भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 61

61.2

आप्ग्स्-तात्_20.3:
तथोत्तरस्यां कुट्यां लौकिक्या वाचा ऽआयाहि मीढुषिऽइति मीढुषीमीशानस्य पत्नीं आवाहयतीत्येव जय कर्माणमिन्द्रं

61.3

कुट्योर्मध्ये आकाशे जयन्तमिन्द्रसूनुं स्कन्दं वा ऽआयाहि जयन्तऽइत्यावाहयति ।
अत्र सूत्रे अनुक्क्तमप्यौचित्यादावाहितेभ्य आसानानि ददाति

61.3

5 आवाहितेभ्योर्ऽध्यादिदानम्, प्रधानहोमाः, स्विष्टकृच्च ।
यथोढमुदकानि प्रदाय त्रीनोदनान् कल्पयित्वाग्निमभ्यानीयोत्तरैकुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ॥ आ
(प.7खं.,20-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.4:
(येन शब्देन येषु स्थानेषु येन क्रमेणावाहनं चोदितं तद्देवताकान्यर्ध्याणि प्रयच्छति) ।
पृथक्पात्रैः कल्पितानि आर्ध्यत्वात् पुष्पाक्षतैस्संयुक्तानि ।
ईसानेदं ते अर्घ्यम्, जयन्तेदं ते अर्घ्यमिति ।
ततो गन्धपुष्पघूपदीपैरभ्यर्च्य ततः स्थालीपाकादुद्धृत्य त्रीनोदनान् कल्पयति त्रिषु पात्रेषु देव्यै स्कन्दाय च देवाय होमार्थ उपहारार्थ च ।
स्थाल्यां च भूयांसमोदनम- वशिनष्टि ब्राह्मणभोजनार्थम् ।
ततस्तानोदनानग्निसमीपमानीय्यापगेणाग्निं बर्हिषि प्रतिष्ठापयति दक्षिणत उत्तरतोमध्ये च ।
अत्र प्रतिष्ठि- ताभिघारणमू ।
तत उत्तरैर्मन्त्रैस्त्रिभिर्यथोढं त्रीनोदनानुपस्पर्शयति ।
स्वस्वामिसम्बन्धं कारयति ।
उत्तरैर्मन्त्रैः ऽउपस्पृशतु मीढ्वान्ऽइत्यादिभिः ।
यथादेवतमभिमृशति ऽइदमग्नेरित्याग्नेयऽमितिवत् ।
एवमुपस्पर्शयित्वा तत उत्तरैर्मन्त्रैस्सप्तदशभिः प्रधानाहुतीर्जुहोति यथास्वमोदनेभ्यः
येनौदनेन यस्यै देवतायै त्वत्वसम्बन्ध उपस्पर्शनेनोपलक्षितः तस्मात् तस्य जुहोतीत्यर्थः ।
तत्र भवाय देवायेऽत्यादिभिरष्टाभिः देवस्यौदनात् ।
ऽभवस्य देवस्य पत्न्यै स्वाहेऽत्यष्टाभिः मीढुष्याः ।
ऽजयन्ताय स्वाहेऽति जयनातस्य ।
एवं प्रधानाहुतीर्हुत्वा ततस् सर्वतः समवादायोत्तरेण यजुषाव ऽ अग्नये स्विष्टकृते सुहुतऽइत्यनेनाग्निं स्विष्टकृतं यजति ।
सर्वतस्समव- दाये त्त्युच्यते यथा स्वमोदनेभ्यः पृथक्पृथक् स्विष्टकृन्माभूदिति ।
यद्यपि स्विष्टकृतो ऽनन्तरमिदमुक्तमुपस्थानादि, तथापि ऽजयादीनुपजुहोतिऽइत्यत्रोपशब्दश्रवणात् प्रधानहोमानन्तरं जयादयः ।
परिषेचनान्ते
उपस्थानादि

61.4

आप्ग्स्-तात्_20.4:
अथ यथेढं येन क्रमेणोढा आवाहितास्तेन क्रमेण ।
वौदकानि पाद्यादीनि प्रत्येकं स्वैस्स्वैर्नामभिर्नमोन्तैः प्रददाति प्रकर्षेण भक्तिपुरस्सरं ददाति ।
उदकग्रहणस्य प्रदर्शनार्थत्वात् दीपान्तं प्रददातीत्युपदेशः ।
अथेशानस्थालीपाकादुद्धृत्य त्रीनादेनान् त्रिषु पात्रेषु कल्पयति ईशानमीढुषीजयन्तेभ्यो होमार्थम् बल्यर्थढ्च ।
स्थाल्यां च ब्राह्मणानां भोजनानार्थ भूयांसमोदनमवशिनष्टि ।
ततस्तानोदनानग्नेस्समीपमानीय अपरेणाग्निं प्रतिष्ठापयति ।
अथैतानुत्तरैस्त्रिभिर्मन्त्रैः ऽउपस्पृशतु मीढ्वान्ऽइत्यादिभिर्यथासङ्ख्यं यथादेवतमुपस्पर्शयति ।
अस्य चोपस्पर्शनविधेर्द्वितीयतृतीययोरोदनयोरपनीतेशानदेवताकयोर्मीढुषीजयन्ताख्यदेवतान्तरसम्बन्धविज्ञाने तात्पर्यम्, अब्युदयेष्ट्यादिवत् ।
प्रथमे त्वीशानसम्बन्धस्थापने मीढ्वच्छब्दस्येशानवाचकत्वात् ।
अथोत्तरैर्मन्त्रैः ऽभवाय देवायऽ; इत्यादिभिस्सप्तदशभिः यथास्वमोदनेभ्यः यो य ओदनो यस्या यस्या देवतायास्स्वभूतस्तस्मात्तस्माद्यथालिङ्गं पार्वणवदानधर्मेणावदा- य प्रधानाहुतीर्जुहोति ।
तत्र ऽभवायेऽत्यष्टभिरीशानस्यौदनात् ।
युक्तं चैतत् भवशर्वादिशब्दानां ईसानवाचकत्वादिति ।
ऽभवस्य देवस्येऽत्यष्टाभिस्तु मीढुष्यास्स्वात् ।
ऽजयन्तायेऽति जयन्तस्य स्वात् ।
ततस्सर्वतस्सर्वेभ्यस्त्रिभ्य ओदनेभ्यः स्विष्टकृतो ऽवदानधर्मेण समवदाय सह्वदाय उत्तरेण यजुषा ऽअग्नये स्विष्टकृते सुहुत हुतऽइत्यनेनाग्निं स्विष्टकृतं जुहोति ।
अतः सर्वतस्समवदायेति वचनं आग्रयणमासिश्राद्धादिवत् सकृदेवावदाय स्विष्टकृदिति शह्कानिरासार्थम्

61.4

6 देवताभ्यः सहौदनानां पर्णानां दानम् ।
उत्तरेण यजुषोपस्थायोत्तरैस्सहौदनानि पर्णान्येकैकेन द्वे द्वे दत्वा दश देवसेनाभ्यो दशोत्तराभ्यः ॥ आ
(प.7खं.,20-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.5:
उत्तरेण यजुषा ऽस्वस्तिनः पूर्णमुखऽइत्यनेन उपस्थानं च महादेवस्य, तत्प्रधानत्वात्क4मणः ।
ऽपूर्णमुखऽ; इत्यपि तस्यैव निर्देशः ।
पूर्माहुतिभिः पूर्ममुखः ।
उपस्थायततौत्तरैर्मन्त्रैः"गृहपोपस्पृशे, त्यादिभिः अष्टादशभिः सहौदनानि पर्णानि मन्त्रप्रतीताभ्यो देवताभ्यो ददाति ।
तत्र चादितस्सप्तभिः प्रतिमन्त्रं द्वे द्वे पर्णेददाति ।
अष्टमेन दशदेवसेनाभ्य इति वदन् मन्त्रप्रतीता देवता दर्शयति ।
तत्र गृहप इति महादेवाभिधानं मन्यते गृहान् पातीति ।
ऽनमो रुद्राय वास्तोष्पतयऽइति च मन्त्रान्तरम् ।
तस्मादनेन देवाय पर्णद्वयं तस्यैवौदनात् ।
गृबपी देवी, तस्मादनेन मन्त्रेण देव्यै दातव्यं तस्या एवौदनात् ।
घोषिणी इत्यादयः, सर्वगणा देवस्यानुचराः ।
तेभ्यो ऽपि देवकुटीसमीपे तस्यावोदनात् पर्णद्वयानि ।
देवसेना भूतगणाः ।
तेभ्यो ऽपि सर्पगणवत् ।
देशोत्तराभ्यः "या आख्याता" इत्यस्मिन्नुत्तरे मन्त्रे प्रतीता उत्तरा देवताः ।
ताभ्यो धश पर्मानि तेनैव मन्त्रेण देवस्यैवौदनात्

61.5

आप्ग्स्-तात्_20.5:
उत्तरेण यजुषा ऽस्वस्ति नः पूर्णमुखऽइत्यनेन अग्निमीशानं वो परिष्ठते ।
इदं च यथापाठं स्विष्टकृतो ऽनन्तरम् ।
ततो लेपयोरित्यादितन्त्रशेषसमाप्तिः ऽपरिषेचनान्तं कृत्वा पर्णदानम्ऽइति भाष्यकारवचनात् ।
केचित्-उपस्थानादि तन्त्रशेषसमाप्तिरिति ।
ततो यथास्वमोदनेभ्य एव याज्ञियेषु पर्णान्युत्तरैः ऽगृहपोपस्पृशऽइत्यादिभिस्सप्तभिर्ददातीति सामान्येन विधाय विशिनष्टि एकैकेन मन्त्रेण द्वे द्वे पर्णे इति ।
अथ द्वे द्वे इत्येतदपवदति-दशेत्यादिना ।
देवस्येशानस्य सेनाः देवसेनाः , ताभ्यो दश पर्णानि दक्षिणस्यां कुट्यां देवस्यैवौदनादवदाय ददाति ।
तथा दशैव पर्णान्युत्तराभ्यो देवसेनाभ्यः ।
उत्तरस्मिन् मन्त्रे ऽया आक्याता याश्चानाख्याताऽइति गुणद्वयवत्यस्ता उत्तरा देवसेनाः

61.5

पूर्ववदुत्तरैः ॥ आ
(प.7खं.,20-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.6:
पूर्ववदुत्तरैर्मन्त्रैः ऽद्वारापोस्पृशेऽत्यादिभिः चतुर्भिः पर्मानि देयानि पूर्ववदे कैकेन द्वे द्वे इत्यर्थः ।
अत्र द्वारापो देवः द्वारपालः ।
द्वारापी देवी च द्वारापाला ।
अभ्यासरिणो ऽपि देव्या अनुचराः ।
निषिङ्गिन्निति जयन्तस्याभिधानम् ।
तेभ्यो यथा स्वमोदनैस्तत्र तत्र दानम्

61.6

आप्ग्स्-तात्_20.6:
पूर्व यथा ऽगृहपोपस्पृशऽइत्यादिभिर्दक्षिणेत्तरकुट्योर्मध्ये च स्वेभ्य एवौदनेभ्यो द्वे द्वे पर्णे प्रतिमन्त्रं दत्ते, एवं उत्तरैः ऽद्वारापोपस्पृशऽ; इत्यादिभिस्चतुर्भिर्दद्यात् ॥
अथ प्रयोगः-परिषेचनान्ते कृते ऽगृहपोपस्पृशऽइति दक्षिणस्याम् ।
ऽगृहप्युपस्पृशेऽत्युत्तरस्याम् ।
ऽघोषिणःऽइति मद्ये ।
ततश्च ऽश्वासिनःऽ
इति दक्षिणस्याम् ।
ऽविचिन्वन्तःऽइत्युत्तरस्याम् ।
ऽप्रपुन्वन्तःऽइति मध्ये ।
ततः ऽसमश्नन्तःऽइति दक्षिणस्याम् ।
एतदन्तं द्वे द्वे पर्णे ।
ततो दक्षिणस्यामेव ऽदेवसेनाःऽइति दश पर्णानि ।
तथैव ऽया आक्याताःऽइति दश पर्णानि ।
तस्यामेव ततः पुनरपि तत्रैव ऽद्वारापोपस्पृशऽइति द्वे पर्णे ।
ऽद्वारापिऽइत्युत्तरस्याम् द्वे ऽअन्वासारिणःऽइति मध्ये द्वे ।
ऽनिषङ्गिन्ऽइति दक्षिणस्यां द्वे इति ।
अत्र यद्यपि केचन मन्त्रा अव्यक्तलिङ्गका बहुवचनलिङ्गकाश्च, तथापीशानमीढुषीजयन्ता एव देवताः ।
प्रमाणं च ऽगृहपिऽऽद्वारापिऽ
ऽनिषङ्गिन्ऽइति मन्त्रलिङ्गदर्शनम् ।
ऽदश देवसेनाभ्यो दशोत्तराभ्य, इत्यत्र तु सूत्रकारवचनाद्देवस्येशानस्य सेना देवसेना एव देवताः ।
ममकारास्पदीभूतस्य च पुत्रभृत्यादेः पूजापि पितृस्वाम्यादिपूजैव, पुत्रादिपूजायां सत्यां पित्रादेरहमेव पूजित इति मानसप्रत्यक्षोदयात् ।
अत एव च जातेष्टेस्संवलिताधिकारत्वम् ।
तस्मादिह देवस्यौदनाद्देवसेनाभ्यो दानं न विरुध्यते ।
केचित्-मान्त्रवर्णिक्य एव देवताः ।
तेन गृहपेति देवाय; ऽरुद्रः खलु वै वास्तोष्पतिःऽ(तै.सं.3-4-10) इति श्रुतेः ।
ऽगृहपीऽति देव्यै ।
ऽघोषिणऽइति तु पञ्चभिर्देवस्यानुचर्भ्यः सर्षगमेभ्यः ।
आश्वलायनीयेस्पष्टत्वात् ।
ततो ऽदेवसेनाःऽइति द्वाभ्यां देवसोनाभ्यः ।
ऽद्वारापेऽति देवस्य द्वारपालाय ।
द्वारपीऽति देव्यै द्वारपालायै ।
ऽअन्वासारिणऽइति देव्या वस्या एवानुचरेभ्यः ।
ऽनिषङ्गिन्ऽइति जयन्ताय, तस्याप्यावाहितस्य बलिना भाव्यत्वादिति

61.6

7 वृक्षाग्रे पर्णपुटस्थौदनस्याऽसञ्जनम् ।
ओदनपिण्डं संवृत्य पर्णपुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति ॥ आ
(प.7.खं.,20-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.7:
अथ तस्यैवोदनात् पिण्डं उभाब्यां हस्ताब्यां संवृत्य दृढं कृत्वा पर्णैस्स्यूतैः कृते पुटे ऽवधाय तं शिक्ये
कृत्वोत्तरेण यजुषा ऽनमो निषङ्गिण इषुधिमते, इत्यनेन वृक्ष आसजति अवसम्बयति

61.7

आप्ग्स्-तात्_20.7:
अथ होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय पिण्डं संवर्तयति सुदृढं करोति ।
शेषाणां प्रतिपत्त्यपेक्षत्वात् ।
केचित्-जयन्तस्योदनादिति ।
ततस्तं पिण्डं पर्मपुटे ऽवधायोत्तरेण यजुषा ऽनमो निषङ्गिण इषुधिमतेऽइत्येतावतैव मन्त्रसमाम्नायगतेन वृक्षे कस्मिश्चिदासजति शिक्ये
कृत्वावलम्बयति

61.7

8 अत्र रुद्रजपः ।
अत्र रुद्रान् जपेत् ॥ आ
(प.7.खं.,8)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.8:
अत्र अस्मिन्काले रुद्रान् ऽनमस्ते रुद्र मन्यव"इत्यादीनेकादशानुवाकान् जपेत् ।
एतैरेव देवमुपतिष्ठेतेत्यर्थः ।
(तत्रोत्तमस्यानुवाकस्यादितो दशस्वृक्षु ऽतेषां सहस्रयोजनऽइत्यनु,ङ्गः ।
अन्ततस्त्रयो मन्त्राः ऽनमोरुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवःऽऽनमो रुद्रेभ्यो ये ऽन्तरिक्षे येषां वातःऽऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यःऽइत्यादि सर्वत्रानुषङ्गः

61.8

॥)॥
आप्ग्स्-तात्_20.8:
अत्रास्मिन्काले ।
अन्ये तु-अत्र वृक्षसमीप इति ।
रुद्रन् ऽनमस्ते रुद्र मन्यवेऽ(तै.सं.4-5--1.) इत्येकादशानुवाकान् जपेत् चातुस्स्वर्येण तत्रोत्तमानुवाके ऽअस्मिन् महतिऽइत्यादिष्वष्टसु ऽतेषां सहस्रयोजनेऽ(तै.सं.8-5-11)इत्याद्यनुषह्गः ।
तथा ऽनमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यःऽऽनमो रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात इषवस्तेभ्यःऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणाऽइत्याद्यनुषङ्गः । 8 ।
प्रथमोत्तमौ वा ॥ आ
(प.7.खं.,20-9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.9:
अथ वा प्रथमोत्तमाभ्यामेवानुवाकाभ्यामुपस्थानं कर्तव्यम्

61.9

आप्ग्स्-तात्_20.9:
अथ वा रुद्राणां प्रथमोत्तमावे वानुवाकौ जपेत्

61.9

अथ प्रधानहोमकाल एव यत्कर्तव्यं तदाह--
9 अग्नेरभितो गवां स्थापनम् ।
अभित एतमग्निं गास्स्थापयति यथैना धूमः प्राप्नुयात् ॥ आ
(प.7.खं.,20-10)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.10:
एतं हूयमानमग्निमभितो गाः आत्मीयाः यथा स्थापयति स्थापने एना गाः धूमः प्राप्नुयात् ।
अनुवातं समीप इत्यर्थः ।
प्रधानहोमकाले च... तदर्थमेवैतमित्युक्तं एतं हूयमानमग्निमिति

61.10

आप्ग्स्-तात्_20.10:
एतं होमार्त माग्निमभितः होमाग्नेस्समीप इत्यर्थः ।
गाः स्वकीयास्स्थापयत्यनुवातं, यथैना गा होमधूमः प्राप्नुयात् ।
केचित्-गोशान्त्यर्थमपीदं कर्मेत्यत्रैतत् ज्ञापकमिति

61.10

10 गवामवोक्षणम् ।
ता गन्धैर्दर्भग्रुमुष्टिनावोक्षति वृषाणमेवाग्ने ॥ आ
(प.7.खं.,20-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.11:
ता गन्धैस्सुरभिचन्दनादिभिरवोक्षति दर्भग्रुमुष्टिना, न हस्तेन ।
गुरुमुष्टिः ग्रुमुष्टिः छान्दस उकारलेपः ।
सन्नखेन दर्भमुष्टिनेत्यर्थः ।
तत्र होम कालवचनं प्रोक्षणं तस्मिन् काले

61.11

वृषाणं वृषभं तमेवाग्रे प्रोक्षति ।
यद्यप्यसावुपक्रमे न तिष्ठेत् तथापि अह्गत्वात् तस्यैवावोक्षणम् ।
अग्रे तदर्थ एव कालः । 11 ।
आप्ग्स्-तात्_20.11:
ता गन्धैश्चान्दनादिना युक्तैः ।
दर्भग्रुमुष्टिना दर्भाणां गुरुमुष्टिर्दर्भग्रुमुष्टिः ।
उकारलोपश्छान्दसः ।
सन्नखो दृढमुष्टिरित्यर्थः ।
तेनावोक्षति ।
तत्र विशेषः- वृषाणं , वृषभमे वाग्रे ऽवोक्षति ।
एवकारात्तस्मिन्नवोक्ष्यमाणे ऽन्या काचिद्रौर्नावोक्ष्यते ।
ततो गोचराय गाः प्रस्थापयति

61.12

11 गवां मार्गे क्षेत्रपतियागः ।
गवां मर्गे ऽनग्नौ क्षेत्रस्य पतिं यजते ॥ आ
(प.7.खं.,20-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.12:
अथ क्षैत्रपत्यस्थालीपाकस्य विधिः- मर्गे मार्गे छान्दसो हस्वः ।
अनग्नौ भूमावेव ।
गवामपगच्छन्तीनां कस्याश्चित् गोः पथि यागविधानात् अग्नौ प्राप्ते प्रतिषेधः

61.12

आप्ग्स्-तात्_20.12:
ततः प्रसिथितानां गवां मर्गे मार्गे ।
छान्दसो हस्वः ।
अनग्नौ भूमावेव क्षेत्रस्य पतिं यजते

61.13

(प.7.खं.,20-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.12:
तस्य क्षेत्रपतेरावाहनं ईशानवत् कर्तव्यम् ।
ऽआ त्वा वहन्त्विऽत्यनयर्चेत्यर्थः ।
शर्वशब्दो ऽपि तस्य पर्यायनाम द्रष्टव्यम्

61.13

ईशानवदावाहनम् ॥ आ
आप्ग्स्-तात्_20.13:
क्षेत्रस्य पते रावाहनमीशानवत् , ऽआ त्वा वहन्तुऽइत्येतयेत्यर्थः

61.14

12 तस्मै पर्णदानम् ।
चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति ॥ आ
(प.7.खं.,20-14)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.14:
आवाह्यार्घ्य दत्वा गन्धादिभिरभ्यर्च्य स्थालीपाकमासाद्याभिघार्य चत्वारि सप्त वा पर्णानि देवस्य समीपे कृत्वा
तेषु नमोदेशं नामादिश्यैदनपिण्डं दधाति स्थालीपाकात् ।
तत्र पूर्वेषु पर्मदानमन्त्रेषु स्वाहाकारान्तत्वनियमात् इहापि क्षेत्रस्य पतये स्वाहेति पर्णदानम् ।
एष एवास्य यागः

61.14

आप्ग्स्-तात्_20.14:
चत्वारि सप्त वा पर्मानि भूमौ स्थापयित्वा तेषु क्षैत्रपत्यात् स्थालीपाकादोदनमादाय नामदेशं नाम चतुर्थ्यन्तमादिश्य ऽक्षेत्रस्य पतये त्वां ददामि, इति दधाति ।
ऽडुधाञू धारणपोषणयोःऽइति स्मरणात् ।
केचित्-क्षेत्रस्य पतये स्वाहेति ददाति ।
पूर्वत्र बलिमन्त्रेषु स्वाहाकारस्य दृष्टत्वादिति ।
अत्र तु न सहौदनानि पर्मानि देयानि;पर्णेष्विति सप्तमीनिर्देशात्

61.15

13 तस्य शीघ्रकरणविधिः ।
क्षिप्रं यजेत पाको देवः ॥ आ
(प.7.खं.,20-15)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.15:
पाको बालस्तद्वत् गमनशीलो ऽयं देवः तस्माच्छीघ्रं यजेतेत्यर्थः

61.15

आप्ग्स्-तात्_20.15:
अयं चौदनदानात्मको यागः क्षिप्रमावाहनानन्तरमुदकमेव प्रदाय कर्तव्यः ।
गन्धादिप्रदानं तु यागोत्तरकालमेव;यतः पाकं अल्पो देवः ।
एतदुक्तं भवति-अनित्यदर्सनत्वात् क्षेत्रस्य पतेः शग्रिमेव बलिर्देय इति ।
केचित्-पाकः बालः बालवद्गमनशीलः ।
तथा गन्धादि दत्वैवात्रापि बलिरिति

61.16

14 तस्योपस्थानम् ।
उत्तराभ्यामुपतिष्ठते ॥ आ
(प.7.खं.,20-16)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.16:
उत्तराभ्यां ऽक्षेत्रस्य पतिना वयऽमिति द्वाभ्याम्

61.16

आप्ग्स्-तात्_20.16:
ऽक्षेत्रस्य पतिना वयम्ऽइति द्वाभ्यामृग्भ्यामुपतिष्ठते

61.17

ऽओदनपिण्डं संवृत्यऽइत्यादिना होमबलिशेषाणां प्रतिपत्तिरुक्ता ।
इदानीमीशानस्थालीपाकशेषस्य प्रतिपत्तिमाह--
15 स्थालीपाकशेषात् ब्राह्मणानां भोजनम् ।
स्थालीपाकं ब्राह्मणान् भोजयेत् ॥ आ
(प.7.खं.20-17)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.17:
ऽतेन सर्पिष्मताऽइति पार्वणातिदेशेनैव सिद्धे बहुत्वविधानार्थ वचनम्

61.17

आप्ग्स्-तात्_20.17:
अयं च प्राकृतप्रतिपत्त्यनुवादो ब्राह्मणबहुत्वं विधातुम्, सर्पिष्मत्त्वं निवर्तयितुं वा

61.18

क्षैत्रपत्यस्य प्रतिपत्तिमाह--
16 क्षैत्रपत्यचरोः बन्धुभिस्सह भोजनम् ।
क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति ॥ आ
(प.7.खं.,20-18)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.18:
सनाभय स्समानयोनयः पुत्राः भ्रातरश्च ।
सनाभय इत्येव सिद्धे ये भवन्ति इति वचनं दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम्

61.18

आप्ग्स्-तात्_20.18:
सनाभयस्सापिण्डाः

61.19

यथा वैषां कुलधर्मस्स्यात् ॥ आ
(प.7.खं.,20-19)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_20.19:
एषां यजमानकुलजातानां यथा कुलध्र्बः तथा वा प्राशनम्-यदि पुत्राणामेव, तथा प्राशनम् ।
अथ सर्वेषां स्वकुलजातानां, तथा प्राशनम् ।
अथ स्वस्रीयादीनामपि, तथा प्राशनमिति

61.19

इत्यनाकुलायां हरदत्तमिश्रविरचितायां गृह्यवृत्तौ विंशः खण्डः सप्तमश्च पटलः ॥
आप्ग्स्-तात्_20.19:
यद्येषामनुष्ठातॄणां असपिण्डकर्तृकप्राशनमपि कुलधर्मस्तर्हि तथा वा स्यात्

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc