आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 58
9 मार्गशीर्षीपर्यन्तं प्रतिदिनं बलिहरणम् ।
एवमत ऊर्ध्व यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः ॥ आ
आप्ग्स्-तात्_19.2:
धानाः या बलिहरणशिष्टाः कुमारान् प्राशयन्ति ।
के?शिष्टास्सामर्थ्यात्
10 मार्गशीर्ष्या स्थालीपाकविधानम् ।
मार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकः ॥ आ
(प.7खं.,18-2)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.3:
यदिदं बलिहरणं वाग्यतस्संभारानादायेत्याद्यप्रतीक्षमाणस्तूष्णीमित्येतदन्तं (आप.गृ.18-10-12) तदस्मात् कर्मण ऊर्ध्वमामार्गशीर्ष्याः पर्वणश्चतुर्षु मासेषु यदसीयस्या न्नविशेषस्य सक्तूनां वाहरहः कर्तव्यम् ।
यद्यदन्नमशनार्थ गृहे क्रियते तदशनीयम् ।
अगारपरिष्टनादिस्तु स्थालीपाकस्यैव शेषः, न बलेः ।
तेनैतदिह विधीयत् ।
यद्यप्याञ्जनादीन्यलङ्करणार्थनि नाभ्यवहार्याणि तथापि"तासूत्तरया सक्तून् निवपति ।
तूष्णीं संपुष्काः धाना"इत्यादि सर्वेषां तुल्या चेदना ।
मन्त्रे च तुल्यवदभिधानं तेभ्य इमं बलिं हरिष्यामि इति ।
तस्मात् सप्तापि बलिद्रव्याणि ।
तेषां सर्वेषामयं प्रत्याम्नायो नादितस्त्रयाणामेव ।
अपां तु न भवति, चोदनाभेदात् ।
उपनिनीय परिषिच्येति ।
एवंशब्दः कालविधानार्तः ।
यथात्रास्तमिते बलिहरणं, एवंमत ऊर्ध्वमप्यस्तमिते कर्तव्यमिति ।
एतंसभ्दस्तु धर्मविधानार्तः ।
एतं बलिमेवंधर्मकमिति ।
नचान्यतरेणैवोभयसिद्धिः ।
यदि ह्येवशब्द उभयार्थस्स्यात् रात्रौ पार्वणः प्राप्नोति ।
कथम्?रात्रावाग्नेयस्थालीपाक उत्पन्नः एवमतऊर्ध्वमिति पार्वणः ।
तथा यद्येतच्छब्द उभयार्थस्स्यात् "परिसंवत्सरादुपतिष्ठद्भ्यः एतत्कार्य"मिति रात्रावपचितिः प्राप्नोति;समावर्तने रात्रावुत्पन्नत्वादपचितेः ।
तस्मादुभयार्त- मुभयं वक्तयम् ।
एवं तावत् रात्रौ सकृद्वलिहरणमिति ।
अपर आह-उभयोः कालयोः बलिहरणमिति ।
कथम्?यदशनीयस्येति वचनात् यदशनीयस्येति वचनात् यद्यदन्नमशनार्थ यदा क्रियते तस्य तस्य तदा कर्तव्यमिति हि तस्यार्थः ।
द्वयोश्च कालयोरशनम्;कालयोर्भोजनमिति वचनात् ।
ततश्च यदा गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्त्युत्पन्नस्य वैश्वदेवस्य द्वयोः कालयोः प्रवृत्तिः एवमस्यापि ।
स्पष्टञ्चैतदाश्वलायनके"सर्पदेवजेनभ्यस्स्वा- हेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् (आश्व.2-1-14) इति ।
अस्मिन् पक्ष एवंशब्द उत्तरार्थः ।
अत ऊर्ध्वमिति वचनम- स्मिन् प्रथमे बलिहरणे द्रव्यविकल्पोमा विज्ञायीति ।
आमार्गशीर्ष्या इति बलिहरणस्यावसानकालोपदेशः ।
यद्येवं नार्थ एतेन ।
अत्रैनमुत्सृजतीति (आप.गृ.19-5)
वक्ष्यति ।
प्रयोजनमस्य तत्रैव वक्ष्यामःः2॥
आप्ग्स्-तात्_19.3:
अत ऊर्ध्व अस्माच्छ्रावण्यां कृतात्कर्मण ऊर्ध्वम् ।
आमार्गशीर्ष्याः यावन्मार्गशीर्षी यावदुत्सर्जनं तावदित्यर्थः ।
एतमनन्तरचोदितं सक्तूनां सम्बन्धिनं बलिम् ।
एवं ऽसम्भारानादाय वाग्यतः प्राचीमुदीचीं वाऽइत्यादि ऽअप्रतीक्षस्तूष्णीमेत्यऽ; (आप.गृ.18-10....12) इत्येवमन्तेतिकर्तव्यताकमहरहः सायङ्काले बलिं हरेत् ।
यदशनीयस्य वा सम्बन्धिनमिति वाशब्दस्य व्यवहितेन सम्बन्धः, यदशनीयस्येत्यस्य पदस्य धानादीनां निवृत्त्यर्थत्वात् ।
अगारपरिषेचनादिकं तु स्थालीपाकस्यैव शेषो न बलिहरणस्य, भिन्नदेशत्वात् ।
केचित्-उभयोः कालयोर्बलिहरणम्, यदशनीयस्येति वचनात्, वैश्वदेववत् अशनस्य च ऽकालयोर्बोजनम्ऽ(आप.ध.2-1-20 इतिवचनेनोभयकालिकत्वात्, ऽसायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्ऽ(आश्व2-1-14) इत्याश्वलायनवचनाच्च ।
तथा एतमितिशब्दस्यैव अपेक्षितकृत्स्नधर्मप्रापकत्वात् एवमिति शब्द उत्तरसूत्रार्थ इति ।
तन्न;समभिव्याहृतसकलपदानां सम्भूयैकार्थ प्रत्ययविरोधात्
मार्गशीर्ष्या बौर्णमास्यामस्तमिते स्थालीपाकः
(प.7खं.,18-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.3:
श्रावण्यां पौर्णमास्यामित्यनेनैतत् व्याख्यातम् ।
एवंशब्दश्चात्रानुवर्तते ।
यथेदं श्रावण्यां कर्म कतं एवं मार्गशीर्ष्यामपीति ।
तेन ऽपार्वणवदाज्यभागान्तऽइत्यादेः धानाः कुमारान् प्राशयन्तीऽत्यन्तस्य कृत्स्नस्य कल्पस्यात्र प्रवृत्तिः ।
एतावन्नानामार्गशीर्ष्यै पौर्णमास्यै स्वाहेति स्थालीपाकस्य होमः ।
श्रावण्यां पौर्णमास्यां इति प्रकृते पुनः पौर्णमास्यामित्युच्यते ज्ञापनार्थम्
तत्पौर्णमासीग्रहणमस्मिन् प्रकरणे नानुवर्तते इति ।
तेन पूर्वसूत्रे आमार्गशीर्ष्या इति कर्मावधित्वेन न गृह्यते ।
यत्तत्र चोदितमनेन सूत्रेण न कालः ।
तेन मार्गशीर्ष्या पौर्णमास्यामहनि यदशनीयस्य बलिहरणं भवति ।
कालवाचित्वे तु न प्राप्नोति यदि च मर्यादायामाकारः ।
अथ त्भिविधौ, अस्तमिते ऽपियदशनीयं तस्यैव प्राप्नोति ।
इष्यते चास्तमिते स्थालीपाककर्मणि सप्तर्भिर्द्रव्यैर्ब- लिहरणमहनि च यदशनीयस्य ।
तस्मात् पूर्वत्र कर्मण्यपदेशो यथा स्यात्, कालस्य व्यपदेशो मा भूदिति पौर्णमास्यामिति विशेषणम् ।
एवञ्च यदशनीयवचनेनोभयोः कालयोर्बलिहरणमिति यदुक्तं तदेव स्थितं भवति ।
अस्तमित इत्त्युच्यते-अहनिमा भूदिति ।
एवमित्यस्य धर्मप्रापणे कालविधौ चोभयत्र शक्तिर्नास्तीत्युक्तम्
आप्ग्स्-तात्_19.3:
शाकाङ्क्षत्वादेवंशब्दो ऽनुवर्तते ।
यथा श्रावणायां स्थालीपाकः कृतः एवं मार्गशीर्ष्यमप्यस्तमिते कर्तव्यः ।
पत्न्यवहन्तीत्यादि धानाप्राशनान्तं कृत्स्नं कर्मानुष्ठेयमित्यर्थः . स्थालीपाकहोमे तुऽमार्गशीर्ष्यैपौर्णमास्यै स्वाहेऽति विशेषः
अहार्षमिति बलिमन्त्रस्य सन्नामः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.4:
सन्नामः ऊहः-हरिष्यामीत्यस्य स्थाने अहार्षमिति ।
यद्यप्ययं सन्नामस्तस्मिन्नेव मन्त्रे पठितः तथाप्यसत्यस्मिन् वचने बलिहरणमन्त्रे चतुर्थपादस्य पृथग्विनियोगाभावात् चतुष्पादा सा विज्ञायेत ।
तस्मात् सन्नामविधिरारभ्यते ।
त्रिपदैव सा तस्या एव तृतीयस्य पादस्य सन्नामो ऽयमुत्तमः पठितः तस्यैव विनियोगकालो न प्रागिति ।
किञ्च कृत्स्नमेवैतत् कर्म धानाप्राशनान्तं स्थालीपाकशब्देन गृह्यते एतच्च दर्शितं भवति ।
बलिहरणस्योत्तरसूत्रे प्रयोजनम्
आप्ग्स्-तात्_19.4:
उक्तार्थमेतत्
11 सर्पबलेरुत्सर्गः ।
अत्रैनमुत्सृजति ॥ आ
(प.7.खं.,18-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.5:
अत्र मार्गशीर्षसंज्ञके कर्मण्येनं बलिमुत्सृजति ।
एवमित्यनेन वचनेन श्रावणीविधानस्य कृत्स्नस्यातिदिष्टत्वादस्यापि स्थालीपाकस्य शेषत्वेन बलिहरणप्राप्तिः ।
तत्र श्रावण्यामित्यवधिः कल्पेत ।
तस्मात् मार्गशीर्षशेषस्य अहार्षमित्येव विधिः ।
शिष्टस्य बलेः प्रतिषेधार्थमिदम् ।
आमार्गशीर्ष्या इत्येतत्तु श्रावणशेषस्य बलेखसानविधानार्थम्
आप्ग्स्-तात्_19.5:
अत्रास्मिन्नुत्सर्जने कृते, एनमहरगः क्रियमाणं बलिमुत्सृजति ।
न चायमात्यन्तिक उत्सर्गः,नित्यत्वेन सर्पबलेस्संवत्सरे सम्वत्सरे कर्तव्यत्वात्
अनाहिताग्नेराग्रयणम् ॥ आ
(प.7.खं.,18-6)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.6:
एतिरत्र प्राशनार्थः ।
अग्रे प्रथमं अयनं यत्र तत् आग्रयणम् ।
अग्रायणमिति प्राप्ते छान्दसो दीर्घव्यत्ययः ।
तत् कर्म वक्ष्यते-तत्र अनाहिताग्निग्रहणमाहिताग्नेरौपासनवतः श्रौतेनाग्रयणेन सह समुच्चयप्रतिषेधार्थम् ।
तेन पार्वणादिषु समुच्चयो भवति ।
तत्र स्मार्तस्य करणे ऽभ्युदयः ।
अकरणे न प्रत्यवायः ।
आग्रयणमिति नाम्ना श्रौताग्रयणस्य धर्माः प्राप्यन्ते ।
नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयादिति ।
(आप.श्रौ.6-29-2) वर्षासु श्यामाकैर्यजेत, शरदि व्रीहिभिः, वसन्ते यवैः, यथुर्तु वेणु यवैरिति च
आप्ग्स्-तात्_19.6:
उपदिश्यत इति शेषः ।
अत्रानाहिताग्नेर्ग्रहणं सशेषाधानिनो ऽप्याहिताग्नेर्नेदं स्मार्तमाग्रयणं श्रैतेन समुच्चेतव्यमित्यर्थम् ।
औपासनहोमादेस्तु अग्निहोत्रहोमादिना समुच्चय एव ।
पिण्डपितृयज्ञो मासिश्राद्धं च आहिताग्न्यनाहिताग्न्योरुभयोरपि समुच्चेतव्ये ।
ऽसो ऽयमेवंविहित एवानाहिताग्नेरौपासनेऽ(आप.श्रौ.6-28) इति वचनात्, पितृयज्ञे तु निर्र्वत्य विप्रश्चन्दक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
(म.स्मृ.3-122) इति मनुवचनाच्च ।
सर्वाधीनिनो ऽपि मासिश्राद्धं होमवर्ज कर्तव्यमेव उपद्शमतं तु-सशेषाधानिनश्चाहिताग्ने ।
पार्वणयोरौपासनहोमस्य च निवृत्तिः;दर्शपूर्णमासाभ्यामग्निहोत्रेण च कृतार्थत्वात्, कालैक्येन विरोधाच्चेति ।
आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति ।
यत्कर्मकृत्वेव वाग्रयणं प्रथमायनं नवान्नप्राशनप्राप्तिर्भवतीति
19 आग्रयणस्थालीपाकः -
1 नवव्रीह्यादितण्डुलैः पक्वैराग्रयणानुष्ठानं, तत ओदनपिण्डस्यागारस्तूप उद्वेधनविधिः ।
नवानां स्थालीपाकं श्रपयित्वाऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाऽचम्यौदनपिण्डं संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत् ॥ आ
(प.7.खं.,18-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.7:
नवानां व्रीहीणां यवानां वा औपासने श्रपयित्वा प्रतिष्ठितमभिघार्याग्निमुपसमाधाय संपरिस्तीय तूष्णीं समन्तं परिषिच्य दुर्वी संमृच्य स्थालीपाकादुपघातं चतस्र आहुतीर्जुहोत्याग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः-इन्द्राग्निभ्यां स्वाहा ।
अग्नीम्द्राभ्यामिति वा ।
ततो व्श्वेभ्यो देवेभ्यः, ततो द्यावापृथिवीभ्यां, अग्नये स्विष्टकृत इति ।
पूर्ववत् परिषेचनम् ।
एतावदेव कर्म नान्यत् किञ्चित्, पार्पकाभावात् ।
केचित् सर्व कुर्वन्ति ।
ततः तण्डुलानां मुखं पूरयति ।
अत्र तण्डुलशब्दः ओदनावयवेषु पुलाकेषु वर्तते ।
यथा मेक्षणे तण्डुला इत्यत्र ।
तेन हविषश्शेषादवदाय पूरणम् ।
अन्ये शुद्धानेव तण्डुलानिच्छन्ति ।
तान् गीर्त्वा भक्षयित्वाऽचम्य तत ओदनपिण्डं संवर्तयाति प्रयत्नेन सम्पादयति ।
यथा स्तूपे उद्विध्यमानो न संशीर्यति तथा संवर्त्य तमगारस्तूपे उद्विध्येत्- उत्तरेण यजुषा ऽपरमेष्ठ्यसीऽत्यनेन ऊर्ध्व विध्येत्
यथा स्तूपे निपततति ।
स्तूपः पृष्टवंशः ।
विद्धेदित्यपपाठः, छान्दसो वा ।
आग्रयणवचनादेव सिद्धे नवानामिति वचनमनाहिताग्नेर्नवानां स्थालीपाक एव यथा स्यात् ।
अन्ये कल्पा श्रौतदृष्टा मा भूवन्निति ।
स्विष्टकृच्चतुर्थवचनं सोमनिवृत्यर्थम् ।
तेन श्यामाकानां वेणुकानां वेणुयवानां चाग्रयणं अनाहिताग्नेर्भवति
आप्ग्स्-तात्_19.7:
नवानां व्रीहीणां यवानां वा सम्बन्धिनां पत्न्यवहन्तीत्यादिविधिना स्थालीपाकमेव श्रपयित्वाग्नेरुपसमाधानाद्यग्निमुखान्ते कृते
आग्रयणप्रधानदेवताभ्यः श्रौते चोदिताभ्यः स्विष्टकृच्चतुर्थाभ्यः स्विष्टकृच्चतुर्थो यासां ताभ्यो जुहोति ।
तत्र प्रथममिन्द्राग्निभ्यां अग्नीन्द्राभ्यां वा स्वाहेति जुहोति ।
ततो विश्वेभ्यो देवेभ्यस्स्वाहेति ।
ततश्च द्यावापृथिवीभ्यां स्वाहेति तन श्चान्ययेस्विष्टकृतेस्वाहेति ।
सर्वत्र च स्वेनैवावदानधर्मेण ।
अथ लेपयोरित्यादितन्त्रशेषसमाप्तिः ।
ननु-श्रौते ऽआग्नेयमष्टाकपालं निर्वपति पुराणानां व्रीहीणांऽइत्यग्निः प्रथमदेवता ।
तत्कथमिहेन्द्राग्निभ्यामग्नीन्द्राभ्यां वा प्रथमाहुतिः?सत्यं; स तु तत्राग्निराङ्गदेवता, न प्रधानदेवता;आग्रयणदेवताभ्य इति च प्रधानदेवतानामेव सम्प्रत्ययः;अन्यथा अतिप्रसङ्गात् ।
अप्रधान्यं चाग्नेः
ऽआग्रयणं भवति हुताद्यायऽइत्यत्रेन्द्राग्न्याददीनामेवोपदेशात् ऐन्द्राग्नस्य मुख्यप्रधानत्वे चामावास्यातन्त्रमिति तन्त्रनि- यमस्योपपत्तेः,दशहुविषां द्वे स्विष्टकृतःऽइत्यत्राग्नेययोर्ज्यानुवाक्ययोरभावाच्च ।
अत्र च स्विष्टकृच्चतुर्थाभ्य इति वचनं श्रौतवदिह व्रीह्याग्रयणेन श्यामाकाग्रयणस्य पाक्षिकी समानतन्त्रता मा भूदित्यावमर्थम् ।
तेनानाहितग्नीनां नानातन्त्रमेव ।
वर्षासु पर्वणि सोमाय श्यामाकाग्रयणं कर्तव्यम्, द्रव्यदेवताकालानामनुक्तानामप्याग्रयणनामधेयादवगतानां आकाङ्क्षितानां स्वीकारे विरोधाभावात् ।
अत एव न्यायाच्छरदि व्रीहीणामाग्रयणं, वसन्ते च यवानां पर्वण्येव ।
केचित्-स्विष्टकृच्चतुर्थवचनाहिताग्नेः स्यामाकादीनां वेणुयवानां चाग्रयणमेव न भवतीति ।
तन्न;अकृताग्रयणस्य नवश्यामाकाद्यशनाभ्युपगमे ऽतिप्रसङ्गात्, स्विष्टकृच्चतुर्थवचनस्योक्तार्तत्वाच्च ॥
ततस्तन्त्रशेषे समाप्ते तण्डुलानां मुखमास्यं पूरयति ।
तण्डुलाश्चाशृताः, प्रसिद्धत्वात् ।
शृता इत्यपरे ।
ऽये मेक्षणे तण्डुला-ऽइति दर्शनात् ।
शृतपक्षे हुतशेषात्प्रतिपत्त्यपेक्षादुपादाय मुखपूरणम् ।
ततो निगीर्य तण्डुलानाचामति अपस्सकृत् पिबतीत्यर्थः ।
कर्माङ्गतया चेदमाचमनविधानं, प्रकरणात् ।
सुद्ध्वार्थाचमनमपि ऽआसीनस्त्रिराचामेत्ऽ(आप.ध.1-16-2) इत्याद्यनेकपदार्थान्वितं शास्त्रान्तरप्राप्तं कर्तव्यमेव ।
तत ओदनेन हुतशेषेण पिण्डं संवर्तयति यथा उद्विद्यमानो न शीर्यति तथा सुदृढं करोति ।
ततस्तं पिण्डमुत्तरेण यजुषा ऽपरमेष्ठ्यसिऽइत्यनेन उद्विद्धेत् ऊर्ध्व विक्षिपेत् ।
यथागारस्तूपे पृष्ठवंशे पतति तथा विद्धेत् ।
यकारलोपश्छान्दसः
20 हेमन्तप्रत्यवरोहणम् -
हेमन्तप्रत्यवरोहणम् ॥ आ
1 प्रत्यवरुह्य नवस्वस्तरे संवेशनम् ।
उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति ॥ आ
(प.7.खं.,19-8,9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.9:
हेमन्तप्रत्यवरोहणं नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यम्, तदुपदिश्यते-हेमन्ते प्राप्ते खट्वां विहाय पलाशस्वस्तरे शेते ।
हेमन्तं ऋतुं प्रति खट्वाया अवरोहणं हेमन्तप्रत्यवरोहणं , तदुत्तरेण यजुषा कर्तव्यं ऽप्रत्यवरूढो नो हेमन्तऽइत्यनेन ।
कः पुनरस्य कालः? यस्यां व्युष्टायां हेमन्तः प्रवर्तते शरन्निवर्तते, सा रात्रिरस्य कालः ।
(अपर आह-मार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकान्ते प्रत्यवरोहणं सर्वषां प्रसिद्धत्वादिति ।
अनेयो-मार्गशीर्ष्या पौर्णमास्यामित्यनुवर्तयन्ति) ।
तत्र प्रत्यवरुह्य तत उत्तरैर्मन्त्रैः ऽप्रतिक्षत्रऽइत्यादिभिः पञ्चभिः नवस्स्तरे नवैः पलाशैः कस्पिते शयनीये दक्षिणैः पार्श्वैः दक्षिणानि पार्श्वान्यधः कृत्वा संविशन्ति शेरते ।
गृहमेधिनः अमात्याश्च पुत्रादयः कुमार्यश्चाप्रत्ताः ।
नित्यसेयैव संवेशनस्य नियम- विधिरयम्-निशायां यत्संवेशनं संवप्नार्थ तदस्यां निशायामेव कर्तव्यमिति ।
प्रत्यवरोहणन्त्रो ऽपि तस्मिन्नेव काले वक्तव्यः
आप्ग्स्-तात्_19.9:
यस्मिन् कर्माणि हेमन्ते स्वष्ट्वातः प्रत्यवरोहणं तद्धेमन्तप्रत्यवरोहणं नाम कर्मोपदिश्यत इति शेषः ।
अस्मादेव च यौगिकान्नामधेयात् ऽप्रत्यवरूडो नो हेमन्तःऽइति मन्त्रलिङ्गाच्चेदं कर्म हेमन्ते प्रथमायां रात्रौ कर्तव्यमिति विधिः कल्प्यते ।
केचित् मार्गशीर्ष्या पौर्णमास्यामस्तमितेऽ(आप.गृ.19-3) इत्यनुवर्तनात्तत्रेदं कर्तव्यमिति
उत्तरेण यजुषा ऽप्रत्यवरूढो नो हेमन्तःऽइत्यनेन गृहस्थः पत्न्यादयश्च नवस्वस्तरे आरुह्य स्वष्ट्वातो हेमन्ते प्रत्यवरोहन्ति यावद्धेमन्तस्तावत्खष्ट्वां शय्यां विमुच्य नवस्वस्तर एव शयमिहीति बुद्धिं कुर्वन्तीत्यर्थः ।
न पुनः पूर्वमदृष्टार्थ खष्ट्वामारुह्य मन्त्रेण स्वस्तरं प्रत्यवरोहन्तीति ।
अनन्तरमुत्तरैर्मन्त्रैः ऽप्रतिक्षत्रेऽइत्यादिभिः प्रथमैः पञ्चभिः ।
नवस्वस्तरे नवैः पलाशैः कल्पिते शयनीये दक्षिणैः पार्श्वैः
दक्षिणानि पार्श्वान्यधः कृत्वा प्रक्छिरसस्संविशन्ति
पुनरपि सूत्रद्वयेन संवेशनमेव विशिनष्टि--
2 संवेशनप्रकारः ।
दक्षिणतः पितोत्तरा मातैवमवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः ॥ आ
(प.7.खं19-10)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.10:
तेषां संविशतां यः पिता स दक्षिणश्शेते या माता सोत्तरा ।
तयोरन्योन्यापेक्ष दक्षिणोत्तरत्वं"सामात्यः प्राक्शिरा उदङ्मुखः"(आश्व-ग.2-3-6) इकत्याश्वलायनः ।
"मन्त्रविदो मन्त्रान् जपेयुःऽ(अश्व.गृ.2-3-9) इति च
अवशिष्टा अमात्यास्तेषां यो यो ज्येष्टः कुमारः कुमारी वा स पितुर्दक्षिणतः तदनन्तरो मातुरुत्तरतः ।
तृतीयः प्रथमस्य दक्षिणतः चतुर्थो द्वितीयस्योत्तरत इत्यादि ।
अनेयो मातुरेवोत्तरतो ऽनुज्येष्ठं संवेशनमिच्छन्ति ।
सर्वे प्राक्श्रसः उदङ्मुखाः मन्त्रविदश्च मन्त्रान् जपेयुः ।
अनन्तरवचनं संश्लेषार्थम्
आप्ग्स्-तात्_19.10:
दक्षिणतः पितोत्तरा मातेति दक्षिणोत्तरत्वमन्योन्यापेक्षम् ।
अवशिष्टानां पुत्रादीनां मध्ये यो यो ज्येष्ठः पुत्रो दुहिता वा स स दक्षिणो ऽनन्तरश्च, यो यः कनीयान् स स उत्तरो ऽनन्तरश्च;एवमित्यतिदेशात् ।
एतदुक्तं भवति-यस्सर्वज्योष्ठस्स मातुरुत्तरो ऽनन्तरः,यो द्वितीयो ज्येष्ठस्स सर्वज्येष्ठस्य उत्तरो ऽनन्तर इत्यादि ।
केचित्-सर्वज्येष्ठः पितुर्दक्षिणस्तदनन्तरज्येष्ठो मातुरुत्तर इत्यादीति
3 उत्थाय पृथिव्यभिमर्शनम् ।
संहायोत्तराभ्यां पृथिवीमभिमृशन्ति ॥ आ
(प.7.खं.,19-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.11:
एवं संविश्य किञ्चित् सुप्त्वा संहाय सम्पूर्वो जहतिः शयनादुत्त्थायासने दृष्टः ऽकलिश्शयानो भवति संजिहानस्तु द्वापर"इति ।
(ऐतरेय ब्र.पं.7)उत्त्थायाचम्योत्तराभ्यां ऋग्भ्यां ऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्यां स्योनापृथिवीध्येत्ताभ्यां पृथिवीमभिमृशन्ति ।
अत्र च मन्त्रोच्चारणर्योग्यानामोव, न त्वमन्त्रवतामपि वाचनम्
एवं संवेशनादि त्रिः ॥ आ
(प.7खं.,19-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.12:
एवं संवेशनं संहायाभिमर्शनं च मन्त्रवत् त्रिरावर्तनीयमित्यर्थः ।
प्रत्यवरोहणं तु सकृदेव ।
"उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वे"(आश्व.गृ.4-6-18) त्याश्व लायनः
आप्ग्स्-तात्_19.12:
एवमेतत्संवेशनादि समन्त्रकमेव त्रिरावर्तनीयम् ।
कथं पुनः उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि (आप.गृ.1-2) इत्यहः पुण्याहविधाने सति, तद्विरुद्धंरात्राविदं कर्तव्यमित्युपदिश्यते ?उच्यते-नैवात्र संवेशेनं विधीयते, येनेदमह्नि पुण्याहे स्यात् ।
किं तर्हि?यदेव रागप्राप्तं रात्रौ संवेशनं तदाश्रत्य मन्त्रा नियमाश्च विधीयन्ते;यथा रागप्राप्तं भोजनमाश्रित्य उपस्तरणप्राणाग्निहोत्रादयः ।
यथा वा ऽपयस्वतीरोषधयः इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः ऽ(आप.श्रौ.4-2-3) इत्यादि ।
तेन रात्रावेवेदं कर्मेत्युपपन्नम् ।
अन्ते च ब्राह्मणभोजनम्-ऽशुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.2-15-11) इति वचनात्
अथेशानबलिर्नाम नित्यः पाकयज्ञो मन्त्राम्नानक्रमप्राप्तो व्याख्यायते तस्य च सामान्यविधिसिद्धोदगयनादिरेव कालः;इह सर्पबलिवत्कालविशेषस्यानुपदेशात् ।
ततश्च प्रतिसंवत्सरमिदं कर्म नावर्तनीयम्;सकृत्कृते कृतश्शास्त्रार्थः इति न्यायात् ।
केचित्-शास्त्रान्तरात् प्रतिसंवत्त्सरमावृत्तिः सकृत्प्रयोगश्च विकल्प्यते ।
तथा शास्त्रान्तरादेव गवां शान्त्यर्थः पुत्रादिकामार्थश्च प्रयोगः प्रत्येतव्य इति ।
21 ईशानबलिः -
1 स्थालीपाकश्रपणम्, ग्रामाद्वहिः गत्वा स्थण्डिलकरणं च ।
ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाग्नेरुपसमाधानादि ॥ आ
(प.7खं.,19-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.13:
अथ ईशानबलिर्नाम पाकयज्ञो वक्ष्यते शूलगव इति यस्य प्रसिद्धिः गवालम्भनं च तत्र शास्त्रान्तरे
चोदितमश्माकं तु स्थालीपाकएव ।
एतावत् गोरालम्भस्थानमिति नियमात् ।
नित्यश्चायं पुरुषसं स्कारः न काम्योनैमित्तिको वा ।
कामनिमित्तयोरेश्रुतत्वात् ।
सकृच्च कर्तव्यः कालसंयोगाभावात् ।
कालसंयोगे ह्यभ्यावृत्तिर्बवति ।
तस्य कालस्य पुनः पुनस्सम्बन्धात् ।
कः पुनरस्य कालः?शरदि वसन्ते वेति शास्त्रान्तरम् ।
आर्द्रया कर्तव्यमिति च ।
उदगयनादिनियमश्चास्माकम् ।
तत्र फल्गुने मासि पूर्वपक्षे
अष्टम्यार्द्रयासम्पद्यते सो ऽस्य मुख्यः कालः ।
तेन यक्ष्यमाणो गृहे स्थालीपाकं श्रपयति औपासने ईशानाय देवाय सङ्कल्पितमेकं, क्षेत्रपतये चापरम् ।
तैस्सह प्राचीमुदीचीं वा दिशं ग्रामात् बहि रुपनिष्क्रम्य यत्र यक्ष्यमाणो भवति तत्र देवयजनाय देवगृहयोश्च पर्याप्तमेकं स्थण्डिलं कल्पयित्वा तस्य पूर्वार्धे अगन्यायतनमुल्लिख्याग्निं प्रतिष्ठाप्योपसमाधानादि तन्त्रं प्रतिपद्यते ।
द्वन्द्व पात्राणि, परिधयः
आप्ग्स्-तात्_19.13:
ईश ऐश्वर्ये"इति धात्वथेस्मृतेः निरतिशयमैश्वर्य यस्य स ईशानः प्रणवोपासनादिभिरुपास्यो महेश्वर इत्यर्थः ।
तस्मै ईशानाय स्थालीपाकं होमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा, प्रतिष्ठिताभिघारणान्तं करोति ।
केचित्-त्रीनोदानान् कल्पयित्वाग्निमभ्यानीय ततो बहिः प्रतिष्ठाप्य त्रयाणामभिघारणमिति ।
तेन क्षैत्रपत्यं च स्थालीपाकं लौकिकाग्नौ श्रपयति, तस्यानग्नौ प्रदेयत्वात् ।
अथ यथार्थ सम्भारानादाय ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्या ग्निकुट्यादिभ्यो ऽलं स्थण्डिलादि कल्पयित्वा , तस्मिन् ऽयत्र क्वचाग्निऽ(आ.ध.2-1-23) मिति विधिनाग्निं प्रतिष्ठाप्य, अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
तन्त्रविधानं च क्रमार्थमित्युक्तमेव
2 अग्नेः पश्चात् कुटीद्वयकरणम् ।
अपरेणाग्निं द्वे कुटी कृत्वा ॥ आ
(प.7खं.,19-14)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_19.14:
तत अग्नेः पश्चात् द्वे कुटी करोति देवाय देव्यै च ।
प्रत्यग्द्वारे प्राग्द्वारे वा ।
दक्षिणोत्तरे उदगपवर्गः ।
तयोर्देवस्य देव्याश्च प्रतिकृती कृत्वा
इति श्रीहरदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायां एकोनविंशः खण्डः ॥
आप्ग्स्-तात्_19.14:
अग्निमुखान्ते कृते अपरेणाग्निं द्वे कुटी प्राग्द्वारो उदगपर्गे कृत्वा
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0