अनुव्याख्यान · अध्याय 4.1
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयो ऽध्यायः ॥
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः
नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया
आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि ।
उपदेशो ऽतत् त्वमसीत्यादिर्ह्यसकृदेव यत्
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः
सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात् सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम्
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम्
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्वसञ्ज्ञिते
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः
विष्णुर्नारायणो ऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः
ओमात्मा भगवान् विष्णुरात्मानन्दो ऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहो ऽजो नारायण उरुक्रमः
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्
इति भागवते चैव तस्मादात्मा जनार्दनः ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत्
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः
प्रतीकविषयत्वेन न कार्या विष्णुभावना ।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा
यो ऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा
यो ऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा
यो ऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद् ध्यायेद् यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा
यो ऽन्यद् विष्णुरिति ध्यायेज्जानीयाद् वा हरिं तथा ।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित्
यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति
यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित्
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित्
तस्माद् वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित्
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद् यस्मान्मिथ्याज्ञानमनर्थदम्
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः
आधिव्याधिनिमित्तेन विक्षिप्तमनसो ऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम्
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट्
यद्यात्मशब्दो जीवे ऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद् विष्णुरेव नचापरः
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद् वैष्णवं वचः
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः
व्यावहारिकभेदश्चेत् क्वासावव्यावहारिकः ।
व्यावहारिकमित्येव वचनं व्यावहारिकम्
उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ।
तस्यापि बाध्यता चेत् स्याद् भेदः स्यात् पारमार्थिकः
अव्यावहारिकत्वं चेद् भेदो ऽयं सत्यतां गतः ।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्ते ऽसत्यतामपि
न स्वप्ने ऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचो ऽसत्यता चेत् स्यात् तस्माद् भेदस्य सत्यता
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दो ऽयं परमात्माभिधा भवेत्
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद् भवेत् ।
प्रतीके विष्णुरित्येव तस्मात् कार्या ह्युपासना
न च विष्णुः प्रतीकं यत् तस्मान्नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता
यद्यप्युत्कर्षमात्रेण ह्यतद्भवे ऽप्युपासना ।
उत्कर्ष आत्मनो ऽपि स्याच्चेतनत्वादचेतनात् ।
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम्
उत्कर्षाद् ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत्
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद् राज्ञो लोके हि पश्यति
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डाले ऽथ नृपे ऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम्
ध्याते त्वेकस्य तद्भावे तद्भावो ऽन्यस्य किं न तत् ।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित्
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।
तस्माद् यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशो ऽप्यसङ्गता
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति
ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ।
ब्रह्मद्विड् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद् ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम्
मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0