भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.12

03.12.01

उपनिधिर् ऋणेन व्याख्यातः ॥

03.12.02

पर.चक्र.आटविकाभ्यां दुर्ग.राष्ट्र.विलोपे वा, प्रतिरोधकैर् वा ग्राम.सार्थ.व्रज.विलोपे, चक्र.युक्त.नाशे वा, ग्राम.मध्य.अग्न्य्.उदक.आबाधे ज्वाला.वेग.उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयम् उपरूढो न^उपनिधिम् अभ्यावहेत् ॥

03.12.03

उपनिधि.भोक्ता देश.काल.अनुरूपं भोग.वेतनं दद्यात्, द्वादश.पणं च दण्डम् ॥

03.12.04

उपभोग.निमित्तं नष्टं विनष्टं वा^अभ्यावहेत्, चतुर्.विंशति.पणश् च दण्डः, अन्यथा वा निष्पतने ॥

03.12.05

प्रेतं व्यसन.गतं वा न^उपनिधिम् अभ्यावहेत् ॥

03.12.06

आधान.विक्रय.अपव्ययनेषु च^अस्य चतुर्.गुण.पञ्च.बन्धो दण्डः ॥

03.12.07

परिवर्तने निष्पातने वा मूल्य.समः ॥

03.12.08

तेन^आधि.प्रणाश.उपभोग.विक्रय.आधान.अपहारा व्याख्याताः ॥

03.12.09

न^आधिः स-उपकारः सीदेत्, न च^अस्य मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥

03.12.10

निरुपकारः सीदेत्, मूल्यं च^अस्य वर्धेत ॥

03.12.11

उपस्थितस्य^आधिम् अप्रयच्छतो द्वादशण्पणो दण्डः ॥

03.12.12

प्रयोजक.असम्निधाने वा ग्राम.वृद्धेषु स्थापयित्वा निष्क्रयम् आधिं प्रतिपद्येत ॥

03.12.13

निवृत्त.वृद्धिको वा^आधिस् तत्.काल.कृत.मूल्यस् तत्र^एव^अवतिष्ठेत, अनाश.विनाश.करण.अधिष्ठितो वा ॥

03.12.14

धारणिक.असम्निधाने वा विनाश.भयाद् उद्गत.अर्घं धर्मस्थ.अनुज्ञातो विक्रीणीत, आधि.पाल.प्रत्ययो वा ॥

03.12.15

स्थावरस् तु प्रयास.भोग्यः फल.भोग्यो वा प्रक्षेप.वृद्धि.मूल्य.शुद्धम् आजीवम् अमूल्य.क्षयेण^उपनयेत् ॥

03.12.16

अनिसृष्ट.उपभोक्ता मूल्य.शुद्धम् आजीवं बन्धं च दद्यात् ॥

03.12.17

शेषम् उपनिधिना व्याख्यातम् ॥

03.12.18

एतेन^आदेशो^अन्वाधिश् च व्याख्यातौ ॥

03.12.19

सार्थेन^अन्वाधि.हस्तो वा प्रदिष्टां भूमिम् अप्राप्तश् चोरैर् भग्न.उत्सृष्टो वा न^अन्वाधिम् अभ्यावहेत् ॥

03.12.20

अन्तरे वा मृतस्य दायादो^अपि न^अभ्यावहेत् ॥

03.12.21

शेषम् उपनिधिना व्यकह्यातम् ॥

03.12.22

याचितकम् अवक्रीतकं वा यथा.विधं गृह्णीयुस् तथा.विधम् एव^अर्पयेयुः ॥

03.12.23

भ्रेष.उपनिपाताभ्यां देश.काल.उपरोधि दत्तं नष्टं विनष्टं वा न^अभ्यावहेयुः ॥

03.12.24

शेषम् उपनिधिना व्याख्यातम् ॥

03.12.25

वैयावृत्य.विक्रयस् तु - वैयावृत्य.करा यथा.देश.कालं विक्रीणानाः पण्यं यथा.जातं मूल्यम् उदयं च दद्युः ॥

03.12.26

देश.काल.अतिपातने वा परिहीणं सम्प्रदान.कालिकेन^अर्घेण मूल्यम् उदयं च दद्युः ॥

03.12.27

यथा.सम्भाषितं वा विक्रीणाना न^उदयम् अधिगच्छेयुः, मूल्यम् एव दद्युः ॥

03.12.28

अर्घ.पतने वा परिहीणं यथा.परिहीणं मूल्यम् ऊनं दद्युः ॥

03.12.29

सांव्यवहारिकेषु वा प्रात्ययिकेष्व् अराज.वाच्येषु भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यम् अपि न दद्युः ॥

03.12.30

देश.काल.अन्तरितानां तु पण्यानां क्षय.व्यय.विशुद्धं मूल्यम् उदयं च दद्युः, पण्य.समवायानां च प्रत्यंशम् ॥

03.12.31

शेषम् उपनिधिना व्याख्यातम् ॥

03.12.32

एतेन वैयावृत्य.विक्रयो व्याख्यातः ॥

03.12.33

निक्षेपश् च^उपनिधिना ॥

03.12.34

तम् अन्येन निक्ष्पितम् अन्यस्य^अर्पयतो हीयेत ॥

03.12.35

निक्षेप.अपहारे पूर्व.अपदानं निक्षेप्तारश् च प्रमाणम् ॥

03.12.36

अशुचयो हि कारवः ॥

03.12.37

न^एषां करण.पूर्वो निक्षेप.धर्मः ॥

03.12.38

करण.हीनं निक्षेपम् अपव्ययमानं गूढ.भित्ति.न्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वन.अन्ते वा मद्य.प्रहवण.विश्वासेन ॥

03.12.39

रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य^अपगच्छेत् ॥

03.12.40

तस्य प्रतिदेशेन पुत्रो भ्राता वा^अभिगम्य निक्षेपं याचेत ॥

03.12.41

दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

03.12.42

प्रव्रज्या.अभिमुखो वा श्रद्धेयः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥

03.12.43

ततः काल.अन्तर.आगतो याचेत ॥

03.12.44

दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

03.12.45

कृत.लक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् ॥

03.12.46

बालिश.जातीयो वा रात्रौ राज.दायिका.क्षण.भीतः सारम् अस्य हस्ते निक्षिप्य^अपगच्छेत् ॥

03.12.47

स एनं बन्धन.अगार.गतो याचेत ॥

03.12.48

दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

03.12.49

अभिज्ञानेन च^अस्य गृहे जनम् उभयं याचेत ॥

03.12.50

अन्यतर्त.आदाने यथा.उक्तं पुरस्तात् ॥

03.12.51

द्रव्य.भोगानाम् आगमं च^अस्य^अनुयुञ्जीत, तस्य च^अर्थस्य व्यवहार.उपलिङ्गनम्, अभियोक्तुश् च^अर्थ.सामर्थ्यम् ॥

03.12.52

एतेन मिथः.समवायो व्याख्यातः ॥
कz03.12.53अब्। तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्.विभाषितम् ।
कz03.12.53च्द्। स्वे परे वा जने कार्यं देश.काल.अग्र.वर्णतः ॥ए
(ळw चोन्चेर्निन्ग् स्लवेस् अन्द् लबोउरेर्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc