अर्थशास्त्र · अध्याय 02.30
अश्व.अध्यक्षः पण्य.आगारिकं क्रय.उपागतम् आहव.लब्धम् आजातं साहाय्य.आगतकं पण.स्थितं यावत्.कालिकं वा^अश्व.पर्यग्रं कुल.वयो.वर्ण.चिह्न.वर्ग.आगमैर् लेखयेत् ॥
अप्रशस्त.न्यङ्ग.व्याधितांश् च^आवेदयेत् ॥
कोश.कोष्ठ.अगाराभ्यां च गृहीत्वा मास.लाभम् अश्व.वाहश् चिन्तयेत् ॥
अश्व.विभवेन^आयताम् अश्वायाम् अद्वि.गुण.विस्तारां चतुर्.द्वार.उपावर्तन.मध्यां स-प्रग्रीवां प्रद्वार.आसन.फलक.युक्तानां वानर.मयूर.पृषत.नकुल.चकोर.शुक.सारिक.आकीर्णां शालां निवेशयेत् ॥
अश्वायाम् अचतुर्.अश्र.श्लक्ष्ण.फलक.आस्तारं स-खादन.कोष्ठकं स-मूत्र.पुरीष.उत्सर्गम् एक.एकशः प्रान्.मुखम् उदन्.मुखं वा स्थानं निवेशयेत् ॥
शाला.वशेन वा दिग्.विभागं कल्पयेत् ॥
वडवा.वृष.किशोराणाम् एक.अन्तेषु ॥
वडवायाः प्रजतायास् त्रि.रात्रं घृत.प्रस्थः पानम् ॥
अत ऊर्ध्वं सक्तु.प्रस्थः स्नेह.भैषज्य.प्रतिपानं दश.रात्रम् ॥
ततः पुलाको यवसम् आर्तवश् च^आहारः ॥
दश.रात्राद् ऊर्ध्वं किशोरस्य घृत.चतुर्.भागः सक्तु.कुडुबः क्षीर.प्रस्थश् च^आहार आ.षण्.मासात् ॥
ततः परं मास.उत्तरम् अर्ध.वृद्धिर् यव.प्रस्थ आ.त्रि.वर्षात्, द्रोण आ.चतुर्.वर्षात् ॥
अत ऊर्ध्वं चतुर्.वर्षः पञ्च.वर्षो वा कर्मण्यः पूर्ण.प्रमाणः ॥
द्वात्रिंशद्.अङ्गुलं मुखम् उत्तम.अश्वस्य, पञ्च.मुखान्य् आयामो, विंशत्य्.अङ्गुला जङ्घा, चतुर्.जङ्घ उत्सेधः ॥
त्र्य्.अङ्गुल.अवरं मध्यम.अवरयोः ॥
शत.अङ्गुलः परिणाहः ॥
पञ्च.भाग.अवरो मध्यम.अवरयोः ॥
उत्तम.अश्वस्य द्वि.द्रोणं शालि.व्रीहि.यव.प्रियङ्गूणाम् अर्ध.शुष्कम् अर्ध.सिद्धं वा मुद्ग.माषाणां वा पुलाकः स्नेह.प्रस्थश् च, पञ्च.पलं लवणस्य, मांसं पञ्चाशत्.पलिकं रसस्य^आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.पञ्च.पलिकः सुरायाः प्रस्थः पयसो वा द्वि.गुणः प्रतिपानम् ॥
दीर्घ.पथ.भार.क्लान्तानां च खादन.अर्थं स्नेह.प्रस्थो^अनुवासनं कुडुबो नस्य.कर्मणः, यवसस्य^अर्ध.भारस् तृणस्य द्वि.गुणः षड्.अरत्नि.परिक्षेपः पुञ्जील.ग्रहो वा ॥
पाद.अवरम् एतन् मध्यम.अवरयोः ॥
उत्तम.समो रथ्यो वृषश् च मध्यमः ॥
मध्यम.समश् च^अवरः ॥
पाद.हीनं वडवानां पारशमानां च ॥
अतो^अर्धं किशोराणां च ॥
इति विधा.योगः ॥
विधा.पाचक.सूत्र.ग्राहक.चिकित्सकाः प्रतिस्वाद.भाजः ॥
युद्ध.व्याधि.जरा.कर्म.क्षीणाः पिण्ड.गोचरिकाः स्युः ॥02.30.28। असमर.प्रयोग्याः पौर.जानपदानाम् अर्थेन वृषा वडवास्व् आयोज्याः ॥
प्रयोग्यानाम् उत्तमाः काम्बोज.सैन्धव.आरट्ट.वनायुजाः, मध्यमा बाह्लीक.पापेयक.सौवीरक.तैतलाः, शेषाः प्रत्यवराः ॥
तेषां तीष्क्ण.भद्र.मन्द.वशेन साम्नाह्यम् औपवाह्यकं वा कर्म प्रयोजयेत् ॥
चतुर्.अश्रं कर्म.अश्वस्य साम्नाह्यम् ॥
वल्गनो नीचैर् गतो लङ्घनो घोरणो नारोष्ट्रश् च^औपवाह्याः ॥
तत्र.औपवेणुको वर्धमानको यमक आलीढ.प्लुतः पृथुग्.अस्त्रिक.चाली च वल्गनः ॥
स एव शिरः.कर्ण.विशुद्धो नीचैर् गतः, षोडश.मार्गो वा ॥
प्रकीर्णकः प्रकीर्ण.उत्तरो निषण्णः पार्श्व.अनुवृत्त ऊर्मि.मार्गः शरभ.क्रीडितः शरभ.प्लुतस् त्रि.तालो बाह्य.अनुवृत्तः पञ्च.पाणिः सिंह.आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प.अभिकीर्णश् च^इति नीचैर् गत.मार्गः ॥
कपि.प्लुतो भेक.प्लुत्^एण.प्लुत^एक.पाद.प्लुतः कोकिल.संचार्य्.उरस्यो बक.चारी च लङ्घनः ॥
काङ्को वारि.काङ्को मायूरो^अर्ध.मायूरो नाकुलो^र्ध.नाकुलो वाराहो^अर्ध.वाराहश् च^इति धोरणः ॥
संज्ञा.प्रतिकारो नार.उष्ट्र^इति ॥
षण्णव द्वादश^इति योजनान्य् ध्वा रथ्यानाम्, पञ्च योजनान्य् अर्ध.अष्टमानि दश^इति पृष्ठ.वाहिनाम् अश्वानाम् अध्वा ॥
विक्रमो भद्र.अश्वासो भार.वाह्य इति मार्गाः ॥
विक्रमो वल्गितम् उपकण्ठम् उपजवो जवश् च धाराः ॥
तेषां बन्धन.उपकरणं योग्य.आचार्याः प्रतिदिशेयुः, सांग्रामिकं रथ.अश्व.अलंकारं च सूताः ॥
अश्वानां चिकित्सकाः शरीर.ह्रास.वृद्धि.प्रतीकारम् ऋतु.विभक्तं च^आहारम् ॥
सूत्र.ग्राहक.अश्व.बन्धक.यावसिक.विधा.पाचक.स्थान.पाल.केश.कार.जाङ्गुलीविदश् च स्व.कर्मभिर् अश्वान् आराधयेयुः ॥
कर्म.अतिक्रमे च^एषां दिवस.वेतनच्.छेदनं कुर्यात् ॥
नीराजन.उपरुद्धं वाहयतश् चिकित्सक.उपरुद्धं वा द्वादश.पणो दण्डः ॥
क्रिया.भैषज्य.सङ्गेन व्याधि.वृद्धौ प्रतीकार.द्वि.गुणो दण्डः ॥
तद्.अपराधेन वैलोम्ये पत्त्र.मूल्यं दण्डः ॥
तेन गो.मण्डलं खर.उष्ट्र.महिषम् अज.अविकं च व्याख्यातम् ॥
कz02.30.50अब्। द्विर् अह्नः स्नानम् अश्वानां गन्ध.माल्यं च दापयेत् ।
कz02.30.50च्द्। कृष्ण.संधिषु भूत.इज्याः शुक्लेषु स्वस्ति.वाचनम् ॥
कz02.30.51अब्। नीराजनाम् आश्वयुजे कारयेन् नवमे^अहनि ।
कz02.30.51च्द्। यात्रा.आदाव् अवसाने वा व्याधौ वा शान्तिके रतः ॥ए
(षुपेरिन्तेन्देन्त् ओf एलेफन्त्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0