायात् ॥

07.5.06

लघ्व् अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रं भवति ॥

07.5.07

सत्यं गुर्व् अपि गुरुतरं भवति ॥

07.5.08

अनभियुक्तस् तु लघु.व्यसनः सुखेन व्यसनं प्रतिकृत्य^अमित्रो यातव्यम् अभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥

07.5.09

यातव्य.यौगपद्ये गुरु.व्यसनं न्याय.वृत्तिं लघु.व्यसनम् अन्याय.वृत्तिं विरक्त.प्रकृतिं वा^इति विरक्त.प्रकृतिं यायात् ॥

07.5.10

गुरु.व्यसनं न्याय.वृत्तिम् अभियुक्तं प्रकृतयो^अनुगृह्णन्ति, लघु.व्यसनम् अन्याय.वृत्तिम् उपेक्षन्ते, विरक्ता बलवन्तम् अप्य् उच्छिन्दन्ति ॥

07.5.11

तस्माद् विरक्त.प्रकृतिम् एव यायात् ॥

07.5.12

क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा^इति क्षीण.लुब्ध.प्रकृतिं यायात्, क्षीण.लुब्धा हि प्रकृतयः सुखेन^उपजापं पीडां वा^उपगच्छन्ति, न^अपचरिताः प्रधान.अवग्रह.साध्याः" इत्य् आचार्याः ॥

07.5.13

न^इति कौटिल्यः ॥

07.5.14

क्षीण.लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ.हिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥

07.5.15

तस्माद् अपचरित.प्रकृतिम् एव यायात् ॥

07.5.16

बलवन्तम् अन्याय.वृत्तिं दुर्बलं वा न्याय.वृत्तिम् इति बलवन्तम् अन्याय.वृत्तिं यायात् ॥

07.5.17

बलवन्तम् अन्याय.वृत्तिम् अभियुक्तं प्रकृतयो न^अनुगृह्णन्ति, निष्पातयन्ति, अमित्रं वा^अस्य भजन्ते ॥

07.5.18

दुर्बलं तु न्याय.वृत्तिम् अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥
कz07.5.19अब्। अवक्षेपेण हि सताम् असतां प्रग्रहेण च ।
कz07.5.19च्द्। अभूतानां च हिंसानाम् अधर्म्याणां प्रवर्तनैः ॥
कz07.5.20अब्। उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
कz07.5.20च्द्। अधर्मस्य प्रसङ्गेन धर्मस्य^अवग्रहेण च ॥
कz07.5.21अब्। अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
कz07.5.21च्द्। अप्रदानैश् च देयानाम् अदेयानां च साधनैः ॥
कz07.5.22अब्। अदण्डनैश् च दण्ड्यानाम् अदण्ड्यानां च दण्डनैः ।
कz07.5.22च्द्। अग्राह्याणाम् उपग्राहैर् ग्राह्याणां च^अनभिग्रहैः ॥
कz07.5.23अब्। अनर्थ्यानां च करणैर् अर्थ्यानां च विघातनैः ।
कz07.5.23च्द्। अरक्षणैश् च चोरेभ्यः स्वयं च परिमोषणैः ॥
कz07.5.24अब्। पातैः पुरुष.काराणां कर्मणां गुण.दूषणैः ।
कz07.5.24च्द्। उपघातैः प्रधानानां मान्यानां च^अवमाननैः ॥
कz07.5.25अब्। विरोधनैश् च वृद्धानां वैषम्येण^अनृतेन च ।
कz07.5.25च्द्। कृतस्य^अप्रतिकारेण स्थितस्य^अकरणेन च ॥
कz07.5.26अब्। राज्ञः प्रमाद.आलस्याभ्यां योग.क्षेम.वधेन वा ।
कz07.5.26च्द्। प्रकृतीनां क्षयो लोभो वैराग्यं च^उपजायते ॥
कz07.5.27अब्। क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।
कz07.5.27च्द्। विरक्ता यान्त्य् अमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥

07.5.28

तस्मात् प्रकृतीनां क्षय.लोभ.विराग.कारणानि न^उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥

07.5.29

क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥

07.5.30

क्षीणाः पीडन.उच्छेदन.भयात् सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥

07.5.31

लुब्धा लोभेन^असंतुष्टाः पर.उपजापं लिप्सन्ते ॥

07.5.32

विरक्ताः पर.अभियोगम् अभ्युत्तिष्ठन्ते ॥

07.5.33

तासां हिरण्य.धान्य.क्षयः सर्व.उपघाती कृच्छ्र.प्रतीकारश् च, युग्य.पुरुष.क्षयो हिरण्य.धान्य.साध्यः ॥

07.5.34

लोभ ऐकदेशिको मुख्य.आयत्तः पर.अर्थेषु शक्यः प्रतिहन्तुम् आदातुं वा ॥

07.5.35

विरागः प्रधान.अवग्रह.साध्यः ॥

07.5.36

निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्य् अनुपजाप्याश् च^अन्येषाम्, अनापत्.सहास् तु ॥

07.5.37

प्रकृति.मुख्य.प्रग्रहैस् तु बहुधा भिन्ना गुप्ता भवन्त्य् आपत्.सहाश् च ॥

07.5.38

सामवायिकानाम् अपि संधि.विग्रह.कारणान्य् अवेक्ष्य शक्ति.शौच.युक्तैः सम्भूय यायात् ॥

07.5.39

शक्तिमान् हि पार्ष्णि.ग्रहणे यात्रा.साहाय्य.दाने वा शक्तः, शुचिः सिद्धौ च^असिद्धौ च यथा.स्थित.कारी^इति ॥

07.5.40

तेषां ज्यायसा^एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यम् इति द्वाभ्यां समाभ्यां श्रेयः ॥

07.5.41

ज्यायसा ह्य् अवगृहीतश् चरति, समाभ्याम् अतिसंधान.आधिक्ये वा ॥

07.5.42

तौ हि सुखौ भेदयितुम्, दुष्टश् च^एको द्वाभ्यां नियन्तुं भेद.उपग्रहं च^उपगन्तुम् इति ॥

07.5.43

समेन^एकेन द्वाभ्यां हीनाभ्यां वा^इति द्वाभ्यां हीनाभ्यां श्रेयः ॥

07.5.44

तौ हि द्वि.कार्य.साधकौ वश्यौ च भवतः ॥
कz07.5.45अब्। कार्य.सिद्धौ तु - कृत.अर्थाज् ज्यायसो गूढः स.अपदेशम् अपस्रवेत् ।
कz07.5.45च्द्। अशुचेः शुचि.वृत्तात् तु प्रतीक्षेत^आ विसर्जनात् ॥
कz07.5.46अब्। सत्त्राद् अपसरेद् यत्तः कलत्रम् अपनीय वा ।
कz07.5.46च्द्। समाद् अपि हि लब्ध.अर्थाद् विश्वस् तस्य भयं भवेत् ॥
कz07.5.47अब्। ज्यायस्त्वे च^अपि लब्ध.अर्थः समो^अपि परिकल्पते ।
कz07.5.47च्द्। अभ्युच्चितश् च^अविश्वास्यो वृद्धिश् चित्त.विकारिणी ॥
कz07.5.48अब्। विशिष्टाद् अल्पम् अप्य् अंशं लब्ध्वा तुष्ट.मुखो व्रजेत् ।
कz07.5.48च्द्। अनंशो वा ततो^अस्य^अङ्के प्रहृत्य द्वि.गुणं हरेत् ॥
कz07.5.49अब्। कृत.अर्थस् तु स्वयं नेता विसृजेत् सामवायिकान् ।
कz07.5.49च्द्। अपि जीयेत न जयेन् मण्डल.इष्टस् तथा भवेत् ॥ए
(संहित.प्रयाणिकं - परिपणित.अपरिपणित.अपसृताः संधयह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc