आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 63
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने विंशः खण्डः ॥
समाप्तस्सप्तमश्च पटलः ॥
====================================================================================
अथाष्टमः पटलः ॥
एकविंशः खण्डः ।
पुनरपि पाकयज्ञान्तरं पुरुषत्रयसम्प्रदानकं तादृशानामष्टकादीनां प्रकृतिभूतं मासिश्राद्धसंज्ञिकं पित्र्यं कर्मोपदिश्यते--
22 मासिश्राद्धप्रकरणम् -
1 मासि श्राद्धकालः ।
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः ॥ आ
(प.8.खं.,21-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.1:
मासिश्राद्धं नाम पित्र्यं कर्म मासि मासि कर्तव्यम् ।
तत्र ये ऽपरपक्षे कालविशेषाः सामयाचारिकेषूपष्टाः"प्रथमे ऽहनिक्रियमाणे (आप.ध.2-16-8) इत्यादयः अपरपक्षस्यापराह्णः श्रेया"(आप.श्रौ.2-16-4)निति च ते सर्वे यथोपदेशं यथा तत्रोपदिष्टाः तथैव मासि मासि प्रत्येतव्याः ।
यद्यपि ते विशेषाः तस्मादेव वचनात् सिद्धाः तथापि तस्य कर्मणः प्रयोगविधानमित उत्तरं क्रियत इति ज्ञापनार्थमिदं वचनम् ।
अन्यथा ज्ञापयेत शुचीन् मन्त्रवतः इत्यादि कस्मिन् कर्मणि विधीयत इति ।
एवं तर्हि मासिश्राद्धस्यैतदेवाधिकारार्थमस्तु ।
तस्मादिदमस्य प्रयोजनम्-मासपरिमाणमनपेक्ष्यापरपक्षवशएन पर्वकाला यथेपदेशं यथा स्युरिति ।
तेन पूर्वस्मिन् पक्षे पञ्चदश्यामकृतश्राद्धस्यापरस्मिन् पक्षे प्रथमादिषु सर्वासु तिथिषु क्रियाभवति तत्तत्का-मस्य
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0