भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.15

01.15.01

कृत.स्व.पक्ष.पर.पक्ष.उपग्रहः कार्य.आरम्भांश् चिन्तयेत् ॥

01.15.02

मन्त्र.पूर्वाः सर्व.आरम्भाः ॥

01.15.03

तद्.उद्देशः संवृतः कथानाम् अनिह्श्रावी पक्षिभिर् अप्य् अनालोक्यः स्यात् ।

01.15.04

श्रूयते हि शुक.सारिकाभिर् मन्त्रो भिन्नः, श्वभिर् अप्य् अन्यैश् च तिर्यग्.योनिभिर् इति ॥

01.15.05

तस्मान् मन्त्र.उद्देशम् अनायुक्तो न^उपगच्छेत् ॥

01.15.06

उच्छिद्येत मन्त्र.भेदी ॥

01.15.07

मन्त्र.भेदो हि दूत.अमात्य.स्वामिनाम् इङ्गित.आकाराभ्याम् ॥

01.15.08

इङ्गितम् अन्यथा.वृत्तिः ॥

01.15.09

आकृति.ग्रहणम् आकारः ॥

01.15.10

तस्य संवरणम् आयुक्त.पुरुष.रक्षणम् आ.कार्य.कालाद् इति ॥

01.15.11

तेषां हि प्रमाद.मद.सुप्त.प्रलापाः, काम.आदिर् उत्सेकः, प्रच्छन्नो^अवमतो वा मन्त्रं भिनत्ति ॥

01.15.12

तस्माद् आद्रक्षेन् मन्त्रम् ॥

01.15.13

"मन्त्र.भेदो ह्य् अयोग.क्षेम.करो राज्ञस् तद्.आयुक्त.पुरुषाणां च ॥

01.15.14

तस्माद् गुह्यम् एको मन्त्रयेत" इति भारद्वाजः ॥

01.15.15

"मन्त्रिणाम् अपि हि मन्त्रिणो भवन्ति, तेषाम् अप्य् अन्ये ॥

01.15.16

सा^एषा मन्त्रि.परम्परा मन्त्रं भिनत्ति ॥
कz01.15.17अब्। "तस्मान् न^अस्य परे विद्युः कर्म किंचिच् चिकीर्षितम् ।
कz01.15.17च्द्। आरब्धारस् तु जानीयुर् आरब्धं कृतम् एव वा ॥

01.15.18

"न^एकस्य मन्त्र.सिद्धिर् अस्ति" इति विशाल.अक्षः ॥

01.15.19

"प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥

01.15.20

अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित.बल.आधानम् अर्थ.द्वैधस्य संशयच्.छेदनम् एक.देश.दृष्टस्य शेष.उपलब्धिर् इति मन्त्रि.साध्यम् एतत् ॥

01.15.21

तस्माद् बुद्धि.वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥
कz01.15.22अब्। "न कंचिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।
कz01.15.22च्द्। बालस्य^अप्य् अर्थवद्.वाक्यम् उपयुञ्जीत पण्डितः ॥"

01.15.23

"एतन् मन्त्र.ज्ञानम्, न^एतन् मन्त्र.रक्षणम्" इति पाराशराः ॥

01.15.24

"यद् अस्य कार्यम् अभिप्रेतं तत्.प्रतिरूपकं मन्त्रिणः पृच्छेत् - "कार्यम् इदम् एवम् आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम्" इति ॥

01.15.25

ते यथा ब्रूयुस् तत् कुर्यात् ॥

01.15.26

एवं मन्त्र.उपलब्धिः संवृतिश् च भवति" इति ॥

01.15.27

न^इति पिशुनः ॥

01.15.28

"मन्त्रिणो हि व्यवहितम् अर्थं वृत्तम् अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥

01.15.29

स दोषः ॥

01.15.30

तस्मात् कर्मसु ये येष्व् अभिप्रेतास् तैः सह मन्त्रयेत ॥

01.15.31

तैर् मन्त्रयमाणो हि मन्त्र.सिद्धिं गुप्तिं च लभते" इति ॥

01.15.32

न^इति कौटिल्यः ॥

01.15.33

अनवस्था ह्य् एषा ॥

01.15.34

मन्त्रिभिस् त्रिभिश् चतुर्भिर् वा सह मन्त्रयेत ॥

01.15.35

मन्त्रयमाणो ह्य् एकेन^अर्थ.कृच्छ्रेषु निश्चयं न^अधिगच्छेत् ॥

01.15.36

एकश् च मन्त्री यथा.इष्टम् अनवग्रहश् चरति ॥

01.15.37

द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते, विगृहीताभ्यां विनाश्यते ॥

01.15.38

तत् त्रिषु चतुषु वा कृच्छ्रेण^उपपद्यते ॥

01.15.39

महा.दोषम् उपपन्नं तु भवति ॥

01.15.40

ततः परेषु कृच्छ्रेण^अर्थ.निश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥

01.15.41

देश.काल.कार्य.वशेन त्व् एकेन सह द्वाभ्याम् एको वा यथा.सामर्थ्यं मन्त्रयेत ॥(अल्तेर्णतिवे विएwस् अप्प्रोवेद्)

01.15.42

कर्मणाम् आरम्भ.उपायः पुरुष.द्रव्य.सम्पद् देश.काल.विभागो विनिपात.प्रतीकारः कार्य.सिद्धिर् इति पञ्च.अङ्गो मन्त्रः ॥

01.15.43

तान् एकैकशः पृच्छेत् समस्तांश् च ॥

01.15.44

हेतुभिश् च^एषां मति.प्रविवेकान् विद्यात् ॥

01.15.45

अवाप्त.अर्थः कालं न^अतिक्रामयेत् ॥

01.15.46

न दीर्घ.कालं मन्त्रयेत, न तेषां पक्षीयैर् येषाम् अपकुर्यात् ॥

01.15.47

"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत" इति मानवाः ॥

01.15.48

"षोडश" इति बार्हस्पत्याः ॥

01.15.49

"विंशतिम्" इत्य् औशनसाः ॥

01.15.50

यथा.सामर्थ्यम् इति कौटिल्यः ॥

01.15.51

ते ह्य् अस्य स्व.पक्षं पर.पक्षं च चिन्तयेयुः ॥

01.15.52

अकृत.आरम्भम् आरब्ध.अनुष्ठानम् अनुष्ठित.विशेषं नियोग.सम्पदं च कर्मणां कुर्युः ॥

01.15.53

आसन्नैः सह कर्माणि पश्येत् ॥

01.15.54

अनासन्नैः सह पत्त्र.सम्प्रेषणेन मन्त्रयेत ॥

01.15.55

इन्द्रस्य हि मन्त्रि.परिषद्.ऋषीणां सहस्रम् ॥

01.15.56

स तच् चक्षुः ॥

01.15.57

तस्माद् इमं द्व्य्.अक्षं सहस्र.अक्षम् आहुः ॥

01.15.58

आत्ययिके कार्ये मन्त्रिणो मन्त्रि.परिषदं च^आहूय ब्रूयात् ॥

01.15.59

तत्र यद्.भूयिष्ठा ब्रूयुः कार्य.सिद्धि.करं वा तत् कुर्यात् ॥

01.15.60

कुर्वतश् च --
कz01.15.60अब्। न^अस्य गुह्यं परे विद्युश् छिद्रं विद्यात् परस्य च ।
कz01.15.60च्द्। गूहेत् कूर्म^इव^अङ्गानि यत् स्याद् विवृतम् आत्मनः ॥
कz01.15.61अब्। यथा ह्य् अश्रोत्रियः श्राद्धं न सतां भोक्तुम् अर्हति ।
कz01.15.61च्द्। एवम् अश्रुत.शास्त्र.अर्थो न मन्त्रं श्रोतुम् अर्हति ॥ए
(ऋउलेस् fओर् थे एन्वोय्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc