भाषा

ENहिગુ
ग्रंथ पाठ

अर्धनरीश्वरस्तोत्र · श्लोक 1-18

1

भालं वह्निशिखाङ्कितं दधद् अधिश्रोत्रं वहन् संभृत क्रीडत्कुण्डलिजृम्भितं जलधिजच्छायाच्छकण्ठच्छविः ।
वक्षो बिभ्रद् अहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणो ऽस्तु यशसे वामो ऽथ वा दक्षिणः ॥

2

वामे साञ्जनम् अक्षि दक्षिणदिशि श्यामायमानो गलः पाणौ तिष्ठति दर्पणो ऽत्र मुकुटे ऽमुत्र स्थितश् चन्द्रमाः ।
तन् मातेयम् अयं पितेति सुचिरात् सप्रत्यभिज्ञं शनैर् यस्योत्सङ्गम् अगाद् गुहो भवतु वः प्रीत्यै स गौरीश्वरः ॥

3

मुञ्चेभाजिनम् अस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलम् अतः कार्यं तवाक्ष्णोः कृते ।
संधाने वपुरर्धयोर् भगवतोर् इत्थं निषेधे ऽप्य् अहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥

4

विहितम् अजगोशृङ्गाग्राभ्यां धनुर् घटितं तथा नरकरटिनोर् देहार्धाभ्यां गणं परिगृह्णतः ।
द्विविधरचनावाल्लभ्यानां निधेर् उचिता विभोर् जयति लटभापुंभागाभ्यां शरीरविनिर्मितिः ॥

5

नेदं पर्णसमीरणाशनतपोमाहात्म्यम् उक्षोरगौ पश्यैताव् अत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्धम् इदं चराचरगुरोः प्रापेयम् आत्मस्तुतीर् इत्थं देववधूमुखाच् छ्रुतिसुखाः शृण्वत्य् अपर्णावतात् ॥

6

काप्य् एतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृष्यति पुरो दृक् पश्य चक्षुःश्रुतेः ।
संधाने ऽभिनवे मिथो भगवतोर् जिह्वापृथक्स्पन्दिनी भिन्नार्थां सदृशाक्षराम् अपि वदन्त्य् एवं गिरं पातु वः ॥

7

दातुं वाञ्छति दक्षिणे ऽपि नयने वामः करः कज्जलं भौजङ्गं च भुजे ऽङ्गदं घटयितुं वामे ऽपि वामेतरः ।
इत्थं स्वं स्वम् अशिक्षितं भगवतोर् अर्धं वपुः पश्यतोः साधारस्मितलाञ्छितं दिशतु वो वक्त्रं मनोवाञ्छितम् ॥

8

गाढालिङ्गन मङ्गलं भवतु ते स्वस्त्य् अस्तु वश् चाटवः किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न ।
इत्य् उक्ते निबिडप्रवासचकितैर् यावद् गुणैः स्थीयते संघट्टः शिवयोः स तावद् अधिकस्पष्टः शिवायास्तु वः ॥

9

तद् अर्धनारीश्वरमूर्धरत्नम् अर्धं विधोर् अस्तु समृद्धये वः ।
यद् अद्रिकन्यावदनातिरिक्त द्वितीयभागभ्रमम् आतनोति ॥

10

तद्वीतव्यतिरेकम् अद्रितनयादेहेन मिश्रीभवन् निष्प्रत्यूहम् इह व्यपोहतु वपुः स्थाणोर् अभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेर् अपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥

11

प्रौढाः कञ्चुकिनो जरद्वृषवरः कुब्जस् तुषारद्युतिर् नित्याप्तो ऽपि बहिष्कृतः परिकरः सो ऽयं समस्तो ऽप्य् अहो ।
अर्धाद् यद्वसतीकृताद् भगवता चारित्रचर्याविदा सा भिद्याद् दुरितं चराचरगुरोर् अन्तःपुरं पार्वती ॥

12

लीलोद्यानवनश्मशानगमने स्वेच्छापराधीनयोः सम्यक्साम्बरतादिगम्बरदशासव्रीडनिर्व्रीडयोः ।
पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः क्षेमं वः शिवयोः समासमदृशोर् दिश्याद् अचिन्त्यं वपुः ॥

13

चूडेन्दोर् इव रोचिषा मुकुलितं वातायनाभं श्रियः पानार्थं परिषेवितं मधुकराकारैः कुमाराननैः ।
औन्नत्याद् अधिवास्य वक्त्रपवनैर् घ्राणोपयोगीकृतं कस्योरोजसरोजम् अस्ति न मनस्तोषाय गौरीशयोः ॥

14

अर्धं स्निग्धविमुग्धम् इद्धहुतभुग्दिग्धं तथार्धं जगत् पायाद् ईश्वरयोस् तद् अक्षि तिलकस्थानस्थितं वीक्ष्य यत् ।
क्रीडाकर्मणि कार्मुकं करतले कर्तुं किरीटेन्दुना सोत्सेकश् च निरुत्सुकश् च युगपद् देवः स्मरो जायते ॥

15

व्याला वायुभुजस् तृणेढि च तृणान्य् उक्षा बुभुक्षातुरो निष्कौपीनपटः कुटुम्बभरणो किं त्व् अस्मि चिन्ताकुलः ।
दौर्गत्याद् इति पिण्डम् एकम् अकरोद् गौरीशरूपेण यो यश् चाभीष्टफलप्रदस् त्रिजगतः कस्मैचिद् अस्मै नमः ॥

16

ज्याघोषैर् बधिरीकरोति ककुभो बाहू मुहुः पश्यति स्वस्य स्वेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् ।
यस्मिन् केवलम् एव केलिरभसाज् जाते ऽर्धनारीश्वरे वीरंमन्यतया स मन्मथभटो वातूलितस् तं स्तुमः ॥

17

वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयम् अपि विभुः खण्डपरशुः ।
तथापि प्रत्यग्रं शरणम् उपयातं प्रति विभोर् अखण्डो व्यापारो जगति करुणाया विजयते ॥

18

प्रेम्नार्धं वपुषो विलोक्य मिलितं देव्या समं स्वामिनो मौलौ यस्य निशापतिर् नगसुतावेणीनिशामिश्रितः ।
आस्ते स्वाम्यनुवर्तनार्थम् इव तत् कृत्वा वपुः खण्डितं देयाद् अद्वयभावनां स भगवान् देवो ऽर्धनारीश्वरः ॥

मूल पाठ: Ardhanarīśvarastotra · Edition: Walter Slaje Kalhaṇas Ode an den androgynen Gott (Ardhanārīśvarastotra) Zeitschrift der Deutschen Morgenländischen Gesellschaft 165 395-416 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc