अर्थशास्त्र · अध्याय 02.16
पण्य.अध्यक्षः स्थल.जलजानां नाना.विधानां पण्यानां स्थल.पथ.वारि.पथ.उपयातानां सार.फल्ग्व्.अर्घ.अन्तरं प्रिय.अप्रियतां च विद्यात्, तथा विक्षेप.संक्षेप.क्रय.विक्रय.प्रयोग.कालान् ॥
यच् च पण्यं प्रचुरं स्यात् तद् एकी.कृत्य^अर्घम् आरोपयेत् ॥
प्राप्ते^अर्घे वा^अर्घ.अन्तरं कारयेत् ॥
स्व.भूमिजानां राज.पण्यानाम् एक.मुखं व्यवहारं स्थापयेत्, पर.भूमिजानाम् अनेक.मुखम् ॥
उभयं च प्रजानाम् अनुग्रहेण विक्रापयेत् ॥
स्थूलम् अपि च लाभं प्रजानाम् औपघातिकं वारयेत् ॥
अजस्र.पण्यानां काल.उपरोधं संकुल.दोषं वा न^उत्पादयेत् ॥
बहु.मुखं वा राज.पण्यं वैदेहकाः कृत.अर्घं विक्रीणीरन् ॥
छेद.अनुरूपं च वैधरणं दद्युः ॥
षोडश.भागो मान.व्याजी, विंशति.भागस् तुला.मानम्, गण्य.पण्यानाम् एकादश.भागः ॥
पर.भूमिजं पण्यम् अनुग्रहेण^आवाहयेत् ॥
न^अविकस.अर्थ.वाहेभ्यश् च परिहारम् आयति.क्षमं दद्यात् ॥
अनभियोगश् च^अर्थेष्व् आगन्तूनाम्, अन्यत्र सभ्या.उपकारिभ्यः ॥
पण्य.अधिष्ठातारः पण्य.मूल्यम् एक.मुखं काष्ठ.द्रोण्याम् एकच्.छिद्र.अपिधानायां निदध्युः ॥
अह्नश् च^अष्टमे भागे पण्य.अध्यक्षस्य^अर्पयेयुः - "इदं विक्रीतम्, इदं शेषम्" इति ॥
तुला.मान.भाण्डं च^अर्पयेयुः ॥
इति स्व.विषये व्याख्यातम् ॥
पर.विषये तु - पण्य.प्रतिपण्ययोर् अर्घं मूल्यं च^आगमय्य शुल्क.वर्तन्या^आतिवाहिक.गुल्मतर.देय.भक्त.भाग.व्यय.शुद्धम् उदयं पश्येत् ॥
असत्य् उदये भाण्ड.निर्वहणेन पण्य.प्रतिपण्य.आनयनेन वा लाभं पश्येत् ॥
ततः सार.पादेन स्थल.व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥
अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेद् अनुग्रह.अर्थम् ॥
आपदि सारम् आत्मानं वा मोक्षयेत् ॥
आत्मनो वा भूमिं प्राप्तः सर्व.देय.विशुद्धं व्यवहरेत ॥
वारि.पथे वा यान.भागक.पथ्य्.अदन.पण्य.प्रतिपण्य.अर्घ.प्रमाण.यात्रा.काल.भय.प्रतीकार.पण्य.पत्तन.चारित्राण्य् उपलभेत ॥
कz02.16.25अब्। नदी.पथे च विज्ञाय व्यवहारं चरित्रतः ।
कz02.16.25च्द्। यतो लाभस् ततो गच्छेद् अलाभं परिवर्जयेत् ॥ए
(डिरेच्तोर् ओf fओरेस्त् प्रोदुचे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0