भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.23

02.23.01

सूत्र.अध्यक्षः सूत्र.वर्म.वस्त्र.रज्जु.व्यवहारं तज्.जात.पुरुषैः कारयेत् ॥

02.23.02

ऊर्णा.वल्क.कार्पास.तूल.शण.क्षौमाणि च विधवा.न्यङ्गा.कन्या.प्रव्रजिता.दण्ड.प्रतिकारिणीभी रूप.आजीवा.मातृकाभिर् वृद्ध.राज.दासीभिर् व्युपरत.उपस्थान.देव.दासीभिश् च कर्तयेत् ॥

02.23.03

श्लक्ष्ण.स्थूल.मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्.अल्पतां च ॥

02.23.04

सूत्र.प्रमाण ज्ञात्वा तैल.आमलक.उद्वर्तनैर् एता अनुगृह्णीयात् ॥

02.23.05

तिथिषु प्रतिमान.दानैश् च कर्म कारयितव्याः ॥

02.23.06

सूत्र.ह्रासे वेतन.ह्रासो द्रव्य.सारात् ॥

02.23.07

कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारुभिश् च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् ॥

02.23.08

क्षौम.दुकूल.क्रिमि.तान.राङ्कव.कार्पास.सूत्र.वान.कर्म.अन्तांश् च प्रयुञ्जानो गन्ध.माल्य.दानैर् अन्यैश् च^औपग्राहिकैर् आराधयेत् ॥

02.23.09

वस्त्र.आस्तरण.प्रावरण.विकल्पान् उत्थापयेत् ॥

02.23.10

कङ्कट.कर्म.अन्तांश् च तज्.जात.कारु.शिल्पिभिः कारयेत् ॥

02.23.11

याश् च^अनिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वा^आत्मानं बिभृयुः ताः स्व.दासीभिर् अनुसार्य स-उपग्रहं कर्म कारयितव्याः ॥

02.23.12

स्वयम् आगच्छन्तीनां वा सूत्र.शालां प्रत्युषसि भाण्ड.वेतन.विनिमयं कारयेत् ॥

02.23.13

सूत्र.परीक्षा.अर्थ.मात्रः प्रदीपः ॥

02.23.14

स्त्रिया मुख.संदर्शने^अन्य.कार्य.सम्भाषायां वा पूर्वः साहस.दण्डः, वेतन.काल.अतिपातने मध्यमः, अकृत.कर्म.वेतन.प्रदाने च ॥

02.23.15

गृहीत्वा वेतनं कर्म.अकुर्वत्या अङ्गुष्ठ.संदंशं दापयेत्, भक्षित.अपहृत.अवस्कन्दितानां च ॥

02.23.16

वेतनेषु च कर्म.कराणाम् अपराधतो दण्डः ॥

02.23.17

रज्जु.वर्तकैर् वर्म.कारैश् च स्वयं संसृज्येत ॥

02.23.18

भाण्डानि च वरत्र.आदीनि वर्तयेत् ॥
कz02.23.19अब्। सूत्र.वल्कमयी रज्जुर् वरत्रा वैत्र.वैणवीः ।
कz02.23.19च्द्। साम्नाह्या बन्ध.नीयाश् च यान.युग्यस्य करयेत् ॥ए
(डिरेच्तोर् ओf अग्रिचुल्तुरे)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc