अर्थशास्त्र · अध्याय 02.25
सुरा.अध्यक्षः सुरा.किण्व.व्यवहारान् दुर्गे जन.पदे स्कन्ध.आवारे वा तज्.जात.सुरा.किण्व.व्यवहारिभिः कारयेद्, एक.मुखम् अनेक.मुखं वा विक्रय.क्रय.वशेन वा ॥
षट्.शतम् अत्ययम् अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥
ग्रामाद् अनिर्णयणम् असम्पातं च सुरायाः, प्रमाद.भयात् कर्मसु ञ्जिर्दिष्टानाम्, मर्याद.अतिक्रम.भयाद् आर्याणाम्, उत्साह.भयाच् च तीष्क्णानाम् ॥
लक्षितम् अल्पं वा चतुर्.भागम् अर्ध.कुडुबं कुडुबम् अर्ध.प्रस्थं प्रस्थं वा^इति ज्ञात.शौचा निर्हरेयुः ॥
पान.अगारेषु वा पिबेयुर् असंचारिणः ॥
निक्षेप.उपनिधि.प्रयोग.अपहृतानाम् अनिष्ट.उपगतानां च द्रव्याणां ज्ञान.अर्थम् अस्वामिकं कुप्यं हिरण्यं च^उपलभ्य निष्केप्तारम् अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्यय.कर्तारम् अनायति.व्ययं च ॥
न च^अनर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्ट.सुरायाः ॥
ताम् अन्यत्र विक्रापयेत् ॥
दास.कर्म.करेभ्यो वा वेतनं दद्यात् ॥
वाहन.प्रतिपानं सूकर.पोषणं वा दद्यात् ॥
पान.अगाराण्य्.अनेक.कक्ष्याणि विभक्त.शयन.आसनवन्ति पान.उद्देशानि गन्ध.माल्य.उदकवन्ति ऋतु.सुखानि कारयेत् ॥
तत्रस्थाः प्रकृत्य्.औत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश् च ॥
क्रेतृऋणां मत्त.सुप्तानाम् अलङ्कारात्^छादन.हिरण्यानि च विद्युः ॥
तन्.नाशे वणिजस् तच् च तावच् च दण्डं दद्युः ॥
वणिजश्स् तु संवृतेषु कक्ष्या.विभागेषु स्व.दासीभिः पेशल.रूपाभिर् आगन्तूनां वास्तव्यानां च^आर्य.रूपाणां मत्त.सुप्तानां भावं विद्युः ॥
मेदक.प्रसन्न.आसव.अरिष्ट.मैरेय.मधूनाम् ॥
उदक.द्रोणं तण्डुलानाम् अर्ध.आढकं त्रयः प्रस्थाः किण्वस्य^इति मेदक.योगः ॥
द्वादश.आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक.त्वक्.फल.युक्तो वा जाति.सम्भारः प्रसन्ना.योगः ॥
कपित्थ.तुला फाणितं पञ्च.तौलिकं प्रस्थो मधुन इत्य् आसव.योगः ॥
पाठा.लोघ्र.तेजोवत्य्.एला.वालुक.मधुक.मधु.रसा.प्रियङ्गु.दारु.हरिद्रा.मरिच.पिप्पलीनां च पञ्च.कार्षिकः सम्भार.योगो मेदकस्य प्रसन्नायाश् च ॥
मधुक.निर्यूह.युक्ता कट.शर्करा वर्ण.प्रसादनी च ॥
चोच.चित्रक.विलङ्ग.गज.पिप्पलीनां च कार्षिकः क्रमुक.मधुक.मुस्ता.लोध्राणां द्वि.कार्षिकश् च^आसव.सम्भारः ॥
दश.भागश् च^एषां बीज.बन्धः ॥
प्रसन्ना.योगः श्वेत.सुरायाः ॥
सहकार.सुरा रस.उत्तरा बीज.उत्तरा वा महा.सुरा सम्भारिकी वा ॥
तासां मोरटा.पलाश.पत्तूर.मेष.शृङ्गी.करञ्ज.क्षीर.वृक्ष.कषाय.भावितं दग्ध.कट.शर्करा.चूर्णं लोघ्र.चित्रक.विलङ्ग.पाठा.मुस्ता.कलिङ्ग.यव.दारु.हरिद्र.इन्दीवर.शत.पुष्प.अपामार्ग.सप्त.पर्ण.निम्ब.आस्फोत.कल्क.अर्ध.युक्तम् अन्तर्.नखो मुष्टिः कुम्भीं राज.पेयां प्रसादयति ॥
फाणितः पञ्च.पलिकश् च^अत्र रस.वृद्धिर् देयः ॥
कुटुम्बिनः कृत्येषु श्वेत.सुराम्, औषध.अर्थं वारिष्टम्, अन्यद् वा कर्तुं लभेरन् ॥
उत्सव.समाज.यात्रासु चतुर्.अहः सौरिको देयः ॥
तेष्व् अननुज्ञातानां प्रहवन.अन्तं दैवसिकम् अत्ययं गृह्णीयात् ॥
सुरा.किण्व.विचयं स्त्रियो बालाश् च कुर्युः ॥
अराज.पण्याः पञ्चकं शतं शुल्कं दद्युः, सुरका.मेदक.अरिष्ट.मधु.फल.आम्ल.आम्ल.शीधूनां च ॥
कz02.25.40अब्। अह्नश् च विक्रयं ज्ञात्वा व्याजीं मान.हिरण्ययोः ।
कz02.25.40च्द्। तथा वैधरणं कुर्याद् उचितं च^अनुवर्तयेत् ॥ए
(षुपेर्विसोर् ओf (अनिमल्-)स्लौघ्तेर्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0