भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्दः · अध्याय 1

1,1.1

आनन्दकन्द
१, १
कैलासशिखरासीनं कालकन्दर्पनाशनं ।
प्रसन्नं परमेशानं जगदानन्दकारणं

1,1.2

प्रणम्य परया भक्त्या भैरवी स्तुतिमातनोत् ।
देवदेव महादेव जन्मदारिद्र्यनाशन

1,1.3

प्रसीद करुणामूर्ते प्रसन्न परमेश्वर ।
दिव्यागमरहस्यानि कुलकौलादिकानि च

1,1.4

जाने तव प्रसादेन मायामङ्गलविग्रह ।
श्रोतुमिच्छामि सर्वेश तव दिव्यरसायनं

1,1.5

जराजन्मामयघ्नं च खेचरत्वादिसिद्धिदं ।
दारिद्र्यदुःखशमनं ब्रह्मत्वादिवरप्रदं

1,1.6

ईश्वर उवाच ।
साधु साधु महाभागे सर्वलोकोपकारिणि ।
तत्सर्वं जायते सूताच्छुद्धात्मप्राणवल्लभे

1,1.7

सर्वलोकोपकारार्थं गुह्यात्गुह्यतमं हितं ।
रसेन्द्रस्य समुत्पत्तिं लक्षणं च सुरार्चिते

1,1.8

तत्सर्वं सम्प्रवक्ष्यामि शृणु भैरवि सम्प्रति ।
<रसोत्पत्तिः>
सुरेन्द्रैर्मुनिभिर्दिव्यैः गन्धर्वोरगकिंनरैः

1,1.9

प्रार्थितो भवत्यां तु कुमारोत्पत्तिं इच्छद्भिः ।
तारकासुरनाशाय लोकानां रक्षणाय च

1,1.10

तदा हिमालयगिरेः गुहायां सुचिरं प्रिये ।
संक्रीडमानयोः कालो गतो नः पुत्रलिप्सया

1,1.11

त्रिजगत्क्षोभि सुरतं त्यजितुं प्रेषितः सुरैः ।
कपोतरूपमास्थाय वह्निः प्रागाद्गवाक्षतः

1,1.12

तं दृष्ट्वा लज्जया देवि विसृष्टं सुरतं मया ।
निक्षिप्तं वदने वह्नेरावयोस्तेज उज्ज्वलं

1,1.13

तेन दन्दह्यमानोऽग्निर्गङ्गायां तन्न्यमज्जयत् ।
तेन गङ्गापि संतप्ता तद्बहिर्विससर्ज च

1,1.14

तत्द्विधाभूद्बहिः प्राप्य चैकं स्कन्दप्रसूतये ।
अन्यच्छुद्धरसो जातो ह्यापदंबुधिपारदः

1,1.15

शतयोजननिम्नेषु पञ्चकूपेषु संस्थितः ।
तन्मला धातवो जाता मणयो दिव्यवस्तु च

1,1.16

तत्तत्क्षेत्रविशेषेण नामवर्णादिकान्गुणान् ।
भिन्नः प्राप्तो रसेन्द्रोऽयं जन्मदारिद्र्यभञ्जनः

1,1.17

ते कूपाः प्रलये पञ्च संज्ञा जातादि वै मुखाः ।
ससंचवर्णां निवृत्त्या निक्षिप्ता नियुतानि हि

1,1.18

पञ्चवर्णानि देवेशि सर्वसत्त्वयुतानि च ।
पूर्वस्यां पारदः श्वेतो नानावर्णैर्गदापहः

1,1.19

चञ्चलो दक्षिणस्यां तु रसेन्द्रो नीलवर्णवान् ।
दोषहीनोऽतिरूक्षश्च सुतरां चपलः प्रिये

1,1.20

तेन जाता भुजङ्गेन्द्रा जराजन्मगदोषोज्झिताः ।
पश्चिमस्यां तु सूताख्यः पीतवर्णोऽतिरूक्षकः

1,1.21

सर्वदोषयुतोऽसौ तु शुद्धोऽष्टादशकर्मभिः ।
सर्वसिद्धिप्रदो देवि देहलोहादिसिद्धिदः

1,1.22

उत्तरस्यां दिशो रक्तः सर्वदोषविवर्जितः ।
रसायनं तु तेनैव देवा जन्मजरोज्क्षिताः

1,1.23

मध्ये तु मिश्रको ज्ञेयः सर्ववर्णसमन्वितः ।
बहिश्चन्द्रार्काच्छायो रसो दोषसमन्वितः

1,1.24

स चाष्टादशसंस्कारैः शुद्धः सिद्धिप्रदो भवेत् ।
अमराणां स्वरूपं तु रसेन्द्रो हि महेश्वरः

1,1.25

पूरयामासतुस्तौ च स्तोकतो ह्यतिदुर्लभौ ।
अन्येषु सर्वकार्येषु सिद्धदोऽपि हि कर्मभिः

1,1.26

अष्टादशभिरत्यन्तं शुद्धः सिद्धिप्रदो द्रुतं ।
रसावतारं यो वेत्ति स तु धार्मिकसत्तमः

1,1.27

आयुष्यसुखसंतानधनारोग्यमवाप्नुयात् ।
<रसपर्यायाः तन्निरुक्तैस्त>
जन्मरोगजरामृत्युदारिद्र्यांभोनिधेः परं

1,1.28

पारं ददाति तेनैव पारदः परिकीर्तितः ।
रसोपरसलोहादिकर्तृत्वाच्च रसेन्द्रकः

1,1.29

मम प्रत्यङ्गसूतत्वात्सूत इत्यभिधीयते ।
सूते यस्मात्सर्वसिद्धिं तस्मात्सूत इति स्मृतः

1,1.30

मम देहरसो यस्मात्रसस्तस्मात्प्रकीर्तितः ।
जरामरणदारिद्र्यरोगनाशाय शस्यते

1,1.31

तस्माश्रस इति प्रोक्तो धातुत्वाच्च वरानने ।
सर्वधातून्रसत्येषः तस्माच्च रस ईरितः

1,1.32

मित्रकारी सवर्णत्वात्सर्वसिद्धिप्रदायकः ।
पारदो व्याधिसंहर्ता रसेन्द्रो रसकर्मणि

1,1.33

धातुकर्मसु सूतः स्याद्रसेन्द्रो रससाधने ।
सर्वकर्मार्हततया सर्वतया प्रिये

1,1.34

सर्वसिद्धिप्रदो देवि मिश्रकोऽयमुदाहृतः ।
<रसगता दोषाः>
अमोघसिद्धिममलं सर्वसिद्धिप्रदं रसं

1,1.35

आलोक्य त्रिदशाः सर्वे ब्रह्मविष्णुपुरेगमाः ।
मामभिप्रार्थयामासुः स्तोत्रैश्च विविधैः प्रिये

1,1.36

रसेन्द्रदर्शनादेव नरपक्षिमृगादयः ।
सिद्धिं नानाविधां यान्ति तन्निवारय शंकर

1,1.37

तस्मात्त्रिधा कञ्चुकाभिर्दोषैश्चासौ नियोजितः ।
तदा प्रभृति दोषैश्च कञ्चुकाभिश्च वर्जितः

1,1.38

शुद्धोऽष्टादशसंस्कारैः सूतो भवति सिद्धिदः ।
<रसावस्थाः>
धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च

1,1.39

सकंपश्च विकंपश्च पञ्चावस्था रसस्य तु ।
<रसगतयः>
रसस्य गतयः पञ्च जले स्याज्जलवद्गतिः

1,1.40

धूमे धूमगतिः सूतः स्तरणे हंसवद्गतिः ।
किट्टे किट्टनिभा देवि पञ्चमो जीववद्गतिः

1,1.41

चतस्रो गतयो दृश्याः अदृश्या पंचमी गतिः ।
यन्त्रौषधाद्यै रोद्धव्याश्चतस्रो गतयः प्रिये

1,1.42

ध्यानमन्त्रौषधाद्यैश्च रोद्धव्या पञ्चमी गतिः ।
<नैसर्गिका दोषाः>
पार्थिवश्च तथैवाप्य आग्नेयश्चानिलस्तथा

1,1.43

नाभसो गजचर्माख्यः पुण्डरीको विसर्पकृत् ।
हारिद्रो रक्तचर्माख्यो नारङ्गो रक्तबिन्दुकः

1,1.44

असह्याग्निश्च मण्डूको मला नैसर्गिकाः स्मृताः ।
<औपधिका दोषाः>
कालिका मलिनी चैव कपोती रक्तकञ्चुका

1,1.45

सलोमी गिरिजा चैव पिङ्गली सप्त कञ्चुकाः ।
औपाधिका इमा ज्ञेयाः पारदे कीर्तिताः प्रिये

1,1.46

<यौगिका दोषाः>
विषं नागश्च वङ्गश्च यौगिकश्च त्रयः स्मृताः ।
<दोषाणां स्वरूपम्>
भौमः कुष्ठकरश्चाप्यो दोषोद्रेकं करोति सः

1,1.47

आग्नेयः कुरुते दाहं वायव्यः शूलकृद्भवेत् ।
बाधिर्यं नाभसो दोषो गजत्वग्गजचर्मकृत्

1,1.48

पुण्डरीको दद्रुकरो विसर्पश्च विसर्पकृत् ।
हारिद्रः पाडुकृत्प्रोक्तो रक्तचर्माक्षिपाटलं

1,1.49

नारङ्गो दुम्बरं कुष्ठं रक्तबीजो मसूरिकाः ।
असह्याग्निर्मोहकारी मण्डूकश्चर्मकीलकृत्

1,1.50

मलो मूर्च्छाकरो देवि ख्याता दोषोद्भवास्तथा ।
कालिका कृष्णवर्णं च मलिनी मलसग्रहं

1,1.51

कपोती स्वरसादं च विस्फोटं रक्तकञ्चुका ।
सलोमी वमनं कुर्यात्गिरिजा जाड्यकारिणी

1,1.52

पिङ्गली नेत्रघ्नी दोषाः कचुकजाः स्मृताः ।
विषं मृत्युप्रदो नागो जाड्यं वङ्गस्सुरार्चिते

1,1.53

कुरुते पूतिगन्धत्वं गदा यौगिकसम्भवाः ।
<रसस्य स्थानान्तरगतिः>
प्रथमार्तवसुस्नाता सुरूपा शुभलक्षणा

1,1.54

शुद्धाम्बरधरा माल्यगन्धन्लिप्ता सुभूषिता ।
उत्तमाश्वसमारूढा रतिसङ्गविवर्जिता

1,1.55

अभ्यर्च्य गणनाथं च भैरवं च गुरुं पुरा ।
रसेन्द्रभैरवं ध्यात्वा कूपस्थं पारदं प्रिये

1,1.56

पश्येच्छीघ्रं ततो गच्छेत्न पुनः पृष्ठमीक्षयेत् ।
एषा योजनमात्रोआ कुमारी हयसाधना

1,1.57

तदानीं आहरेत्ततु कुमारासंजिघृक्षया ।
कूपमध्यात्समुत्पत्य सोऽनुधावति तां प्रति

1,1.58

यावद्योजनमागत्य पुनः कूपे विशेत्क्षणात् ।
परितः कृतगर्तेषु तेषु तेषु च संस्थितं

1,1.59

तं रसेन्द्रं शुचिर्भूत्वा गृह्णीयाद्रसदेशिकः ।
गौरवादग्निवदनात्पतितो दरदाह्वये

1,1.60

देशे स सूतो भूलीनः तन्त्रज्ञै रसकोविदः ।
निक्षिप्य मृत्तिकायन्त्रे पातनाख्ये समागतः

1,1.61

पारदो गृह्यते देवि दोषहीनस्स उच्यते ।
एवमेव तत्र तत्र सिद्धविद्याधरैस्सदा

1,1.62

निक्षेपितः पारदेन्द्रो विद्यते देवि सिद्धिदः

1,2.1

âक्, १, २
श्रीभैरवी ।
रसोपदेशदातारं तच्छिष्यं काकिनीस्त्रियं ।
रसपूजां तु पृच्छामि यथावत्कथयस्व मे

1,2.2

श्रीभैरवः ।
<रसोपदेशकलक्षणम्>
शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ।
आचार्यो ज्ञानवान्दक्षः शीलवान्गुणवान्शुचिः

1,2.3

धर्मज्ञः सत्यसंधश्च रसशास्त्रविशारदः ।
वेदवेदान्ततत्त्वज्ञो निर्मलः शिववत्सलः

1,2.4

देवीभक्तः सदा शान्तो रसमण्डपकोविदः ।
मन्त्रसिद्धो महावीरो देवतायागतत्परः

1,2.5

रसदीक्षाविधानज्ञो मन्त्रौषधमहारसान् ।
रागसंख्यां बीजकल्पं द्वन्द्वमेलापनं बिडं

1,2.6

रञ्जनं सारणां तैलं दलानि क्रामणानि च ।
वर्णोत्कर्षं मृदुत्वं च जारणं बालवृद्धयोः

1,2.7

खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्भवेत् ।
<शिष्यलक्षणम्>
गुरुभक्तः सदाचारो लोभमायाविवर्जितः

1,2.8

निस्पृहो निरहङ्कारः सत्यवाङ्नियमस्थितः ।
निरालस्यः स्वधर्मज्ञः षट्कर्मनिरतः सुधीः

1,2.9

दम्भहिंसादिनिर्मुक्तः शिवाचारेषु दीक्षितः ।
अत्यन्तसाधकः शान्तो मन्त्रानुष्ठानतत्परः

1,2.10

दान्तः शिष्यः स विज्ञेयः शक्तिमान्गतमत्सरः ।
<काकिनीलक्षणम्>
आकुञ्चितस्निग्धकेशा पद्मपत्रायतेक्षणा

1,2.11

दीर्घोत्तुङ्गघ्राणकेशा विद्रुमाधरशोभिता ।
दाडिमीबीजदशना कम्बुग्रीवोन्नतस्तनी

1,2.12

शिरीषमालामृदुलबाहुपाशविराजिता ।
संकीर्णोरस्थला निम्ननाभिः सूक्ष्मा चलाङ्गका

1,2.13

तलोदरी रोमराजिवलित्रयविभूषिता ।
विशालजघनोपेता रम्भोरुः सुभगा प्रिया

1,2.14

कादलोपमजङ्घा च पाटलाङ्घ्रिसरोरुहा ।
शोणामलनखोपेता राजहंसगतिः शुभा

1,2.15

कलकोकिलनिध्वानकलकण्ठादिमञ्जुला ।
पिप्पलछदसंकाशस्मरमन्दिरमण्डिता

1,2.16

युवती श्यामला स्निग्धा सुरूपा शुभलक्षणा ।
चुम्बनस्पर्शनाश्लेषरतिकर्मविचक्षणा

1,2.17

बहुले या पुष्पवती पक्षे सा काकिनी स्मृता ।
स्वस्ववर्णसद्भूता ग्राह्या वाप्यन्यवर्णजा

1,2.18

रसकर्मणि दीक्षायां प्रयोगे च रसायने ।
<काकिनीत्वापादनम्>
काकिन्यभावे तरुणी सुरूपान्याथवा भवेत्

1,2.19

गन्धकं गोघृतोपेतं निष्कं त्रिः सप्तवासरं ।
प्रातर्दद्यात्तु सा नारी काकिनीसदृशा भवेत्

1,2.20

धार्मिकः पापभीरुश्च बलवान्ज्ञानवित्तमः ।
न्यायश्रेष्ठः सर्वसमो रसागमविशारदः

1,2.21

भूपतिश्चास्य मन्त्री च सर्वशास्त्रविशारदः ।
सर्वधर्मरतः श्रेष्ठो न्यायमार्गप्रवर्तकः

1,2.22

<रसशालानिर्माणम्>
रसशालां प्रवक्ष्यामि रसेन्द्रस्य वरानने ।
निर्णयेच्च निरातङ्के देशे च निरुपप्लवे

1,2.23

आस्तिकप्राणिसुभगे धनधान्यसमाकुले ।
सौराज्ये पूर्णविभवे निरपाये ह्यनिन्दके

1,2.24

नगरे सर्ववर्णाढ्ये महामाहेश्वरावृते ।
तत्रापि विजये स्थाने पवित्रे च सुरक्षिते

1,2.25

सव्यालपशुपक्ष्यादिसंबाधपरिवर्जिते ।
समस्थले च प्राकारपरिघार्गलभूषिते

1,2.26

नारङ्गदाडिमडहजम्बीरफलपूरके ।
तालहिन्तालवकुलनारिकेलाम्लपाटले

1,2.27

अशोकजम्बूपनससालपुंनागमण्डिते ।
कपित्थपूगसरलदेवदारुसुबिल्वके

1,2.28

धात्रीन्यग्रोधवरणमधूकाम्रातमण्डिते ।
केतकीमल्लिकाजातीयूथिकामालतीयुते

1,2.29

मागधीकुन्दकुरवतिलके शतपत्रके ।
कुमुदोत्पलकल्हारपुण्डरीकांबुजोत्पलैः

1,2.30

हंससारसकारण्डचक्रवाकविराजितैः ।
सरोभिः शीतलजले परितः परिवेष्टिते

1,2.31

शीतानिलाभिलुलितललितप्रसवाञ्चिते ।
चित्रोद्यानेऽतिरुचिरे रसशालां प्रकल्पयेत्

1,2.32

षोडशस्तम्भरुचिरां चतुरश्रां समायतां ।
मनोज्ञां देवदेवेशि मत्तवारणसंयुतां

1,2.33

वातायनसमोपेतां कवाटार्गलरक्षितां ।
कक्षपताकासंयुक्तां सर्वोपकरणोज्ज्वलां

1,2.34

समालिखितदिक्पालां समर्चितविनायकां ।
प्रतिष्ठितोमामाहेशां द्वारपालैश्च रक्षितां

1,2.35

भेरीकाहलघण्टादिदिव्यवाद्यविनादितां ।
वास्तुलक्षणसंयुक्तां रसशालां प्रकल्पयेत्

1,2.36

शालायां वेदिका कार्या सुदृढा दर्पणोपमा ।
इष्टकैः खचिता रम्या ससोपाना सलक्षणा

1,2.37

कपिलागोमयालिप्ता हिरण्यकलशावृता ।
<रसेन्द्रपूजाविधिः>
वेदिकायां रसेन्द्रस्य भद्रपीठं प्रकल्पयेत्

1,2.38

भद्रपीठे लिखेत्सम्यक्सिन्दूरेण द्विहस्तकं ।
षट्कोणं वसुपत्रं च तद्बहिश्चाष्टपत्रकं

1,2.39

कमलं चतुरश्रं च चतुर्द्वारोपशोभितं ।
रसलिङ्गं न्यसेद्यन्त्रे पुष्पाद्यैश्च समर्चयेत्

1,2.40

<रससन्ध्या>
अथ सन्ध्यां प्रवक्ष्यामि रसकर्मफलप्रदां ।
प्रविशेद्रसशालां च स्नातः शुद्धोऽनुलेपितः

1,2.41

शुक्लमाल्याम्बरधरः संयतात्मा जितेन्द्रियः ।
यतवाग्गुरुभक्तश्च सत्यवादी दृढव्रतः

1,2.42

उपविश्य समाचामेत्मृदुले चित्रकम्बले ।
वाङ्मायाश्रीयुतं तोयं आत्मविद्याशिवात्मकं

1,2.43

तत्त्वं च शोधयामीति त्रिवारं विधिवत्पिबेत् ।
ध्यायेद्वरदगायत्रीं त्रिवारं प्रजपेत्प्रिये

1,2.44

रसभैरवगायत्रीं शृणु भैरवि तत्त्वतः ।
ऐं रसेश्वराय विद्महे रसाङ्कुशाय धीमहि ।
तन्नः सूतः प्रचोदयात् ।
कोटिसूर्यप्रतीकाशं दशकोटीन्दुसंनिभं

1,2.45

शुभ्रं पञ्चमुखं देवं त्रिनेत्रं चन्द्रशेखरं ।
अष्टादशभुजं शान्तं पञ्चकृत्यपरायणं

1,2.46

शुक्लमाल्यांबरधरं नागयज्ञोपवीतिनं ।
स्फटिकसङ्काशं प्रेतारूढं रसेश्वरं

1,2.47

नीलकण्ठं च सर्वज्ञं सर्वाभरणभूषितं ।
वरदं रसशास्त्रं च पारदं भुजङ्गं सुधां

1,2.48

शङ्खभैषज्यकोदण्डशूलखट्वाङ्गसायकं ।
डमरुं करवालं च गदां पावकमीश्वरि

1,2.49

आरोग्यं दिव्यमालां च ह्यभयं द्विनवैः करैः ।
रसाङ्कुशीं निजोत्सङ्गे बिभ्राणं वृषवाहनं

1,2.50

कपर्दभाररुचिरं मन्दहासाननं शिवं ।
रसभैरवं आचिन्त्य तस्योत्सङ्गे रसाङ्कुशीं

1,2.51

अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ।
पाशाभयं च बिभ्राणां दक्षिणेतरहस्तयोः

1,2.52

चतुर्भुजां रक्तवर्णां त्रिणेत्रामिन्दुशेखरां ।
रक्ताम्बरधरां देवीं कम्बुग्रीवां कृपामयीं

1,2.53

रत्नालङ्काररुचिरां मन्दहासविराजितां ।
ध्यायेद्रसाङ्कुशीं देवीं देवस्याभिमुखीं शिवां

1,2.54

ततो भस्म समादाय वामहस्तेन धारयेत् ।
नैवाधःपतितं पात्रे गृहीत्वा गोमयं सुधीः

1,2.55

विशोष्य प्रदहेत्कुण्डे क्रमेण धारयेत्प्रिये ।
पुनरुद्धारणं चैव सद्योजातादिभिर्भवेत्

1,2.56

निरीक्षणं प्रोक्षणं च ताडनाभ्युक्षणं तथा ।
सद्योजातादिभिर्मन्त्रैरभिमन्त्र्य च तत्पुनः

1,2.57

मूर्ध्नि वक्त्रे च हृदये गुह्ये चरणयोः क्रमात् ।
ईशानाद्यैः पञ्चमन्त्रैस्तत्तत्स्थानेषु निक्षिपेत्

1,2.58

सर्वाङ्गोद्धूलनं कुर्यात्भस्मना पञ्चभिश्च तैः ।
संकल्पं विधिवत्कुर्यात्रसाचार्यो महेश्वरः

1,2.59

प्राणायामत्रयं कृत्वा मूलमन्त्रेण पार्वति ।
प्रोक्षयेन्मन्त्रितं तोयं मूर्ध्नि वामकरस्थितं

1,2.60

आचम्य च पुनस्तोयं मूलमन्त्रेण मन्त्रितं ।
त्रिधा दक्षिणहस्तस्थं पिबेदाचमनं ततः

1,2.61

अर्घ्यं मूलेन दत्त्वा त्रिः पुनराचम्य पार्वति ।
अष्टोत्तरशतं जप्त्वा मूलमन्त्रमुदारधीः

1,2.62

समर्पयेच्च सूताय रससन्ध्येयमीश्वरि ।
त्रिकालमेवं कुर्वीत सन्ध्यां सर्वाघनाशिनीं

1,2.63

<रसांकुशरसांकुशीमूलमन्त्रोद्धारः>
वक्ष्येऽहं मूलमन्त्रस्य शृणूद्धारक्रमं प्रिये ।
वाङ्माया कमला चाथ चतुर्थ्यन्तो रसेश्वरः

1,2.64

ततो महाकालपदं महाबलपदं ततः ।
अघोरभैरवपदं वज्रवीरपदं ततः

1,2.65

क्रोधकालपदं चैतत्सर्वं सम्बुद्धिसंयुतं ।
कषष्टवर्गान्तयुतः साधोदन्तः सबिन्दुकः

1,2.66

इदं पञ्चाक्षरं कूटं ततः कर्षणसंयुतः ।
सविसर्गोऽप्ययं कूटश्चतुर्वर्णात्मकः प्रिये

1,2.67

रसेन्द्रभैरवस्यायं मन्त्रो द्वात्रिंशदर्णकः ।
गोपितः सर्वतन्त्रेषु रहस्योऽत्यन्तदुर्लभः

1,2.68

रसाङ्कुशामन्त्रमहं वक्ष्यामि शृणु भैरवि ।
वाङ्माया भुवनेशी च रमा मकरकेतनः

1,2.69

रसाङ्कुशा चतुर्थ्यां च नमोऽन्तो द्वादशार्णकः ।
मन्त्रो रसाङ्कुशायाश्च तव देव्याः प्रकीर्तितः

1,2.70

रसभैरवस्य छन्दोऽनुष्ठुप्प्रकीर्तितः ।
नन्दिकेश ऋषिः प्रोक्तो देवः श्रीरसभैरवः

1,2.71

रं बीजं लं भवेत्कीलं अन्त्यार्णः शक्तिरीरितः ।
रसांकुशायाः स्कन्दस्यार्द्रं बीजं कीलकं रसः

1,2.72

नमः शक्तिरिति ख्यातं रहस्यं मन्त्रमुत्तमं ।
<रसलिङ्गार्चना>
रसलिङ्गार्चनं वक्ष्ये भैरवि शृणु तत्त्वतः

1,2.73

वामपादं पुरस्कृत्य प्रविशेद्यागमन्दिरं ।
आसने मृदुले स्थित्वा शुचिः संयतमानसः

1,2.74

प्राणानायम्य संकल्प्य श्रीगुरुं शिरसि स्थितं ।
शुद्धस्फटिकसंकाशं प्रशान्तं वरदाभयं

1,2.75

स्मरेत्तन्नाम पूर्वं च तदनुज्ञामवाप्य च ।
दिवि स्थिताश्च ये भूता भूमिस्था विघ्नकारिणः

1,2.76

पाताले ये महाभूताः ते नश्यन्तु शिवाज्ञया ।
अनेनैव च मन्त्रेण दिग्विदिक्ष्वक्षतान्क्षिपेत्

1,2.77

पुष्पमस्त्राय फडिति निक्षिपेदन्तरिक्षके ।
सर्वशत्रुप्रमथनी चेति दक्षिणपार्ष्णिकां

1,2.78

त्रिवारं घातयेद्भूमौ प्राणायामो भवेत्पुनः ।
रसेन्द्रभद्रपीठस्य दक्षिणे चतुरश्रकं

1,2.79

मण्डलं हस्तमात्रं च सार्धं कुर्यात्सुशोभनं ।
त्रिकोणवृत्तषट्कोणचतुरश्रं भवेत्क्रमात्

1,2.80

इन्द्रादिलोकपालांश्च तत्तन्नामपुरःसरं ।
प्रणवादिनमोऽन्तैश्च पूजयेत्कुसुमाक्षतैः

1,2.81

वाङ्मायाकमलाबीजैर्हृदयादीन्प्रपूजयेत् ।
प्राच्यामवाच्यां क्रमशः प्रतीच्योत्तरयोः शिवे

1,2.82

ईशानलासुरमरुत्कोणे नेत्रे प्रपूजयेत् ।
अस्त्रं सर्वासु काष्ठासु चतुर्थ्यन्तं फडन्तकं

1,2.83

छोटिका दर्शयेदष्ट पश्चादाधारमाहरेत् ।
तत्रैवावाहयेदग्निमण्डलं बीजमूलकं

1,2.84

अग्नेर्दश कलास्तत्र या गन्धाक्षतैः क्रमात् ।
ततः पात्रं समादाय भावयेत्सूर्यमण्डलं

1,2.85

मार्तण्डद्वादशकलास्तत्रार्च्याश्चन्दनाक्षतैः ।
गन्धोत्तमान्वितं तोयं पूरयेदर्घ्यपात्रकं

1,2.86

चिन्तयेदैन्दवं बिम्बं तास्तत्र पूजयेत् ।
मध्ये त्रिकोणमालिख्य शक्तिबीजं समुल्लिखेत्

1,2.87

तत्र क्षिपेत्गन्धपुष्पं मूलमन्त्रं त्रिधा जपेत् ।
पूर्वादिदिक्षु चतसृषु चतुःपात्राणि धारयेत्

1,2.88

पूरयेत्पूर्ववत्तानि गन्धपुष्पाक्षतैर्यजेत् ।
प्रोक्षयेन्मूलमन्त्रेण मध्यपात्रोदकेन च

1,2.89

पात्राणि निजगात्राणि पूजाद्रव्याणि सर्वतः ।
स्वागतश्चतुरश्रं च मण्डलं परिकल्पयेत्

1,2.90

पूर्ववत्पञ्चपात्राणि पूरयेच्छुद्धवारिणा ।
निक्षिपेन्मध्यगे सूतं रत्नं दक्षिणके क्षिपेत्

1,2.91

स्वर्णं तद्वामपात्रे च तत्समीपे कुशं न्यसेत् ।
रत्नपात्रसमीपस्थे पात्रे स्यादष्टगन्धकं

1,2.92

प्रतिपात्रे त्रिकोणं च लिखेन्मायासमन्वितं ।
न्यसेद्गन्धाक्षतं पुष्पं त्रिधा मूलेन मन्त्रयेत्

1,2.93

सप्तधा रसपात्रं च मूलमन्त्रेण मन्त्रयेत् ।
रसपात्रोदकेनैव पूजाद्रव्याणि चात्मनः

1,2.94

शरीरमुत्तमाङ्गं च प्रोक्षयेत्पीठदीपकं ।
आसनस्य ऋषिर्मेरुः सुतलं छन्द ईरितं

1,2.95

कूर्मरूपी तु भगवान्देवता परिकीर्तिता ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनं ।
अनेनैव तु मन्त्रेण चासने कुसुमं क्षिपेत्

1,2.96

<भूतशुद्धिः>
भूतशुद्धिं प्रवक्ष्यामि पृथ्वी पीता सवज्रका ।
कठिना लंबीजयुता जान्वन्ताङ्गुष्ठमूलतः

1,2.97

ध्येया जान्वादिकट्यन्तं उपर्यस्यार्धचन्द्रका ।
शुभ्रा वं बीजसहिता विचिन्त्या द्रवरूपिका

1,2.98

कट्यादि हृदयान्तं च बहिर्ध्येयस्त्रिकोणगः ।
रं बीजं रक्तवर्णश्च स्वस्तिकेन विभूषितः

1,2.99

हृदादिकण्ठपर्यन्तं वायुः स्मर्योऽञ्जनप्रभः ।
यंबीजसहितो देवि षड्बिन्दुपरिभूषितः

1,2.100

षट्कोणः कर्णदेशाच्च ब्रह्मरन्ध्रान्तमीश्वरि ।
वर्तुलं हंबीजयुतं महाकृष्णं वियत्स्मरेत्

1,2.101

पृथिवीं अप्सु च तास्त्वग्नौ स च वायौ स सोऽम्बरे ।
मेलयित्वा द्वादशान्ते स्थापयेत्परमेश्वरि

1,2.102

यंबीजेनात्मनो देहं मूलाधाराद्विशोषयेत् ।
षडाधाराणि निर्भिद्य यावत्ब्रह्मबिलं प्रिये

1,2.103

रं बीजेन दहेद्देहं सर्वमाप्लावयेत्ततः ।
वंबीजेन द्रवीभूतं ब्रह्मरन्ध्रेन्दुमण्डलात्

1,2.104

स्यन्दमानामृतेनैव तनुमाप्लावयेच्छिवे ।
आकाशाद्वायुमादद्यात्तस्माद्वह्निं समाहरेत्

1,2.105

वह्नेरापः समादेयास्ताभ्यो भूमिं समाहरेत् ।
एवं पञ्च च भूतानि स्वस्वस्थाने नियोजयेत्

1,2.106

वामकुक्षिस्थितं पापपुरुषं कृष्णरूपिणं ।
ध्यायेत्तं निर्गतं देवि खड्गचर्मधरं परं

1,2.107

न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ।
ऐं ह्रीं श्रीं क्ष्मौं क्ष्मं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट्रसेश्वराय महाकालभैरवाय शिखायै वषट् ।
रौद्ररूपाय कृष्णपिङ्गललोचनाय अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ मम महारक्षां कुरु कुरु कारय २ मम रससिद्धिं देहि देहि १८८८ ।
महाकालभैरवाय हृदयाय नमः ।
पूर्ववन्महाबलभैरवाय शिरसे स्वाहा ।
पूर्ववतघोरभैरवाय शिखायै वषट् ।
पूर्ववत्वज्रवीरभैरवाय कवचाय हुं ।
पूर्ववत्क्रोधभैरवाय नेत्रत्रयाय वौषट् ।
पूर्ववत्कालभैरवाय अस्त्राय फट् ।
एवमङ्गुलिन्यासः ।
प्रतिबीजैः समुच्चार्य चतुर्थं रसांकुशं

1,2.108

हृदादिपञ्चस्थानेषु विन्यसेद्बीजपञ्चकं ।
ततश्चास्त्राय फडिति चोटिकां दिक्षु दर्शयेत्

1,2.109

मातृकां च कलान्यासं पाज्योन्यासं च कोलकं ।
प्रकुर्वीत ततो देवि चान्तर्यजनं आचरेत्

1,2.110

कुम्भकेन हृदम्भोजे सम्फुल्लं विदधाति हि ।
हृत्पद्मकर्णिकायां च रसमूर्तिं च चिन्तयेत्

1,2.111

मानसैर्गन्धपुष्पाद्यैरुपचारैः प्रपूजयेत् ।
स्वदेहं गन्धपुष्पाद्यैरलंकुर्याद्यथासुखं

1,2.112

अन्तर्यजनमेवं स्याद्बहिर्यजनं आचरेत् ।
अस्त्रेण लिङ्गं सम्प्रोक्ष्य लिङ्गशुद्धिं विधाय च

1,2.113

वस्त्रेन तोयेन पूरितां वर्धनीं प्रिये ।
दक्षपार्श्वे संनिवेश्य पूजयेत्तां विधानतः

1,2.114

पीठे सिन्दूररजसा विदध्याच्चतुरश्रकं ।
षट्कोणं विलिखेत्तस्मिनृजुं स्वर्णशलाकया

1,2.115

वसुपत्रं चाष्टपत्रं सचतुर्द्वारभूगृहं ।
चतुरश्रं बहिर्भागे दिक्पालान्पूजयेत्प्रिये

1,2.116

नन्दिनं च महाकालं भृङ्गिं रिटिं महाबलं ।
कुम्भकर्णं च सुग्रीवं भृङ्गकं च दृढायुधं

1,2.117

चतुर्द्वारे तु विन्यस्य द्वौ द्वौ प्रागादिपूजितौ ।
रुक्मं रौप्यं ताम्रसीसं वङ्गकान्तशठं ह्ययः

1,2.118

प्रागादिद्वार्षु सम्पूज्य क्रमाद्द्वे द्वे महेश्वरि ।
भूगृहाभ्यन्तरे प्राच्यां शुक्रमग्नौ ग्रहं यजेत्

1,2.119

दक्षिणस्यां यजेद्रुद्रमासुरे च समीरणं ।
पश्चिमस्यां शिवं वह्निं वायव्यां उत्तरे ह्युमां

1,2.120

यजेत्पावकमैशान्यां ततश्चाष्टदलाग्रके ।
प्रागादौ गन्धकं तालं कासीसं च मनःशिलां

1,2.121

कंकुष्ठं माक्षिकं चैव नृपावर्तं च गैरिकं ।
लेपिका क्षेपिका चैव क्रामिका रञ्जिका तथा

1,2.122

लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ।
विभूतिः खेचरी चैव दश दूत्यः क्रमेण च

1,2.123

पूज्यास्त्वष्टदले पद्मे ह्यूर्ध्वाधस्ताद्दलेषु च ।
माणिक्यमुक्तावैडूर्यनीलगारुडविद्रुमाः

1,2.124

गोमेदः पुष्परागश्च मणयः सर्वसिद्धिदाः ।
द्वितीयवसुपत्रस्य दलाग्रेषु प्रपूजयेत्

1,2.125

अष्टादशभुजा रुद्राः पञ्चवक्त्रास्त्रियम्बकाः ।
चन्द्रार्धशोभिमकुटाः नीलग्रीवा वृषध्वजाः

1,2.126

स्वस्ववर्णधराः सर्वे त्वष्टविद्येश्वरास्तु ते ।
पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे

1,2.127

रसकं विमलं ताप्यं चपलं तुत्थमञ्जनं ।
षट्कोणस्य दलाग्रेषु सख्यः स्युः सर्वसिद्धिदाः

1,2.128

वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणं ।
भूनागः शक्तयश्चैताः षडस्रेषु प्रपूजयेत्

1,2.129

हिंगुलं सस्यकं चैव शिलाजत्वग्निजारकं ।
तत्कर्णिकायां पूर्वादौ पराशक्तिचतुष्टयं

1,2.130

हिंगुलं मालिनी शक्तिः परा शक्तिश्च सस्यकं ।
शिलाजत्वपरा शक्तिरग्निजारः परापरा

1,2.131

प्रणवादिनमोऽन्तैश्च तत्तन्नामपुरःसरं ।
सचतुर्थ्या यजेदेतान्रसावरणसंस्थितान्

1,2.132

मध्ये तु दिव्यशक्तीनां पूजयेद्रसभैरवं ।
सप्तविंशतिनिष्के तु द्राविते शुद्धहाटके

1,2.133

नवनिष्कं सूतराजं विन्यसेच्चैकमानसः ।
मधूच्छिष्टकृते यन्त्रे लिङ्गाकारे सुलक्षणे

1,2.134

निष्टप्ते हाटके सूतं प्रतप्ते प्रक्षिपेच्छिवे ।
मुहूर्तात्स्वाङ्गशीतं तं रसलिङ्गं पयोऽन्तरे

1,2.135

स्थापयेत्पुनरादाय ह्युपरिस्थं मलं हरेत् ।
संघृष्य च समीकृत्य लिङ्गं संप्रोक्षयेत्ततः

1,2.136

एवं रौप्यादिलोहैर्वा व्यस्तैर्वाथ समस्तकैः ।
अभ्रकादिमसत्त्वैर्वा लिङ्गं कुर्यात्स्वशक्तितः

1,2.137

रसलिङ्गं द्विधा प्रोक्तं सकलं निष्कलं प्रिये ।
पूर्वोक्तं सकलं लिङ्गं निष्कलं केवलो रसः

1,2.138

बुभुक्षूणां हि सकलं निष्कलं मोक्षमिच्छतां ।
रसलिङ्गं हेमबद्धं ब्रह्मविष्ण्वीशवह्नयः

1,2.139

अपूजयन्रूप्यबद्धं गणेशस्कन्दनन्दिनः ।
त्वयाभ्रसत्वसम्बद्धं रसलिङ्गं प्रपूजितं

1,2.140

ताम्रबद्धं रमावाणीकुबेरेन्द्रजलाधिपाः ।
कान्तबद्धं यममरुन्नैरृताः समपूजयन्

1,2.141

वङ्गबद्धं सिद्धसाध्यविद्याधरमहर्षयः ।
नागबद्धं नागवसुगन्धर्वोरगकिन्नराः

1,2.142

तीक्ष्णबद्धं भद्रकालीयक्षभूतपिशाचकाः ।
मुण्डबद्धं च दुर्गाम्बा चाप्सरोगुह्यकासुराः

1,2.143

निष्कलं रसलिङ्गं तु भृङ्ग्याद्या योगिनोऽर्चयन् ।
उक्तानि रसलिङ्गानि मानवाः फलकाङ्क्षिणः

1,2.144

पूजयेयुः प्रयत्नेन नित्यं सर्वार्थसिद्धये ।
उक्तानां रसलिङ्गानां प्राणसंस्थापनं शृणु

1,2.145

प्राणानायम्य विधिवत्प्राणशक्तिं स्मरेच्छिवे ।
शोणिताम्भोधिमध्यस्थरक्ताम्भोजासनां परां

1,2.146

रक्तांबरधरां रक्तां नानारत्नकिरीटिनीं ।
विमलेन्दुकलाजूटां रविवह्नीन्दुलोचनां

1,2.147

कर्णताटङ्ककिरणारुणीकृतकपोलकां ।
श्रीपर्णीकुसुमाकारनासावंशविराजितां

1,2.148

प्रवालपद्मरागाभबिम्बाधरविराजितां ।
कुरुविन्ददलाकारश्लक्ष्णदन्ताभिशोभितां

1,2.149

शङ्खाभिरामकण्ठस्थमुक्ताहारविराजितां ।
अङ्गुलीयककेयूरकटकादिविभूषितां

1,2.150

पाशाङ्कुशेक्षुकोदण्डपुष्पबाणाभयप्रदां ।
रुधिरापूर्णपात्रेण शोभमानकराम्बुजां

1,2.151

पीनस्तनतटोद्भासिहारकुङ्कुममण्डितां ।
काञ्चीमञ्जीरकटकपादाङ्गुलिविभूषितां

1,2.152

प्राणप्रतिष्ठां लिङ्गस्य कुर्वीतैकाग्रमानसः ।
सृणिं मञ्च पाशश्च हंसः सोऽहमिति प्रिये ।
अमुष्य लिङ्गस्य प्राण इह प्राणः ।
अमुष्य लिङ्गस्य जीव इह स्थितः ।
अमुष्य लिङ्गस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु सोऽहं हंसः स्वाहा ।
यरलवशषसहों ।
क्रों ह्रीं आं ।
एतन्मन्त्रं समुच्चार्य प्राणानावाहयेत्प्रिये ।
अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ।
ऋग्यजुःसामानि छन्दांसि ।
श्रीपराशक्तिर्देवता ।
आं बीजं ।
ह्रीं शक्तिः क्रों कीलकं ।
अमुष्य लिङ्गस्य प्राणप्रतिष्ठायां विनियोगः ।
आसनं पूजयेत्पूर्वं गन्धपुष्पाक्षतादिभिः

1,2.153

हां आधारशक्त्यै नमः ।
ह्रीं कूर्माय नमः ।
ह्रूं अनन्ताय नमः ।
ह्रैं पृथिव्यै नमः ।
ह्रौं कन्दाय नमः ।
अङ्कुराय नालाय कर्णिकेभ्यः दलेभ्यः केसरेभ्यः कर्णिकायै तन्मध्ये धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय नमः ।
हृदम्भोजस्थितं देवं सह देव्या महेश्वरि ।
आवाहयेत्सावरणं स्वाङ्गशक्तिसमन्वितं

1,2.154

पीठे संस्थापयेल्लिङ्गं मूलेनार्घ्यं कुशोदकैः ।
पाद्यं गन्धोदकैर्दद्याथैमेनाचमनं भवेत्

1,2.155

रत्नोदकैर्भवेत्स्नानं सर्वं मूलेन शाम्भवि ।
एकादशेन रुद्रेण पवमानेन पार्वति

1,2.156

चमकैः पुरुषसूक्तैश्च फलैः पञ्चामृतैरपि ।
नालिकेरेक्षुसलिलैः सुगन्धोदकवारिणा

1,2.157

संस्नाप्य च ततो लिङ्गं पीठे संस्थापयेच्छिवे ।
लिङ्गस्य परितः ओं वामदेवाय नमः ज्येष्ठाय रुद्राय कालाय कलविकरणाय बलाय बलविकरणाय बलप्रमथनाय सर्वभूतदमनाय इत्यष्टासु दिक्षु मनोन्मनाय इति शिवसन्निधौ पुष्पैरभ्यर्च्य ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुं ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
ह्रां ईशानाय नमः ।
ह्रीं तत्पुरुषाय नमः ।
ह्रूं अघोराय नमः ।
ह्रैं वामदेवाय नमः ।
ह्रौं सद्योजाताय नमः ।
मूलमन्त्रेण देवाय दद्यात्पुष्पाञ्जलिं प्रिये

1,2.158

मूलमन्त्रषडङ्गेन न्यासं कुर्याच्छिवस्य च ।
लिङ्गस्य दक्षिणे भागे ऋगादीन्निगमानपि

1,2.159

ब्रह्माणं पृथिवीं तोयं विष्णुं रुद्रं हुताशनं ।
ईश्वरं पवनं चैवमाकाशं च सदाशिवं

1,2.160

श्रीकण्ठममृतांशुं च भैरवं भास्करं तथा ।
परं शिवं परात्मानं पूजयेन्मतिमान्क्रमात्

1,2.161

लिङ्गस्य वामपार्श्वे तु ब्राह्म्यादीः सप्त मातरः ।
महालक्ष्मीं महाकालीं दुर्गां स्कन्दविनायकौ

1,2.162

योगिन्यः क्षेत्रपालाश्च शक्तयश्चादिपीठकाः ।
ओड्याणशक्तिर्जालंध्री तथा पूर्णा गिरिः प्रिये

1,2.163

कामेश्वरीति संपूज्या रुद्रशक्तिः सुरार्चिते ।
लोपामुद्रा कुब्जिका च कालसंकर्षणी तथा

1,2.164

मधुरादिरसा गन्धाः सर्वधान्यानि पार्वति ।
दिव्यौषध्यः सुधा हाला विषं चर्मादिधातवः

1,2.165

इन्द्रियाणि मनो बुद्धिरहङ्कारश्च चेतनः ।
शब्दाद्या विषयाः पूज्या देहाङ्गानि च शाम्भवि

1,2.166

लिङ्गस्य पश्चिमे भागे समुद्राः सरितो नदाः ।
पर्वता मेरुमुख्याश्च भास्कराद्या नव ग्रहाः

1,2.167

ज्योतिश्चक्रं ध्रुवश्चैव शिशुमारः प्रजापतिः ।
कलाः काष्ठाश्च घटिका मुहूर्ताः प्रहरा दिनं

1,2.168

रात्रिः पक्षश्च मासश्च ऋतुकालायनानि च ।
संवत्सरा युगाः कल्पा दिशस्तारास्तिथिः शिवे

1,2.169

पातालानि च नागेन्द्रास्तथा कालाग्निरुद्रकाः ।
यक्षाः पिशाचभूताश्च राक्षसा दनुजास्तथा

1,2.170

गुह्यका दुष्टवेताला राजयक्ष्मादयो गदाः ।
मन्त्राः शस्त्राणि चास्त्राणि सम्पूज्य क्रमशः प्रिये

1,2.171

लिङ्गस्य पूर्वभागे तु संपूज्या गुरुपङ्क्तयः ।
सिद्धाः साध्याश्च मुनयो योगिनो ब्रह्मवादिनः

1,2.172

विद्याधराः किन्नराश्च गन्धर्वश्चाश्विनौ तथा ।
वसवोऽप्सरसां मुख्या शृङ्गारादिरसा नव

1,2.173

गीतं नृत्तानि तद्भेदाः काश्यपाद्यास्तथा दश ।
रुद्राः समनवः पूज्या भास्करा वह्नयस्त्रयः

1,2.174

विश्वे देवाश्च पितरो मातरः पितृदेवताः ।
कुलाचार्या रसाचार्याः पूर्वाचार्याः शिवार्चकाः

1,2.175

मत्स्यादिदशजन्मानि जिनो लोकायतस्तथा ।
नरकाद्याः सर्वलोका गरुडा गरुडाण्डकाः

1,2.176

ब्रह्माण्डाः खेचराः सर्वे भूचराश्च जलेचराः ।
सम्पूज्य देवताः सर्वाः प्रणवादिनमोऽन्तकैः

1,2.177

तत्तन्नामचतुर्थ्यन्तैः पुष्पगन्धाक्षतैः प्रिये ।
देवाय वस्त्रयुगलं उपवीतद्वयं तथा

1,2.178

मधुपर्कं दिव्यगन्धमक्षतान्कुसुमानि च ।
सदा कैतकवर्ज्यानि दिव्यानि विदलानि च

1,2.179

तत्पुष्पाणि च कह्लारकमलोत्पलकैरवं ।
जातीचम्पकपुन्नागपूगनारङ्गकैः

1,2.180

मागधीमाधवीमल्लीयूथिकाप्रभृतीनि च ।
दमनी मरुवं चैव रसेन्द्राय समर्पयेत्

1,2.181

धूपं दशाङ्गं दीपं चापूपान्नं घृतपायसं ।
सषड्रसानि शाकानि शुद्धगन्धोत्तमान्वितं

1,2.182

लेह्यं चोष्यादि नैवेद्यं पारदेन्द्राय दर्शयेत् ।
हस्तप्रक्षालनं देवि दद्याद्गन्धोदकेन च

1,2.183

सुवासितानि पूगानि घनसारयुतानि च ।
अवदातानि साग्राणि नागवल्लीदलानि च

1,2.184

मुक्ताफलोद्भवं चूर्णं ताम्बूलं च समर्पयेत् ।
दर्पणं चामरद्वन्द्वं छत्रं नृत्तं च गीतकं

1,2.185

उपचारेषु सर्वेषु दद्यादाचमनं प्रिये ।
सर्वोपचारान्मूलेन दद्यात्स्तोत्रं जपेच्छिवे

1,2.186

रसेन्द्रभैरवं देवं ध्यात्वा देवीं रसांकुशां ।
माहेश्वरांश्च विनतां गन्धपुष्पादिभिर्यजेत्

1,2.187

अङ्गुष्ठानामिकाभ्यां च दद्याद्गन्धोत्तमान्वितं ।
बिन्दुमूलेन देवाय देव्यै च गुरुपङ्क्तये

1,2.188

क्रमादावरणस्थेभ्यो देवीभ्योऽपि च तर्पयेत् ।
ह्रीं आनन्दशिवमूर्तिमाराधयामि ।
ह्रीं परानन्दशिवमूर्तिमाराधयामि ।
ह्रीं परापरानन्दशिवमूर्तिमाराधयामि ।
ह्रीं आनन्दसिद्धमूर्तिमाराधयामि ।
ह्रीं परानन्दसिद्धमूर्तिमाराधयामि ।
ह्रीं परापरानन्दसिद्धमूर्तिमाराधयामि ।
क्लीं आनन्दगुरुमूर्तिमाराधयामि ।
क्लीं परानन्दगुरुमूर्तिमाराधयामि ।
क्लीं परापरानन्दगुरुमूर्तिमाराधयामि ।
तेभ्यो दत्त्वा प्रसादं च तैरनुज्ञापितः स्वयं

1,2.189

कुण्डल्यां आत्मतत्त्वं च विद्यातत्त्वं च नाभिगं ।
हृदये शिवतत्त्वं च सर्वतत्त्वं हि तालुगं

1,2.190

त्रितत्त्वं एवं संचिन्त्य प्रसादं च समन्त्रकं ।
ततः प्रज्वलितं स्मृत्वा ज्योतिरन्तर्गतं प्रिये

1,2.191

स्वीकुर्वीत प्रसादं च यथेष्टं सुरसेविते ।
प्रीणन्ति पितरो हर्षान्मूर्छया सर्वदेवताः

1,2.192

अज्ञाना [... औ३ zएइछेन्झ्] वप्रीतिः स एवाहं न संशयः ।
<रसेन्द्रबलिक्रमः>
गन्धोत्तमौदनं शुद्धक्षतजं च घृतं मधु

1,2.193

संयोज्य पञ्चखण्डं च कृत्वा दद्यात्क्रमेण च ।
दक्षिणोत्तरपूर्वासु पश्चिमायां च मध्यमे

1,2.194

तांस्तान्मन्त्रान्समुच्चार्य बलिं दद्यात्ततो नरः ।
प्रणवं मायां कमलां देवीं पुत्रप्रदं ततः

1,2.195

ततो वटुकनाथाख्यं कपिलं जटाभारभासुरं च ततः पिङ्गल त्रिणेत्र इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
ओं ह्रीं श्रीं सिद्धयोगिनीभ्यः सर्वमातृभ्यो नमः ।
ओं ह्रीं श्रीं सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः ।
ओं ह्रीं श्रीं स्थानक्षेत्रपाल इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
ओं ह्रीं श्रीं रसेन्द्र क्षेत्रपाल राजराजेश्वर इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
बलिं दद्यादिति शिवे सर्वविघ्नोपशान्तये ।
ततश्चाष्टोत्तरशतं जपेन्मूलं रसाग्रतः

1,2.196

ततः स्तोत्रं जपेद्देवि रसभैरवतुष्टये ।
संतुष्टाः सर्वदेवाः स्युः तुष्टे तु रसभैरवे

1,2.197

अयं नित्यार्चनविधिः प्रोक्तः सर्वत्र दुर्लभः ।
<पारदपूजाफलम्>
विद्धि मां पारदं देवि तत्स्मर्ता मत्समः प्रिये

1,2.198

पारदस्त्वधिको मत्तो मदीयत्वाच्च सारतः ।
रसस्य स्मरणं पुण्यं दर्शनं स्पर्शनं तथा

1,2.199

पूजनं भक्षणं दानं षोढा पुण्यमुदीरितं ।
सात्त्विकं राजसं चैव तामसं त्रिविधं वपुः

1,2.200

सात्त्विकं मुक्तिदं शुभ्रं बालं द्विभुजमण्डितं ।
पूर्णपात्रं सूक्ष्मदण्डं द्विनेत्रं किङ्किणीस्रजं

1,2.201

राजसं भुक्तिदं रक्तं किरीटशशिशेखरं ।
चतुर्भुजं च तरुणं नीलकण्ठं त्रिलोचनं

1,2.202

सर्वैश्वर्यप्रदं ध्यायेत्शूलपात्रवराभयं ।
तामसं कृष्णवर्णं च ज्वलदूर्ध्वशिरोरुहं

1,2.203

अष्टादशभुजं त्र्यक्षं पूर्वोक्तं चिन्तयेद्रसं ।
सर्वसिद्धिप्रदं देवि सर्वकामफलप्रदं

1,2.204

स्मरणं रसराजस्य सर्वोपद्रवनाशनं ।
हृदम्भोजस्थितं ध्यायेन्नश्यन्त्येनांसि भैरवि

1,2.205

दर्शनं पारदेन्द्रस्य हन्ति पापं त्रिकालजं ।
सेतुकेदारपर्यन्तदिव्यलिङ्गौघदर्शने

1,2.206

यत्पुण्यं लभते मर्त्यः तत्कोटिगुणितं भवेत् ।
पृथिव्यां सर्वतीर्थेषु सागरान्तेषु दर्शनात्

1,2.207

स्नानपानादिभिः पुण्यं तत्कोटिगुणितं भवेत् ।
गोहत्यानियुतं देवि भ्रूणहत्याशतानि च

1,2.208

ब्रह्महत्यासहस्राणि नश्यन्ति रसदर्शनात् ।
गवां कोटिप्रदानेन स्वर्णकोटिशतेन च

1,2.209

अश्वमेधसहस्रेण यत्पुण्यं तच्च दर्शनात् ।
रसस्य स्पर्शनं हन्यादगम्यागमनं प्रिये

1,2.210

परद्रव्यापहारं च पापं प्राणिवधार्जितं ।
सप्तद्वीपे धरण्यां च पाताले गगने दिवि

1,2.211

यान्यर्चयति लिङ्गानि तत्पुण्यं रसपूजया ।
स्वायंभुवेषु लिङ्गेषु दिव्येषु कृतपूजया

1,2.212

यत्पुण्यं रसलिङ्गस्य पूजया तत्फलं भवेत् ।
योगिनोऽष्टाङ्गनिरता यत्पदं ब्रह्मवादिनः

1,2.213

तत्पदं समवाप्नोति रसलिङ्गस्य पूजया ।
कुंकुमागरुकस्तूरीकर्पूरान्तर्गतं रसं

1,2.214

मूर्छितं रसलिङ्गाय दद्यादिष्टार्थसिद्धये ।
भक्षणाद्रसराजस्य सर्वपापं विनश्यति

1,2.215

अनादिमायामलिनमात्मानं च विशोषयेत् ।
भवरोगं हरेच्छीघ्रं त्रितापं च विनाशयेत्

1,2.216

रसराजस्य दानेन चतुरब्ध्यन्तमेदिनीं ।
महामेरुसमं स्वर्णं दत्त्वा यत्तत्फलं भवेत्

1,2.217

ब्रह्मरूपी शुद्धरसो विष्णुरूपी स मूर्छितः ।
भस्मीकृतो रुद्ररूपी बद्धः सूतः सदाशिवः

1,2.218

कामरूपी जलूकाभः कालरूपी च दोषवान् ।
मूर्छितो भस्मितो बद्धः पारदेन्द्रो महेश्वरि

1,2.219

व्याधिमृत्युदरिद्रत्वं हरतेऽसौ कृपाकरः ।
<रसेन्द्रस्तोत्रम्>
ददासि त्वं रसेन्द्राशु शब्दस्पर्शनधूमतः

1,2.220

स्वर्णमर्बुदकोट्यन्तं त्राहि खेचरसिद्धिद ।
नमस्ते कालकालाय नमः सर्वगुणात्मने

1,2.221

वलीपलितनाशाय महावीर्यप्रदायिने ।
नमः शस्त्रास्त्रहन्त्रे च मायाम्भोनिधिपारद

1,2.222

पारदेन्द्र नमस्तुभ्यं कामिनीकेलिमन्मथ ।
सुधारूप त्रिदोषघ्न नमस्ते षड्रसात्मने

1,2.223

घनत्वात्पृथिवीरूप द्रवत्वाज्जलरूपिणे ।
तेजोऽधिकत्वात्तेजस्विन्चाञ्चल्याद्वायुरूपिणे

1,2.224

सूक्ष्मत्वाद्रसरूपाय नमस्ते भूतरूपिणे ।
नमस्ते योगयोग्याय प्रसीदामरवन्दित

1,2.225

वेदगोद्विजराजेन्द्रगुरुवीरादिहिंसया ।
सम्भूतक्षयकुष्ठादीन्रोगान्हरसि पावन

1,2.226

नष्टेन्द्रियार्थानज्ञानान्त्राता त्वमसि पारद ।
सर्वौषधीभ्योऽप्यधिको ह्यणुमात्रोपयोगतः

1,2.227

एकोऽपि सर्वदोषघ्नोऽरुचिनाशन ते नमः ।
त्वया सृष्टा महेन्द्राद्याः सुरा ब्रह्मादयः कलाः

1,2.228

चन्द्रार्कग्रहनक्षत्रशिवभैरवशक्तयः ।
ज्ञानाज्ञानगुणा लोका गन्धर्वोरगराक्षसाः

1,2.229

दिव्यौषधानि सर्वाणि सर्वसिद्धिकराण्यपि ।
सूतेन्द्र भवतः श्रीमन्कलां नार्हन्ति षोडशीं

1,2.230

प्रत्यक्षशम्भो सूतेन्द्र किमन्यैर्भवति स्थिते ।
अणिमादिगुणोपेते नानासिद्धिप्रदायके

1,2.231

योगिनो हेममुख्यानि लोहान्यक्षयतां सदा ।
अमृतत्वं प्राप्नुवन्ति सेवया तत्र कोज्वल

1,2.232

दृश्यादृश्यस्वरूपं त्वां भोगमोक्षप्रदं परं ।
यो न जानाति सूतेन्द्र स मां वेत्ति कथं नरः

1,2.233

गुरुर्माता पिता भ्राता धनं विद्या गतिः सुहृत् ।
रस त्वमेव भूतानां त्वत्तः कोऽन्यो हितंकरः

1,2.234

रसेन्द्र तव योगे च शास्त्रे स्तोत्रे रसायने ।
यस्तु भक्तियुतो लोके स एवाहं न संशयः

1,2.235

ब्रह्मज्ञानेऽपि निष्णातो यस्त्वां निन्दति पारद ।
त्याज्योऽसौ सर्वलोकेषु नैवाहं रक्षितुं क्षमः

1,2.236

यस्त्वां नास्तीति च वदेत्तस्य सिद्धिर्न कुत्रचित् ।
यस्त्वामस्तीति च वदेत्तस्य सिद्धिर्भवेत्सदा

1,2.237

रसेन्द्रं यस्तु लोकेऽस्मिन्कुलीनो वाधमान्वयः ।
संस्कृतं कुरुते सूत त्वामष्टादशकर्मभिः

1,2.238

स पुण्यः स व्रती धन्यः स श्लाघ्यः स च बुद्धिमान् ।
स पुमान्स च सर्वज्ञः स सिद्धः स च दैवतं

1,2.239

तत्कुलं पावनं भूमिः पुण्या राजा जयान्वितः ।
तत्पुरं सोत्सवं नित्यं कृतार्था च तदम्बिका

1,2.240

तस्य संदर्शनं पुण्यं स्पर्शनं भाषणं तथा ।
प्रत्यक्षादिप्रमाणेन पारद त्वं सदाशिवः

1,2.241

त्वत्तो देहादि लोहानि वज्रत्वं यान्ति हेमतां ।
रसेन्द्र त्वत्प्रसादेन मानिन्यो मृगलोचनाः

1,2.242

चक्रवाकसमोत्तुङ्गपीनवृत्तस्तनोज्ज्वलाः ।
चञ्चला मन्मथासक्ता विद्रुमाधरशोभिताः

1,2.243

शुकतुण्डप्रतीकाशवक्रतीक्ष्णनखाङ्कुराः ।
शिरीषमालासुभुजाः चम्पकस्रक्समप्रभाः

1,2.244

निम्ननाभिसमुद्भूतरोमराजिविराजिताः ।
सर्वाङ्गसौष्ठवाः कान्ताः स्निग्धा वश्या भवन्ति च

1,2.245

सूतेन्द्र शुष्ककाष्ठानां राशिमग्निर्यथा दहेत् ।
तथैव जन्मदारिद्र्यमृत्युदुःखमहामयान्

1,2.246

जारणार्थेऽग्निमध्ये त्वां धारयेत्कति वासरान् ।
तावत्कल्यसहस्राणि शिवलोके सुखं वसेत्

1,2.247

तव कार्येषु सूतेन्द्र किंचिद्द्रव्यं व्ययेन्नरः ।
तेषां ददासि तद्वित्तं कोटिकोटिगुणाधिकं

1,2.248

परमा पारदी विद्या सर्वलोकेषु दुर्लभा ।
भोगमोक्षप्रदा पुण्या पुत्रारोग्यप्रवर्धनी

1,2.249

ये त्वां निन्दन्ति सूतेन्द्र मार्जालखरवायसाः ।
जम्बूका ऋषभाः श्वानः क्लीबान्धबधिरा जडाः

1,2.250

मूकाः कुब्जाः पङ्गवश्च व्यङ्गा वन्ध्याश्च रोगिणः ।
कैवर्ताः पापकर्माणो जायन्तेऽनेकजन्मसु

1,2.251

भवतो निन्दकैः सार्धं भाण्डपक्वान्नमिश्रणं ।
यः कुर्यादासनं शय्यां भोजनालापसंगतिं

1,2.252

स पापिष्ठो भवेत्त्याज्यः सर्वधर्मबहिष्कृतः ।
इति स्तोत्रं मया प्रोक्तं पारदेन्द्रस्य भैरवि

1,2.253

यः पठेत्शृणुयाद्भक्त्या त्रिसन्ध्यं रससिद्धये ।
ब्रह्महत्यादिपापैश्च पातकैरुपपातकैः

1,2.254

त्रिकर्मकलिभिर्देवि मुच्यते नात्र संशयः ।
घोरे युद्धे महारण्ये दिग्भ्रमे शत्रुसंकटे

1,2.255

नदीप्रतरणे देवि चोरव्याघ्रादिसङ्कटे ।
जपेत्स्तोत्रमिदं देवि ध्यात्वा श्रीरसभैरवं

1,2.256

इति स्तुत्वा सूतराजं सर्वं कर्म समर्पयेत् ।
रसो दाता रसो भोक्ता रसः कर्ता च कारणं

1,2.257

रसो होता च हव्यं च सर्वव्यापी रसः सदा ।
अनेनैव च मन्त्रेण रसेन्द्राय समर्पयेत्

1,2.258

ततो न्यासं च मूलेन कुर्याद्ध्यात्वा च पूर्ववत् ।
संहारमुद्रां कृत्वाथ वहेन्नद्यां रसेश्वरं

1,2.259

हृत्पद्मे स्थापयेद्देवं साङ्गावरणशक्तिकं ।
शिवोऽहमिति सद्भावं चिन्तयेद्रसदेशिकः

1,2.260

पूजास्थानं च संमार्ज्य प्रोक्षयेदुदकेन च ।
ततो होमालयं प्राप्य समाचम्य च देशिकः

1,2.261

शालायामग्निदिग्भागे योनिकुण्डे त्रिमेखलं ।
दर्भैः प्रागुदगग्रैश्च परिस्तीर्णं यथाविधि

1,2.262

न्यासं मूलेन संकल्प्य प्राणायामं विधाय च ।
पञ्चभूसंस्कृतं कृत्वा स्वस्त्रिया वा द्विजेन वा

1,2.263

आनीय वह्निं निक्षिप्य कुण्डे प्रज्वालयेत्ततः ।
वह्निं पिङ्गजटाजूटं त्रिनेत्रं शुक्लवाससं

1,2.264

रक्ताम्भोजस्थितं देवं माल्याभरणभूषितं ।
सप्तहस्तं चतुःशृङ्गं द्विशीर्षं च त्रिपादकं

1,2.265

त्रिधा बद्धं च ऋषभं शक्त्याद्यायुधधारिणं ।
ध्यात्वा तस्यार्घ्यपाद्यादि कुर्यात्सर्वोपचारकं

1,2.266

गन्धाक्षतसुपुष्पैश्च पूजयेज्जातवेदसं ।
तस्मिन्नावाहयेद्देवं संचिन्त्य रसभैरवं

1,2.267

न्यासं देवस्य कुर्वीत मूलमन्त्रेण होमयेत् ।
तिलाज्यव्रीहिभिर्मन्त्रं शतमष्टोत्तरं प्रिये

1,2.268

अष्टाविंशति वा कुर्यात्मूलात्पूर्वाहुतिं हुनेत् ।
प्राणायामं ततो न्यासं कृत्वा च हृदि धारणं ।
एवं नित्यार्चनविधिः प्रोक्तस्तव सुरार्चिते

1,3.1

âक्, १, ३
<रसदीक्षाक्रमः>
अथ दीक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीं ।
सा च पञ्चविधा प्रोक्ता समयादिविभेदतः

1,3.2

समया प्रथमा दीक्षा साधकाख्या द्वितीयका ।
निर्वाणाख्या तृतीया च चतुर्थ्याचार्यसंज्ञका

1,3.3

पञ्चमी सिद्धसंज्ञा च प्रायशो दुर्लभा नृणां ।
पूर्वोक्तलक्षणोपेतः शिष्यो भक्तिनतः शुचिः

1,3.4

गुरुं प्रणम्य चाष्टाङ्गं स्तुत्वा च बहुधा ततः ।
अनुगृह्णीष्व मे दीक्षामिति विज्ञापयेद्गुरुं

1,3.5

दीक्षां च विधिवत्प्राप्य शिष्यः सर्वार्थदृग्भवेत् ।
<दीक्षायोग्याः शुभतिथ्यादयः>
अश्विनीमूलरेवत्यो मृगः पुण्यः पुनर्वसुः

1,3.6

रोहिणी श्रवणो मैत्रं हस्तः स्यादुत्तरात्रयं ।
मघाश्विनी श्रेष्ठतमा दीक्षाकर्मणि तारकाः

1,3.7

तृतीया पञ्चमी चैव सप्तमी च चतुर्दशी ।
अष्टमी पौर्णमासी च दशमी च त्रयोदशी

1,3.8

एतास्तु तिथयो मुख्याः सौम्येन्दुगुरुभार्गवाः ।
आदित्य इति वारेषु रसदीक्षा सुशोभना

1,3.9

<समयादीक्षाक्रमः>
शुक्लपक्षे सुयोगे च करविष्टिविवर्जिते ।
चन्द्रताराबलोपेतविषुवायनसंक्रमे

1,3.10

ग्रहणे शिवरात्रे च जन्मर्क्षे सुमुहूर्तके ।
शुभग्रहे सिद्धयोगे दद्याद्दीक्षां गुरूत्तमः

1,3.11

रसशालां प्रविश्याथ सर्वोपकरणोज्ज्वलां ।
पुष्पमालासमाकीर्णामुत्तोरणपताकिनीं

1,3.12

नित्यपूजाग्निकार्यं च कृत्वा दीक्षाक्रमं भजेत् ।
देवस्य दक्षिणे पार्श्वे विस्तरे तण्डुलान्श्रितान्

1,3.13

चतुरश्रं च तन्मध्ये क्षिपेत्प्रस्थं सुतण्डुलं ।
तदूर्ध्वं विन्यसेत्कुम्भं सितसूत्रेण वेष्टितं

1,3.14

वासोभ्यां वेष्टितं सूतपञ्चरत्नसमन्वितं ।
पञ्चमृत्पल्लवत्वग्भिः पावितं जलपूरितं

1,3.15

दूर्वागन्धोत्तमतिलहेमदर्भाक्षतान्वितं ।
शिवसंज्ञमिदं कुम्भं शिवरूपं विचिन्तयेत्

1,3.16

तद्वामभागे संस्थाप्य वर्धनीसंज्ञकं घटं ।
शक्तिरूपं च पूर्वोक्तसर्वद्रव्यसमन्वितं

1,3.17

परितः सर्वतोभद्रं श्रीगौरीतिलकं लिखेत् ।
नन्द्यावर्तं स्वस्तिकं च पञ्चवर्णविराजितं

1,3.18

प्रक्षाल्य पादौ पाणी च समाचम्य गुरूत्तमः ।
निजासनं समासाद्य प्राणायामत्रयं तथा

1,3.19

शिष्यस्यास्यायुरारोग्यसंपत्संतानवृद्धये ।
मुक्तये चाष्टसिद्ध्यै च संकल्प्याभ्यर्चयेच्छिवं

1,3.20

गन्धपुष्पाक्षैर्धूपैर्दीपैर्नैवेद्यदर्शनैः ।
शिवकुम्भं वर्धनीं च पूजयेत्सोपचारकं

1,3.21

रसाङ्कुशीं मूलमन्त्रं प्रजपेच्च सहस्रकं ।
तद्दशांशं हुनेत्कुण्डे त्रिकोणे लक्षणान्विते

1,3.22

फलं त्रिमधुसंयुक्तं ततो गन्धोत्तमान्वितं ।
क्रमादावृतिदेवांश्च चतुर्थ्यां स्वस्वनामकं

1,3.23

स्वाहान्तं प्रणवादिं च समुच्चार्य हुनेद्धविः ।
शिवत्रयं पुरा देवि ततः सिद्धत्रयं यजेत्

1,3.24

ततो गुरुत्रयं देवि कुलवृद्धान्गुरूत्तमः ।
योगिनीं पूजयित्वा तु लब्धानुज्ञो गुरुस्ततः

1,3.25

स शक्तिमानन्दशिवमूर्तिमाराधयामि च ।
तथा परानन्दशिवमूर्तिमाराधयामि च

1,3.26

एवं त्रिसिद्धमूर्तिं च श्रीबीजसहितं यजेत् ।
एवं त्रिगुरुमूर्तिं च मारबीजयुतं यजेत्

1,3.27

तत्त्वत्रयं गृहीत्वा च पुनर्न्यासं समाचरेत् ।
स्वयं शिवतनुर्भूत्वा शिवोऽहमिति भावयेत्

1,3.28

हृष्टं शक्तियुतं शिष्यं शिवद्रष्टा विलोकयेत् ।
स्ववामपार्श्वे संस्थाप्य तन्मूर्धनि विनिक्षिपेत्

1,3.29

मूलाभिमन्त्रितं भस्म तन्नेत्रं वस्त्ररोधितं ।
कृत्वा तन्मूर्ध्नि संप्रोक्ष्य शिववर्धनिवारिणा

1,3.30

त्रिधा स्वदक्षिणे हस्ते शिवं सावरणं यजेत् ।
विज्ञेयः शिवहस्तोऽयं भवपाशनिकृन्तनः

1,3.31

अङ्कुशीमूलमन्त्रं च त्रिवारं च समुच्चरेत् ।
शिष्यदक्षिणकर्णे च कुर्यान्मन्त्रोपदेशकं

1,3.32

पूर्वं गणपतेर्मन्त्रं क्षेत्रपालमनुं ततः ।
ऋषिस्तु गणकश्छन्दो न्यृचिद्गायत्रिका स्मृतं

1,3.33

देवो गणपतिर्ज्ञेयो न्यासं बीजाक्षरेण च ।
आदिवर्गतृतीयार्णं सार्धचन्द्रं गणाख्यकं

1,3.34

पतिं चतुर्थ्या संयुक्तं नमोऽन्तं मनुमुच्चरेत् ।
पाशाङ्कुशं मोदकं च बिभ्राणं स्वविपाणकं

1,3.35

गजाननं प्रवालाभं मकुटेन्दुकलाधरं ।
तुन्दिलं गणनाथं च ध्यात्वा लक्षं जपेन्मनुं

1,3.36

दशांशं तर्पणं होमं सगुडं सतिलं हुनेत् ।
कषबिन्दुयुतं क्षेत्रपालं च सचतुर्थिकं

1,3.37

नमोऽन्तं मनुमुच्चार्य न्यासं बीजाक्षरेण च ।
छन्दः पङ्क्तिर्मुनिर्ज्ञेयो भृगुर्देवश्च भैरवः

1,3.38

चतुर्भुजं शूलपात्रवरदाभयशोभितं ।
कालाम्बुदनिभं नागभूषणं किङ्किणीस्रजं

1,3.39

त्रिनेत्रं वक्रदंष्ट्रं च ध्यात्वा लक्षं जपेन्मनुं ।
दशांशं तर्पणं होमं पायसं त्रिमधुप्लुतं

1,3.40

हुनेदिति समादिश्य सामयाचारिकं भजेत् ।
देवतापरिचर्यां च शुश्रूषां च गुरोः कुरु

1,3.41

अतन्द्रितो जपं कुर्यात्शास्त्रश्रवणमादरात् ।
पूर्वोक्ताचारमार्गेण निरतो भव संततं

1,3.42

प्रह्वः कृताञ्जलिर्भूत्वा करिष्यामि तथा प्रभो ।
धन्योऽहं कृतकृत्योऽस्मि श्रीनाथ त्वत्प्रसादतः

1,3.43

इति विज्ञापयेच्छिष्यः समयाचारबृंहितः ।
प्रातस्तरां समुत्थाप्य गुरूंश्च शिरसि स्मरेत्

1,3.44

निवेद्यावश्यकं कर्म स्नातः संध्यां समाचरेत् ।
नद्यास्तीर्थे तटाके वा पुष्करिण्यां शुचौ जले

1,3.45

उपस्पृश्य च संकल्प्य नित्यतर्पणमाचरेत् ।
आदौ शिवत्रयं विघ्ननाथं क्षेत्राधिपं हरिं

1,3.46

ब्रह्माणं भास्करादींश्च ग्रहान्दुर्गां च मातृकाः ।
भैरवानसिताङ्गादीन्ततः सिद्धत्रयं वदेत्

1,3.47

आदिनाथं मीननाथं गोरक्षं कोङ्कणेश्वरं ।
जालन्ध्रेशं कन्धनीशं ओड्डीशं चिञ्चिणीश्वरं

1,3.48

चौरङ्गिं एतान्नाथाख्यान्नव संतर्पयेत्ततः ।
चौरङ्गिं चर्पटिं घोडाचूलिं रामद्वयं ततः

1,3.49

भोलगोविन्दसिद्धं च व्याडिं नागार्जुनं तथा ।
कोरण्डं शूर्पकर्णं च मुक्तायीं रेवणं तथा

1,3.50

सिद्धं कुक्कुरपादं च शूर्पपादं कणैरिकं ।
सिद्धं किङ्किणिकाख्यं च सिद्धान्षोडश तर्पयेत्

1,3.51

ततो गुरुत्रयं तर्प्य मातरं पितरं गुरुं ।
आचार्यं भ्रातरं मित्रं तर्प्य चान्यान्कुलोद्भवान्

1,3.52

तर्पयेद्विधिनाचम्य देवताराधनं ततः ।
नद्यास्तीरे तटाके वा गोष्ठे देवालये तथा

1,3.53

शुचिस्थले वा संस्तीर्य सैकतं वर्तुलाकृतिं ।
आवाहयेद्दिनाधीशं पाटलं शिवरूपिणं

1,3.54

द्विनेत्रपद्मयुगलधारिणं द्विभुजं परं ।
रक्तस्रगम्बरालेपभूषापद्मासनोज्ज्वलं

1,3.55

ध्यात्वार्चयेद्रक्तपुष्पैस्ततो विघ्नेशभैरवौ ।
ध्यात्वा पूर्वोक्तवत्तौ द्वौ रक्तपुष्पैः समर्चयेत्

1,3.56

अष्टाङ्गदण्डप्रणतिं कुर्यात्द्वादशवारकं ।
पुनः संस्थापयेत्स्वान्ते सेवायै स्वगुरोर्व्रजेत्

1,3.57

इत्युक्ता समया दीक्षा साधका कथ्यतेऽधुना ।
<साधकदीक्षा>
समयाचारनिरतं सच्छिष्यं पक्वमानसं

1,3.58

दीक्षयेत्सुदिने लग्ने दीक्षया साधकाख्यया ।
कुर्यान्नैमित्तिकीं पूजां शिष्यमावाहयेद्गुरुः

1,3.59

स्वयं शिवतनुः शिष्यं गौरीगर्भगतं स्मरेत् ।
भूमौ विभूतिं संस्तीर्य तस्मिन्कोणत्रयं लिखेत्

1,3.60

तत्रोपवेश्य शिष्यं च बन्धयित्वा विलोचने ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः

1,3.61

जातकर्म च दीक्षाङ्गं नामधेयं च कल्पयेत् ।
व्रतकर्मणि सम्प्रोक्ष्य मूलमन्त्रेण भस्मना

1,3.62

गौरीपुत्रं भावयित्वा तस्य दीक्षां प्रकल्पयेत् ।
शिवदृष्ट्या विलोक्यामुं शिवभस्म च मूर्धनि

1,3.63

निधाय मूलमन्त्रं च पूजयेद्दशवारकं ।
तस्य दक्षिणकर्णे च उपदिश्याद्दशाक्षरं

1,3.64

<रसगायत्री>
रसेन्द्रभैरवं मन्त्रं गायत्रीं रससंज्ञिकां ।
स बिन्दुहुतभुग्बीजं रसेन्द्रस्य पदं ततः

1,3.65

भैरवं च चतुर्थ्यन्तं कर्मास्त्रं च दशांशकं ।
वह्निबीजं दीर्घयुक्तं करन्यासं समाचरेत्

1,3.66

अघोराख्य ऋषिश्छन्दो विराड्देवो महेश्वरः ।
पूर्वसेवाजपं लक्षं दशांशं होमतर्पणं

1,3.67

तिलाज्यव्रीहिभिः कुर्याद्धोमं निश्चलमानसः ।
पूर्वोक्तां रसगायत्रीं जपेल्लक्षं च तर्पणं

1,3.68

हुनेद्दशांशमाज्येन सतिलव्रीहिभिः प्रिये ।
दद्याच्छिष्यायाक्षमालां रसलिङ्गं रसागमं

1,3.69

पूर्वोक्ताचारवान्भूत्वा रसलिङ्गं समर्चयेत् ।
स्वशास्त्रार्थावगमनं कुर्यात्सूतेन्द्रसंस्कृतिं

1,3.70

गुरुसेवारतं नित्यं शिष्यमाज्ञापयेदिति ।
शिष्यो बद्धाञ्जलिर्नम्रस्तवाज्ञां आचराम्यहं

1,3.71

इत्युक्ता साधका दीक्षा निर्वाणाख्या प्रशस्यते ।
<निर्वाणदीक्षा>
कृतनित्यक्रियः पूर्वं कृतनैमित्तिकार्चनः

1,3.72

पूर्ववच्छिवकुम्भादि वर्धनीं स्थापयेत्क्रमात् ।
स्ववामे भस्म संस्तीर्य षट्कोणं भूगृहं लिखेत्

1,3.73

शिष्यं संवेश्य कुम्भस्थजलैः संप्रोक्षयेद्गुरुः ।
मूलाभिमन्त्रितं भस्म तस्य मूर्ध्नि निक्षिपेत्

1,3.74

गन्धपुष्पाक्षतं दद्यात्बध्नीयाद्दक्षिणे करे ।
कङ्कणं चरणाङ्गुष्ठब्रह्मरन्ध्रान्तमानकं

1,3.75

सूत्रं तन्मूलमन्त्रेण मन्त्रितं सुरभीकृतं ।
शिवहस्तं च तन्मूर्ध्नि निधाय गुरुसत्तमः

1,3.76

रसांकुशां द्वादशार्णां उपदिश्यान्मनुं परं ।
रसभैरवदैवत्यं दद्याच्छिष्याय देशिकः

1,3.77

ऋषिश्छन्दो देवता च न्यासं पूर्वोक्तवत्प्रिये ।
तर्पणं चाथ होमं च ध्यानं कुर्याच्च पूर्ववत्

1,3.78

उत्थाय च गुरुं नत्वा बहुशः स्तोत्रमुच्चरेत् ।
गुरुः शिष्याय वै दद्याद्व्याघ्रचर्मासनं च यत्र

1,3.79

भस्त्रिकां वस्त्रसम्पूर्णां दद्याद्भैषज्यभस्त्रिकां ।
रसागमं पाठयित्वा भव शिष्य चिकित्सकः

1,3.80

रुद्ररूपी भवान्जातः सर्वभूतहितो भव ।
इत्यादिशेद्गुरुः शिष्यं शिष्यो हृष्टमनास्ततः

1,3.81

कृतकृत्योऽस्मि पूतोऽस्मि तीर्णसंसारसागरः ।
इति विज्ञापयेच्छिष्यः स्तुत्वा च बहुधा गुरुं

1,3.82

प्रोक्ता निर्वाणदीक्षेयं अथाचार्याभिषेचनं ।
<आचार्यदीक्षा>
निर्वाणदीक्षितस्यास्य शिष्यस्यापि महात्मनः

1,3.83

आचार्यदीक्षां कुर्वीत यथावद्गुरुसत्तमः ।
यथा निर्वाणदीक्षायास्तथा सर्वं प्रकल्पयेत्

1,3.84

विशेषाच्छिववर्धन्योः पुरतः स्थापयेद्घटं ।
रूप्यगन्धादिलोहाशादिव्यौषधगणान्वितं

1,3.85

शिवकुम्भवदन्यच्च सर्वमस्मिन्विनिक्षिपेत् ।
गुरुकुम्भं जपेत्स्पृष्ट्वा मूलमष्टोत्तरं शतं

1,3.86

गुरुकुम्भमिमं विद्धि गुरुमन्त्रेण पूजयेत् ।
आवाहनासनार्घ्याद्यैरुपचारैश्च षोडशैः

1,3.87

शिवादिपङ्क्तिं तत्रैव पूजयेद्गुरुणा सह ।
यथापूर्वं समासीनं शिष्यं चैकाग्रमानसं

1,3.88

पूर्ववच्छिववर्धन्योरम्बुना परिषेचयेत् ।
पूर्ववच्छिवहस्तं च मूलमन्त्रोपदेशकं

1,3.89

कृत्वा तदुत्तमाङ्गे च गुरुपङ्क्तिं गुरुं तथा ।
आवाहनाद्यैः सम्पूज्य गन्धस्रग्दीपकैः

1,3.90

फलगन्धोत्तमोपेतैर्नैवेद्यैः पूजयेत्क्रमात् ।
गुरुः कुम्भजलैः कुर्यात्प्रोक्षणं पञ्चपल्लवैः

1,3.91

मूलमन्त्रेण शतधा शिवपङ्क्त्या त्रिसप्तधा ।
तथैव सिद्धपङ्क्त्या च गुरुपङ्क्त्या तथैव च

1,3.92

शिष्याय गुरुभक्ताय शक्तियुक्ताय धीमते ।
हारकेयूरकटकमुद्रिकामकुटानि च

1,3.93

वाहनासनसच्छत्रचामरव्यजनानि च ।
मणिकुण्डलयुग्मं च भूत्याढ्यं पात्रमक्षयं

1,3.94

सशिरस्त्राणमुष्णीषं पट्टकूर्पासमुत्तमं ।
योगपट्टं योगदण्डं तथैवोड्याणबन्धनं

1,3.95

दद्यात्तस्मै तथैवाज्ञां त्वमाचार्योऽसि संप्रति ।
ईश्वरोऽस्यद्य धन्योऽसि सर्वेषां देशिको भव

1,3.96

रसागमानां दिव्यानां व्याख्याता भव तत्त्ववित् ।
इत्यादिशेद्गुरुः शिष्यं प्रणतं गुरुवत्सलं

1,3.97

इति चाचार्यदीक्षेयं सिद्धदीक्षाद्य कथ्यते ।
<सिद्धदीक्षा>
नवं सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं

1,3.98

वीराः शक्तियुताः पूज्याः एकविंशति चान्वहं ।
तत्संख्या योगिनः पूज्याः कुमाराः कन्यकाः स्त्रियः

1,3.99

गन्धपुष्पाक्षतैः पुष्पैः फलगन्धोत्तमार्पणैः ।
तोषयित्वा प्रदद्याच्च वस्त्राभरणदक्षिणाः

1,3.100

अथासनसमासीनं शिष्यं भक्तियुतं शुचिं ।
स्पृष्ट्वा कराभ्यां तच्छीर्षं दक्षिणे श्रवणे मनुं

1,3.101

वह्निं सबीजं शीतांशुं सविसर्गं च दीक्षयेत् ।
मूलाधारात्समुद्भूतं रेफं वह्निशिखोपमं

1,3.102

षडाधाराम्बुजं तीर्त्वा ब्रह्मरन्ध्रान्तगं स्मरेत् ।
ब्रह्मरन्ध्राद्द्रवीभूतं सकारं सोमरूपिणं

1,3.103

आप्लावयन्तं सर्वाङ्गं सिद्धः संचिन्तयेन्मनुं ।
उच्छ्वासनिश्वासभवं संहारस्थितिकारणं

1,3.104

ज्ञात्वेत्थं मनसा नित्यं सर्वमन्त्रात्मकं सदा ।
सर्वदेवमयं पुण्यं सर्वसिद्धिप्रदायकं

1,3.105

जीवतो मुक्तिदं शुद्धं शिवशक्त्यात्मकं परं ।
रसमन्त्रमिमं विद्धि चाग्नीषोमात्मकं भज

1,3.106

एकविंशतिसाहस्रषट्शताधिकसंख्यकं ।
प्रवर्तितं दिवारात्रं मनस्तत्र निधेहि च

1,3.107

मन्त्रस्यास्य ऋषिर्जीवश्छन्देत्युक्ताः प्रकीर्तिताः ।
रसो देवस्तु रं बीजं सं शक्तिस्तु प्रकीर्तितः

1,3.108

रेफदीर्घयुतं कुर्यात्कराङ्गन्यासमाचरेत् ।
ध्यायेद्धृदम्बुजे देवि कोटिसूर्येन्दुसन्निभं

1,3.109

शुद्धस्फटिकसंकाशं रसं संसारपारदं ।
एवं निष्कलरूपं तं ध्यात्वा तन्मयतां व्रजेत्

1,3.110

<निष्कलरसस्तोत्रम्>
त्वं रसस्त्वं शिवस्त्वं हि शक्तिस्त्वं भैरवेश्वरः ।
त्वं ब्रह्मा त्वं हि रुद्रश्च सूर्यस्त्वं शीतदीधितिः

1,3.111

त्वं भूस्त्वं सलिलस्त्वं च वह्निस्त्वं च सदागतिः ।
त्वं व्योम त्वं पराकाशः त्वं जीवस्त्वं परा गतिः

1,3.112

त्वं सिद्धस्त्वं प्रबुद्धस्त्वं सुगन्धस्त्वं च मन्मथः ।
त्वं लोकपालस्त्वं तारा मातृकास्त्वं गजाननः

1,3.113

त्वं स्कन्दस्त्वं गुरुस्त्वं च त्वं सर्वजनकः शुचिः ।
त्वं यज्वा त्वं हरिस्त्वं च त्रेताग्निस्त्वं च ऋत्विजः

1,3.114

येन त्वमर्च्यसे तेन पूजिताः सर्वदेवताः ।
त्वयि तुष्टे च संतुष्टा ब्रह्मविष्णुमहेश्वराः

1,3.115

त्वत्पादोदकपानेन सर्वतीर्थफलं लभेत् ।
यस्त्वां पश्यति सद्भक्त्या तं आलोकयते शिवः

1,3.116

यस्त्वां संकीर्तयेत्तस्य सर्वमन्त्रफलं भवेत् ।
यत्र त्वं क्षणमात्रे च पुण्यक्षेत्रं तदुच्यते

1,3.117

त्वं यं पश्यति सिद्धेन्द्र स ब्रह्मा विष्णुरीश्वरः ।
यत्र भुङ्क्षेऽन्नकवलं तत्र त्रैलोक्यमति हि

1,3.118

येन त्वं ध्रियसे नाथ त्वयायं स्त्रियतेक्षणं ।
स एव चित्सदानन्दः परमात्मा ध्रुवं भवेत्

1,3.119

एवं निश्चितचित्तस्य सिद्धस्य तव योगिनः ।
वर्णाश्रमसदाचाराः कृत्याकृत्यविवेकतः

1,3.120

पापं पुण्यं सुखं दुःखं शीतमुष्णं प्रियाप्रिये ।
स्नानास्नानं हानिवृद्धी शुद्धाशुद्धं भयाभयं

1,3.121

ग्राह्याग्राह्यं क्षुधा तृष्णा न किंचिदिह विद्यते ।
स्वेच्छाहारविहारश्च सुखी संहृष्टमानसः

1,3.122

निर्ममः सर्वकार्येषु कलत्रादिषु बन्धुषु ।
एवमाचार्यवचनमङ्गीकृत्य च दीक्षितः

1,3.123

अद्य प्रभृति वन्द्यस्त्वं मा कुरु प्रणतिं क्वचित् ।
मत्समानोऽसि सिद्धोऽसि जीवन्मुक्तोऽसि संप्रति

1,3.124

इत्युक्त्वाचार्यवर्योऽपि सिद्धमालिङ्ग्य च क्षणं ।
सिद्धदीक्षेयमाख्याता शिवसायुज्यदायिनी

1,3.125

दुर्लभा सर्वतन्त्रेषु तव प्रीत्या प्रकाशिता ।
देवीत्थमेव मन्तव्यं दुर्लभं समयेषु च

1,4.1

âक्, १, ४
<रससंकाराः>
श्रीभैरवी ।
रससंस्कारमीश त्वं यथावत्कथयस्व मे ।
श्रीभैरवः ।
अष्टादश स्युः संस्कारा रसस्य परमेश्वरि

1,4.2

तान्सिद्धसाधकाभ्यर्च्ये यथावत्कथयामि ते ।
अथादौ स्वेदनं कर्म द्वितीयं मर्दनं प्रिये

1,4.3

मूर्छा तृतीयमुत्थानं चतुर्थं पातनं शिवे ।
पञ्चमं रोधनं षष्ठं नियामं सप्तमं स्मृतं

1,4.4

दीपनं चाष्टमं देवि नवमं चानुवासनं ।
दशमं चारणं देवि जारणं रुद्रसंख्यकं

1,4.5

गर्भद्रुतिर्द्वादशी स्यात्बाह्यद्रुतिस्त्रयोदशी ।
चतुर्दशं स्याद्रागाख्यं सारणा दशपञ्चमी

1,4.6

अनुसारणा षोडशी च विख्याता प्रतिसारणा ।
सप्तदशी चाष्टदशं वेधनं देहलोहयोः

1,4.7

<रससंस्कारप्रकारः>
अथ वक्ष्यामि संस्कारान्रसराजस्य पार्वति ।
लिङ्गस्य दक्षिणे भागे लिखेत्षट्कोणमण्डले

1,4.8

तद्बहिश्चाष्टपत्रं च कमलं चतुरश्रकं ।
दिग्द्वारशोभितं तस्य कर्णिकायां न्यसेच्छिवे

1,4.9

ताम्रजं कान्तजं वापि खल्वं तु स्वर्णरेखितं ।
तन्मध्ये रसराजं तु पलानां शतमात्रकं

1,4.10

तदर्धं वा तदर्धं वा क्षिप्त्वा भक्त्या प्रपूजयेत् ।
साधको रसराजस्य ततः संस्कारमाचरेत्

1,4.11

<स्वेदनम्, धान्याम्लसन्धानप्रकारः>
यवगोधूमकलममाषमुद्गचणादिभिः ।
श्यामाककोद्रवाद्यैश्च नानाधान्यैश्च निस्तुषैः

1,4.12

धान्यं चतुर्गुणजले मृद्घटे निक्षिपेत्प्रिये ।
प्राप्नोति यावदम्लत्वं तावद्यत्नेन रक्षयेत्

1,4.13

तन्मध्ये हंसपादीं च मीनाक्षीं द्विपुनर्नवां ।
चित्रकं भृङ्गराजं च विष्णुक्रान्तां शतावरीं

1,4.14

सर्पाक्षीं गिरिकर्णीं च मुण्डीं च सहदेविकां ।
त्रिफलां खण्डशः कृत्वा सर्वानेतान्विनिक्षिपेत्

1,4.15

धान्यस्य च चतुर्थांशान्धान्याम्लमिदमुत्तमं ।
स्वेदनादिषु कार्येषु पारदस्य विशिष्यते

1,4.16

आतप्ते कान्तजे खल्वे रसराजं विनिक्षिपेत् ।
चूर्णं च गृहधूमं च चित्रकं त्रिफलां गुडं

1,4.17

दग्धोर्णामिष्टकां कन्यां लवणं बृहतीद्वयं ।
मागधीं राजिकां चैव वन्ध्यां कर्कोटकीं तथा

1,4.18

एतान्कलांशान्सूतस्य तस्मिन्क्षिप्त्वा विमर्दयेत् ।
दत्त्वा दत्त्वाथ धान्याम्लमेवं कृत्वा दिनत्रयं

1,4.19

सम्यक्सोष्णारनालेन रसं प्रक्षालयेत्प्रिये ।
पटुं राजीं त्रिकटुकं मूलकं चित्रकं वरां

1,4.20

पुनर्नवां मेषशृङ्गीं मेघनादं दुरालभां ।
आर्द्रकं रजनीं नागबलां च नवसारकं

1,4.21

समं धान्याम्लकैः पिष्ट्वा श्लक्ष्णं वस्त्रे प्रलेपयेत् ।
यावदङ्गुलिमात्रं च तस्मिन्पूर्वरसं क्षिपेत्

1,4.22

तद्बद्ध्वा ताम्रजे पात्रे क्षिप्त्वा धान्याम्लपूरिते ।
घटे दोलाख्ययन्त्रे च स्वेदयेत्तमहर्निशं

1,4.23

तमुद्धृत्य पुनः सोष्णैरारनालैः शरावके ।
प्रक्षालयेत्सूतराजमेवं कुर्यात्त्रिसप्तधा

1,4.24

प्रस्वेदितं सूतराजं ततः संमर्दयेत्प्रिये ।
<मर्दनम्>
अथातो मर्दनं कर्म वक्ष्यामि शृणु भैरवि

1,4.25

चूर्णादिपूर्ववद्द्रव्यं विशालां राजवृक्षकं ।
अङ्कोलं कृष्णधुत्तूरं त्रिकटुं च समं समं

1,4.26

सर्वं सूतकलांशं च तप्तखल्वे रसं क्षिपेत् ।
मर्दयेत्पूर्वधान्याम्लैर्दिवारात्रं पुनश्च तं

1,4.27

क्षालयेन्मृण्मये पात्रे ततः सोष्णारनालकैः ।
मर्दनं क्षालनं चैवमेकविंशतिवासरं

1,4.28

एवं विमर्दितं सूतं समादायाथ मूर्छयेत् ।
अभ्रजीर्णोऽथवा बीजजीर्णः सूतोऽपि मर्द्यते

1,4.29

चूर्णादिपूर्वद्रव्यैश्च रागान्गृह्णाति निर्मलः ।
<मूर्च्छा>
अथ मूर्छां प्रवक्ष्यामि शृणु त्वं सावधानतः

1,4.30

राजिका मेषशृङ्गी च चित्रकं च फलत्रयं ।
क्षीरकन्दं सूरणं च सर्पाक्षी काकमाचिका

1,4.31

नीला वचा बला कन्या कृष्णोन्मत्तस्तथाकुली ।
श्वेतापराजिताङ्कोलं गोजिह्वा गरुडी तथा

1,4.32

एतेषां स्वरसैर्मर्द्यो रविक्षीरेण पारदः ।
व्यस्तानां वा समस्तानां रसैरेषां दिनावधि

1,4.33

मर्दयेत्तप्तखल्वे च मूषायां तं रसं क्षिपेत् ।
निरुध्य भूधरे यन्त्रे विपचेत्तं पुनः प्रिये

1,4.34

राजिकाद्यौषधभवै रसैस्त्रिः सप्तवासरं ।
मर्दनं भूधरे पाकं कुर्यात्संमूर्छितो रसः

1,4.35

भवेत्तदुत्थानविधिं प्रकुर्वीत सुरार्चिते ।
<उत्थापनविधिः>
एवं संमूर्छितं सूतं क्षालयेत्कांजिकेन च

1,4.36

सोष्णेन वारिणा वापि सूतमुत्थापयेत्प्रिये ।
पातनायन्त्रयोगे वा रसस्योत्थापनं भवेत्

1,4.37

<पातनम्>
पातनं त्रिविधं प्रोक्तं रसराजस्य पार्वति ।
ऊर्ध्वपातमधःपातं तिर्यक्पातनमुच्यते

1,4.38

<ऊर्ध्वपातनविधिः>
रसस्य पातनं वक्ष्ये पाठा ब्राह्मी च चित्रकं ।
शाङ्गेरी काकमाची च मण्डूकी गिरिकर्णिका

1,4.39

कुमारी च जया भृङ्गी गोजिह्वा शङ्खपुष्पिका ।
भूपाटली च निर्गुण्डी काकजङ्घा शतावरी

1,4.40

आर्द्रकं देवदाली च तिलपर्णी च नीलिका ।
आरग्वधः क्षीरकन्दमङ्कोलो देवदारु च

1,4.41

एषां रसैः समस्तानां व्यस्तानां वा दिनं रसं ।
मर्दयेत्तप्तखल्वे तत्शुल्बं सूतचतुर्थकं

1,4.42

तं पिष्ट्वा पातयेद्यन्त्रे ह्यूर्ध्वपातनके दिनं ।
ऊर्ध्वलग्नं रसं शुद्धं तमादायाथ मर्दयेत्

1,4.43

पूर्वोदितौषधरसैः पूर्ववत्शुल्बसंयुतं ।
पातयेन्मर्दयेदेवं सप्तधैवं पुनः पुनः

1,4.44

ऊर्ध्वपातनसंशुद्धं पारदं पातयेदधः ।
<अधःपातनविधिः>
अथाधःपातनं वक्ष्ये त्र्यूषणं लवणं वरां

1,4.45

चित्रकं राजिकां शिग्रुं सर्वं सूतसमं क्षिपेत् ।
मर्दयेत्तप्तखल्वे च रसं धान्याम्लकेन च

1,4.46

तत्कल्केन लिपेदूर्ध्वं भाण्डं सम्यक्निरोधयेत् ।
ऊर्ध्वभाण्डस्य पृष्ठे तु दद्याल्लघुपुटं ततः

1,4.47

इत्यधःपातनं कुर्यात्सप्तवारं पुनः पुनः ।
अधःपातनशुद्धस्य तिर्यक्पातनमाचरेत्

1,4.48

<तिर्यक्पातनविधिः>
वक्ष्यामि तिर्यक्पतनं सूतं धान्याभ्रकं समं ।
धान्याम्लैर्मर्दयेद्यामं तिर्यक्पातनयन्त्रके

1,4.49

चण्डाग्निना पचेदेवं सप्तवारं पुनः पुनः ।
एवं त्रिधा पातितं च ततः सूतं निरोधयेत्

1,4.50

अभ्रकं वाथ गन्धं वा माक्षिकं विमलामपि ।
स्वर्णं वा रजतं वापि कान्तं वा तीक्ष्णमेव वा

1,4.51

प्रत्येकं शोधितं देयं ताम्रवत्पादमात्रकं ।
पाठादिकरसैः कुर्यान्मर्दनं पातनं क्रमात्

1,4.52

यद्यद्द्रव्यान्वितः सूतस्तत्तद्द्रव्यगुणप्रदः ।
पातने ताम्रयोगेन नागवङ्गौ त्यजेद्रसः

1,4.53

अथवा दीपिकायन्त्रे शुद्धः स्यात्पातितो रसः ।
<निरोधनम्>
कदर्थितो भवेत्सूतः स्वेदाद्यैः पञ्चकर्मभिः

1,4.54

आप्यायनार्थं सूतस्य कर्म कुर्यान्निरोधनं ।
अथ कर्म निरोधाख्यं पेषयेल्लवणं जलैः

1,4.55

स्थालीमध्ये रसं क्षिप्त्वा तदूर्ध्वं लवणं क्षिपेत् ।
किंचिज्जलं च निवपेत्तं शरावेण रोधयेत्

1,4.56

कुर्यात्सम्यक्सन्धिलेपं तदूर्ध्वं च पुटेल्लघु ।
एवं निरोधनं कर्म विदध्यात्सप्तधा प्रिये

1,4.57

आप्यायितो भवेत्सूतोऽनेन षण्डत्ववर्जितः ।
निरोधकर्मसिद्धोऽसौ वीर्यवान्सुनियम्यते

1,4.58

<नियामनम्>
अथो नियामनं कर्म कथयामि वरानने ।
यवचिञ्चा क्षीरकन्दं सर्पाक्षी पटु भृङ्गराट्

1,4.59

वन्ध्या कर्कोटकी निम्बः सर्वं धान्याम्लपेषितं ।
कृत्वालोड्यारनालेन तद्द्रवैः स्वेदयेद्दिनं

1,4.60

यन्त्रे नियामके सप्तवासरं तं च दीपयेत् ।
<दीपनम्>
अथातो दीपनं कर्म वदामि तव पार्वति

1,4.61

स्वर्णपुष्पी च मरीचं त्रिक्षारं पञ्चपुष्पिका ।
भूखगः पञ्चलवणं राजिका शिग्रुमूलकं

1,4.62

कासीसं विजया कन्या पातालगरुडी कणा ।
क्षीरकन्दं च कर्कोटी गिरिकर्णी जया मधु

1,4.63

चित्रकं काकजङ्घा च सर्वमम्लगणेन च ।
कल्कयेत्पारदं तेन मर्दयेत्तद्द्रवैरपि

1,4.64

डोलायन्त्रे पचेदेकदिनमेवं च सप्तधा ।
मर्दनं पाचनं कुर्यात्ग्रासार्थी दीपितो रसः

1,4.65

एवं प्रदीपितं सूतं शुद्धं तमनुवासयेत् ।
<अनुवासनम्>
अथानुवासनं कर्म मृत्पात्रे दीपितं रसं

1,4.66

क्षिप्त्वा जम्बीरजद्रावैस्तीव्रघर्मेऽनुवासयेत् ।
एवं सप्तदिनं कुर्यात्ततश्चारणमाचरेत्

1,4.67

नवभिः स्वेदनाद्यैश्च शुद्धः स्यात्कर्मभिः प्रिये ।
पारदः सर्वरोगघ्नः सप्तकञ्चुकवर्जितः

1,4.68

श्रीभैरवी ।
स्वेदनादीनि कर्माणि श्रुतानि वद शङ्कर ।
त्वत्प्रसादादसंदेहं संशृण्वे चारणादिकं

1,4.69

श्रीभैरवः ।
साधु पृष्टं महाभागे शृणु तच्चारणादिकं ।
<चारणविधिः>
अथाभ्रचारणं कर्म वक्ष्यामि परमेश्वरि

1,4.70

समुखे वा निर्मुखे वा रसे वा वासनामुखे ।
गगनं चारयेद्गर्भपिष्टिग्रासक्रमैः क्रमात्

1,4.71

<समुखचारणम्>
अत्रादौ कथ्यते देवि समुखं चारणं स्फुटं ।
समुखो ग्रसति ग्रासं निर्मुखो ग्रसनाक्षमः

1,4.72

तस्मात्परं रसेन्द्रस्य मुखीकरणमाचरेत् ।
<प्रथमो मुखीकरणप्रकारः>
इष्टकामध्यभागे तु गम्भीरं वर्तुलं समं

1,4.73

गर्तं कृत्वा तत्र सूतं प्रक्षिपेदनुवासितं ।
निरुन्ध्यात्स्वच्छवस्त्रेण रसस्य दशमांशकं

1,4.74

गन्धं तदूर्ध्वं निक्षिप्य शरावेण निरोधयेत् ।
तत्पृष्ठेऽल्पपुटं दद्यात्गन्धे जीर्णे पुनः पुनः

1,4.75

क्षिप्त्वा क्षिप्त्वा शतगुणं चारयेत्पातयेदिति ।
चतुर्गुणे सान्द्रवस्त्रे गालयेत्तं रसेश्वरं

1,4.76

वेणौ क्षिप्त्वा निरुध्यास्यं पचेद्गोमूत्रपूरिते ।
भाण्डे त्रिसप्तदिवसं पुनस्तं तप्तखल्वके

1,4.77

जम्बीरमातुलुङ्गाम्लवेतसैर्भूखगैस्त्र्यहं ।
भूनागैश्च त्र्यहं मर्द्यं तं पश्चादिष्टकोदरे

1,4.78

एकैकं गर्तमादद्याद्धान्याभ्रं गन्धकं तथा ।
प्रत्येकं दशनिष्कं च यामं जम्बीरमर्दितं

1,4.79

अनेन लेपयेद्गर्तद्वयं एकेष्टकान्तरे ।
गर्ते क्षिप्त्वाथ तं तं विंशन्निष्कं तदूर्ध्वतः

1,4.80

अपरां इष्टकां दद्यात्तत्सन्धिं लोणमृत्स्नया ।
दृढं लिप्त्वाथ दीपाग्नौ पचेत्सप्तदिनावधि

1,4.81

इष्टकां स्वाङ्गशीतां तां अवतार्य हरेद्रसं ।
किट्टहीनं पुनरपि कुर्यादित्थं त्रिवारकं

1,4.82

एवं कृते रसेन्द्रस्य सुखं स्याद्देवसंज्ञकं ।
<द्वितीयो मुखीकरणप्रकारः>
पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमं

1,4.83

रसेन्द्रं जीविभूनागसमं संमर्दयेत्त्र्यहं ।
तत्क्षिपेत्भूलतालिप्तमूषायां संनिवेशयेत्

1,4.84

तदूर्ध्वं भूलताकल्कं क्षिप्त्वा रुद्ध्वा विशोषयेत् ।
आर्द्रगोमयलिप्तां तां पादमग्नां निवेशयेत्

1,4.85

तद्गर्ते च पुटं देयं तुषकारीषवह्निना ।
दिनान्ते तत्समुद्धृत्य पूर्ववन्मर्दयेत्पचेत्

1,4.86

त्रिंशद्वारं पुनः कुर्यादित्थं वह्निमुखो रसः ।
ग्रसते गुह्यसूतोऽयं सर्वसिद्धिप्रदो भवेत्

1,4.87

<तृतीयो मुखीकरणप्रकारः>
पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमं ।
गोमूत्रपूरिते भाण्डे डोलायन्त्रे पचेद्रसं

1,4.88

त्रिः सप्तवारं सम्यक्च रन्ध्रितं वेणुनालके ।
मुखं भवति सूतस्य चारणार्हं वरानने

1,4.89

<चतुर्थो मुखीकरणप्रकारः>
इष्टकाद्वयमध्ये च गर्तं तु चतुरङ्गुलं ।
दशनिष्कं शुद्धगन्धं धान्याभ्रं दशनिष्ककं

1,4.90

जम्बीरनीरैः संमर्द्य यामं कल्केन तेन च ।
गर्तद्वयं समांशेन लिप्त्वा गर्ते विनिक्षिपेत्

1,4.91

वासितं रसराजं तं विंशन्निष्कं तदूर्ध्वतः ।
इष्टकामपरां न्यस्य श्लक्ष्णमृल्लवणैर्दृढं

1,4.92

लेपयेदथ दीपाग्निमधः प्रज्वालयेत्प्रिये ।
अनुस्यूतं सप्तरात्रं स्वाङ्गशीतं समुद्धरेत्

1,4.93

किट्टं विहाय तं सूतं पूर्ववच्च त्रिवारकं ।
कुर्यादेवं हि सूतस्य मुखं भवति शोभनं

1,4.94

<निर्मुखचारणाप्रकारः>
दिव्यौषधिप्रभावेन रसश्चरति निर्मुखः ।
अथवा वज्रवैक्रान्तस्पर्शादभ्रादिकं चरेत्

1,4.95

पारदस्य चतुःषष्टिनिष्कं वैक्रान्तभस्म च ।
चतुर्निष्कं वज्रभस्म निष्कं दिव्यौषधिद्रवैः

1,4.96

सर्वं सप्तदिनं मर्द्य स रसोऽभ्रादिकं चरेत् ।
<वासनामुखचारणम्>
गन्धकं जारयेत्सूते दोलाख्ये पूर्वभाषिते

1,4.97

यन्त्रे च षोडशगुणं रसः स्याद्वासनामुखः ।
<अभ्रकाभिषेकः चारणीयाभ्रकस्य संस्कारः>
चारणार्हाभ्रकस्याहं अभिषेकं वदामि ते

1,4.98

<प्रथमः प्रकारः>
मृतमभ्रं तु रुधिरैः क्षारैर्जलकणैरपि ।
सृष्टित्रयैस्तुम्बुरुभिर्मर्दयेदम्लवर्गकैः

1,4.99

सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।
<द्वितीयः प्रकारः>
मृतमभ्रं च कदली मूलकं च शतावरी

1,4.100

पुनर्नवा मेघनादो यवचिञ्चा च शिग्रुकः ।
सूरणं च रसैरेषां मर्दयेद्भावयेत्प्रिये

1,4.101

सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।
<तृतीयः प्रकारः>
शुल्वपात्रे तु लवणसर्जिटङ्कणभूखगान्

1,4.102

क्षिप्त्वारनालं त्रिदिनं कुर्यात्पर्युषितं यथा ।
तस्मिन्नागं तु विद्राव्य ढालयेच्छतधा प्रिये

1,4.103

रौप्यकर्मणि वङ्गस्य तद्द्रवैर्भावयेद्घनं ।
सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा

1,4.104

<चतुर्थः प्रकारः>
धान्याभ्रमर्कक्षीरेण मर्दयेदेकवासरं ।
निरुध्य संपुटे पच्यात्कपोताख्ये पुटे पुनः

1,4.105

चतुर्वारं पुटेदेवं मर्दयेच्च पुनस्तथा ।
रम्भाद्रवैस्त्रिधा मर्द्यं मूलकस्य द्रवैस्त्रिधा

1,4.106

काकमाची मेघनादो मत्स्याक्षी च पुनर्नवा ।
अपामार्गश्चित्रकं च विदारी भृङ्गराण्मुनिः

1,4.107

चतुर्वारं पचेदेवं मर्दयेच्च पुनस्तथा ।
एतैरेकैकधा मर्द्यं पुटपाकं पृथक्पृथक्

1,4.108

तदभ्रकं भावयेच्च मुसली यवचिञ्चिकाः ।
तण्डुली कदली शिग्रुर्वरी चार्कः पुनर्नवा

1,4.109

एकैकैश्च द्रवैर्भाव्यमेकैकं दिवसं पृथक् ।
तदभ्रकं पारदेन्द्रश्चरत्येव सुरार्चिते

1,4.110

<पञ्चमः प्रकारः>
धान्याभ्रं रविदुग्धेन मर्दयेद्याममात्रकं ।
तदभ्रं संपुटे रुद्ध्वा कपोताख्यपुटे पचेत्

1,4.111

वारांश्चतुर्दशैवं स्यात्ततो रम्भार्कपीलुकाः ।
नागवल्ली च मुसली कुबेराक्षी च शिग्रुकः

1,4.112

तुम्बी तुम्बुरुरङ्कोलबलापामार्गकाः प्रिये ।
गृहीत्वैषामेकरसं सव्योषं च सकांजिकं

1,4.113

भाण्डमध्ये विनिक्षिप्य डोलायन्त्रे पचेत्त्र्यहं ।
पूर्वाभ्रं च ततस्तस्मात्समुद्धृत्याथ साधयेत्

1,4.114

टङ्कणं तुवरी सिन्धुकासीसं च समं समं ।
अभ्रकस्य दशांशं तु सर्वमेतद्विमर्दयेत्

1,4.115

तदभ्रकं चरेत्सूतः समुखो निर्मुखोऽथवा ।
<षष्टः प्रकारः>
मुण्डीद्रवे तु शतधा द्रुतं नागं प्रढालयेत्

1,4.116

तद्द्रवेण च धान्याभ्रं मर्दयेत्संपुटे क्षिपेत् ।
रुद्ध्वा पचेत्कपोताख्ये पुटे चैवं तु सप्तधा

1,4.117

आर्द्रकस्य द्रवैरेवं सप्तधा चित्रकद्रवैः ।
तत्समं गन्धकं दत्त्वा मर्दयेद्भावयेत्क्रमात्

1,4.118

प्रागुक्तमुण्डीस्वरसैर्बीजपूररसेन च ।
स्तन्यैरेकदिनं भाव्यं तदभ्रं च चरेद्रसः

1,4.119

एवं सर्वाणि बीजानि सत्त्वं चाभ्रकस्य च ।
स्वर्णादिसर्वलोहानि सत्वानि विविधानि च

1,4.120

द्वन्द्वानि सर्वरत्नानि यद्यत्स्याच्चारणार्हकं ।
तत्तत्पिष्ट्वाभ्रवत्कार्यं तत्तच्चरति पारदः

1,4.121

<सप्तमः प्रकारः>
तिलपर्णीरसैः पिष्ट्वा धान्याभ्रं पुटयेत्त्रिधा ।
सप्तधा भावयेदस्य मर्दनेन च पारदः

1,4.122

पिष्टतां याति सहसा गगनं चरति क्षणात् ।
<अष्टमः प्रकारः>
त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसटङ्कणं

1,4.123

भूखगं हेममाक्षीकं सौराष्ट्री वत्सनाभकं ।
तुवरी वेतसाम्लं च सर्वमेतत्समांशकं

1,4.124

तत्समांशं तु धान्याभ्रं धान्याम्लैर्मर्दयेद्दिनं ।
अर्कक्षीरं भृङ्गराजो मेघनादः पुनर्नवा

1,4.125

मूलकं चित्रकं रंभा काकमाची शतावरी ।
अपामार्गस्तालमूली विदारी तण्डुली मुनिः

1,4.126

मीनाक्षी शिग्रु बृहती कुमारी यवचिञ्चिका ।
बला तुम्बी कुबेराक्षी व्योषं तुम्बुरुपीलुनी

1,4.127

अङ्कोलः फणिवल्ली च सर्वमेतत्समांशकं ।
संपेष्य कल्कयेद्देवि धान्याम्ले तच्चतुर्गुणे

1,4.128

द्रुतं नागं शतं वारान्क्षिपेत्तस्मिन्पुनः पुनः ।
कल्कद्रवेण पूर्वाभ्रं यामं संमर्दयेद्दृढं

1,4.129

कपोताख्ये पुटे पच्यादेवं विंशतिवारकं ।
तत्तुल्यं गन्धकं दत्त्वा पूर्वोक्तैरौषधद्रवैः

1,4.130

सस्तन्यैर्बीजपूरोत्थैर्द्रवैर्भाव्यं त्रिवासरं ।
एतदभ्रं तु सूतस्य चारणे परमं हितं

1,4.131

द्वंद्वितं व्योमसत्वं च बीजानि विविधानि च ।
हेमादिसर्वलोहानि रत्नानि विविधानि च

1,4.132

द्वंद्वितं वज्रबीजं च चारणायां विधीयते ।
समस्तमेतत्पूर्वोक्तप्रकारेणैव कारयेत्

1,4.133

तदा रसेन्द्रश्चरति तत्सर्वं चारणोचितः ।
<नवमः प्रकारः>
पात्रे तु कासीसं कांक्षी माक्षीकगन्धकं

1,4.134

क्षारत्रयं पञ्चलोणं अम्लयुक्तं क्षणं क्षिपेत् ।
दिव्याभिषेकयोगोक्तं शतधा ढालयेदहिं

1,4.135

वङ्गं वानेन वस्तूनि चारणार्हाणि भावयेत् ।
वरी पुनर्नवा रंभा गवाक्षी यवचिञ्चिका

1,4.136

शिग्रुका मेघनादश्च रसैरेषां विभावयेत् ।
वज्राभ्रकं क्रमेणैव सप्ताहं सुरवन्दिते

1,4.137

तदभ्रकं नागवल्ल्या कोबेर्या शिग्रुकस्य वा ।
बाणाङ्कोलबलारंभास्फोतानां पीलुकस्य वा

1,4.138

अलम्बुषाहिमरुचामुसलीतुम्बुरोरपि ।
अथवा खरमञ्जर्यास्तिक्तशाकस्य वा प्रिये

1,4.139

एकेनैषां रसेनैव व्योषसर्षपसंयुतं ।
स्विन्नं त्रिदिवसं कुर्यात्तस्मिन्टङ्कणसैन्धवं

1,4.140

कासीसं तुवरीं क्षिप्त्वा पूर्वाभिषवयोगतः ।
एतदभ्रं चरेत्सूतः समुखो निर्मुखोऽथवा

1,4.141

तदभ्रकप्रभावेन गोलकः सिद्धिदो भवेत् ।
<दशमः प्रकारः>
धान्याम्लैरम्लवर्गैश्च स्वेदयेदभ्रकं दिनं

1,4.142

ततः स्नुक्क्षीरतो मर्द्यं कपोताख्ये पुटे दहेत् ।
मुनित्रयं मेघनादं रम्भाकन्दं च मूलकं

1,4.143

मत्स्याक्षी शृङ्गिवेरं च काकमाची पुनर्नवा ।
अपामार्गस्त्वरूपूगश्चैतेषां तु रसेन च

1,4.144

एकैकेन पुनर्दद्यादेकैकं पूर्वमभ्रकं ।
डोलायन्त्रे स्नुहीक्षीरयुक्तमेकदिनं पचेत्

1,4.145

ततश्छायागते शुष्के घनेऽस्मिन्नवसारकं ।
निम्बं वचां च कासीसं चणकाम्लं पृथक्पृथक्

1,4.146

अभ्रस्य षोडशांशं च निक्षिपेत्ताम्रभाजने ।
घर्षयेत्तच्चरेत्सूतो लोहपात्रस्य योगतः

1,4.147

<एकादशः प्रकारः>
धान्याभ्रं मर्दयेत्सोमवल्लीतोयैर्दिनं दृढं ।
पुटेदेवं त्रिधा पश्चात्सोमवल्ल्या रसेन च

1,4.148

भावयेत्सप्तधा देवि रसश्चरति तद्घनं ।
<द्वादशः प्रकारः>
सारनाले तु शतधा निषिच्य तमनेन च

1,4.149

शतधा प्लावयेदभ्रं ताम्रवासनया सह ।
खलल्यां तच्चरेत्सूतो नात्र कार्या विचारणा

1,4.150

<गन्धकभावना>
चारणार्थस्य गन्धस्य भावनां शृणु पार्वति ।
सौराष्ट्रं चाजमोदं च सर्जीं सीसमेव च

1,4.151

मर्दयेच्छिग्रुतोयेन गन्धकं तेन भावयेत् ।
सप्ताहं मर्दितं गन्धं चारयेत्पारदस्य च

1,4.152

रागं धत्ते रसेन्द्रस्य बीजानां पाकजारणे ।
पक्षच्छेदे रसेन्द्रस्य श्रेष्ठः स्यात्सर्वकर्मणि

1,4.153

पलाशपुष्पस्वरसैः शाकवृक्षच्छदद्रवैः ।
विष्णुक्रान्ताद्रवैर्गन्धं भावयेत्सप्तवासरं

1,4.154

तं गन्धं चारयेत्सूते इष्टकायन्त्रयोगतः ।
<अम्रचारणे श्रेष्ठा दिव्यमूल्यः>
अथाभ्रचारणे श्रेष्ठा दिव्यमूलीर्वदामि ते

1,4.155

वज्री रंभा हंसपदी चिञ्चिका व्याघ्रपादिका ।
मण्डूकी बृहती पुङ्खा कुमारी लाङ्गली तथा

1,4.156

सर्पाक्षी चाग्निधमनी शङ्खपुष्पीन्द्रवारुणी ।
षण्डजारी च कर्कोटी विख्याता दिव्यमूलिका

1,4.157

<गन्धकाभ्रकचारणम्>
अथातश्चारणं कर्म प्रवक्ष्यामि समासतः ।
धान्याभ्रकं द्रुते गन्धे समं क्षिप्त्वा नियोजयेत्

1,4.158

ख्यातो गन्धाभ्रयोगोऽयं श्रेष्ठश्चारणकर्मणि ।
समुखं निर्मुखं वापि पारदं दशनिष्ककं

1,4.159

गन्धाभ्रयोगनिष्के द्वे पिष्टं कुर्याद्यथा तथा ।
तं पिष्टं नागपिष्ट्याथ समया परिवेष्टयेत्

1,4.160

हेमकर्मणि वङ्गस्य पिष्ट्या रजतकर्मणि ।
ताम्रपिष्ट्या देहसिद्धौ वेष्टयेत्परमेश्वरि

1,4.161

तां पिष्टिं विद्रुते गन्धे विपचेद्दिवसत्रयं ।
तां पिष्टिं दीपिकायन्त्रे पाचयेत्पातयेदधः

1,4.162

तं रसं पूर्ववत्पिष्टिं कुर्याद्वेष्टनवर्जितां ।
त्रिदिनं विद्रुते गन्धे विपचेत्पातयेदधः

1,4.163

तं रसं तप्तखल्वे तु चतुःषष्टिगुणं क्षिपेत् ।
भागैकमभिषिक्ताभ्रं मर्द्यं दिव्यौषधैर्दिनं

1,4.164

तत्क्षिपेच्चारणायन्त्रे जम्बीररससंयुते ।
तीव्रातपे दिनं स्थाप्यं सूतश्चरति तद्घनं

1,4.165

एवं पुनः पुनर्गर्भपिष्टीग्रासक्रमात्मकं ।
पत्त्राभ्रचारणं प्रोक्तमेवं सत्वाभ्रचारणं

1,4.166

एवं कुर्याद्यथाशक्यं चारणं परमेश्वरि ।
रसेऽभ्रं चारयेत्पूर्वं चतुःषष्टितमांशकं

1,4.167

द्वात्रिंशत्तमभागं स्यात्तदेतत्षोडशांशकं ।
अष्टमांशं चतुर्थांशं द्वितीयांशं समं क्रमात्

1,4.168

द्विगुणं चतुर्गुणं चाष्टगुणं षोडशकं गुणं ।
द्वात्रिंशद्गुणमेवं स्यात्चतुःषष्टिगुणं क्रमात्

1,4.169

पक्षच्छेदस्त्वदोषत्वं लघुता ग्रासयोग्यता ।
मुखिताग्निसहत्वं च व्यापित्वं गतिहीनता

1,4.170

रसेन्द्रस्यानवस्थत्वं च भवेदभ्रकचारणात् ।
<जारणा>
यस्याहमपि तुष्टः स्यां तस्य सूतेन्द्रजारणे

1,4.171

मतिर्भवेन्न सन्देहो जारणा भुक्तिमुक्तिदा ।
दुर्लभा जारणा देवि विना भाग्यं न लभ्यते

1,4.172

जारणा द्विविधा बालजारणा वृद्धजारणा ।
<जारणे क्रमः>
गगनं जारयेत्पूर्वं सर्वसत्वान्यतः परं

1,4.173

द्वंद्वानि सर्वलोहानि पक्वबीजानि भैरवि ।
पद्मरागादिरत्नानि जारयेच्च यथाक्रमं

1,4.174

<जारणाय अभ्रकसत्वनिर्माणप्रकारः, प्रथमः प्रकारः>
जारणार्हं व्योमसत्वं रसराजस्य वक्ष्यते ।
धान्याभ्रकं च विधिवन्मारयेद्वज्रसंज्ञकं

1,4.175

अभिषेकं पूर्ववत्स्यात्तस्मिन्ताप्यं दशांशकं ।
पञ्चमाहिषगव्यश्च मर्दयेत्कर्षसन्निभाः

1,4.176

कुर्वीत वटिकाः कोष्ठीयन्त्रे सत्वं विपातयेत् ।
सत्वस्य च चतुर्थांशं ताप्ये मूषागतं धमेत्

1,4.177

एवं कृत्वा चतुर्वारं तत्सत्वं रसजारणे ।
रसायने च भैषज्ये श्रेष्ठं सकलकर्मणि

1,4.178

<द्वितीयः प्रकारः>
मृताभ्रं तच्चतुर्थांशं नागं तत्पादमाक्षिकं ।
पञ्चभिर्माहिषैर्गव्यैः पातयेत्सत्त्वमुज्ज्वलं

1,4.179

तत्सत्वं तच्चतुर्थांशं माक्षिकं तत्समां शिलां ।
धमेत्प्रलिप्तमूषायां सत्वं स्याद्धेमसन्निभं

1,4.180

एवं कुर्याच्चतुर्वारं तत्सत्वं ग्रसते रसः ।
<तृतीयः प्रकारः>
मृताभ्रकं षोडशांशं तच्चतुर्थांशकं त्रपु

1,4.181

तत्समं तालकं क्षिप्त्वा पञ्चमाहिषगव्यतः ।
सत्त्वं निपातयेत्तच्च चतुर्थं हरितालकं

1,4.182

क्षिप्त्वा क्षिप्त्वा चतुर्वारं तत्सत्वं ग्रसते रसः ।
<चतुर्थः प्रकारः, अभ्रकसत्त्वमृदूकरणम्>
वज्रमूषागतं कृत्वा घनसत्वं च तत्समं

1,4.183

कचं च टङ्कणं क्षिप्त्वा रुद्ध्वा तीव्राग्निना धमेत् ।
तत्क्षिपेदम्लवर्गेण चिञ्चाबीजं स्नुहीदलं

1,4.184

पिष्ट्वा तस्मिन्पुनस्तद्वत्काचटङ्कणयोगतः ।
धमेदेवं सप्तवारं सेचनं च पुनः पुनः

1,4.185

तदभ्रसत्त्वं शुभ्रं स्यान्मृदु स्याच्चारणोदितं ।
<पञ्चमः प्रकारः>
रसेन्द्रं टङ्कणं ताप्यं भागैकैकं पृथक्पृथक्

1,4.186

त्रिभागं शोधितं नागं मृताभ्रं दशभागकं ।
यवक्षारं च दग्धोर्णां सर्जक्षारं च गुग्गुलुं

1,4.187

अजापञ्चाङ्गसंयुक्तं अम्लमूत्रगणैर्युतं ।
मर्दयेत्पूर्ववत्सत्वं पातयेन्मृदु निर्मलं

1,4.188

<द्वन्द्वमेलापनाय मूषालेपःः प्रथमः प्रकारः>
द्वन्द्वमेलापने मूषालेपं वक्ष्यामि पार्वति

1,4.189

मेषशृङ्गं खुरं गुञ्जा टङ्कणं च विषं समं ।
स्थूलभेकस्य वसया पिष्ट्वा मूषां प्रलेपयेत्

1,4.190

मिलन्ति सर्वसत्वानि मूषायां चूर्णितानि च ।
गुग्गुलुं धातकीपुष्पं गुडं क्षारत्रयं समं

1,4.191

स्तन्यैः पिष्ट्वाथ मूषायां लेपनं द्वन्द्वमेलनं ।
<द्वितीयः प्रकारः>
अश्मभेदी लाङ्गली च भूलता च मरीचकः

1,4.192

कार्पासस्य फलं शक्रगोपश्चैतांश्च मर्दयेत् ।
नारीस्तन्येन तेनैव मूषामन्तः प्रलेपयेत्

1,4.193

तस्यां मिलन्ति सत्वानि सर्वाणि च महारसाः ।
हेममुख्यानि लोहानि चण्डाग्निधमनेन च

1,4.194

<तृतीयः प्रकारः>
चुचुन्दर्याश्च पिशितं टङ्कणं च विषं समं ।
मर्दयित्वा च मूषान्तर्लेपयेत्तत्र निक्षिपेत्

1,4.195

द्वन्द्वयोग्यं तु यद्यत्स्यात्तत्सर्वं धमनान्मिलेत् ।
<चतुर्थः प्रकारः>
भस्मीकृतमपामार्गं कङ्गुणीतैलमर्दितं

1,4.196

मूषायां लेपयेत्तेन द्वन्द्वद्रव्यं विनिक्षिपेत् ।
मिलेत्तीव्राग्निधमनात्तत्तन्मारकवापनात्

1,4.197

<द्वन्द्वमेलापनम्>
अत एव प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ।
वर्षाभूकदलीकन्दकाकमाचीपुनर्नवं

1,4.198

स्वर्णं नरकपालं च गुञ्जा टङ्कणमभ्रकं ।
सत्वं मूषागतं ध्मातं हेमाभ्रं मिलति क्षणात्

1,4.199

अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतं ।
कपित्थतोयसंयुक्तं सूतटङ्कणसंयुतं

1,4.200

वङ्गपत्रान्तरे न्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ।
आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत्

1,4.201

हेमाभ्रं नागताप्येन ताराभ्रं हरितालकात् ।
गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात्

1,4.202

वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ।
लाङ्गली चमरीकेशाः कार्पासास्थि कुलत्थकं

1,4.203

भूलता चाश्मदमनी स्त्रीस्तन्यं सुरगोपकः ।
द्वन्द्वे प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना

1,4.204

कान्ताभ्रशैलविमलाः मिलन्ति सकलाः क्षणात् ।
अथ चुच्छुन्दरीमांसं विषटङ्कणयोजितं

1,4.205

मूषाप्रलेपात्कुरुते सर्वद्वन्द्वेषु मेलनं ।
जौरभ्रमरशृङ्गं च मण्डूकस्य वसामिषं

1,4.206

गुञ्जाटङ्कणलेपेन सर्वसत्वेषु मेलनं ।
टङ्कणोर्णागिरिजतुकर्णाक्षीमलकर्कटैः

1,4.207

मिलन्ति सर्वद्रव्याणि स्त्रीस्तन्यपरिपेषितैः ।
धातकीगुग्गुलुगुडसर्जयावकटङ्कणैः

1,4.208

स्त्रीस्तन्यपेषितं शस्तं द्वन्द्वं स्यात्तु रसायने ।
सूक्ष्मचूर्णं तु यत्किंचित्पूर्वकल्केन संयुतं

1,4.209

अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ।
वापितं ताप्यरसकसस्यकैर्दरदेन च

1,4.210

स सत्वं स्यादनिबिडं दृढं ध्मातं मिलेत्ततः ।
रसोपरसलोहानि सर्वाण्येकत्र मेलयेत्

1,4.211

<प्रथमः प्रकारः>
अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ।
वज्राभ्रसत्त्वचूर्णं तु यत्किंचिल्लोहचूर्णकं

1,4.212

द्वयं समं तयोस्तुल्यं अरिवर्गं विनिक्षिपेत् ।
द्वन्द्वमेलनमूषायां धमनान्मेलनं भवेत्

1,4.213

<द्वितीयः प्रकारः>
मर्दयेट्टङ्कणं रम्भाकन्दतोयेन लेपयेत् ।
मूषां श्वेताभ्रकं वङ्गं धमनान्मिलति प्रिये

1,4.214

<तृतीयः प्रकारः>
वनशिग्रुष्टङ्कणश्च गुञ्जा च नृकपालकं ।
पिष्ट्वा योषित्स्तन्यनीरैस्तेन मूषां प्रलेपयेत्

1,4.215

वङ्गश्वेताभ्रसत्वं च चूर्णयित्वा क्षिपेद्धमेत् ।
असंशयं मिलन्त्येव श्रेष्ठं रजतकर्मणि

1,4.216

<चतुर्थः प्रकारः>
श्वेताभ्रसत्वं संचूर्ण्य तच्चतुर्थांशपारदं ।
सूततुल्यं टङ्कणं च मर्दयेत्काकमाचिजैः

1,4.217

द्रवैस्तद्गोलकं कृत्वा वङ्गपत्रेण वेष्टयेत् ।
श्वेताभ्रसत्वतुल्येन लिप्तमूषागतं धमेत्

1,4.218

भवेत्सम्मेलनं सम्यक्मुख्यः स्याद्रूप्यकर्मणि ।
<वज्रहेममेलापने मूषालेपःः प्रथमः प्रकारः>
अथातो वज्रकनकद्वन्द्वमेलाप्रलेपनं

1,4.219

गुञ्जा कान्तमुखं तुल्यं द्वन्द्वयोर्द्विगुणं बलिं ।
स्तन्येन योषितां पिष्ट्वा मूषायामन्तरे तथा

1,4.220

मेलयेद्वज्रमेलापोऽयं कथितो मया ।
<द्वितीयः प्रकारः>
शिलाधातुः कान्तमुखं शशदन्ताश्च गन्धकः

1,4.221

अम्लवेतसकं तुल्यं पिष्ट्वा मूषां प्रलेपयेत् ।
हेमवज्रं मिलत्येव मूषायां नात्र संशयः

1,4.222

<तृतीयः प्रकारः>
कुलीरास्थि शिलाधातु महिषीकणदृङ्मलं ।
टङ्कणोर्णासमं सर्वं कान्तास्तन्येन मर्दयेत्

1,4.223

अनेन लेपयेन्मूषां हेमवज्रं मिलत्यलं ।
<चतुर्थः प्रकारः>
कान्तास्यं टङ्कणं बालवत्सविड्भ्रमरास्थि च

1,4.224

मनुष्यचिकुरास्थीनि स्त्रीस्तन्येन विमर्दयेत् ।
अनेन लिप्तमूषायां हेमवज्रं मिलेद्ध्रुवं

1,4.225

<पञ्चमः प्रकारः>
ताप्यटङ्कणभूनागकान्तकाचमधूनि च ।
कुलीरास्थि स्नुहीक्षीरमर्कक्षीरं समं समं

1,4.226

स्तन्येन मर्दयेत्सर्वं मूषालेपं तु कारयेत् ।
मूषालेपो भवेदेष वज्रहाटकमेलनः

1,4.227

वज्रं भस्मीभवेद्यैस्तैर्मूषामन्तर्विलेपयेत् ।
धमेत्तीव्राग्निना हेमवज्रमेलापनं भवेत्

1,4.228

<वज्रहेममेलापनम्; प्रथमः प्रकारः>
अथातो मेलनं वक्ष्ये वज्रहेम्नोः सुरेश्वरि ।
स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदं

1,4.229

रसेन्द्रार्धं नागभस्म नागार्धं मृतवज्रकं ।
एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके

1,4.230

उद्धृत्य द्वन्द्वमेलापे मूषायां रोधयेद्धमेत् ।
हठात्तच्च मिलत्येतन्नात्र कार्या विचारणा

1,4.231

<द्वितीयः प्रकारः>
भावयेच्छारिवाक्षीरे मृतं वज्रं दिनं ततः ।
मर्दयेद्गोलकं कृत्वा शेषयेच्चैकभागकं

1,4.232

त्रिभागं रसराजं च चतुर्भागं सुवर्णकं ।
अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्गोलकं

1,4.233

तत्पिष्ट्वा वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत् ।
पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः पुनः

1,4.234

धमेद्धठान्मिलत्येव नात्र कार्या विचारणा ।
<तृतीयः प्रकारः>
वज्रं षोडशभागेन हेमपत्रेण वेष्टयेत्

1,4.235

तत्क्षिपेल्लिप्तमूषायां स्वर्णांशं श्वेतकाचजं ।
चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत्

1,4.236

निरुध्य च धमेत्तीव्रमेवं कुर्यात्पुनः पुनः ।
क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा

1,4.237

सप्तधैवं मिलत्येव पुनरेवं विधीयते ।
अस्य हेम्नः षोडशांशं मृतं वज्रं विनिक्षिपेत्

1,4.238

पूर्ववल्लिप्तमूषायां काचं वा नृकपालकं ।
क्षिप्त्वा क्षिप्त्वा धमेत्तीव्रं सप्तवारं मिलत्यलं

1,4.239

एवं तृतीयवारं च कुर्यादेवं चतुर्थकं ।
<द्वन्द्वितानामभिषेकः>
अथातो द्वंद्वितानां च प्रवक्ष्याम्यभिषेचनं

1,4.240

कासीसं पञ्चलवणं माक्षीकं गन्धकं तथा ।
कांक्षी क्षारत्रयं तुल्यमारनालेन मर्दयेत्

1,4.241

तत्कल्कं आतपे ताम्रपात्रे संस्थापयेत्त्र्यहं ।
तस्मिन्क्षिपेद्द्रुतं नागंशतधा तद्द्रुतं द्रुतं

1,4.242

ताम्रपात्रस्थसौवीरैर्भावयेच्छतवारकं ।
द्वंद्वितं तच्चरेत्सूतो यत्किंचिज्जारणार्हकं

1,4.243

रूप्यकर्मणि वङ्गं स्यान्नागं स्याद्धेमकर्मणि ।
<पक्वबीजविधानम्>
अथातः सम्प्रवक्ष्यामि पक्वबीजं सुरार्चिते

1,4.244

<प्रथमं विधानम्>
सुवर्णे विद्रुते तुल्यं नागाभ्रं द्वंद्वितं प्रिये ।
वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत्

1,4.245

पक्वबीजं इदं ख्यातं जारयेत्पारदे क्रमात् ।
<द्वितीयं विधानम्>
पीताभ्रसत्वं स्वर्णं च समांशं द्वंद्वितं धमेत्

1,4.246

वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत् ।
पुनः पीताभ्रसत्वं च वहेद्दशगुणं शनैः

1,4.247

स्वर्णशेषं भवेद्यावत्पक्वबीजं इदं भवेत् ।
<तृतीयं विधानम्>
नागार्कव्योमरसकं चतुस्त्रिर्द्व्येकभागिकं

1,4.248

चूर्णयेल्लिप्तमूषायां अन्धयेच्च धमेद्दृढं ।
माक्षिकेण च तत्खोटं संपेष्याम्लैः पुटे पचेत्

1,4.249

पुनस्तत्सममाक्षीकमम्लैः पिष्ट्वा पुटे पचेत् ।
एवं पञ्चपुटं दत्त्वा तद्द्रुते हेम्नि वाहयेत्

1,4.250

धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकं ।
<चतुर्बीजक्रमः>
अथातः सम्प्रवक्ष्यामि चतुर्बीजं वरानने

1,4.251

हेमताराहिकुटिलबीजान्येतानि तत्त्वतः ।
हेमबीजं नागबीजं शस्यते हेमकर्मणि

1,4.252

तारबीजं वङ्गबीजं कथिते रूप्यकर्मणि ।
हेमबीजं तारबीजं भवेतां च रसायने

1,4.253

नागबीजं वङ्गबीजं न रसायनकर्मणि ।
चत्वार्येतानि बीजानि भवेयू रोगशान्तये

1,4.254

अन्यथा नैव योज्यानि बीजान्येतानि शाम्भवि ।
<हेमबीजविधानम्, प्रथमं हेमबीजम्>
गन्धकं सस्यकं वापि माक्षीकं वाथ तालकं

1,4.255

शिलां च विमलां वापि वैक्रान्तं वाञ्जनं च वा ।
खर्परं वा कान्तमुखं वा चूर्णयित्वा समांशकं

1,4.256

शतवारान्द्रुते हेम्नि वाहयेच्च पुनः पुनः ।
<द्वितीय नागभस्मसिद्धं हेमबीजम्>
सूतहिंगुलकंकुष्ठलोहपर्पटिकाभ्रकं

1,4.257

मृतार्कमाक्षीकशिलाविमलांश्च समांशकान् ।
एतान्नागकलाभागान्स्नुह्यर्कपयसा प्रिये

1,4.258

मर्दयेत्तेन पत्राणि शुद्धनागस्य लेपयेत् ।
पुटेद्द्वात्रिंशतिपुटे नागो भस्मति तद्वहेत्

1,4.259

समं समं च शतधा विद्रुते पूर्ववाहिते ।
सुवर्णे च तथा हेमशेषं तावद्धमेद्दृढं

1,4.260

<तृतीयं वङ्गभस्मसिद्धं हेमबीजम्>
अथवा भस्मयेद्वङ्गं तालशङ्खाभ्रपारदैः ।
चिञ्चाक्षारैस्त्रपुसमैः स्नुह्यर्कक्षीरमर्दितैः

1,4.261

पुटेत्षोडशभिस्तच्च शतधा हेम्नि वाहयेत् ।
<चतुर्थं ताम्रभस्मसिद्धं हेमबीजम्>
अथवा मारयेच्छुल्बमूर्ध्वाधो गन्धकं समं

1,4.262

क्षिप्त्वा पुटेदष्टवारं तत्ताम्रं हेम्नि वाहयेत् ।
<पञ्चमं तीक्ष्णभस्मसिद्धं हेमबीजम्>
अथवा मारयेत्तीक्ष्णं तीक्ष्णतुल्यं च हिंगुलं

1,4.263

स्त्रीस्तन्यैर्मर्दयित्वा तु पुटेदथ कलांशकं ।
तीक्ष्णस्य हिंगुलं दत्त्वा मर्दयेत्पुटयेत्क्रमात्

1,4.264

एवं तत्षोडशपुटैः तत्तीक्ष्णं हेम्नि वाहयेत् ।
शतधा हेम तदिशं विद्रुते हेम्नि वाहयेत्

1,4.265

<षष्ठं हेमबीजम्>
तद्धेम्नि द्विगुणं ताप्यं पूर्णितं तद्धमेद्दृढं ।
तच्चूर्णयेद्द्वित्रिपुटैः पञ्चभिर्मारितं भवेत्

1,4.266

तद्वाहयेद्दशगुणं द्रुते हेम्नि धमन्धमन् ।
तदेव जायते दिव्यं सर्वसिद्धिप्रदायकं

1,4.267

हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।
<सप्तमं हेमबीजम्>
सस्यकाभ्रकवैक्रांतसत्वं स्वर्णमहिं रविं

1,4.268

तीक्ष्णं च चूर्णयेल्लिप्तमूषायां चान्ध्रितं धमेत् ।
पुनः प्रकटमूषायां धमेत्तस्मिन्द्रुते सति

1,4.269

माक्षिकं निक्षिपेत्किंचित्किंचिद्दत्त्वा पुनः पुनः ।
यावत्स्वर्णावशेषं स्यात्ततस्तस्मिन्विनिक्षिपेत्

1,4.270

स्वर्णं नागं रविं तीक्ष्णं पूर्ववच्च धमेत्क्रमात् ।
वाहयेन्माक्षिकं तद्वद्धमेत्स्वर्णावशेषकं

1,4.271

हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।
<अष्टमं हेमबीजम्>
समांशं चूर्णयेदभ्रं सत्वं ताम्रमयं शुभं

1,4.272

अभ्रकाद्द्विगुणं धौतं ताप्यं सर्वं धमेद्धठात् ।
मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः

1,4.273

मर्द्यं दिव्यौषधिरसैः संपुटे रोधयेद्दृढं ।
पचेद्गजपुटे तद्वच्चूर्णयेन्मर्दयेत्पुटेत्

1,4.274

एवं पञ्चपुटैः पक्वं तद्वहेत्कनके द्रुते ।
यावद्दशगुणं तावन्मूषायां प्रकटे धमेत्

1,4.275

ततस्तस्मिन्शुद्धताप्यं क्षिप्त्वा क्षिप्त्वा धमेद्धमेत् ।
यावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये

1,4.276

<नवमं हेमबीजम्>
तीक्ष्णार्कनागभस्मानि ताप्यचूर्णं समं समं ।
एतद्द्रुते वहेद्धेम्नि यावद्दशगुणं भवेत्

1,4.277

तावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ।
<दशमं हेमबीजम्>
मृततारार्कतीक्ष्णायः समं सर्वं धमेद्दृढं

1,4.278

मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ।
तच्चूर्णं द्राविते स्वर्णे वाहयेच्च शनैः शनैः

1,4.279

यावद्दशगुणं पश्चात्ताप्यचूर्णं क्षिपन्क्षिपन् ।
धमेत्स्वर्णावशेषं स्याद्धेमबीजमिदं प्रिये

1,4.280

<एकादशं हेमबीजम्>
नागमेकं चतुस्ताम्रं सत्त्वं रसकसम्भवं ।
मूषायां द्वन्द्वलिप्तायां सर्वं ध्मातं विचूर्णयेत्

1,4.281

तच्चूर्णं वाहयेत्स्वर्णे विद्रुते षड्गुणं शनैः ।
स्वर्णशेषं भवेद्यावत्तावत्स्यात्स्वर्णबीजकं

1,4.282

<द्वादशं हेमबीजम्>
ताप्येन मारयेत्ताम्रं तन्नागे वाहयेच्छनैः ।
यावच्छतगुणं ताप्यं चूर्णं क्षिप्त्वा धमन्धमन्

1,4.283

तद्वाहयेद्धमेद्धेम्नि क्रमाद्द्वात्रिंशतं गुणं ।
स्वर्णशेषं भवेद्यावत्तावत्स्याद्धेमबीजकं

1,4.284

<त्रयोदशं हेमबीजम्>
भागैकं खर्परीसत्वं द्विभागं चाभ्रसत्वकं ।
त्रिभागं ताम्रचूर्णं च लिप्तमूषागतं धमेत्

1,4.285

तत्खोटं चूर्णयेत्ताप्यं तुल्यमम्लैर्विमर्दयेत् ।
तत्क्षिपेत्संपुटे रुद्ध्वा पुटेल्लघुपुटे पुनः

1,4.286

एवं पञ्चपुटैः पक्वं तच्चूर्णं वाहयेद्द्रुते ।
सहस्रगुणितं हेम्नि यावत्स्वर्णावशेषितं

1,4.287

तावत्ताप्यं वहेद्युक्त्या स्यादिदं हेमबीजकं ।
<चतुर्दशं हेमवीजम्>
भागैकमभ्रसत्वं च द्विभागं शुद्धताम्रकं

1,4.288

चूर्णयेल्लिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढं ।
ततस्तं चूर्णयेत्ताप्यं तुल्यमम्लेन मर्दयेत्

1,4.289

तद्रुद्ध्वा संपुटे पच्यात्पुटे तच्चूर्णयेत्पुनः ।
पूर्ववन्माक्षिके क्षिप्त्वा मर्दयेत्पातयेत्प्रिये

1,4.290

एवं पञ्चपुटे कार्ये तच्चूर्णं वाहयेत्प्रिये ।
स्वर्णे शतगुणं यावत्तावत्स्याद्धेमबीजकं

1,4.291

<पञ्चदशं हेमबीजम्>
माक्षिकं गन्धपाषाणं हरितालं मनःशिलां ।
वैक्रान्तकं कान्तमुखं सस्यकं विमलांजने

1,4.292

रसकं चापि शतशश्चूर्णितं हेम्नि वाहयेत् ।
लोहपर्पटिकाताप्यकङ्कुष्ठविमलाभ्रकैः

1,4.293

मृतशुल्बशिलासूतस्नुह्यर्कक्षीरहिङ्गुलैः ।
नागो निर्जीवतां याति योगैः पुनः पुनः

1,4.294

रसतालकशुद्धचिंचाक्षारैस्तथा त्रपु ।
मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णं च वा मृतं

1,4.295

एकैकं उत्तमे हेम्नि वाहयेत्सुरवन्दिते ।
निरुद्धे पन्नगे हेम्नि निर्व्यूढे शतसंगुणैः

1,4.296

<हेम्नि नागादिनिर्वहणेन वर्णव्यत्यासः>
नागजीर्णं रोचनाभं हारीतं ताम्रवाहितं ।
तीक्ष्णजीर्णं रविसमं वङ्गजीर्णं जपानिभं

1,4.297

<प्रथमं तारबीजम्>
श्वेताभ्रसत्वं तीक्ष्णं च ताप्यं च विमलां तथा ।
खर्परं च समं सर्वं कुटिलं च चतुर्गुणं

1,4.298

धमेत्सर्वं चूर्णयेच्च भस्मयेत्पुटपञ्चकैः ।
तारे द्रुते शतगुणं वाहयेच्च शनैः शनैः

1,4.299

तारबीजं इदं ख्यातं जारणे परमं हितं ।
<द्वितीयं तारबीजम्>
यथा ताप्येन कुटिलं तथा ताप्येन मारयेत्

1,4.300

तद्भागं च समं तालं तत्समं रजते द्रुते ।
त्रिंशद्गुणं भवेद्यावत्तावद्वाह्यं क्रमेण च

1,4.301

तारबीजमिदं ख्यातं पारदे तच्च जारयेत् ।
<तृतीयं तारबीजम्>
तीक्ष्णं वङ्गं च विमलां समांशं चूर्णयेत्प्रिये

1,4.302

द्वन्द्वमेलोपलिप्तायां धमेत्तत्खोटकं भवेत् ।
तत्खोटं चूर्णयेदम्लैर्मर्दयेत्पुटयेदिति

1,4.303

पञ्चवारं प्रकुर्वीत भस्म तज्जायते प्रिये ।
तद्भस्म विद्रुते तारे वाहयेच्च समं समं

1,4.304

धमन्धमन्दशगुणं यावद्भवति भैरवि ।
तारबीजं इदं श्रेष्ठं रसराजस्य जारणे

1,4.305

<चतुर्थं तारबीजम्>
श्वेताभ्रसत्वं कुटिलं तारमाक्षीकसत्वकं ।
त्रयं समांशं संचूर्ण्य लिप्तमूषागतं धमेत्

1,4.306

तच्चूर्णं वाहयेत्तारे तारतुल्यं विनिक्षिपेत् ।
यावद्दशगुणं तावत्तारमाक्षीकवापतः

1,4.307

तारबीजं इदं प्रोक्तं जारणे परमं हितं ।
<पञ्चर्मं तारबीजम्>
त्रिद्व्येकभागान्देवेशि तीक्ष्णतालामलान्क्रमात्

1,4.308

चूर्णितान्लिप्तमूषायां क्षिप्त्वा तीव्राग्निना धमेत् ।
तत्खोटं चूर्णयेदम्लैर्मर्दयेत्पुटयेदिति

1,4.309

सप्तधा तद्द्रुते तारे वाह्यं दशगुणं ततः ।
क्षिप्त्वा क्षिप्त्वा तालचूर्णं तारशेषं यथा धमेत्

1,4.310

तारबीजमिदं श्रेष्ठं जारणे परमं हितं ।
<षष्ठं तारबीजम्>
खर्परी तालशुभ्राभ्रसत्त्वकं तारमाक्षिकं

1,4.311

तुल्यं सर्वसमं वङ्गं सर्वं मूषागतं धमेत् ।
चूर्णयेन्मर्दयेदम्लैः पुटेदेवं तु सप्तधा

1,4.312

तच्चूर्णं वाहयेत्तारे द्रुते दशगुणं धमन् ।
तारशेषं भवेद्यावत्तावत्स्यात्तारबीजकं

1,4.313

<सप्तमं तारबीजम्>
श्वेताभ्रसत्वं वङ्गं च द्वन्द्वं कुर्याच्च पूर्ववत् ।
तच्चूर्णे तालकं दत्त्वा पादमम्लैर्विमर्दयेत्

1,4.314

पुटेत्तस्मिन्क्षिपेत्तालं पूर्ववन्मर्दनं पुटं ।
एवं पञ्चपुटं कुर्यात्तच्चूर्णं वाहयेद्द्रुते

1,4.315

रजते द्वादशगुणं तद्भवेत्तारबीजकं ।
<अष्टमं तारबीजम्>
श्वेताभ्रसत्वं वङ्गं च वङ्गार्धं तीक्ष्णचूर्णकं

1,4.316

तीक्ष्णांशा तारविमला सर्वं मूषागतं धमेत् ।
ततस्तच्चूर्णयेदम्लैः पिष्ट्वा रुद्ध्वा पुटेत्पचेत्

1,4.317

पञ्चवारं पुनस्तच्च वाहयेद्रजते द्रुते ।
यावच्छतगुणं तावत्तालकं च क्षिपन्धमेत्

1,4.318

तारशेषं भवेद्यावत्तावत्स्यात्तारबीजकं ।
<ताम्रबीजम्>
ताम्रबीजं प्रवक्ष्यामि जारणार्थं रसस्य तु

1,4.319

स्वर्णं ताम्रं समं देवि तयोस्तुल्यं च माक्षिकं ।
ऊर्ध्वाधो निक्षिपेल्लिप्तमूषायां तद्धमेद्दृढं

1,4.320

धमेदेवं च दशधा दत्त्वा दत्त्वाथ माक्षिकं ।
ताम्रबीजमिदं ख्यातं भास्वत्किरणसंनिभं

1,4.321

<प्रथमं नागबीजम्>
अभ्रकं रसकं तुल्यं नागभस्म चतुर्गुणं ।
धमयेच्चूर्णयेत्तच्च माक्षिकेण च मारयेत्

1,4.322

एतत्समं शिलाचूर्णमेकीकृत्याथ वापयेत् ।
तद्धमेत्सदृशे हेम्नि विद्रुते शतधा प्रिये

1,4.323

नागबीजमिदं प्रोक्तमेतत्सूते तु जारयेत् ।
<द्वितीयं नागबीजम्>
नागबीजं प्रवक्ष्यामि श्रेष्ठं तद्रसजारणे

1,4.324

रसकाभ्रकताम्रेऽहिं भागवृद्ध्या धमेत्ततः ।
माक्षिकेण हतं तच्च बीजं निर्वाहयेत्प्रिये

1,4.325

द्वात्रिंशांशगुणं हेम्नि वङ्गं ताप्यहतं वहेत् ।
त्रिंशद्गुणं शिलावाप्यं नागबीजमुदाहृतं

1,4.326

<वङ्गबीजक्रमः>
बीजं प्रवक्ष्यामि वङ्गं तालं च ताप्यकं ।
समं धमेच्चूर्णयेच्च तत्समं ताप्यतालकं

1,4.327

मर्दयेत्पुटयेदम्लैर्भस्म स्यात्षोडशैः पुटैः ।
तारे द्रुते शतगुणं वाहयेद्वङ्गभस्म च

1,4.328

तत्तारे तालकं देवि द्वात्रिंशद्गुणमावहेत् ।
वङ्गबीजमिदं ज्ञेयमेतत्सूते तु जारयेत्

1,4.329

<जारणे बिडयोगाः>
विडयोगान्प्रवक्ष्यामि जारणार्हान्सुरार्चिते ।
<१. वडवानलविडः>
सौवीरं गन्धकं कांक्षी कासीसं व्योषसैन्धवं

1,4.330

सौवर्चलं सर्जिका च मालतीतीरसम्भवं ।
शिग्रुमूलरसैः सर्वं भावयेत्सप्तवासरं

1,4.331

बिडोऽयं जारणे श्रेष्ठो नाम्ना च वडबानलः ।
<२. वैश्वानरविडः>
अर्कक्षीरैर्दग्धशङ्खं भावयेत्पुटयेत्प्रिये

1,4.332

शतधायं विडः प्रोक्तो नाम्ना वैश्वानरो महान् ।
<३. ज्वालामुखबिडः>
गन्धकं शङ्खचूर्णं च सैन्धवं च विषं समं

1,4.333

शतवारं गवां मूत्रैः शिग्रुमूलरसैस्तथा ।
भावितोऽयं बिडः प्रोक्तो नाम्ना ज्वालामुखः स्मृतः

1,4.334

<४. अग्निजिह्वकबिडः>
पलाशस्य रसैर्भाव्यं टङ्कणं शतधा प्रिये ।
लोहानां जारणे श्रेष्ठो बिडो नाम्नाग्निजिह्वकः

1,4.335

<५ वडबाबिडः>
कान्तास्यं गन्धकं चूली चैकैकं लोहजारकं ।
चूलीगन्धकसिन्धूत्थतालभूखगटङ्कणान्

1,4.336

सक्षारमूत्रैर्विपचेन्नाम्नायं वडबामुखः ।
<६. महावैश्वानरो विडः>
देवदालिं मोक्षकं च निचुलं च पुनर्नवां

1,4.337

पलाशं काञ्चनं वासामेरण्डं वास्तुकं तिलं ।
कदलीमपि सर्वाङ्गं खण्डितं नाति शोषयेत्

1,4.338

मूत्रवर्गे चाष्टगुणे प्रक्षिपेत्तदनन्तरं ।
समूलं मूलकं दग्ध्वा तिलकाण्डं च तत्समं

1,4.339

क्षारद्वयं पूर्वरसे क्षिप्त्वा स्थाप्यं त्र्यहं खरे ।
आतपे तद्वस्त्रपूतं लोहपात्रे द्रवं पचेत्

1,4.340

बहवो बुद्बुदा बाष्पा उद्भवन्ति यदा यदा ।
त्रिक्षारं त्रिकटुं गन्धं कासीसं लोणपञ्चकं

1,4.341

सौराष्ट्रीं रामठं चूलिं समं चूर्णीकृतं क्षिपेत् ।
प्रचालयेल्लोहदर्व्या गुडपाको यथा भवेत्

1,4.342

समुत्तार्य क्षिपेल्लोहसंपुटे सप्तवासरं ।
भूगर्भे धान्यराशौ च सप्ताहं धारयेत्पुनः

1,4.343

सप्ताहं धारयेद्घर्मे महावैश्वानरो बिडः ।
<७. वह्निबिडः>
जम्बीराम्लेन शतधा वनशिग्रुरसेन च

1,4.344

गन्धकं भावयेदेष बिडः स्याद्वह्निसंज्ञकः ।
नवसारोऽपि च तथा गन्धवत्स बिडो भवेत्

1,4.345

<८. चित्रभानुबिडः>
गन्धकं निचुलक्षारं गुंजाबीजं च टङ्कणं ।
मूलबीजं देवदाल्याः समं सर्वं च भावयेत्

1,4.346

तिक्तकोशातकीनीरैः सप्तधाम्लगणैस्तथा ।
बिडोऽयं चित्रभानुः स्यात्प्रधानं हेमजारणे

1,4.347

<९. महाबिडः>
मूलकं शृङ्गिवेरं च वह्निं दग्ध्वा त्रयं समं ।
गोमूत्रे निक्षिपेत्तच्च वस्त्रपूतं च कारयेत्

1,4.348

अनेन भावितो गन्धः शतधा स्यान्महाबिडः ।
<१०. अन्यो महाबिडः>
तालं शिला टङ्कणं च शङ्खं लवणशुक्तिके

1,4.349

मूत्राम्लैर्विपचेन्मन्दं वह्नावेष बिडो महान् ।
<११. वज्रानलबिडः>
अर्कक्षीरैर्दग्धशङ्खं शतधा भावयेत्ततः

1,4.350

मर्दयित्वाम्लवर्गेण रुद्ध्वा पञ्चपुटैः पचेत् ।
तत्समं टङ्कणक्षारं क्षिप्त्वाम्लगणभावितं

1,4.351

कृत्वा मनःशिलां गन्धं दरदं विद्रुमं ततः ।
नृपावर्तं तु पञ्चानां शंखचूर्णं समं प्रिये

1,4.352

भावयेदम्लवर्गेण त्रिदिनं स्यान्महाबिडः ।
नाम्ना वज्रानलः प्रोक्तः खोटः सूतस्य जारणे

1,4.353

द्वन्द्वमेलापमूषायां सारणे योजयेत्सदा ।
पारदस्तु क्षणादेव वज्रादीन्यपि जारयेत्

1,4.354

<१२. अन्यो विडः>
निर्दग्धशङ्खचूर्णं च रविक्षीरशताप्लुतं ।
पुटितं बहुशो देवि प्रशस्तो जारणे बिडः

1,4.355

<१३. बडबामुखो बिडः>
शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ।
निर्दग्धशङ्खचूर्णं तु शिग्रुमूलाम्बुभावितं

1,4.356

शतशो विषसिन्धूत्थसंयुतं वडबामुखः ।
<१४. सर्वजारकबिडः>
गन्धकं भावयेत्कन्याधुत्तूरकरवीरजैः

1,4.357

द्रवैस्तु शतधा घर्मे विडोऽसौ सर्वजारकः ।
<१५. अन्यो बिडः>
ताम्रवल्लीदलरसैः प्लावयेद्गन्धसैन्धवं

1,4.358

सप्ताहेन भवेदेनं नियुञ्ज्याद्धेमजारणे ।
<१६. सिद्धबिडः>
सैन्धवं कुनटी गन्धं प्रत्येकं च पलं पलं

1,4.359

भूलता त्रिपलं सर्वं मर्दयेच्छोषयेत्पचेत् ।
एवं कुर्यादष्टवारं अयं सिद्धबिडः स्मृतः

1,4.360

<अभ्रकजारणम्>
अथाभ्रजारणं कर्म वक्ष्यामि शृणु पार्वति ।
तप्तखल्वे चतुःषष्टिनिष्कसूतं सुचारितं

1,4.361

भावितं गगनं चैकं निष्कं तत्र विनिक्षिपेत् ।
त्रिक्षारं पञ्चलवणं भूखगाम्लजवेतसान्

1,4.362

षोडशांशान्रसेन्द्रस्य क्षिपेज्जम्बीरवारिणा ।
मर्दयेद्याममात्रं तु कूर्मयन्त्रे विडान्विते

1,4.363

पचेद्दिनं विनिक्षिप्य जीर्णग्रासो भवेद्रसः ।
एतत्सूतं तप्तखल्वे क्षिप्त्वा राजीगुडोर्णकं

1,4.364

इष्टिकां गृहधूमं च सैन्धवं पारदस्य तु ।
एतत्सर्वं षोडशांशं मर्द्यमम्लगणैर्दिनं

1,4.365

चण्डातपे पिण्डितं तद्रसे बद्ध्वाथ पोटलं ।
अम्लवर्गेण भरिते डोलायन्त्रे पचेद्दिनं

1,4.366

प्रतिग्रासे त्विदं कुर्यात्पुनर्ग्रासं अपेक्षते ।
ग्रासोऽजीर्णो यदि भवेत्पाच्यः कच्छपयन्त्रके

1,4.367

एवं ग्रासक्रमेणैव जारयेद्गगनादिकं ।
चतुःषष्टितमांशादि चतुःषष्टिगुणावधि

1,4.368

रसेन्द्रे जारयेद्ग्रासं दत्त्वा दत्त्वा पुनः ।
<जीर्णाभ्रकरसलक्षणम्>
चतुःषष्ट्यंशके सूतो व्योमसत्वे तु जारिते

1,4.369

दण्डधारी जलूकाभो वैष द्वात्रिंशदंशके ।
षोडशांशे वायसस्य विष्ठातुल्योऽष्टमांशके

1,4.370

दधिमण्डसमो देवि चतुर्थांशे तु जारिते ।
नवनीतसमो द्व्यंशे गोलाभो जारितो भवेत्

1,4.371

अभ्रके समजीर्णे तु शतवेधी भवेद्रसः ।
घने द्विगुणजीर्णे तु सहस्रांशेन वेधयेत्

1,4.372

चतुर्गुणेऽभ्रके जीर्णे त्वयुतायुर्भवेत्प्रिये ।
गगनेऽष्टगुणे जीर्णे ब्रह्मायुर्लक्षवेधकः

1,4.373

विष्ण्वायुः षोडशगुणे जीर्णेऽभ्रे कोटिवेधकः ।
द्वात्रिंशद्गुणिते जीर्णे रुद्रायुर्दशकोटिभिः

1,4.374

चतुःषष्टिगुणे जीर्णे नित्यायुः शतकोटिभिः ।
अभ्रके समजीर्णे तु रसो दोषान्विमुञ्चति

1,4.375

जहाति स्वगतान्सर्वान्सर्वलोहानि भक्षयेत् ।
<पक्षच्छेद>
यन्त्रादधो न पतति नैवोत्पतति चोर्ध्वतः

1,4.376

नोद्गारी कपिलो वर्णे वह्नौ तिष्ठति निश्चलः ।
विप्रुषो मुञ्चते देवि छिन्नपक्षो भवेद्रसः

1,4.377

समजीर्णे तु बालः स्याद्युवा जीर्णचतुर्गुणः ।
व्योमषड्गुणजीर्णस्तु वृद्धसंज्ञो भवेद्रसः

1,4.378

बालो विध्यति कल्केन युवा पत्रप्रलेपतः ।
जारितस्तु रसेन्द्रोऽयं वृद्धो लोहानि विध्यति

1,4.379

बालः सूतो रुजं हन्ति न समर्थो रसायने ।
युवा रसायने दक्षो वृद्धः स्याद्देहलोहयोः

1,4.380

<अन्यजारणप्रकारः>
अभावे घनसत्वस्य कान्तसत्वं प्रदीयते ।
तदभावे भवेत्तीक्ष्णमेवं द्वन्द्वानि जारयेत्

1,4.381

घनजीर्णस्य सूतस्य ततो द्वन्द्वानि जारयेत् ।
रसेन्द्रो द्वन्द्वरहितं न चरेदभ्रसत्वकं

1,4.382

तस्माद्धेमादिलोहेन युक्तमभ्रं चरेद्ध्रुवं ।
नागाभ्रं वापि वङ्गाभ्रं ताम्राभ्रं वा सुरार्चिते

1,4.383

ताराभ्रं वापि हेमाभ्रं ताप्याभ्रं वापि जारयेत् ।
घनसत्वं यथा जीर्णं तथा द्वन्द्वानि जारयेत्

1,4.384

द्वन्द्वबीजरसस्याथ पक्वबीजानि जारयेत् ।
<जारणाफलम्>
खल्वं तु पीठिका देवि रसेन्द्रो लिङ्ग उच्यते

1,4.385

मर्दनं चन्दनं तस्य ग्रासः पूजा विधीयते ।
क्षीयमाणे पातकौघे सुलभा रसजारणा

1,4.386

जारणायां च लब्धायां ज्ञानं कैवल्यदं भवेत् ।
तावन्मुक्तिः कुतः कान्ते यावन्नो वेत्ति जारणां

1,4.387

जारणा साधकेन्द्रस्य मुक्तिव्यक्तिकरा प्रिये ।
जारणार्थं रसो यावद्दिनं वह्नौ तु धार्यते

1,4.388

शिवलोके सुखं भुङ्क्ते तावत्कल्पसहस्रकं ।
धारयेद्यो रसं वह्नावेकाहं वा तदर्धकं

1,4.389

क्षीयन्ते तस्य पापानि बहुजन्मार्जितानि च ।
सुवर्णरेतसो मित्रं स्वर्णदेहस्तथा रसः

1,4.390

असहत्वं सूतवह्नौ तोये मैत्रं सुवर्णतः ।
चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः

1,4.391

गालनक्रियया ग्रासे सति निःशेषनिर्गते ।
स भवेद्दण्डधारी च जीर्णग्रासस्तदा रसः

1,4.392

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट्रसेश्वराय सर्वसत्त्वोपहाराय ग्रासं गृह्ण गृह्ण ह्रीं स्वाहा ।
<गर्भद्रुतिः; गर्भद्रावणयोग्यबीजसिद्धिः; प्रथमः प्रकारः>
गर्भद्रुतिं प्रवक्ष्यामि जारितस्य रसस्य च ।
गर्भद्रावणयोग्यानि बीजानि शृणु भैरवि

1,4.393

नागभस्म च माक्षीकं गन्धकं च समं समं ।
चूर्णितं वाहयेत्स्वर्णे त्रिगुणं द्राविते धमन्

1,4.394

पूतिबीजमिदं सूतगर्भे द्रवति तत्क्षणात् ।
<द्वितीयः प्रकारः>
स्वर्णे नागं समावर्त्य शिलाचूर्णं क्षिपन्क्षिपन्

1,4.395

नागक्षये पुनर्नागं दत्त्वा दत्त्वा त्रिवारकं ।
स्वर्णशेषं भवेद्यावत्तावद्धाम्यं पुनः पुनः

1,4.396

एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ।
<तृतीयः प्रकारः>
सुवर्णं ताप्यसत्वं तु समं मूषागतं धमेत्

1,4.397

तस्मिन्द्रुते ताप्यचूर्णं तुल्यं तुल्यं क्षिपन्क्षिपन् ।
माक्षीकसत्वं त्रिगुणमेवं वाह्यं पुनः पुनः

1,4.398

एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।
<चतुर्थः प्रकारः>
सुवर्णस्य समं ताप्यसत्वमावर्तयेत्ततः

1,4.399

कुर्यात्कण्टकवेध्यानि पत्राणि च विलेपयेत् ।
लवणेनाम्लपिष्टेन गन्धतुल्येन पार्वति

1,4.400

तानि पत्राणि च पुटे पचेद्धेमावशेषितं ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात्

1,4.401

<पञ्चमः प्रकारः>
ताप्यतुल्यं च सिन्धूत्थं मर्दयेदम्लकेन च ।
तत्संपुटे पुटे पच्यात्पुनः संमर्दयेत्पुटेत्

1,4.402

पुनः पुनर्द्विषड्वारमस्य तुल्यं च नागजं ।
भस्म संमर्दयेदम्लैरनेन स्वर्णपत्रकं

1,4.403

लिप्त्वा लिप्त्वा धमेत्सप्तवारं तद्वाहयेत्ततः ।
द्रुतं तं वापयेत्पूर्वं कल्कितैः सप्तवारकं

1,4.404

एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।
<षष्ठः प्रकारः>
कासीसं टङ्कणं गन्धं ताप्यं सौवर्चलं शिलां

1,4.405

तुल्यं संमर्दयेत्सर्वांश्चणकाम्लैर्दिनावधि ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात्

1,4.406

<गर्भद्रावणे मूषायन्त्रसिद्धिः>
सुवर्चलं च कासीसं यवक्षारं च टङ्कणं ।
माक्षिकं सैन्धवं चुल्ली सामुद्रं राजिका तथा

1,4.407

तुल्यं कांक्षीं च कर्पूरं अर्कस्नुक्क्षीरमर्दितं ।
अनेन लेपयेन्मूषां बिडेनांगुलमात्रकं

1,4.408

मूषायन्त्रमिदं श्रेष्ठं गर्भद्रावणकर्मणि ।
<गर्भद्रुतिप्रकाराः; प्रथमः प्रकारः>
स्वर्णं ताम्रं मृतं तीक्ष्णं रञ्जितं पक्वबीजकं

1,4.409

गर्भद्रावणबीजं च सर्वमावर्तयेद्दृढं ।
द्रुतेऽस्मिंस्ताप्यचूर्णं च क्षिप्त्वा क्षिप्त्वा धमन्धमन्

1,4.410

यावत्क्षयं गते ताम्रतीक्ष्णे तावत्सुरेश्वरि ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात्

1,4.411

<द्वितीयः प्रकारः>
हेम गन्धहतं नागं पक्वबीजस्य साधनं ।
तद्द्वयं लिप्तमूषायां अन्ध्रयित्वा धमेद्दृढं

1,4.412

तच्चूर्णं अभिषिक्तं च रसगर्भे द्रवत्यलं ।
<तृतीयः प्रकारः>
सुवर्णे विद्रुते शुल्बं मृतं तीक्ष्णं शनैः शनैः

1,4.413

वाहयेत्षड्गुणं यावत्तद्रसे द्रवति प्रिये ।
<चतुर्थः प्रकारः>
महारसाननुरसान्क्षीणलोहानि चाक्षये

1,4.414

समांशं सममाक्षीकगन्धकावापयोगतः ।
शतशो वाहयेदेतदक्षीणांशावशेषितं

1,4.415

समांशं रसराजस्य गर्भे द्रवति निश्चितं ।
<पञ्चमः प्रकारः>
जारितस्य रसेन्द्रस्य चतुःषष्टितमांशकं

1,4.416

गर्भद्रावणबीजं च तप्तखल्वे विनिक्षिपेत् ।
शिलारुचकमाक्षीकगन्धकासीसटङ्कणैः

1,4.417

मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि ।
रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत्

1,4.418

मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् ।
<षष्ठः प्रकारः>
अपामार्गपलाशोत्थभस्मक्षारं समाहरेत्

1,4.419

टङ्कणं सयवक्षारं कासीसं च सुवर्चलं ।
सामुद्रं सैन्धवं राजीं माक्षिकं नवसारकं

1,4.420

कर्पूरं माक्षिकं तुल्यं स्नुह्यर्कक्षीरमर्दितं ।
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च

1,4.421

लेपं अङ्गुलमानेन प्राक्सूतं चात्र निक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु करीषाग्नौ द्रवत्यलं

1,4.422

इत्येवं द्रावितं जार्यं यावद्बीजं तु षड्गुणं ।
<१३. बाह्यद्रुतिः>
शिवे वक्ष्यामि ते बाह्यद्रुतिकर्म यथाक्रमं

1,4.423

येनोपायेनाभ्रकादिद्रुतिर्भवति तच्छृणु ।
<अभ्रकद्रुतिः>
अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्दमेव च

1,4.424

कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।
मूषायां द्रावयित्वा तदभ्रसत्वं द्रुतिर्भवेत्

1,4.425

<स्वर्णद्रुतिः>
फलपांशुर्देवदाल्याः शकगोपोऽश्वलालकाः ।
टङ्कणं जालिनीनीरैर्भावयेद्बहुधा प्रिये

1,4.426

द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः ।
<सर्वरत्नद्रुतिः>
त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसं

1,4.427

तथा ज्वालामुखीक्षारं स्थलकुम्भीरसेन च ।
पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकं

1,4.428

निक्षिपेत्तच्च जम्बीरे डोलायन्त्रे त्र्यहं पचेत् ।
एवं कृते हीरकस्य द्रुतिर्भवति सूतवत्

1,4.429

पद्मरागादिरत्नानां द्रुतिरेव कृते भवेत् ।
<द्रुतिमेलापनम्>
द्रुतीनां मेलनं वक्ष्ये शृणु भैरवि तत्त्वतः

1,4.430

कृष्णागरुश्च कस्तूरी ब्रह्मबीजं च माक्षिकं ।
नारीपुष्पं विषं हिंगु लशुनं टङ्कणं निशा

1,4.431

एतैः समं द्रुतिं सूतं तप्तखल्वे विमर्दयेत् ।
पाठा वन्ध्या तालमूली नीली त्रिविधचित्रकं

1,4.432

पद्मकन्दं क्षीरकन्दं बला गुञ्जामृतार्द्रकं ।
अश्वलाला निम्बपत्रं स्त्रीस्तन्यं च समं समं

1,4.433

एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितं ।
एतद्द्रुतियुते सूते क्षिप्त्वा क्षिप्त्वा विमर्दयेत्

1,4.434

मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ।
द्रुतयो मिलिता येन यन्त्रं तेनैव कच्छपं

1,4.435

लिम्पेच्च बिडयोगेन मेलयेज्जारयेत्क्रमात् ।
इत्येवं रसराजस्य षड्गुणां जारयेद्द्रुतिं

1,4.436

<१४. रञ्जनम्>
द्रुतिजीर्णस्य सूतस्य रञ्जनं शृणु पार्वति ।
तस्माद्रञ्जकबीजानां रञ्जनं च वदामि ते

1,4.437

<रञ्जनतैलविधिः>
पलाशपुष्पं मञ्जिष्ठा लोहितं करवीरजं ।
पुष्पं च खदिरं रक्तचन्दनं कुक्कुटी तथा

1,4.438

निशाद्वयं च सरलं देवदारुं जपासुमं ।
अन्यानि रक्तपुष्पाणि लाक्षातोयेन मर्दयेत्

1,4.439

एतच्चतुर्गुणं तैलं तैलाद्रक्तप्रसूनजं ।
द्रवं चतुर्गुणं देयं तैलशेषं यथा भवेत्

1,4.440

तस्मिन्निषेचयेद्बीजं एकविंशतिवारकं ।
रञ्जयेत्पक्वबीजानि सर्वाण्येवं सुरार्चिते

1,4.441

<नागबीजरञ्जनम्>
खर्परे नागमादाय चण्डाग्निं ज्वालयेदधः ।
पलाशपर्णबीजानि क्षिपेत्तस्मिन्प्रचालयेत्

1,4.442

पलाशदण्डेनामर्द्यं चतुर्यामेन भस्मति ।
तद्भस्म गन्धकं तुल्यमम्ले यामं प्रपेषयेत्

1,4.443

रुद्ध्वा पुटेद्गजपुटे स्वाङ्गशीतं तदुद्धरेत् ।
तच्चतुर्थांशकं गन्धं दत्त्वा पिष्ट्वा पुटे पचेत्

1,4.444

एवं द्विसप्तवारेण नागं स्याद्रक्तवर्णकं ।
वाशापञ्चाङ्गचूर्णं च तच्चूर्णं ककुभस्य च

1,4.445

शिग्रुकिंशुककोरण्डशाकपुष्पाणि नागिनीं ।
अहिमारं कुमारीं च नागकन्यां च चूर्णयेत्

1,4.446

एतत्सर्वं चैकभागं द्विभागं च मनःशिलां ।
भाण्डे सर्वं विनिक्षिप्य गवां मूत्रे चतुर्गुणे

1,4.447

पचेत्पादावशेषं तु पूर्वनागे क्षिपन्क्षिपन् ।
चुल्ल्यां पचेद्ब्रह्मदण्डैश्चालयेत्सप्तवासरं

1,4.448

इदं नागं पक्वबीजे द्रुते निर्वाहयेत्त्रिधा ।
रञ्जितं जायते बीजं मुख्यं स्याद्रसरञ्जने

1,4.449

<बीजरञ्जनप्रकारः>
ताप्यसत्वं च कृष्णाभ्रसत्वचूर्णं धमेत्समं ।
तस्मिन्द्रुते ताप्यचूर्णं मृतशुल्बं क्रमाद्वहेत्

1,4.450

त्रिगुणं तद्भवेद्बीजं रञ्जकं परमेश्वरि ।
<अन्यः प्रकारः>
कुनटी माक्षिकं गन्धं दरदं पेषयेत्समं

1,4.451

रक्तवर्गस्य गोमूत्रे पेषितस्य रसे प्रिये ।
पेषयेच्छोषयेत्सप्तवारं तच्चूर्णयेत्क्षिपेत्

1,4.452

द्वंद्विते तीक्ष्णताम्रे च तुल्यं क्षिप्त्वा धमेद्दृढं ।
ज्योतिष्मतीतैलयुक्ते रक्तवर्गे निषेचयेत्

1,4.453

पुनश्च पूर्वचूर्णं तु तुल्यं क्षिप्त्वा धमेत्प्रिये ।
सेचयेत्सप्तधा त्वेवं स्याद्बीजं रसरञ्जकं

1,4.454

<अन्यः प्रकारः>
तारं च विमलासत्त्वं समांशं द्रावयेत्ततः ।
सरक्तवर्गे गोमूत्रे भावितं दरदं त्रिधा

1,4.455

तत्तुल्यं निक्षिपेत्तस्मिन्धमेदेवं तु सप्तधा ।
क्षिप्त्वा क्षिप्त्वा च दरदं स्याद्बीजं रसरञ्जकं

1,4.456

<अन्यः प्रकारः>
घनसत्त्वं अहिं स्वर्णं समांशं द्वंद्वितं धमेत् ।
खर्परे रक्तवर्गं च माक्षिकं गैरिकं शिलां

1,4.457

समं संचूर्णयेत्तस्मिन्वापयेच्च समं समं ।
दशवारं भवेदेतद्बीजं सूतेन्द्ररञ्जकं

1,4.458

<अन्यः प्रकारः>
यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशद्वारं प्रयत्नेन तेन कल्केन लेपयेत्

1,4.459

नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतं ।
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च

1,4.460

शिलागन्धविषाणां च त्रयाणामेकभागकं ।
सेचयेन्मातुलुङ्गाम्लैः तेन कल्केन लेपयेत्

1,4.461

मूषागर्भे क्षिपेत्तत्तत्पूर्वनागं धमेत्ततः ।
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत्

1,4.462

इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।
<अन्यः प्रकारः>
पीताभ्रकस्य सत्वं तु पूर्वनागं च तत्समं

1,4.463

द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
अनेन द्वन्द्वयोगेन वापो देयो द्रुतस्य च

1,4.464

पक्वबीजस्य वारांस्त्रीन्तद्बीजं रञ्जितं शुभं ।
<तारबीजरञ्जनम्>
अथातस्तारबीजानां रञ्जनं शृणु पार्वति

1,4.465

नानाभूरुहसम्भूतश्वेतपुष्परसे प्रिये ।
चतुर्भागे चैकभागं कङ्गुणीतैलकं क्षिपेत्

1,4.466

तैलावशेषं विपचेत्तारबीजानि तत्र वै ।
भूयो भूयो द्रावयित्वा सेचयेदेकविंशतिं

1,4.467

बीजानि रञ्जितान्येवं भवेयू रसरञ्जने ।
एवं वङ्गस्य बीजानि रञ्जयेत्परमेश्वरि

1,4.468

<रञ्जनक्रमः>
द्रुतिजीर्णस्य सूतस्य चतुःषष्टितमांशकं ।
निक्षिपेद्रञ्जकं बीजं तप्तखल्वे दिनावधि

1,4.469

मर्दयेत्तप्तखल्वे तु पचेत्कच्छपयन्त्रके ।
एवं ग्रासक्रमेणैव षड्गुणं जारयेत्प्रिये

1,4.470

<१५. १७. सारणत्रयम्; सारणार्थे वज्रबीजसाधनम्; प्रथमः प्रकारः>
रञ्जितस्य रसेन्द्रस्य प्रवक्ष्ये सारणात्रयं ।
सारणा योग्यबीजानि दिव्यानि च सुरार्चिते

1,4.471

स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदं ।
रसेन्द्रार्धं नागभस्म चतुर्भागं मृतं पविं

1,4.472

एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ।
उद्धृत्य द्वन्द्वमेलापमूषायां रोधयेद्धमेत्

1,4.473

हठात्तच्च मिलत्येव वज्रबीजं इदं प्रिये ।
<द्वितीयः प्रकारः>
भावयेच्छारिबाक्षीरैर्मृतं वज्रं दिनं ततः

1,4.474

मर्दयेद्गोलकं कृत्वा शोषयेच्चैकभागकं ।
त्रिभागं रसराजं च चतुर्भागं सुवर्णकं

1,4.475

अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्वज्रगोलकं ।
तत्पिष्ट्या वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत्

1,4.476

पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः प्रिये ।
धमेद्धठान्मिलत्येव वज्रबीजं इदं भवेत्

1,4.477

वज्रषोडशभागेन स्वर्णपत्रेण वेष्टयेत् ।
तत्क्षिप्त्वा लिप्तमूषायां स्वर्णांशं श्वेतकाचजं

1,4.478

चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ।
निरुध्य च धमेत्तीव्रं एवं कुर्यात्पुनः पुनः

1,4.479

क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ।
सप्तधैवं मिलत्येव वज्रबीजमिदं भवेत्

1,4.480

<सारणातैलम्>
अतः परं सारणायां प्रवक्ष्ये तैलसाधनं ।
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवं

1,4.481

तैलं कूर्मवराहादिमेषमत्स्यसमुद्भवं ।
जलूकाभेकजाता च वसा ग्राह्या विधानतः

1,4.482

रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानां अनेकानां द्रवं हरेत्

1,4.483

पाटलीकाकतुण्ड्युत्थमहाराष्ट्रीद्रवं तथा ।
एकांशं तैलं एकांशा वसा क्वाथश्चतुर्गुणः

1,4.484

द्व्यंशैः पुष्पद्रवैर्द्व्यंशान्पाटल्यादिद्रवानपि ।
सर्वं ताम्रमये पात्रे मृदुना वह्निना पचेत्

1,4.485

तस्मिन्क्षिपेत्षोडशांशं भूलतामलताप्यकं ।
विख्यातं सारणातैलं रसराजस्य जारणे

1,4.486

रञ्जितं रसराजं तु सारणातैलसंयुतं ।
निक्षिपेत्सारणायन्त्रे नालमूषां गतं द्रुतं

1,4.487

बीजं तु ढालयेत्सूते चतुःषष्टितमांशकं ।
उद्धृत्य तप्तखल्वे तु पट्वम्लैर्मर्दयेद्दिनं

1,4.488

ततः कच्छपयन्त्रे तु सविव्ये पाचयेद्दिनं ।
इत्येवं षड्गुणं सार्यं सारितो जायते रसः

1,4.489

एवं द्वितीयवारे तु कृते सूतोऽनुसारितः ।
तथा तृतीयवारे तु रसः स्यात्प्रतिसारितः

1,4.490

<१८. वेधः>
सारितस्य रसेन्द्रस्य हरितालं समांशकं ।
मर्दयेद्धूर्ततैलैश्च दिनं दिव्यौषधिद्रवैः

1,4.491

तत उद्धृत्य क्षिपेद्वज्रमूषायां विपचेद्दिनं ।
करीषाग्नाविति पुनर्मर्द्यं पाच्यं त्रिधा प्रिये

1,4.492

अनेन कर्मणा देवि सूतो बद्धमुखो भवेत् ।
बद्धवक्त्रस्य सूतस्य भागमेकं सुरार्चिते

1,4.493

सुतारताम्रतीक्ष्णानां चूर्णानां एकभागकं ।
सर्वं संमर्दयेद्देवदालीनीरैर्दिनं ततः

1,4.494

मध्वाज्यैश्च दिनं मर्द्यं तेन कुर्यात्सुगोलकं ।
निक्षिपेद्वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत्

1,4.495

स रसः खोटबद्धः स्यात्तत्खोटं काचटङ्कणैः ।
तेजःपुञ्जो भवेद्यावत्तावत्कुर्याद्धमन्धमन्

1,4.496

तं रसं योजयेद्देहे लोहे रोगे च पार्वति ।
<देहवेधक्रमः>
देहवेधं प्रवक्ष्यामि सावधानं शृणु प्रिये

1,4.497

पाचनस्नेहनस्वेदवमनारेचनैः क्रमात् ।
शरीरं शोधयेल्लोणक्षाराम्लादिविवर्जितः

1,4.498

ततस्त्वारोटकं सूतं भक्षयेत्परमेश्वरि ।
क्षेत्रं कृत्वा शरीरं तु ततः सिद्धरसं क्षिपेत्

1,4.499

शतवेधिरसं पूर्वं ततः साहस्रवेधकं ।
दशसाहस्रवेधं च लक्षवेधकरं रसं

1,4.500

वेधकं दशलक्षस्य कोटिवेधं सुरार्चिते ।
गन्धकेन युतं सूतं क्रमेणानेन सुव्रते

1,4.501

स रसः क्रमते देहे सिद्धयः सम्भवन्ति हि ।
रसायने तु याः प्रोक्ता मूलिका देहसिद्धिदाः

1,4.502

ताभिर्युक्तो रसेन्द्रस्तु देहे संक्रमते प्रिये ।
क्रामति तनौ हि सूतो जनयति पुत्रांश्चदेवतागर्भान्

1,4.503

खे गमनेन च नित्यं संचरणं सकलभुवनेषु ।
धाता भुवनत्रितये स्रष्टाद्यो ब्रह्मयोनिरिव

1,4.504

विष्णुरिव पालनार्थे संहर्ता रुद्रदेववत्सत्कलं ।
<लोहवेधक्रमः>
क्रामणं लोहवेधस्य वक्ष्यामि शृणु भैरवि

1,4.505

दरदं माक्षिकं कान्तं शिलां गन्धं विषं घनं ।
रसकं भूलतां हिङ्गु कान्तास्यं टङ्कणं प्रिये

1,4.506

गन्धकेन हतं ताम्रं भुजङ्गं शिलया हतं ।
दरदेन हतं तीक्ष्णं महिषीकर्णसम्भवं

1,4.507

मलं वायसविष्ठां च प्रथमार्तवरक्ततः ।
अनेन वेष्टयेत्सिद्धसूतं लोहेषु वेधयेत्

1,4.508

तारकृष्ट्यष्टनवतिः स्वर्णमेकं तथा रसः ।
शतवेधी तु विख्यातस्त्वेवं साहस्रवेधकः

1,4.509

वेधयेद्दशसाहस्रं लक्षं कोटिमथार्बुदं ।
जारणायां बलं यावत्तावल्लोहानि वेधयेत्

1,4.510

<१. क्रामणयोगः>
माक्षिकं भूलतां सूतं कुनटीं टङ्कणं तथा ।
स्त्रीस्तन्यरक्तं सम्पिष्टं क्रामणं क्षेपलेपयोः

1,4.511

<२. क्रामणयोगः>
हिङ्गुलं रसकं कान्तं इन्द्रगोपं विषं तथा ।
मर्दयेत्तैलरक्ताभ्यां क्रामणं क्षेपलेपयोः

1,4.512

<३. क्रामणयोगः>
गण्डोलविषभेकास्यमहिषीनेत्रजं मलं ।
रुधिरेण समायुक्तं रससंक्रामणे हितं

1,4.513

<४. क्रामणयोगः>
रोचनं गुग्गुलुं स्तन्यं इन्द्रगोपं विषं तथा ।
सर्वं संमर्दयेद्देवि रससंक्रामणे हितं

1,4.514

<५. क्रामणयोगः>
विष्णुक्रान्ता मधूच्छिष्टं माहिषं कर्णजं मलं ।
भूलता काकविष्ठा च लाङ्गली द्विपदीरजः

1,4.515

नररक्तं ब्रह्मसोमा सुरसा शैलजं प्रिये ।
शृङ्गी च लक्ष्मणा गृध्रकर्णी च क्रामणं परं

1,4.516

<६. क्रामणयोगः>
श्रीवेष्टनिम्बनिर्यासस्त्रीस्तन्यविषटङ्कणैः ।
गोघृतेन समायुक्तो लोहे संक्रामते रसः

1,4.517

<७. क्रामणयोगः>
परमं क्रामणं वङ्गं मृगनाभं च पार्वति ।
मातृवाहः कुलीरश्च शङ्खाभ्यन्तरजो मलः

1,4.518

तथा कपित्थनिर्यासो रससंक्रामणं परं ।
क्रामणं रसराजस्य वेधकाले प्रदापयेत्

1,5.1

âक्, १, ५
<विशेषजारणाक्रमः>
श्रीभैरवी ।
सामान्यजारणा प्रोक्ता त्वया पूर्वं सदाशिव ।
विशेषजारणं ब्रूहि यथा जानाम्यहं प्रभो

1,5.2

श्रीभैरवः ।
शृणु देवि वक्ष्यामि भूचराख्यं तु जारणं ।
<भूचरी जारणा>
कृष्णं पीतं तथा रक्तं शुल्बे तीक्ष्णे च मेलयेत्

1,5.3

शुल्बं शुद्धं यदा जीर्णं द्वाविंशतिगुणं मते ।
गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत्

1,5.4

हेम्ना तु सह दातव्यं सूतकैकेन षोडश ।
गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः

1,5.5

हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ।
गन्धकेन हतं शुल्बं माक्षिकं दरदायसं

1,5.6

पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणं ।
सूतके हेमबीजं च यदा जीर्णं चतुर्गुणं

1,5.7

बद्धरागं विजानीयाद्धेमाभो जायते रसः ।
सारणायन्त्रमध्यस्थं तेनैव सह सारयेत्

1,5.8

त्रिभागं सारितं कृत्वा पुनस्तत्रैव जारयेत् ।
जारितः सारितश्चैव पुनर्जारितसारितः

1,5.9

सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ।
भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु

1,5.10

<खेचरी जारणा>
हीनरागानि रत्नानि रसोच्छिष्टानि कारयेत् ।
कटुतुंबस्य बीजानि तस्यार्धेन तु दापयेत्

1,5.11

महाजारसमायुक्तं कल्कं कुर्याद्विचक्षणः ।
वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसं

1,5.12

कतकं कनकं चैवं एकीकृत्य विमर्दयेत् ।
पद्मरागप्रलेपं तु रसे ग्रासं तु दापयेत्

1,5.13

भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः ।
सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः

1,5.14

मूर्च्छाङ्गदाहश्च ततो जायते नात्र संशयः ।
आत्मानमुत्थितं पश्येद्दिव्यदेहो महाबलः

1,5.15

शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह ।
इच्छया विचरेल्लोकान्कामरूपी विमानगः

1,5.16

देवा वै यत्र लीयन्ते सिद्धस्तत्रैव लीयते ।
<अन्यो जारणाप्रकारः>
पुनरन्यं प्रवक्ष्यामि जारणायोगं उत्तमं

1,5.17

सुघृष्टं पातितं सूतं सर्वदोषोज्झितं ततः ।
शाकपल्लवसारेण विष्णुक्रान्तारसेन च

1,5.18

पालाशपुष्पतोयेन भावितं गन्धकं समं ।
समं कृष्णाभ्रसत्वं च रसकं चाष्टकं गुणं

1,5.19

तीक्ष्णशुल्बोरगं चैव कूर्मयन्त्रेण जारयेत् ।
काञ्चनं जारयेत्पश्चाद्बिडयोगेन पार्वति

1,5.20

ततः सिद्धं विजानीयाद्द्वैधं शुल्वस्य दापयेत् ।
कर्मसंख्याप्रमाणेन नागो भवति काञ्चनं

1,5.21

अतः परं प्रवक्ष्यामि जारणाक्रमं उत्तमं ।
बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः

1,5.22

षोडशांशेन तं ग्रासमङ्गुल्या मर्दयेच्छनैः ।
आर्द्रकादि ततो योगाद्दातव्यं षोडशांशतः

1,5.23

भूर्जे दत्त्वा ततो देयं डोलायन्त्रे विनिक्षिपेत् ।
अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये

1,5.24

समुद्धृत्य रसं देवि खल्वे संमर्दयेत्ततः ।
ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना

1,5.25

तप्तं समुद्धृतं यन्त्रात्तप्तखल्वे विमर्दयेत् ।
मर्दयित्वार्द्रके पिण्डे क्षिप्त्वाथ त्रिपुटं दहेत्

1,5.26

ततो गर्भे पतत्याशु जरते तत्सुखेन तु ।
डोलायन्त्रे ततो दद्यादार्द्रपिण्डेन संयुतं

1,5.27

तृतीयदिवसे सूतो जरते ग्रसते ततः ।
समजीर्णं ततो यावत्डोलायन्त्रे विचक्षणः

1,5.28

पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति ।
ताम्रांशद्वादशांशेन कच्छपेन तु जारयेत्

1,5.29

प्राग्वदार्द्रकयोगं च गर्भद्रावणं एव च ।
पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः

1,5.30

अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् ।
कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकं

1,5.31

पुटयेद्वार्तिकस्तावत्यावत्कन्दो न दह्यते ।
पादांशेन तु मूषायां ग्रासः सूते विधीयते

1,5.32

पूर्ववच्च बिडं दद्याद्गर्भद्रावणमेव च ।
एवं चतुर्गुणे जीर्णे सूतको बलवान्भवेत्

1,5.33

ततः शलाकया ग्रासमग्निस्थो ग्रसते रसः ।
ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु

1,5.34

अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च ।
रसानुपरसान्दत्त्वा महाजारसमन्वितं

1,5.35

वज्रकन्दलतां ब्राह्मीमेषशृङ्ग्यमृतायसं ।
कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत्

1,5.36

सर्वाणि समभागानि शिखिशोणितमर्दितं ।
तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत्

1,5.37

मूषा मल्लाकृतिश्चैव कर्तव्याच्छादनैः सह ।
तन्मध्ये स्थापयेत्सूतमधोवातेन धामयेत्

1,5.38

आदौ तावत्प्रकर्तव्यं वज्रमौषधलेपितं ।
गृह्यते नात्र सन्देहो यथा तीव्रहुताशने

1,5.39

कुलिशादि भवेद्दग्धं करीषा तेन मर्दयेत् ।
यावदेकादशगुणं कुलिशं जारयेद्बुधः

1,5.40

संदग्धा शङ्खनाभिश्च मातुलुङ्गरसप्लुता ।
मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके

1,5.41

अनेन क्रमयोगेन ह्येकादशगुणं भवेत् ।
केवलं शिखिपित्तं च नीलीनिर्यासमिश्रितं

1,5.42

नीलोत्पलानि लिप्तानि निक्षिप्तानि तु सूतके ।
रसः पिबेन्महारागान्हीनरागान्परित्यजेत्

1,5.43

रत्नानि शिखिपित्तं च महारत्नसमन्वितं ।
सद्रत्नं लेपयेत्तेन प्रक्षिपेद्रसमध्यतः

1,5.44

रजनी चैव कङ्कुष्ठं ब्रह्मनिर्यासभावितं ।
जारणं पुष्परागस्य तेनैव सह दापयेत्

1,5.45

बहुरत्नेषु जीर्णेषु भृङ्गराजेषु सुव्रते ।
रसेन्द्रो दृश्यतां देवि नीलपीतारुणच्छविः

1,5.46

<धूमवेधीरसः>
शुद्धानि हेमपत्राणि शतांशेनानुलेपयेत् ।
पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत्

1,5.47

संस्पर्शाद्वेधयेत्सर्वं इदं हेम मृतं प्रिये ।
त्रिभागं सूतकेन्द्रस्य तेनेव सह कारयेत्

1,5.48

मूषामध्ये स्थिते तस्मिन्पुनस्तेनैव जारयेत् ।
धूमवेधी भवेद्देवि पुनः पुनः प्रसारितः

1,5.49

अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला ।
वेधयेन्नात्र सन्देहो गिरिपाषाणभूतलं

1,5.50

पार्श्वे ज्योतिः प्रदृश्येत ऊर्ध्वं दृश्येत तेन वै ।
भूचरं तं विजानीयाद्रसेन्द्रं नात्र संशयः

1,5.51

तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत् ।
दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः

1,5.52

सर्वरोगविनिर्मुक्तो जीवेच्चन्द्रार्कतारकं ।
तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति

1,5.53

<अन्ये वेधप्रकाराः>
समजीर्णेन वज्रेण हेम्ना च सहितेन च ।
अग्निस्थो जारयेल्लोहान्बन्धं आयाति सूतकः

1,5.54

सारयेत्तेन बीजेन सहस्रमपि वेधयेत् ।
सारितं जारयेत्पश्चात्लेप्यं क्षेप्यं सहस्रतः

1,5.55

सारयेत्तेन बीजेन लक्षवेधं अवाप्नुयात् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः

1,5.56

केवलं तु यदा वज्रं समजीर्णं तु कारयेत् ।
बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः

1,5.57

अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् ।
हठाग्निना धाम्यमानो ग्रसते सर्वमादरात्

1,5.58

ग्रसते जरते सूतं आयुर्द्रव्यप्रदायकः ।
मूषास्थं धमयेत्सूतं हठाग्नौ नैव कम्पयेत्

1,5.59

जारयेत्सर्वरत्नानि बद्धः खेचरतां नयेत् ।
अष्टलोहेऽष्टगुणिते जीर्णे स्याद्रसबन्धनं

1,5.60

लोहानि सर्वांस्त्रिगुणं त्रिगुणं कनकं तथा ।
धूमावलोके वेधी स्यात्भवेन्निर्वाणदोऽम्बरः

1,5.61

आदावष्टगुणं जार्यं व्योमसत्त्वं महारसे ।
समं हेमदशांशेन वज्ररत्नानि जारयेत्

1,5.62

समं च जारयेद्वज्रं तदासौ खेचरो रसः ।
क्रमे प्रदक्षिणावर्तः कोटिवेधी च जायते

1,5.63

<जीर्णद्रव्यमानभेदाद्वेधे विशेषः>
समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।
द्विगुणे शतवेधी स्यात्सहस्रं त्रिगुणे भवेत्

1,5.64

चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् ।
उत्तरोत्तरवृद्ध्या तु जारयेत्तत्र पन्नगं

1,5.65

कुटिलं पन्नगं जार्यं नवसंख्याक्रमेण तु ।
दत्त्वा क्रमेण देवेशि कोटिवेधी भवेद्रसः

1,5.66

गन्धकादिमपाषाणे षड्गुणे जीर्णतां गते ।
रोगहर्ता रसः स्यात्तु समुखे तवदा भवेत्

1,5.67

तस्मिन्शतगुणे जीर्णे रुग्जरामृत्युहा भवेत् ।
अभ्रकादिमपाषाणसत्त्वान्यात्मसमं ग्रसन्

1,5.68

रुग्जरा मरणं जित्वा शतवेधी रसो भवेत् ।
शतायुर्द्विगुणे जीर्णे सूतः साहस्रवेधकः

1,5.69

चतुर्गुणे सहस्रायुः पारदोऽयुतवेधकः ।
रसश्चाष्टगुणे जीर्णे लक्षायुर्लक्षवेधकः

1,5.70

ब्रह्मायुः षोडशगुणे कोटिवेधी भवेद्रसः ।
द्वात्रिंशद्गुणिते जीर्णे खेचरत्वादिसिद्धिदः

1,5.71

विष्णोरायुर्बलं दत्ते पारदः स्पर्शवेधकः ।
चतुःषष्टिगुणे जीर्णे शिवायुः शब्दवेधकः

1,5.72

<षड्गुणाभ्रकजारणेन सर्वदोषनाशः>
रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेण तु ।
जीर्णेन नाशं आयान्ति नात्र कार्या विचारणा

1,5.73

तदा ग्रसति लोहानि त्यजेच्च गतिं आत्मनः ।
<पञ्चावस्था>
धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च

1,5.74

सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ।
समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणः

1,5.75

वृद्धः षड्गुणजीर्णस्तु सर्वकर्मकरः शुभः ।
<जारणे क्रमः>
गन्धकं जारयेदादौ सर्वसत्त्वान्यतः परं

1,5.76

ततः सर्वाणि लोहानि द्वन्द्वानि विविधानि च ।
पक्वबीजानि रत्नानि द्रुतिसत्त्वे च जारयेत्

1,5.77

चतुःषष्ट्यंशके पूर्वं द्वात्रिंशांशे तृतीयकः ।
तृतीयः षोडशांशे तु चतुर्थश्चाष्टमेन च

1,5.78

पञ्चमोऽथ चतुर्थांशे षष्ठो द्व्यंशे प्रकीर्तितः ।
शतांशे सप्तमो ज्ञेयो ग्रासमानं रसस्य तु

1,5.79

<ग्रासमानभेदेन स्वरूपभेदः>
चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः ।
जलूकाभो द्वितीये तु ग्रासयोगे सुरेश्वरि

1,5.80

ग्रासे रसात्तृतीये च काकविष्ठासमो भवेत् ।
चतुर्थो गोलकाकारः पञ्चमे दहनप्रभः

1,5.81

षष्ठे सूर्यप्रभः सूतस्तेजःपुञ्जश्च सप्तमे ।
रसराजस्य देवेशि क्रमाज्जीर्णस्य लक्षणं

1,5.82

समांशं द्विगुणं ग्रासं ततः सूते चतुर्गुणं ।
तथा चाष्टगुणं देवि जारयेच्च कलागुणं

1,5.83

द्वात्रिंशद्गुणितं देवि चतुःषष्टिगुणं क्रमात् ।
<संस्कारैर्जायमाना गुणाः>
तीव्रत्वं जनयेत्स्वेदादमलत्वं च मर्दनात्

1,5.84

मूर्छनाद्दोषराहित्यं उत्थानात्पूतिनाशनं ।
रसायनं पातनेन रोधादाप्यायनं भवेत्

1,5.85

अचापल्यं नियमनाद्दीपनात्समुखो ज्वलेत् ।
वासनाद्योगसांगत्यं चारणाद्बलचारिता

1,5.86

जारणाद्बन्धनं सम्यगेकत्वं द्रावणद्वयात् ।
रक्तत्वं रञ्जनात्तस्य व्यापित्वं सारणात्रयात्

1,5.87

क्रामित्वं क्रामणाद्देहलोहेष्वपि च वेधनात्

1,6.1

âक्, १, ६
<देहवेधक्रमः>
प्रणम्य शिरसा शम्भुं पप्रच्छ गिरिजात्मजा ।
श्रीभैरवी ।
देहवेधस्त्वया पूर्वं संक्षेपात्कथितः प्रभो

1,6.2

तं देहवेधं आचक्ष्व सम्यक्जानाम्यहं यथा ।
श्रीभैरवः ।
देवि प्रवक्ष्यामि देवानामपि दुर्लभं

1,6.3

योगिनां भोगयुक्तानां देहवेधं सुरेश्वरि ।
पाचनादि प्रकुर्वीत पञ्चकर्मविधानतः

1,6.4

<पञ्चकर्माणि; १. पाचनम्>
लवणादिसमुत्क्लिष्टान्दोषान्संशोधयेत्क्रमात् ।
ततो जीर्णरसं चाद्यात्क्रमादेवं सुरेश्वरि

1,6.5

लघ्वाहारो दिवा भूत्वा क्षुद्राधान्याकनागरं ।
एतत्त्रयं पलोन्मेयं उदकेष्ववलोडयेत्

1,6.6

अष्टावशिष्टं संक्वाथ्य प्रतिरात्रं पिबेत्त्र्यहं ।
अनन्तरं वराक्वाथं पूर्ववत्त्रिदिनं पिबेत्

1,6.7

इति पाचनं आतन्यादथ स्नेहनं आचरेत् ।
<२. स्नेहनम्>
घृतौदनं छागरसं दिवा भुञ्जीत मात्रया

1,6.8

आज्यान्नं वा मुद्गरसं लघ्वाशी स्याद्दिने सुधीः ।
रात्रौ पिबेद्घृतं गव्यं सैन्धवेन समन्वितं

1,6.9

निष्कमेकं सैन्धवं च घृतं निष्कचतुष्टयं ।
भृङ्गामलकतैलेन सर्वाङ्गं अभिषेचयेत्

1,6.10

एवं सप्तदिनं कुर्यात्स्नेहनं परमं हितं ।
<३. स्वेदनम्>
मत्स्यमांसं माषतिलयवजामलसक्तवः

1,6.11

सर्वं एतद्भवेत्प्रस्थं एकाष्ठीलागरूबला ।
रास्ना व्याघ्री घनापत्रं कौशिकातिविषा निशा

1,6.12

सर्वमेतद्द्वयपलं तक्रक्षीराम्बुकांजिकं ।
द्व्याढके निक्षिपेत्सर्वं मृत्पात्रे क्वाथयेत्सुधीः

1,6.13

कुर्यात्तस्योष्मणा गात्रं स्विन्नं द्विघटिकावधि ।
एवं सप्तदिनं कुर्यात्स्वेदनं परमं हितं

1,6.14

<४ वमनम्>
मदनस्य फलं चैकं पाठा षोडशिकं जलं ।
पादावशिष्टं संक्वाथ्य तज्जले वस्त्रशोधिते

1,6.15

पिप्पलीन्द्रयवा यष्टिलवणं कर्षमात्रकं ।
निक्षिपेच्च पिबेत्प्रातर्वान्तिः स्यात्सर्वरोगहा

1,6.16

<५. विरेचनम्>
सूतटङ्कणगन्धाश्म त्रिकटुं त्रिफलां समं ।
एतैः समं तु जेपालं श्लक्ष्णं तत्परिमर्दयेत्

1,6.17

गुञ्जाद्वितयमात्रं तु गुडेन सह भक्षयेत् ।
विरेचनं इति प्रोक्तं सर्वव्याधिविनाशनं

1,6.18

पञ्चकर्मेति कथितं क्रमात्कुर्याद्विरेचने ।
<दोषशोधकयोगाः>
केतकीस्तनजम्बीरं प्रत्यहं कुडुवं पिबेत्

1,6.19

सप्तवासरपर्यन्तं प्रातर्लवणदोषहृत् ।
सलिले षोडशपले त्रिफलैकपलं क्षिपेत्

1,6.20

क्वाथयेत्पादशेषं तत्तस्मिन्शीते मधोः पलं ।
पिबेत्प्रभाते त्रिदिनं क्षारदोषहरं परं

1,6.21

विडङ्गं सवचाकुष्ठं केतकीस्तनसंयुतं ।
क्वथितं त्रिदिनं पीतमम्लदोषहरं पिबेत्

1,6.22

अथवा तिन्त्रिणीक्षारसलिलं पलमात्रकं ।
यवक्षारसिताकर्षं संयोज्य त्रिदिनं पिबेत्

1,6.23

अम्लदोषविनाशोऽयं कथितश्च रसायने ।
वचाबिडालपालाशबीजजन्तुघ्नकर्षकं

1,6.24

कर्षं गुडं च तत्सर्वं भक्षयेदुष्णवारि च ।
पिबेत्प्रातस्त्रिदिवसं भवेत्तत्क्रिमिपातनं

1,6.25

श्यामावह्निविडङ्गानि वाशा त्र्यूषं फलत्रयं ।
सैन्धवं देवदारुं च मुस्ता चैतत्समं समं

1,6.26

घृतैः कर्षं लिहेत्प्रातः सप्ताहात्सर्वरोगजित् ।
एवं कृत्वा देहशुद्धिं शाल्यन्नं क्षीरभोजनं

1,6.27

सम्यग्जातबलो भूत्वा ततः कुर्याद्रसायनं ।
<रसायनोपयोगः>
क्षीराज्यामलकरसक्षौद्रैः सुरतरूद्भवं

1,6.28

तैलं निर्मथ्य तत्सर्वं द्विपलं प्रत्यहं पिबेत् ।
मासेन कान्तिर्मेधा च भवत्येव न संशयः

1,6.29

द्वितीयमासि पूर्वोक्तं तत्पिबेत्तच्चतुःपलं ।
तेन शाम्यन्ति दोषाश्च विकारा नेत्रसम्भवाः

1,6.30

पुनस्तृतीये मासे तु सेव्यं षट्पलमात्रकं ।
तेनामरवपुर्भूयान्महातेजा भवेद्ध्रुवं

1,6.31

<आरोटरससेवाक्रमः>
अथारोटरसः सेव्यः क्रमेण परमेश्वरि ।
अयःशुल्बाभ्रताप्येभ्यः पातितो मारितः क्रमात्

1,6.32

अयमारोटकरसो देहसिद्धिकरः परः ।
स्वेदनाद्यैश्च संस्कारैः सप्तभिः संस्कृतो रसः

1,6.33

मूर्छितो रञ्जितो देवि सूतस्त्वारोटकः स्मृतः ।
रसायने रोगशान्त्यां श्रेष्ठः सर्वगुणप्रदः

1,6.34

कान्ताभ्रसत्वारोटाश्च समं गुञ्जाद्वयोन्मितं ।
मध्वाज्यत्रिफलाभिश्च मासमेकं भजेदिति

1,6.35

एवं क्रमेण संसेव्यं द्वित्रिवेदेषुषट्क्रमात् ।
एवं षोडशमासान्तं गुञ्जाषोडशमात्रकं

1,6.36

आरोटकरसे चेत्थं कुर्यान्मत्प्राणवल्लभे ।
वलीपलितनिर्मुक्तो जीवेच्च शरदः शतं

1,6.37

<आरोटरसः>
कान्तसत्त्वाभ्रसत्त्वं च स्वर्णजीर्णरसस्तथा ।
सर्वमेतत्समीकृत्य भजेदारोटकं तथा

1,6.38

क्षेत्रीकरणमेतद्धि सहस्रायुष्यकारकं ।
अभूमौ योजितः सूतो न प्ररोहति कुत्रचित्

1,6.39

तस्मात्क्षेत्रमकृत्वैव योजयेद्यस्तु सूतकं ।
न प्ररोहेदस्य शुभं बीजं इवोषरे

1,6.40

<खोटबद्धरससेवाक्रमः>
पूर्वोक्तखोटबद्धस्य सूतस्य विधिं उत्तमं ।
क्रामणं च क्रमाद्वक्ष्ये तथा विधिनिषेधनं

1,6.41

शृणु पार्वति यत्नेन त्वत्प्रीत्या कथयाम्यहं ।
कान्ताभ्रस्वर्णवज्राणि रसस्य क्रामणं परं

1,6.42

क्रामणेन विना सूतो न सिध्येद्देहलोहयोः ।
गुञ्जामात्रं खोटबद्धं क्रामणक्षौद्रसंयुतं

1,6.43

मासमेकं भजेदित्थं पुनर्विधिक्रमेण वै ।
मासषोडशपर्यन्तं यथारोटरसस्तथा

1,6.44

स शतायुष्यं आप्नोति सर्वरोगविवर्जितः ।
पलमात्रोपयोगेन व्याधिभिर्नाभिभूयते

1,6.45

द्वितीये शुक्रवृद्धिः स्यात्तृतीये बलवान्भवेत् ।
चतुर्थे पलितं हन्ति वलिं जयति पञ्चमे

1,6.46

षष्ठे श्रुतिधरो वाग्मी सप्तमे नेत्ररोगहृत् ।
अष्टमे तार्क्ष्यदृष्टिः स्याद्ब्रह्मायुर्ब्रह्मविक्रमः

1,6.47

उपयुञ्ज्यान्नवपलं सिद्धिमेलापकं भवेत् ।
विनियुञ्ज्याद्दशपलं द्वितीयः शङ्करो भवेत्

1,6.48

सहस्रायुष्यकरं सूतं माषमात्रं भजेन्नरः ।
अयुतायुष्करं सूतं यवमात्रं भजेत्प्रिये

1,6.49

लक्षायुष्यकरं सूतं व्रीहिमात्रं भजेत्सुधीः ।
कोट्यां भजेत्सूतं खादयन्मुद्गमात्रकं

1,6.50

एतत्सर्वं रसानां तु क्रामणं पूर्ववद्भवेत् ।
सहस्रायुःप्रदः सूतो ब्रह्मत्वं विदधाति सः

1,6.51

अयुतायुष्करः सूतो विष्णुतां प्रददाति च ।
लक्षायुष्यकरः सूतो रुद्रत्वं उपपादयेत्

1,6.52

कोट्यायुष्यप्रदः सूतः शिवत्वं विदधाति च ।
माक्षीकजीर्णसूतस्तु धनदत्वं ददाति वै

1,6.53

इन्द्रत्वं विमलाजीर्णस्त्वभ्रजीर्णोऽर्कतां ददेत् ।
ब्रह्मतां शुल्बजीर्णश्च विष्णुतां तारजारितः

1,6.54

रुद्रता हेमजीर्णे स्यादीशत्वं वज्रजारिते ।
सदाशिवत्वं च ददेत्पारदो द्रुतिजारितः

1,6.55

सच्चिदानन्दरूपत्वं सूतको बीजजारितः ।
सामान्येन तु तीक्ष्णेन रुद्रत्वं प्राप्नुयान्नरः

1,6.56

एवं यो लोहजीर्णं तु भक्षयेद्भस्मसूतकं ।
जलेन जलरूपी स्यात्स्थलेन स्थलतां व्रजेत्

1,6.57

तेजस्त्वं तेजसा देवि वायुना वायुरूपभाक् ।
कर्ता हर्ता स्वयं साक्षाच्छापानुग्रहकारकः

1,6.58

यत्र मूत्रपुरीषं तु साधकस्तु परित्यजेत् ।
पाषाणं मृण्मयं तत्र स्पृष्टं भवति काञ्चनं

1,6.59

प्रस्वेदात्तस्य गात्रस्य लोहान्यष्टौ च वेधयेत् ।
तत्सर्वं कनकं दिव्यं भक्षिते द्वादशे पले

1,6.60

अथवा तारजीर्णं तु भक्षयेद्भस्मसूतकं ।
शुल्बारं वङ्गघोषं च तत्स्वेदात्तारता भवेत्

1,6.61

अथवा तीक्ष्णजीर्णं तु भक्षयेद्भस्मसूतकं ।
मूत्रेण तस्य स्पृष्टं तु वङ्गं व्रजति तारतां

1,6.62

एकैकेन निषेकेन स्तम्भनं नागवङ्गयोः ।
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत्

1,6.63

द्विगुञ्जं तारजीर्णस्य रविजीर्णस्य च त्रयं ।
तीक्ष्णाभ्रकान्तमाषैकं गुंजैका द्वेऽथवा भवेत्

1,6.64

वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोन्मितं ।
नागवङ्गवसाकीटविषोपविषसंयुतं

1,6.65

मूत्रयुक्तं हठाद्बद्धं त्यजेत्कल्कं रसायने ।
हेमतारप्रवेशेन जातो योऽग्निसहः क्रमात्

1,6.66

बद्धश्च रसराजोऽयं देहसिद्धिप्रदो भवेत् ।
वज्रायस्कान्तमाक्षीकवैक्रान्ताभ्रककाञ्चनं

1,6.67

एतैर्जीर्णो यथालाभं रसः शस्तो रसायने ।
षडेवोपरसाश्चैव भक्षणार्थं रसायने

1,6.68

भस्मनस्तीक्ष्णजीर्णस्य पलं एकं तु भक्षयेत् ।
दशवर्षसहस्राणि वज्रकायः स जीवति

1,6.69

एवं च द्वादशपलं तीक्ष्णजीर्णस्य भक्षयेत् ।
एवं जीवन्महाकल्पं प्रलयान्ते शिवं व्रजेत्

1,6.70

भस्मनः शुल्बजीर्णस्य पलेन ब्राह्ममायुषं ।
द्विपले वैष्णवायुष्यं रुद्रायुस्त्रिपलेन तु

1,6.71

चतुर्थे तु पले देवि शिवत्वं प्राप्नुयान्नरः ।
हेमजीर्णे भस्मसूते त्रिपले भक्षिते क्रमात्

1,6.72

अष्टाशीतिसहस्राणि योगिन्यो मददर्पिताः ।
तस्य तिष्ठन्ति किंकर्यः कामरूपी भवेन्नरः

1,6.73

यद्यद्भावयते रूपं तत्तद्रूपधरो भवेत् ।
यत्र यत्र विलीयन्ते सिद्धिस्तत्रैव लीयते

1,6.74

मिते पले द्वादशभिर्हेमभस्मनि भक्षिते ।
गुंजैकमात्रं देवेशि ज्ञात्वा चाग्निबलं निजं

1,6.75

घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं भजेत् ।
एको हि दोषः सूक्ष्मोऽपि भक्षिते भस्मसूतके

1,6.76

त्रिःसप्ताहाद्वरारोहे कामान्धो जायते नरः ।
कामिनीनां सहस्रं तु क्षोभयेद्दिवसान्तरे

1,6.77

नारीसङ्गाद्वरारोहे देहे क्रामति सूतकः ।
नारीसङ्गाद्विना देवि ह्यजीर्णं तस्य जीर्यते

1,6.78

मैथुनाच्चलिते शुक्ले त्रिसप्ताहादधः कृतात् ।
जायते प्राणसंदेहस्तावन्मैथुनं त्यजेत्

1,6.79

युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनं ।
यस्याः स्पर्शनमात्रेण रसः क्रामति विग्रहे

1,6.80

यथा तथा ह्लादयते सुस्त्रीरूपनिरीक्षणं ।
तथा क्रामति देवेशि सूतकोऽसौ ततः क्षणात्

1,6.81

अश्वत्थसदृशो यस्या आधारश्च समः शुभः ।
तादृशस्तु भगो देवि भाजने तु रसायने

1,6.82

निर्मांसश्चैव दीर्घश्च भगः शुष्कशिरास्तथा ।
दुःखदारिद्र्यकर्तारं वर्जयेत्तं रसायने

1,6.83

पक्षे शुक्ले शुभदिने चन्द्रताराबलान्विते ।
सुमुहूर्ते चिन्त्य शिवानलविप्रगुरून्द्विजः

1,6.84

संतुष्टः सुमना भूत्वा रसं सेवेत सिद्धिदं ।
पयसा हेमशुण्ठीभ्यां नस्यं क्रामणमुत्तमं

1,6.85

हेमादि षड्लोहकृतं अञ्जनं क्रामणं परं ।
<रससेवायां पथ्यापथ्यम्>
अतः परं प्रवक्ष्यामि रससेवाहिताहितं

1,6.86

रक्तशाल्यन्नगोधूमं गव्यं क्षीरं घृतं दधि ।
जाङ्गलं पललं मुद्गं शर्करा मधु सैन्धवं

1,6.87

हंसोदकं वास्तुकं च मेघनादः पुनर्नवा ।
पटोलालाबुकदलीधान्यकेक्षुकदाडिमं

1,6.88

नालिकेराम्बु विश्वं च सदा ताम्बूलचर्वणं ।
गन्धसारं कुङ्कुमं च मृगनाभिं विलेपयेत्

1,6.89

सुरभीणि सुपुष्पाणि मृदुशय्येष्टकामिनीः ।
शिवात्मज्ञानकथनं मृदुभाषा सुखासिका

1,6.90

दिव्याम्बराणि शुद्धानि छाया चाल्पविपर्यटं ।
मृत्युञ्जयजपो हर्षो मन्दहासश्च शुद्धता

1,6.91

नर्तनालोकनं गीतश्रवणं शिवपूजनं ।
देवाग्निगुरुविप्राणां वन्दनं श्रुतिपालनं

1,6.92

समाधिः प्राणिकरुणा सत्यवाक्यं हितं प्रियं ।
वाग्देहमनसा चेष्टा यथा दुःखनिरोधिनी

1,6.93

एतत्सर्वं रसेन्द्रस्य क्रामणं कथितं प्रिये ।
अहितं रससेवायाः कथयामि शृणु प्रिये

1,6.94

अत्यशनं चातिपानं अतिनिद्रातिजागरं ।
अकाले भोजनं स्त्रीणामतिसङ्गोऽप्यसङ्गिता

1,6.95

अस्थानमदहासाश्च हर्षः कोपोऽधिकस्पृहा ।
बहुजल्पो जलक्रीडा दुःखं अत्यन्तचिन्तनं

1,6.96

कलिङ्गं कारवेल्लं च कूष्माण्डः कर्कटी तथा ।
काकमाची कुलत्थं च कार्कोटी च कुसुम्भिका

1,6.97

तिलातसीतैलमाषकपोतकमसूरकाः ।
तक्रभक्तं च सौवीरं तिक्तकट्वम्ललावणं

1,6.98

क्षारं क्षौद्रं पिच्छिलं च पित्तलं च परूषकं ।
माहिषीः क्षीरविकृतीर्विदरं सहकारकं

1,6.99

नारङ्गबिल्वलिकुचशिग्रुनैवेद्यभोजनं ।
अग्निस्पर्शनं अङ्घ्रिभ्यां ताडनं गोद्विजन्मनोः

1,6.100

कुमारीबालतुरगपश्वादीनां च ताडनं ।
पातकं प्राणिहिंसा च छेदनं भूरुहां अपि

1,6.101

अक्षादिसप्तव्यसनं छायाश्वत्थकपित्थयोः ।
लिङ्गस्त्रीनरखट्वानां तथा द्वीपिविभीतयोः

1,6.102

चतुष्पथातिनिर्विक्तस्थाने विण्मूत्रमोचनं ।
शिवद्विजगुरुस्त्रीणां वीरयोनियतात्मनां

1,6.103

समयश्रुतिसूतानां नदीतीर्थाम्भसां नृणां ।
पलाण्डुहिङ्गुलशुनराजिकाबृहतीद्वयं

1,6.104

निष्पावलङ्घनोद्वर्तिनिशाशाभरणन्दिता ।
सुप्तिर्मद्यासवौ ताम्रचूडश्च जलजामिषं

1,6.105

तीक्ष्णोष्णगुरुविष्टम्भिरूक्षशुष्कामिषं मधु ।
कदलीपत्रकांस्येषु भोजनं घर्मसेवनं

1,6.106

एतानि द्रव्यजालानि निषिद्धानि रसायने ।
<अपथ्यजनिता रोगाः>
सेवेत चेत्प्रमादेन विकृतिर्जायते क्षणात्

1,6.107

रसाजीर्णे भवेत्कान्ते शोषो मूर्च्छा भ्रमो ज्वरः ।
क्लमः कम्पः शकृन्मूत्ररोधनं शूलवेपथुः

1,6.108

अनिद्रालस्यहिक्का च कासश्वासविजृम्भिकाः ।
अरोचकातिसारश्च लिङ्गस्तम्भोऽक्षिकुक्षिषु

1,6.109

वक्षःकर्णोदराङ्घ्रौ च मेढ्रे शिरसि सन्धिषु ।
दाहोऽङ्गभङ्गसर्वेऽन्ये व्याधयः सम्भवन्ति वै

1,6.110

रसाजीर्णप्रशान्त्यर्थं योगोऽयं कथ्यते मया ।
राजकोशातकी पुङ्खा गरुडी कारवल्लिका

1,6.111

कार्कोटी काकमाची च देवदाली पराजिता ।
सर्वं एतच्चैकपलं गोमूत्रे तु चतुष्पले

1,6.112

क्वाथयेत्पादशेषं तु कार्षिकं स्वच्छसैन्धवं ।
निक्षिपेत्तत्पिबेत्क्वाथं रसाजीर्णे हितंकरं

1,6.113

सुखीभवेत्त्रिदिवसे रसस्य क्रामणं भवेत् ।
रसो व्यथयते तत्तदङ्गं संपरिमर्दयेत्

1,6.114

वा स्तनेन च तन्वङ्ग्या निर्व्यथः क्रमते रसः ।
<सप्तधातुवेधः>
त्वग्वेधः प्रथमं देवि रक्तवेधो द्वितीयकः

1,6.115

तृतीयो मांसवेधः स्यान्मेदोवेधश्चतुर्थकः ।
अस्थिवेधः पञ्चमः स्यात्षष्ठो मज्जात्मको भवेत्

1,6.116

सप्तमः शुक्लवेधः स्यात्नाडीवेधस्तथाष्टमः ।
नवमश्चक्षुषो वेधो दशमः सर्ववेधकः

1,6.117

रसवेधेन भुजगः स्वर्णं स्याद्रक्तवेधतः ।
त्रपु स्वर्णं भवेन्मांसवेधात्तीक्ष्णं च काञ्चनं

1,6.118

मेदोवेधेन शुल्बं तु स्वर्णं स्यादस्थिवेधतः ।
रूप्यं स्वर्णं भवेन्मज्जवेधाल्लोहानि कांचनं

1,6.119

शुक्लवेधेन मृत्पात्रं काञ्चनं भवति प्रिये ।
वज्रजीर्णो वीर्यवेधी मज्जामभ्रकजारितः

1,6.120

हेमजीर्णस्त्वस्थिवेधी रूप्यजीर्णो रसं प्रिये ।
मेदोवेधी ताप्यजीर्णो मांसवेधी तु पारदः

1,6.121

शुल्बजीर्णो रक्तवेधी कान्तजीर्णो रसात्मकः ।
तीक्ष्णबद्धेन नीलाभस्ताम्रेणारुणसप्रभः

1,6.122

रजतेनेन्दुसंकाशो हेम्ना काञ्चनसप्रभः ।
धूमावलोकी वक्त्रस्थो मासात्खेचरतां नयेत्

1,6.123

स्पर्शवेधी तु वक्त्रस्थो द्विमासात्सिद्धिदायकः ।
शतकोटिस्त्रिभिर्मासैश्चतुर्भिर्दशकोटिकृत्

1,6.124

पञ्चभिः कोटिवेधी स्यादष्टभिश्चायुतं पुनः ।
साहस्रं नवभिर्मासैर्दशमासे शतं पुनः

1,6.125

तस्य मूत्रपुरीषैस्तु श्लेष्मणाङ्गमलैस्तथा ।
लेपाद्धेमत्वं आयान्ति यानि लोहानि भूतले

1,6.126

चतुःषष्ट्यंशतो वेधी मासं एकादशस्य तु ।
द्वात्रिंशकवेधी तु वर्षाद्देहं तु वेधयेत्

1,6.127

सर्वरोगैर्विनिर्मुक्तो वलीपलितवर्जितः ।
नासौ छिद्येत शस्त्रैश्च पावकेन न दह्यते

1,6.128

वायुवेगी महातेजाः कामदेव इवापरः ।
इच्छया जायते दृश्योऽप्यदृश्यचैव जायते

1,6.129

यस्य संस्पर्शमात्रेण सर्वलोहानि काञ्चनं ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे

1,6.130

देवा यत्र विलीयन्ते सिद्धस्तत्रैव लीयते

1,7.1

âक्, १, ७
<पद्मरागादिरत्नोत्पत्तिः>
पुरा कैलासशिखरे गह्वरेऽद्रिसुतेश्वरौ ।
चिरमास्तां क्रीडमानौ जिगूषू तौ परस्परं

1,7.2

तदा रेतः सूतरूपप्रवाहोऽभूत्तयोर्महान् ।
तत्प्रवाहप्रभावेन वेधिता दृषदोऽभवन्

1,7.3

पद्मरागादिमणयो लोहा हेमादयस्तथा ।
गन्धकाद्याश्च पाषाणा दिव्या ओषधयो लताः

1,7.4

नानावर्णा बहुविधा नानासिद्धिप्रदायकाः ।
पूर्वोक्तानां समस्तानां वज्रं श्रेष्ठतमं महत्

1,7.5

तज्जातिलक्षणं देवि संस्कारं भजनं फलं ।
क्रमाद्वक्ष्यामि ते देवि सावधानं शृणु प्रिये

1,7.6

<वज्रलक्षणं वज्रभेदांश्च>
द्विजन्मानश्च राजन्या ऊरव्या वृषलाः क्रमात् ।
शुभ्रशोणहरिद्राभाः काला नानाविधास्तथा

1,7.7

स्त्रीपुंनपुंसकाश्चैव ज्ञातव्यास्ते क्रमात्प्रिये ।
शुक्लाः फलकसम्पूर्णा ज्योतिष्मन्तो महत्तराः

1,7.8

पुमांसस्ते तु विज्ञेया रेखाबीजविवर्जिताः ।
बलाढ्याः सत्वसहिता लोहक्रमणहेतवः

1,7.9

रसबन्धकराः क्षिप्रं सर्वेषां सिद्धिदायकाः ।
रसायनकराः स्थूला ह्यष्टसिद्धिप्रदायकाः

1,7.10

षट्कोणबीजरेखाभिरुज्ज्वलास्ताः स्त्रियः स्मृताः ।
देहज्योतिःप्रजनना भोगकान्तिसुखप्रदाः

1,7.11

दीर्घास्त्र्यस्राश्च तनवो निबोद्धव्या नपुंसकाः ।
क्षीणसत्वाः स्वल्पवीर्याः क्रामकाः सुरनायिके

1,7.12

क्लीबा नपुंसके स्त्रीणां स्त्रियः सर्वहिता नराः ।
जात्यानुरूपाश्चोत्साहं यथा सत्वं तथा गुणं

1,7.13

यथा कान्तिस्तथा शीलं कुर्वन्त्येवं द्विजातयः ।
वलीपलितरोगघ्नाः क्षत्रिया मृत्युहारिणः

1,7.14

देहस्थैर्यकरा वैश्या लोहानां वेधकारिणः ।
वयःस्तंभकराः शूद्रा नानामयविनाशनाः

1,7.15

<वज्रसंस्कारः>
वज्रसंस्कारमधुना कथयामि शृणु प्रिये ।
श्यामा शमी मेघनादा वर्षाभूधूर्तकोद्रवाः

1,7.16

मेषशृङ्ग्याखुकर्णी च कुलुत्थं चाम्लवेतसः ।
मदनागस्त्यनिर्गुण्डी चैतेषां स्वरसैर्युते

1,7.17

डोलायन्त्रे पाचयेच्च व्याघ्रीकन्दगतं दिनं ।
उद्धृत्य माहिषशकृल्लिप्तं कारीषवह्निना

1,7.18

दहेद्रात्रौ चतुर्यामं रात्र्यन्ते परिषेचयेत् ।
हयमूत्रस्नुहीक्षीरकुलत्थकरसैस्तथा

1,7.19

पाचयेद्दाहयेदेवं सेचयेत्सप्तवारकं ।
एवं द्विजातिजातीयाः शोधिताः स्युश्च सिद्धिदाः

1,7.20

<वज्ररसायनम्>
रसायनार्हं वक्ष्यामि वज्रभस्म सुरेश्वरि ।
वैक्रान्तताप्यगन्धाश्मशिलामाक्षिकतालकं

1,7.21

कान्तास्यटङ्कणक्षारकुलीरास्थीनि पेषयेत् ।
स्तन्येन गोलके क्षिप्त्वा मूषायां निक्षिपेत्ततः

1,7.22

धमेद्दृढतरं पूर्वं पश्चाद्गजपुटे पचेत् ।
तदेव वज्रमादाय तस्मिन्षोडशमात्रके

1,7.23

एकांशं पारदं तस्मिन्पक्वबीजेन जारितं ।
स्तन्येन मर्दयेत्तौ द्वौ पुनर्गजपुटे पचेत्

1,7.24

एवं तत्षोडशपुटाद्बीजजीर्णरसान्वितं ।
दृढं कुर्वीत तद्वज्रं भवेद्भस्म रसायनं

1,7.25

शृणु रुद्राणि वक्ष्यामि दिव्यं वज्ररसायनं ।
पूर्वोक्तवत्प्रकुर्वीत देहशुद्ध्यादिकं विधिं

1,7.26

शुभर्क्षे सुमुहूर्ते च चन्द्रताराबलान्विते ।
शिवाग्निगुरुगोविप्रभिषजः पूजयेत्पुरा

1,7.27

ततः सेवेत तद्भस्म यवमात्रं वरानने ।
कान्ताभ्रसत्त्वं सौवर्णभस्म गुञ्जैकमात्रकं

1,7.28

त्रिफलामधुसर्पिर्भिः प्रातः शुद्धवपुर्लिहेत् ।
एवं षोडशमासान्तं एकद्वित्रिचतुष्टयं

1,7.29

प्रतिमासं वर्धयित्वा यावद्यावकषोडशं ।
कान्तादिभस्मत्रितयं गुञ्जावृद्धिक्रमे तथा

1,7.30

द्विनिष्कं त्रिफलाचूर्णं सर्पिर्मधु यथासुखं ।
पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्यान्मम वल्लभे

1,7.31

सेवितं पलमात्रं तु वज्रभस्म दिनं क्रमात् ।
वलीपलितरोगघ्नं शतायुष्यं ददाति च

1,7.32

द्विपलं च सहस्रायुरयुतं त्रिपलं तथा ।
चतुष्पलं लक्षमायुर्दशलक्षं च पञ्चमं

1,7.33

कोट्यायुष्यं षट्पलं च सुरेन्द्रायुश्च सप्तमं ।
ब्रह्मायुष्यं चाष्टपलं विष्णुत्वं नवमं पलं

1,7.34

रुद्रत्वं दशमं देवि ईश्वरत्वं ततः परं ।
सदाशिवत्वं द्वादश्यां वज्रभस्म ददात्यलं

1,7.35

सर्वज्ञत्वं सर्वगत्वं स्वेच्छाविहरणं तथा ।
<वज्रौदनम्>
वज्रौदनं प्रवक्ष्यामि रसायनहितं परं

1,7.36

पूर्ववच्छोधिते वज्रे मृदुकर्म समारभेत् ।
मातृवाहकमध्यस्थं तित्तिरीमांसवेष्टितं

1,7.37

तीक्ष्णकान्ताननरसैः पुनस्तत्परिवेष्टयेत् ।
कुलत्थत्रिफलानीरकोद्रवेषु पृथक्पृथक्

1,7.38

त्रिदिनं पाचयेदेवं तद्वज्रं वेष्टयेद्दलैः ।
त्रिवर्षारूढताम्बुल्यास्तथा कार्पासकस्य वा

1,7.39

चेष्टितं जानुमध्यस्थं वज्रं यामद्वयान्मृदु ।
वज्रौदनं इदं प्रोक्तं वज्रद्रुतिरथोच्यते

1,7.40

<वज्रद्रुतिः>
त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसं ।
ज्वालामुखी चेक्षुरकं स्थलकुम्भीरसेन च

1,7.41

पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकं ।
निक्षिपेत्तच्च जम्बीरे दोलायन्त्रे त्र्यहं पचेत्

1,7.42

एवं कृते हीरकस्य द्रुतिर्भवति सूतवत् ।
<अन्यद्रुत्यतिदेशः>
पद्मरागादिरत्नानां द्रुतिरेवं कृते भवेत्

1,7.43

अभ्रकादिमपाषाणा द्रवन्त्येवं कृते ध्रुवं ।
द्रवन्ति रसरत्नानि मौक्तिकं चाम्लवेतसं

1,7.44

सप्ताहं भावयेद्घर्मे क्षिपेज्जम्बीरके ततः ।
धान्यराशौ त्रिसप्ताहं पुटपाके द्रवत्यलं

1,7.45

<वज्रभस्मगुणाः>
वज्रभस्म यथा तद्वद्द्रुतिमार्दवयोरपि ।
भवेद्भस्म वरारोहे जरादारिद्र्यमृत्युजित्

1,7.46

रसायने भवेत्सौख्यं भस्म द्रुतिमृदूद्भवं ।
रसायने तु स्त्रीपुंसौ क्रामणे तु नपुंसकः

1,7.47

षड्रसं हिमवीर्यं च सर्वामयविनाशनं ।
सर्वदोषप्रशमनं सर्वसौख्यं रसायनं

1,7.48

विद्युत्प्रभां देहदार्ढ्यं स्वच्छं स्निग्धं च लेखनं ।
सौन्दर्यं बलमायुष्यं ग्रहालक्ष्मीविनाशनं

1,7.49

शुद्धिर्मृदुद्रुतीभस्म वैक्रान्तस्य तु वज्रवत् ।
<स्वर्णं तद्भेदाः>
अथ वक्ष्ये श्रेष्ठतमं शृणु हेमरसायनं

1,7.50

हेमोत्पत्तिः पुरा प्रोक्ता तथापि त्रिविधा भवेत् ।
रसवेधाद्भवेच्चैकं इतरत्क्षेत्रसम्भवं

1,7.51

लोहसङ्करजं चान्यच्छ्रेष्ठमध्यकनीयसः ।
क्रमेण पीतरक्ते च पीतरक्तं च वर्णतः

1,7.52

निकर्षछेददाहेषु कुङ्कुमश्वेतशोणितं ।
<स्वर्णशुद्धिः>
दिव्यं एवंविधं स्वर्णं पट्टकं कणशः कृतं

1,7.53

हलिनीकञ्चुकीकन्दस्नुह्यर्काग्निकरञ्जकं ।
धूर्तगुञ्जेङ्गुदीचीरमूलतालाश्वगन्धिकाः

1,7.54

पिष्ट्वेन्द्रवारुणी चैषा मूलानि मथितेन वै ।
लेपयेत्स्वर्णपट्टानि तापयेज्जातवेदसि

1,7.55

मूत्रे मथिते तैले कुलुत्थाम्भसि काञ्जिके ।
जम्बीरार्कपयोमध्ये प्रत्येकं सप्तधा क्षिपेत्

1,7.56

लेपयेत्तापयेत्सिञ्च्याद्भूयो भूयोऽपि सप्तधा ।
वल्मीकमृद्धूमसारं इष्टकापटुगैरिकं

1,7.57

पिष्ट्वा जम्बीरनीरेण लिप्त्वा पत्रं पुटीकृतं ।
चतुर्वर्णाभ्रकं ताप्यं दरदं तालकं शिलां

1,7.58

कान्तकङ्कुष्ठरसकविमलासूतभूलताः ।
पिष्ट्वाम्लेन वटीः कुर्यान्निष्कमात्राः सुरेश्वरि

1,7.59

पलादूनं न कर्तव्यं अधिकं च चतुष्पलात् ।
पुटितं हेम शुल्बं च द्रावयेच्च समीकृतं

1,7.60

तन्मध्ये तद्द्रवीभूते चैकैकां वटिकां क्षिपेत् ।
स्वर्णाद्दशगुणा वाह्या वटिकाः शोषिताः क्रमात्

1,7.61

यावच्छेषं भवेत्स्वर्णं तावदेवं धमेच्छनैः ।
शुद्धं तज्जायते दिव्यं जरामरणरोगहृत्

1,7.62

<स्वर्णभस्म>
चिञ्चापत्रनिभं स्वर्णं पत्रं शुद्धं च पारदं ।
एकान्तं मर्दयेदम्लैस्तत्पिष्टिं अपि लेपयेत्

1,7.63

समगन्धकताप्याभ्यां पिष्टिं मूषागतां धमेत् ।
षोडशांशं सूतभस्म हेमचूर्णे विनिक्षिपेत्

1,7.64

अम्लेन मर्दयेद्गाढं पचेत्तद्भूधरे पुटे ।
एवं षोडशपर्यन्तं रसं प्रतिपुटं क्षिपेत्

1,7.65

निरुत्थं हेमभस्मेदं जायते सर्वसिद्धिदं ।
<हेमरसायनम्>
विरेकवमनाद्यैश्च शुद्धदेहः शुभे दिने

1,7.66

अर्चयेदीशविप्राग्निगुरुवैद्यपुरःसरान् ।
सेवेत शुद्धहृदयो दिव्यं हेमरसायनं

1,7.67

कान्ताभ्रयोः सत्त्वभस्म चैकगुञ्जाप्रमाणकं ।
माषोन्मितं हेमभस्म वरामध्वाज्ययुग्लिहेत्

1,7.68

पूर्वोक्तवद्वज्रमासषोडशिकावधि ।
पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत रसायनी

1,7.69

शृणु चित्रां गिरिसुते सेवां हेमरसायने ।
पलमात्रोपयोगेन सर्वरोगविवर्जितः

1,7.70

ततो द्विपलयोगेन वलीपलितवर्जितः ।
वाक्सिद्धिर्दिव्यदृष्टिश्च त्रिपलेन भवेत्प्रिये

1,7.71

चतुःपलोपयोगेन विषव्याघ्राहिभीर्न हि ।
तथा पञ्चपलेनैव दिव्यात्मज्ञानिता भवेत्

1,7.72

देवि षट्पलयोगेन सिद्धसाध्यपदं भवेत् ।
तथा सप्तपलेनापि विद्याधरपदं भवेत्

1,7.73

तथाष्टपलयोगेन स्वेच्छाविहरणे पटुः ।
पलेन नवमेनापि चाष्टैश्वर्यगुणान्वितः

1,7.74

तथा दशपलेनापि महेन्द्रत्वं अवाप्नुयात् ।
एकादशपलैर्देवि ब्रह्मत्वं नात्र संशयः

1,7.75

द्वादशभिः पलैः कान्ते विष्णुत्वं समुपैति च ।
त्रयोदशपलेनापि रौद्रं पदं अवाप्नुयात्

1,7.76

तथा चतुर्दशपलैरैश्वरं लभते पदं ।
पलैः पञ्चदशैरेति सदाशिवपदं परं

1,7.77

तथा स्यात्षोडशपलैः सच्चिदानन्दविग्रहः ।
सर्वज्ञः सर्वकर्ता च हर्ता गोप्ता स सर्वगः

1,7.78

<हेमद्रुतिः>
हेमद्रुतिं प्रवक्ष्यामि शृणु संप्रति पार्वति ।
फलपांशुर्देवदाल्याः शक्रगोपोऽश्वलालिका

1,7.79

टङ्कणं जालिनीनीरैर्भावयेद्बहुधा प्रिये ।
द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः

1,7.80

इमां द्रुतिं काञ्चनवद्भस्म सेवां च कल्पयेत् ।
स्वादु तिक्तं कषायं च शीतं उष्णं रसायनं

1,7.81

हृद्यं कान्तिप्रदं शुद्धं चक्षुष्यं गुरु लेखनं ।
धृतिस्मृत्यायुरारोग्यनयवाक्सिद्धिदायकं

1,7.82

क्षयोन्मादादिरोगाणां नाशनं दोषशान्तिकृत् ।
स्निग्धं रुच्यं दीप्तिं वीर्यकृद्बलवर्धनं

1,7.83

<कान्तं तद्भेदा लक्षणञ्च>
अथ कान्ते प्रवक्ष्यामि कान्तं कान्तरसायनं ।
दिव्या औषधयः सन्तु सर्वसिद्धिप्रदायिकाः

1,7.84

तेभ्यः कान्तं श्रेष्ठतमं वलीरुक्पलितापहं ।
कल्पान्ते ताण्डवं शंभुः शर्वाणीसहितः स्वयं

1,7.85

उच्चण्डं व्यतनोत्तत्र संजाताः स्वेदबिन्दवः ।
तत्र तत्र गतास्तेऽपि ह्ययस्कान्तत्वमाययुः

1,7.86

जाङ्गले बहवो जाता देशे साधारणे क्वचित् ।
जलप्रायेऽस्ति वा नास्ति जात्या पञ्चविधाः स्मृताः

1,7.87

भ्रामकं चुम्बकं देवि कर्षकं द्रावकं तथा ।
रोमकं च तथैकद्वित्रिचतुः सर्वतोमुखाः

1,7.88

तेषां पञ्चविधानां तु पीतं कृष्णं च शोणितं ।
मिश्रं पृथक्पृथक्तेषां क्रमात्स्युरधिदेवताः

1,7.89

ब्रह्मविष्ण्वीशभूतात्ममातृकाः परिकीर्तिताः ।
पीतवर्णं स्पर्शवेधि कृष्णं श्रेष्ठं रसायने

1,7.90

रसबन्धकरं रक्तं मिश्रं सर्वरुजापहं ।
रोमकं ग्रहभीतिघ्नं द्रावकं चोत्तमोत्तमं

1,7.91

उत्तमं मध्यमं नीचं कर्षकं चुम्बकं क्रमात् ।
भ्रामकं लक्षणं वच्मि लोहं तु भ्रामयेत्ततः

1,7.92

तस्माद्भ्रामकमित्युक्तं चुम्बकं लोहचुम्बकं ।
कर्षकं कर्षयेल्लोहं द्रावकं द्रावयेद्यतः

1,7.93

स्फुटनाद्रोमजननं तद्रोमकमुदाहृतं ।
अत्युत्तमं बहुमुखं चतुःपञ्चास्यमुत्तमं

1,7.94

मध्यमं स्याद्द्वित्रिमुखं नीचमेकमुखं भवेत् ।
भ्रामकं चुम्बकं सर्वरोगाणां नाशने हितं

1,7.95

कर्षकं द्रावकं श्रेष्ठं रसयोगे रसायने ।
रसद्विपाङ्कुशमिदं कान्तं पञ्चविधं प्रिये

1,7.96

समीरणातपस्पृष्टं न ग्राह्यं तत्कदाचन ।
हस्तद्वयं समुत्खाय कान्तं ग्राह्यं वरानने

1,7.97

<कान्तसत्त्वपातनम्>
आदौ सम्पूज्य दुर्गां च गणेशं भैरवं प्रिये ।
तीव्राग्निना दहेत्कान्तं सेचयेत्त्रिफलाम्बुना

1,7.98

तत्कान्तं चूर्णयेत्सूक्ष्मं काचसामुद्रटङ्कणैः ।
लाक्षागुग्गुलुगुञ्जाभिरूर्णाज्यमधुसिक्थकैः

1,7.99

शशास्थिक्षुद्रमीनैश्च भल्लाततिलकल्ककैः ।
सर्जक्षारयवक्षाररालैश्चिरगुलैस्तथा

1,7.100

न्यङ्कुसैरिभदन्तीनां विषाणैश्च समांशकैः ।
एतत्समांशं तत्कान्तमजाक्षीरेण मर्दयेत्

1,7.101

मेलयेत्पञ्चमाहिष्यैर्दध्याद्यैर्गोमयान्तकैः ।
श्लक्ष्णं पिष्ट्वा वटीः कुर्यात्कर्षमात्राः सुरेश्वरि

1,7.102

कोष्ठीयन्त्रे वङ्कनाले खदिराङ्गारकैर्दृढं ।
पञ्च पञ्च वटीस्तत्र निक्षिपेच्च शनैः शनैः

1,7.103

त्रियाममथनादेव कान्तात्सत्वं पतेच्छुचि ।
तत्सर्वं कणशः कृत्वा काचाद्यैरौषधैः समैः

1,7.104

मूषागतं धमेत्तीव्रमेवं धाम्यं त्रिधा प्रिये ।
एवं कृतं तु तत्कान्तसत्वं सत्त्वतमं भवेत्

1,7.105

<कान्तस्वरूपम्>
कान्तलोहस्य पात्रस्थजले तैलस्य बिन्दवः ।
न सर्पन्ति चणास्त्वेताः कृष्णाः स्युर्नात्र संशयः

1,7.106

घृष्टहिङ्गोर्न गन्धः स्यात्क्षीरोर्मिः शिखराकृतिः ।
न कदाचिद्भुवि पतेच्छिवा मुञ्चति तिक्ततां

1,7.107

तल्लोहक्षिप्तं उष्णाम्बु शीतलं भवति क्षणात् ।
<लोहशुद्धिः>
ऊनं पञ्चपलान्नैव नोर्ध्वं पञ्चदशात्पलात्

1,7.108

त्रिफला षोडशपला तच्चतुर्गुणमम्बु च ।
क्वाथयेत्पादशेषं तु तस्मिन्पत्राणि ढालयेत्

1,7.109

शशरक्तप्रलिप्तानि शोषयेदातपे पुनः ।
तापितानि पुनस्तक्रतैलसौवीरसर्पींषि

1,7.110

क्षौद्रार्कक्षीरजम्बीरकुलत्थकरसेष्वपि ।
लेपनं शोषणं दाहं सेचनं च क्रमात्प्रिये

1,7.111

प्रत्येकं सप्तधा कुर्याद्गिरिदोषं त्यजेदयः ।
<लोहसंस्कारमन्त्राः>
आदौ मन्त्रस्ततः कर्म कर्तव्यो मन्त्र उच्यते

1,7.112

उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तोऽमृतात्परः ।
स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः

1,7.113

ओं अमृतोद्भवोद्भवाय स्वाहा ।
रक्षायै लोहनरयोरयमेकोद्भवो मनुः ।
विना स्वाहापदं स्थाने फडन्तं यः समुच्चरेत्

1,7.114

ओं अमृतोद्भवाय फट्प्रणवोर्ध्वं नमश्चण्डवज्रपाणय इत्यपि ।
ततः परं महायक्षसेनाधिपतये नमः

1,7.115

द्विरुक्तं सुरुशब्दस्य महाविद्याबलाय च ।
ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि कीर्तितः

1,7.116

ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये नमः सुरु सुरु महाविद्याबलाय स्वाहा ।
<लोहभस्म>
एतानि लोहपत्राणि सूक्ष्मं संचूर्णयेत्ततः ।
अयःपात्रे कान्तचूर्णं निक्षिप्य त्रिफलारसैः

1,7.117

सेचयेत्तदयोदर्व्या चालयन्पाचयेदिति ।
पिण्डीभूतं तदादाय मृत्तिकापटले शुभे

1,7.118

संपुटे निक्षिपेत्सम्यक्षोडशाङ्गुलगर्तके ।
निधायारण्यकारीषमध्यगं कारिषं दहेत्

1,7.119

अहोरात्रं प्रकुर्वीत वातातपविवर्जितं ।
पुनः प्रातः समादाय वराक्वाथेन मर्दयेत्

1,7.120

स्थालीसंपुटयोरेवं कुर्यात्पाकपुटैः क्रमात् ।
एवं विदध्यात्सप्ताहं तस्मिन्क्षेप्यं च हिङ्गुलं

1,7.121

लोहस्य षोडशांशं च नारीस्तन्येन मर्दयेत् ।
स्थाल्यां पाकं संपुटे च पुटं कुर्वीत षोडश

1,7.122

निरुत्थं तद्भवेद्भस्म देवि योज्यं रसायने ।
<ल्होहभस्मनोऽमृतीकरणम्>
यावत्स्यात्त्रिफला तस्माद्भवेद्वारि चतुर्गुणं

1,7.123

अष्टावशेषं क्वाथयेत्क्वाथस्य सदृशं घृतं ।
घृततुल्यं कान्तभस्म ताम्रपात्रे पचेत्प्रिये

1,7.124

लोहदर्व्या प्रचलयन्यावच्छुष्यति तद्रसः ।
तावन्मृद्वग्निना पाच्यं लोहतुल्यां सितां क्षिपेत्

1,7.125

अमृतीकरणमित्युक्तं सर्वयोगवहं परं ।
<लोहपाकभेदाः>
लोहपाकं प्रवक्ष्यामि तद्भवेत्त्रिविधं प्रिये

1,7.126

मृदुमध्यखराः प्रोक्ता जम्बीरसदृशो मृदुः ।
मध्यमः पिण्डसदृशो वालुकासदृशः खरः

1,7.127

<कान्तलोहरसायनसेवाक्रमः>
अथ सेवां प्रवक्ष्यामि कान्तलोहस्य भस्मनः ।
सुमुहूर्ते शुभदिने पूजितेशादिदेवतः

1,7.128

सेवेत सिद्धिदं दिव्यं कान्तभस्म रसायनं ।
शुद्धदेहो विरेकाद्यैरभ्रभस्म पुरा प्रिये

1,7.129

मासमेकं तु सेवेत तस्माच्छुद्धवपुर्भवेत् ।
माषमात्रं कान्तभस्म गुञ्जामात्राभ्रभस्म च

1,7.130

द्विनिष्कं त्रिफलाचूर्णं मधुसर्पिःसमन्वितं ।
लिहेत्प्रातर्विशुद्धात्मा स्नानदानादिकर्मभिः

1,7.131

अनुपेयं ततो लोहाद्गव्यं षष्टिगुणं पयः ।
धारोष्णं तदभावे तु कृत्वा क्षीरं समाम्बुकं

1,7.132

यावत्क्षीणजलं क्वाथ्यं क्षीरं चानुपिबेत्प्रिये ।
तदसात्म्ये वराक्वाथं गुडूच्या वा कषायकं

1,7.133

इत्येकमासं सेवेत क्रमाद्द्वित्रिचतुष्टयं ।
प्रतिमासं माषगुञ्जावृद्धिः कान्ताभ्रभस्मनोः

1,7.134

एवं षोडशमासान्तं वृद्धिः षोडशमात्रकाः ।
पूर्वोक्तवद्विधिं त्याज्यं कुर्यात्सिद्धिमवाप्नुयात्

1,7.135

अस्य वत्सरयोगेन क्षुद्रामयविनाशनं ।
एतद्द्विवर्षयोगेन महारोगप्रणाशनं

1,7.136

त्रिवर्षात्पलितं हन्ति चतुर्वर्षाद्वलिं हरेत् ।
पञ्चमादपमृत्युघ्नं षष्ठे स्यादायुषः शतं

1,7.137

सप्ताब्दे सूर्यवद्दीप्तिं दशमे सिद्धिमेलनं ।
वैद्याधरं समाप्नोति वर्षे चैकादशे प्रिये

1,7.138

त्रयोदशाब्दे देवत्वं इन्द्रत्वं च चतुर्दशे ।
तथा पञ्चदशाब्दे च सर्वलोकप्रियो भवेत्

1,7.139

षोडशाब्देऽष्टसिद्धिः स्यात्सत्यं सत्यं महेश्वरि ।
<कान्तद्रुतिक्रमः>
सुवर्णद्रुतिवत्कान्तद्रुतिः स्यात्पूर्ववत्प्रिये

1,7.140

कान्तद्रुतिर्भवेद्भस्म कान्तलोहस्य भस्मवत् ।
<लोहभेदास्तद्गुणाश्च>
किट्टं मुण्डं तथा तीक्ष्णं कान्तं पूर्वोत्तरोत्तरं

1,7.141

गुणाढ्याः स्युर्दशशतसहस्रं लक्षकं क्रमात् ।
शताधिको भवेत्कान्तस्त्वौषधानां रसायनं

1,7.142

त्रिदोषशमनं दिव्यं सर्वरोगापहारकं ।
कान्तिं रुच्यं च चक्षुष्यं हृद्यं आयुष्यदं शुचि

1,7.143

स्थैर्यं दार्ढ्यं च धातूनां बलवच्च रसायनं ।
<अभ्रकोत्पत्तिः तद्भेदा लक्षणञ्च>
अथाभ्रकं प्रवक्ष्यामि तदुत्पत्त्यादिकं क्रमात्

1,7.144

पुरादिशक्तिर्भवती श्वेतद्वीपे मनोरमे ।
इन्द्राणीकमलावाणीगायत्रीप्रमुखैः सह

1,7.145

अरुन्धतीमुखैर्दिव्यमुनिदारैश्च संयुता ।
संचिक्रीडे महामाया चित्सदानन्दरूपिणी

1,7.146

आनन्दाश्रुकणाः क्षौमे न्यपतन्बहवो दृशोः ।
तदा ऋतुमती जाता ततः स्वादु सरित्पतेः

1,7.147

तीरे त्यक्त्वा च तद्वस्त्रं स्नात्वा कैलासमाययौ ।
वात्यावशेन तद्वस्त्रं क्षीराब्धौ न्यपतत्तदा

1,7.148

देवासुरैर्मथ्यमानात्तस्मात्क्षीराम्बुधेस्तदा ।
समभूत्तद्रजोवस्त्रं चतुर्धाभ्रकसंज्ञकं

1,7.149

कृष्णाभ्रकं साञ्जनाभं पीतं देव्यङ्गलेपनात् ।
रक्तं तस्य रजोरूपं क्षौमं श्वेतं अभूदिति

1,7.150

चतुर्विधं तदालोक्य रसबन्धनकारणं ।
रसायनं रोगहरं सर्वसिद्धिप्रदायकं

1,7.151

इत्यूचिरे सुराः सर्वे साक्षादमृतसंमितं ।
श्वेतं रजतकार्येषु त्रयमन्यत्सुवर्णके

1,7.152

सर्वं रसायने योज्यं रक्तपीतसितासितं ।
श्वेताच्छतगुणं रक्तं रक्तात्पीतं सहस्रकं

1,7.153

पीताल्लक्षगुणं कृष्णं ज्ञेयं लोहे रसायने ।
प्रत्येकं तानि जायन्ते चतुर्धा जातितः क्रमात्

1,7.154

पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधं ।
वज्रं समाहरेन्मुख्यं त्रीण्यन्यानि विवर्जयेत्

1,7.155

पिनाकमग्निनिक्षिप्तं मुञ्चते दलसंचयं ।
तत्सेवितं मलं बद्ध्वा मारयेद्रोगकारणं

1,7.156

दर्दुरं वह्निनिक्षिप्तं कुरुते भेकनिःस्वनं ।
तदुत्पादयते रोगमश्मर्याख्यं असाध्यकं

1,7.157

नागमग्नौ विनिक्षिप्तं फूत्कारं वितनोति यत् ।
तत्सेवया महाकुष्ठं मण्डलाख्यं भवेद्ध्रुवं

1,7.158

<ग्राह्यलक्षणम्>
एतत्त्रितयसेवाभिर्जायते रोगसंचयः ।
वह्निस्थितं तु वज्राभ्रं विकारान्नाचरेत्क्वचित्

1,7.159

तस्माद्वज्राभ्रकं सेव्यं वलीपलितमृत्युजित् ।
राजहस्तात्परं ग्राह्यं खनित्रेन तदाकरात्

1,7.160

<वज्राभ्रःः परीक्षाःः बद्कुअलित्य्>
भारयुक्तं पृथुदलं स्निग्धं मोच्यदलं सुखं ।
काचचन्द्रककिट्टाभं न योज्यं तत्कदाचन

1,7.161

<धान्याभ्रकम्>
पूर्वोक्तलक्षणयुतं वज्राभ्रं धमयेद्दृढं ।
अर्कक्षीरारनाले च गोमूत्रे त्रिफलारसे

1,7.162

मेघनादरसे चेत्थं निक्षिपेत्तेषु तत्त्रिधा ।
सम्यग्दलं मोचयित्वा मेघनादाम्लयोर्द्रवैः

1,7.163

भावयेदातपे तीव्रे श्लक्ष्णं पिष्ट्वाथ वस्त्रके ।
निक्षिप्य धान्यसहितं बद्ध्वा तत्काञ्जिके पुनः

1,7.164

कराभ्यां घट्टयेद्गाढं सूक्ष्मं तत्काञ्जिके स्रवेत् ।
तत्कुर्यादातपे शुष्कं एतद्धान्याभ्रकं स्मृतं

1,7.165

<अभ्रकसत्वपातनम्>
कान्तवत्सत्वपतनमभ्रकस्य भवेत्प्रिये ।
हेम रूप्यं माक्षिकं च वैक्रान्तं मधु टङ्कणं

1,7.166

गुञ्जा गुडं घृतं भल्लं एकैकं दशनिष्ककं ।
पिष्ट्वार्कपयसा कार्या वटिकाः कर्षमात्रकाः

1,7.167

शतनिष्केऽभ्रसत्वेऽस्मिन्विद्रुते वटिकाः क्षिपेत् ।
एकैकघटिकामात्रं वट्यः क्षेप्याः शनैः शनैः

1,7.168

यावत्तत्सत्त्वशेषं स्यात्तावद्धाम्यं अतन्द्रितैः ।
इदं अभ्रकसत्त्वं तु देवयोग्यं रसायनं

1,7.169

<अभ्रकसत्वभस्म>
चूर्णीकृत्याभ्रसत्त्वं तन्मेघनादः पुनर्नवा ।
सूरणोऽर्कदलं मुस्ता जम्बीरस्तालमूलिका

1,7.170

त्रिफला वज्रवल्ली च शाङ्गेरी मरिचं तथा ।
अम्लवर्गो वटजटा कार्पासमुनिशिग्रुकं

1,7.171

एकवीरा कोकिलाक्षी सर्पाक्षी तुलसी वचा ।
पेटारी वाकुची कन्या चैकैकस्य रसैः पृथक्

1,7.172

मर्दनं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।
एकैकाहं प्रकुर्वीत ततो दरदमाक्षिके

1,7.173

सत्वषोडशभागेन योज्यं पेष्यं वरारसैः ।
पुटषोडशपर्यन्तं कुर्यादेवं हि भैरवि

1,7.174

पूर्वोक्तवत्स्यादमृतीकरणं कान्तसत्ववत् ।
निरुत्थं भस्म भवति चायुरारोग्यदायकं

1,7.175

<अभ्रकसत्वसेवाक्रमः>
अथ सेवां प्रवक्ष्यामि घनसत्वरसायने ।
वमनादिविशुद्धात्मा पूजितस्वेष्टदेवतः

1,7.176

गुञ्जामात्राभ्रसत्वं च द्विनिष्कं त्रिफलारजः ।
मध्वाज्याभ्यां लिहेत्प्रातरेकमासं भजेदिति

1,7.177

एवं षोडशमासान्तं मासवृद्धिक्रमेण वै ।
गुञ्जावृद्धिर्भवेद्देवि सेवेतेत्थं रसायनं

1,7.178

पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत सुरेश्वरि ।
वर्षेण देहशुद्धिः स्याद्द्विवर्षादामयाच्च्युतः

1,7.179

त्रिवत्सरान्महारोगनाशनं भवति ध्रुवं ।
चतुर्वर्षान्महाकान्तिबलवीर्यप्रवर्धनं

1,7.180

पञ्चवर्षाद्देहदार्ढ्यं षष्ठे वाक्सिद्धिमेति हि ।
सप्तमे दिव्यदृष्टिः स्यादष्टमे विषनाशनं

1,7.181

नवाब्दे सिद्धतामेति ततो विद्याधरो भवेत् ।
एकादशाब्दे त्विन्द्रत्वं द्वादशे ब्रह्मता भवेत्

1,7.182

त्रयोदशाब्दे विष्णुत्वं रुद्रत्वं च चतुर्दशे ।
ईशत्वं पञ्चदशके षोडशाब्दे सदाशिवः

1,7.183

अणिमादियुतः स्वैरी सर्वज्ञः सर्वकृद्भवेत् ।
<अभ्रकद्रुतिः>
अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्द एव च

1,7.184

कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।
मूषायां द्रावयित्वा तदभ्रसत्वद्रुतिर्भवेत्

1,7.185

भस्मीकुर्यात्प्रयत्नेन द्रुतिमभ्रकसत्ववत् ।
<अभ्रकगुणाः>
षड्रसः सर्वरोगघ्नस्त्रिदोषशमनः परः

1,7.186

वीर्यायुष्यबलप्रज्ञाकान्तिरूपविवर्धनः ।
वपुर्दार्ढ्यस्थैर्ययुक्तो वलीपलितमृत्युहा

1,7.187

रुच्यो वृष्यो लघुः शीतो मेध्यः स्निग्धो रसायनं ।
अभ्रकं दीपनं ग्राहि श्रेष्ठं पारदबन्धनं

1,7.188

पक्षजित्सूतराजस्य भस्मीभूताभ्रसत्वकः ।
अभ्रस्य पत्रं रोगघ्नं तच्च सत्वं दृढंकरं

1,7.189

चेतसत्वं मृदु हरेद्द्रुतिस्तांश्च दरिद्रतां

1,8.1

âक्, १, ८
<रसायनसेवा>
सूतो वज्रं सुवर्णं च कान्तलोहं तथाभ्रकं ।
पञ्चैतान्यमृतानि स्युः कल्पितानि नृणां मया

1,8.2

मत्तकाशिनि यो वेत्ति सोऽपि साक्षान्महेश्वरः ।
अहं रसो रसश्चाहमावयोरन्तरं न हि

1,8.3

तेन युक्तास्तु वज्राद्याः सिद्धिदाः स्युर्न संशयः ।
पुरुषं रससेवार्हं वदामि शृणु पार्वति

1,8.4

स्त्रीक्लीबबालकानां च न हि योज्यं रसायनं ।
बालाः पञ्चदशाब्दा ये कुमारांस्त्रिंशदब्दकाः

1,8.5

पञ्चाशद्वर्षदेशीया युवानः परिकीर्तिताः ।
अतः परं च स्थविराः भवेयुस्ते रसायने

1,8.6

यथोक्तकाले सिद्धिः स्यात्कुमारस्य रसायनात् ।
तस्माद्द्विगुणकालेन यूनः सिद्धिर्भवेद्ध्रुवं

1,8.7

तस्मात्त्रिगुणकालेन वृद्धः सिद्धिमवाप्नुयात् ।
ज्ञातव्याः क्रमशो देवि ह्युत्तमो मध्यमोऽधमः

1,8.8

<रसायनसेवाक्रमः>
पूर्वं अभ्रकमश्नीयात्ततः कान्तरसायनं ।
अथ कान्ताभ्रकं देवि पश्चाद्धेमरसायनं

1,8.9

अथाभ्रकं स्वर्णयोगं कान्तहेमरसायनं ।
घनकान्तस्वर्णयोगं ततो वज्ररसायनं

1,8.10

अथाभ्रवज्रसेवां च कान्तवज्रमतः परं ।
घनायस्कान्तहीरं च हेमवज्रं ततो भवेत्

1,8.11

पश्चादभ्रस्वर्णवज्रं कान्ताष्टापदवज्रकं ।
घनकान्तं हेमवज्रमतः पारदभक्षणं

1,8.12

तथाभ्ररसयोगं स्यात्ततः कान्तरसं भवेत् ।
घनकान्तरसं देवि पश्चाद्धेमरसं भवेत्

1,8.13

घनहेमरसं पश्चात्कान्तहेमरसं ततः ।
घनकान्तं हेमसूतमतो वज्ररसं भवेत्

1,8.14

घनवज्ररसं देवि कान्तवज्ररसं ततः ।
घनकान्तं वज्रसूतं हेमवज्ररसं ततः

1,8.15

घनहेमपवीसूतं कान्तहेमपवीरसं ।
घनकान्तस्वर्णवज्ररसं अस्मात्परं न हि

1,8.16

उत्तरोत्तरतः सर्वे चैते सर्वगुणोत्तराः ।
रसायनानि पञ्च स्युरेकैकानि वरानने

1,8.17

रसा द्विद्व्यौषधभवास्त्रित्र्यौषधभवा दश ।
चतुश्चतुर्भवाः पञ्च त्वेकः पञ्चौषधोद्भवः

1,8.18

एकत्रिंशद्वरारोहे रसायनमिति प्रिये ।
घनं कान्तं हेम वज्रं पारदश्चेतरं

1,8.19

पूर्वोत्तरोत्तरगुणा भवन्ति प्राणवल्लभे ।
रसस्य क्रामणं वज्रं हेमकान्तघनं भवेत्

1,8.20

वज्रसंक्रामणं हेम कान्तं व्योम भवेत्प्रिये ।
हेम्नः कान्तभवं योज्यं कान्तस्य क्रामणं घनं

1,8.21

अभ्रस्य क्रामणं चाभ्रसत्त्वं सिद्धिप्रदं यतः ।
एकैकौषधसेवायां यथोक्तं क्रामणं भवेत्

1,8.22

युक्तो द्वित्रिचतुःपञ्चभैषज्यैः क्रामणं न हि ।
त्रिफलामधुसर्पींषि सामान्यक्रामणं भवेत्

1,9.1

âक्, १, ९
<रसायनार्हरससंस्कारः; प्रथमः प्रकारः>
श्रीभैरवी ।
रसायनार्हां सूतस्य संस्कृतिं वद मे विभो ।
श्रीभैरवः ।
शृणु पार्वति यत्नेन संस्कारं शोधनादिकं

1,9.2

पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समं ।
तप्तखल्वे दिनं देवि वज्रमूषागतं रसं

1,9.3

पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तं ।
पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः

1,9.4

कृत्वैवं दशवारं तं पात्यं पातनयन्त्रके ।
शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने

1,9.5

<द्वितीयः प्रकारः>
दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ।
वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत्

1,9.6

पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ।
सगन्धकं मर्दनं च पातनं भवति प्रिये

1,9.7

शुद्धः स्यात्पारदो देवि योग्यो योगे रसायने ।
<तृतीयः प्रकारः>
तिलतैलैर्माहिषिकैर्मूत्रैर्मर्द्याम्लकेन च

1,9.8

गोमांसैर्हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ।
सप्ताहं लोहदण्डेन चालयन्सद्रवं मुहुः

1,9.9

सार्द्रमायूरपित्तेन भावयेदातपे दिनं ।
पाचयेत्पातनायन्त्रे दरदं खरवह्निना

1,9.10

शुद्धो भवेच्चतुर्यामात्पारदः स्याद्रसायने ।
<रसभस्मक्रमः; प्रथमः प्रकारः>
ऊर्ध्वाधस्तात्खजीर्णस्य सूतस्य समगन्धकं

1,9.11

निक्षिपेत्पक्वमूषायां गर्ते द्वाभ्यां चतुर्गुणं ।
काकमाचीद्रवं दत्त्वा निरुध्यैनां क्रमाग्निना

1,9.12

पचेद्गुण्डकयन्त्रस्थां मूषां यामचतुष्टयं ।
भस्मसाज्जायते सूतो योजयेत्तु रसायने

1,9.13

<द्वितीयः प्रकारः>
जीर्णसूतं स्नुक्क्षीरैः समं गन्धं विमर्दयेत् ।
दिनं ततो गर्भयन्त्रे पुटे भस्मति पूर्ववत्

1,9.14

<तृतीयः प्रकारः>
खजीर्णसूतं तुल्यांशं लाक्षोर्णामधुटङ्कणं ।
गुञ्जां भृङ्गरसैः सर्वं दिनमेकं विमर्दयेत्

1,9.15

अन्ध्रितं वज्रमूषायां धमेद्भस्मति पारदः ।
<चतुर्थः प्रकारः>
घनजीर्णं रसं गन्धं त्र्यहं तुल्यं विमर्दयेत्

1,9.16

अहिमार्या रसैर्वाथ ह्यजामार्या रसेन वा ।
रसेन कीटमारिण्याः श्वेताङ्कोलरसेन वा

1,9.17

दिवारात्रं करीषाग्नौ मृण्मये संपुटे दहेत् ।
तुषाग्निना वा त्रिदिनाद्भस्मीभवति पारदः

1,9.18

तप्तखल्वे वज्रभस्म जीर्णे सूते समं त्र्यहं ।
हंसपादीरसैर्मर्द्यं बीजैर्दिव्यौषधोद्भवैः

1,9.19

लेपयेद्वज्रमूषायां तत्र पूर्वं रसं क्षिपेत् ।
त्र्यहं तुषाग्निना पाच्यं हंसपादीद्रवैः पुनः

1,9.20

मर्दयेत्त्रिदिनं गाढं तद्गोलं पूर्ववत्पचेत् ।
भस्मीभवति सूतेन्द्रः शङ्खकुन्देन्दुसन्निभः

1,9.21

<जारितरसमारणम्; प्रथमः प्रकारः>
अथ वक्ष्यामि देवेशि जारितं रसमारणं ।
प्रथमं जारणं कुर्यात्सबीजं सुरनायिके

1,9.22

अजारितं रसं मूढः प्रमादान्मारयेद्यदि ।
मम द्रोही स पापिष्ठो महापातकवान्भवेत्

1,9.23

भ्रूणहा गुरुघाती च गोघ्नः स्त्रीबालघातकः ।
तस्मात्सर्वप्रयत्नेन कुर्याज्जारणपूर्वकं

1,9.24

मारणं रसराजस्य मम बीजस्य पार्वति ।
धरायां गोमयं देवि स्थापयित्वा तत उपरि

1,9.25

पक्वमूषायां विनिक्षिप्य तन्मध्ये कटुतुम्बिजं ।
तैलं निधाय सूतं च निक्षिपेच्च तत उपरि

1,9.26

काकमाचीरसो देयस्तैलतुल्यो वरानने ।
शुद्धं गन्धं व्रीहिमात्रं दत्त्वा मूषां निरोधयेत्

1,9.27

तदूर्ध्वं खादिराङ्गारपूरितं श्रावकं न्यसेत् ।
ज्ञात्वा तत्स्वाङ्गशीतत्वं पुनर्गन्धं च तैलकं

1,9.28

काकमाचीद्रवं दत्त्वा वह्निमेवं पुनः पुनः ।
अधस्ताद्गोमयं सान्द्रमुपरिष्टाच्च पावकं

1,9.29

काकमाचीद्रवः सूतस्तैलं चैतत्त्रयं समं ।
जारयेत्षड्गुणं गन्धं रसस्येत्थं मुखीकृतिः

1,9.30

दिनं जम्बीरनीरेण मर्दयेत्तं रसं पुनः ।
चतुः षष्ट्यंशकं हेम्नः पत्रं कण्टकभेदनं

1,9.31

मयूरपित्तं तैलं च लिपेत्सर्षपसंभवं ।
अभावे तैलपित्तस्य चूलिकालवणं बलिं

1,9.32

जम्बीरस्य रसैर्मर्द्यं तं रसं हेमपत्रकं ।
पाचयेत्पूर्ववद्वह्नौ जम्बीरस्य रसैः पुनः

1,9.33

सम्पूर्णां रोधयेन्मूषां पूर्ववज्जारयेत्पुनः ।
द्वात्रिंशदंशकं हेम षोडशांशं तत उपरि

1,9.34

मर्दयेज्जारयेदेवं ततः सूतस्य मारणं ।
समूलां कुम्भिं आदाय गवां मूत्रेण पेषयेत्

1,9.35

दिनमेकं तद्रसेन मर्दयेत्पारदं सुधीः ।
संपुटे कान्तजे क्षिप्त्वा चोर्ध्वाधश्च नियामकान्

1,9.36

चुल्ल्यां मृद्वग्निना पाच्यं दिनं भस्म भवेद्रसः ।
अक्षीणो मृत्युनाशी स्याज्जरादारिद्र्यनाशनः

1,9.37

<द्वितीयः प्रकारः>
वासितं पारदं कर्षमष्टगुञ्जाः सुवर्णकं ।
मृतं वज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः

1,9.38

तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ।
पचेद्भूधरयन्त्रे च पुनरादाय तं रसं

1,9.39

हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयं ।
पूर्ववद्भूधरे यन्त्रे पचेत्सूतं पुनः पुनः

1,9.40

एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकं ।
एतानि रसभस्मानि शस्तानि च रसायने

1,9.41

<रसायनयोगाः; अभ्रकरसायनम्>
एकद्वित्रिचतुःपञ्चयोगयुक्तं रसायनं ।
क्रमाद्वक्ष्यामि देवेशि तत्राप्यभ्रकसेवनं

1,9.42

वमनादिविशुद्धात्मा त्यक्तक्षाराम्लकादिकः ।
पूर्ववद्भस्मयेद्व्योमसत्वं भृङ्गवरारसैः

1,9.43

त्रिः सप्तधा भावनीयं प्रातर्गुञ्जाद्वयं भजेत् ।
ससितं तदनु क्षौद्रं घृतैः सत्रिफलं लिहेत्

1,9.44

द्वात्रिंशद्गुञ्जका वृद्धिः क्रामणं कर्षमात्रकं ।
एष षोडशमासान्ते सर्वरोगाद्विमुच्यते

1,9.45

स भवेत्कान्तसेवार्हस्त्वेवमभ्रकसेवया ।
<कान्तरसायनम्>
पूर्ववद्भस्मयेत्कान्तं वरानिर्गुण्डिभृङ्गजैः

1,9.46

रसैस्त्रिसप्तवाराणि मर्दयेद्भावयेत्क्रमात् ।
क्षौद्राज्याभ्यां लिहेत्प्रातर्नित्यं गुञ्जाद्वयोन्मितं

1,9.47

अनु भक्ष्यं सिन्दुवारवराभृङ्गभवं रजः ।
मध्वाज्याभ्यां कर्षमात्रं शुद्धाङ्गो वमनादिभिः

1,9.48

द्वात्रिंशद्गुञ्जिका वृद्धिः परमावधिरीश्वरि ।
भवेत्षोडशमासान्ताज्जराव्याधिभिरुज्झितः

1,9.49

कान्तस्य सेवया पश्चाद्भवेत्कान्ताभ्रकार्हकः ।
<कान्ताभ्ररसायनम्>
मृतं कान्तं घनं तुल्यं धात्रीभृङ्गपुनर्नवाः

1,9.50

द्रवैरेषां पृथङ्मर्द्यं कल्ये गुञ्जाद्वयं लिहेत् ।
शर्करामधुसर्पिर्भिः शुद्धात्मा वमनादिभिः

1,9.51

भृङ्गामलकवर्षाभूचूर्णं क्रामणमुत्तमं ।
मध्वाज्यैरनु लेह्यं तद्द्वात्रिंशद्गुञ्जकावधि

1,9.52

मासषोडशयोगेन वलीपलितजिद्बली ।
कान्ताभ्रसत्वभजनाद्धेमसेवार्हको भवेत्

1,9.53

<स्वर्णरसायनम्>
पूर्ववद्भस्मयेत्स्वर्णं दशमूलकषायतः ।
एकविंशतिवारं तं मर्दयेद्भावयेत्प्रिये

1,9.54

मध्वाज्याभ्यां मुद्गमानं लिहेत्प्रातर्विशुद्धधीः ।
गुडूचीत्रिफलाक्वाथं पलं चानुपिबेत्सुधीः

1,9.55

अष्टगुञ्जावधिर्वृद्धिर्भवेत्षोडशमासतः ।
तेजस्वी बलवान्धीमांश्चक्षुष्मान्रोगवर्जितः

1,9.56

वलीपलितनिर्मुक्तस्त्रिकालविषजिद्भवेत् ।
<स्वर्णाभ्रकरसायनम्>
पूर्ववन्मारयेत्स्वर्णं तस्माद्द्विगुणमभ्रकं

1,9.57

दशमूलवराभृङ्गीक्वाथैर्भाव्यं त्रिसप्तधा ।
प्रातर्माषत्रयं लेह्यं मध्वाज्यैः क्रामणं लिहेत्

1,9.58

पलं गुडूचीत्रिफलाक्वाथं तदनु पार्वति ।
चतुर्विंशतिगुञ्जास्य वृद्धिः स्यात्परमावधिः

1,9.59

मासषोडशयोगेन दिव्यतेजा महाबलः ।
घनकाञ्चनयोगेन स्वर्णकान्तार्हको भवेत्

1,9.60

<स्वर्णकान्तरसायनम्>
पूर्ववन्मारयेत्स्वर्णं कान्तं स्वर्णद्विभागकं ।
धात्रीफलैर्द्विसप्तैव भावयेन्मर्दयेत्क्रमात्

1,9.61

सशर्करं भजेत्प्रातस्त्रिमाषं च पिबेदनु ।
धात्रीसत्वं घृतं क्षौद्रं कर्षमात्रं सुरेश्वरि

1,9.62

चतुर्विंशतिका गुञ्जा वृद्धिः स्यात्परमावधिः ।
मासषोडशयोगेन वलीपलितवर्जितः

1,9.63

तप्तकाञ्चनसच्छायः पञ्चबाण इवापरः ।
हेमकान्तास्वादनेन कान्ताभ्रकनकार्हकः

1,9.64

<स्वर्णाभ्रकान्तरसायनम्>
पूर्ववन्मारयेत्स्वर्णं कान्तसत्त्वाभ्रसत्वकं ।
समानि त्रीणि चैतानि भावयेच्च त्रिसप्तकं

1,9.65

मुण्डिनिर्गुण्डिकाभृङ्गवरानीरेण पार्वति ।
माषत्रयोन्मितं प्रातर्लिहेत्क्षौद्रघृताप्लुतं

1,9.66

मुण्डीचूर्णं कर्षमात्रं मध्वाज्याभ्यां लिहेदनु ।
गोक्षीरं पलमात्रं च पिबेत्तदनु पार्वति

1,9.67

वल्लद्वादशसंख्याता परा वृद्धिर्भवेत्प्रिये ।
मासषोडशयोगे दिव्यकायो भवेन्नरः

1,9.68

हेमाभ्रकान्तभजनाद्योग्यः स्याद्वज्रभक्षणे ।
<वज्ररसायनम्>
पूर्ववद्भस्मयेद्वज्रं धात्रीनीरेण मर्दयेत्

1,9.69

भावयेत्सप्तधा धीमान्व्रीहिमात्रं लिहेत्प्रिये ।
घृतक्षौद्रयुतं चानुपिबेद्धात्रीरसं पलं

1,9.70

वल्लावधिर्भवेद्वृद्धिर्मासषोडशयोगतः ।
चिरजीवी वज्रकायो दिव्यदृष्टिर्महाबलः

1,9.71

वज्रस्य सेवया योग्यो भवेद्वज्राभ्रभक्षणे ।
<वज्राभ्ररसायनम्>
पूर्ववन्मारयेद्व्योम वज्रं वज्राच्चतुर्गुणं

1,9.72

घनं धात्र्याः शतावर्या रसैर्भाव्यं त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां लिहेदनु

1,9.73

धात्रीशतावरीनीरं क्रामणं पलमात्रकं ।
चतुर्गुञ्जा परा वृद्धिर्भवेत्षोडशमासतः

1,9.74

वाक्सिद्धिर्दिव्यदृष्टिः स्याद्देवतासदृशप्रभः ।
सेवया घनवज्रस्य कान्तवज्रार्हको भवेत्

1,9.75

<कान्तवज्ररसायनम्>
पूर्ववद्भस्मयेद्वज्रं कान्तं वज्राच्चतुर्गुणं ।
कान्तं त्रिसप्तधा भाव्यमश्वगन्धावरारसैः

1,9.76

यवमात्रं क्षौद्रघृतैर्युक्तं लेह्यं दिनोदये ।
अश्वगन्धावराचूर्णं कर्षं गोपयसा पिबेत्

1,9.77

चतुर्गुञ्जावधिर्ज्ञेया वृद्धिः स्यात्परमावधिः ।
मासषोडशयोगेन बालसूर्यसमद्युतिः

1,9.78

महाबलो महातेजा वाक्सिद्धः सिद्धतां व्रजेत् ।
सेवया वज्रकान्तस्य वज्रकान्ताभ्रकार्हकः

1,9.79

<वज्राभ्रकरसायनम्>
पूर्ववन्मारयेद्वज्रं कान्ताभ्राणि च हीरकात् ।
चतुर्गुणे च कान्ताभ्रे वराभृङ्गकुरण्डजैः

1,9.80

रसैस्त्रिसप्तधा भाव्यं यवमात्रं लिहेत्प्रिये ।
समध्वाज्यं भृङ्गवराकुरण्डकरजोयुतं

1,9.81

पलं पिबेच्च गोक्षीरं चतुर्गुञ्जापरावधिः ।
मासषोडशयोगेन गृध्रदृष्टिर्महाबलः

1,9.82

अव्याहतगतिर्धीरः सिद्धसंघेन वर्तते ।
कान्ताभ्रवज्रभजनाद्योग्यः स्याद्धेमवज्रयोः

1,9.83

<स्वर्णवज्ररसायनम्>
पूर्ववन्मारयेद्वज्रं स्वर्णं वज्राद्द्विभागकं ।
सुवर्णवज्रं वर्षाभूरसैर्भाव्यं त्रिसप्तधा

1,9.84

व्रीहिमेयं लिहेत्क्षौद्रघृताभ्यां च पुनर्नवां ।
कर्षं पलं च गोक्षीरमनुपेयं सुरेश्वरि

1,9.85

द्विगुञ्जावधि वृद्धिः स्यान्मासषोडशयोगतः ।
चिरकालं भवेज्जीवी वलीपलितवर्जितः

1,9.86

वज्रहेमोपयोगेन स्वर्णाभ्रकुलिशार्हकः ।
<स्वर्णाभ्रवज्ररसायनम्>
पूर्ववद्भस्मयेद्धेमघनवज्राणि पार्वति

1,9.87

हीरकाद्द्विगुणं स्वर्णं स्वर्णादभ्रं द्विभागकं ।
मुसलीकन्दसारेण भावनीयं त्रिसप्तधा

1,9.88

यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
कर्षं स्यान्मुसलीचूर्णं गोक्षीरं पलमात्रकं

1,9.89

चतुर्गुञ्जावधिर्वृद्धिर्मासषोडशयोगतः ।
मृत्युं जयेज्जराहीनो वज्रकायो महाबलः

1,9.90

एतस्य सेवया वज्रहेमकान्तार्हको भवेत् ।
<स्वर्णवज्रकान्तरसायनम्>
वज्रकान्तसुवर्णानि पूर्ववन्मारितानि च

1,9.91

वज्रात्सुवर्णं द्विगुणं स्वर्णात्कान्तं द्विभागकं ।
धात्रीभृङ्गरसैर्मर्द्यमेकविंशतिवारकं

1,9.92

यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
धात्रीभृङ्गभवं चूर्णं कर्षं गोदुग्धकं पलं

1,9.93

गुञ्जाचतुष्टयी वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो दिव्यतेजा महाबलः

1,9.94

एतस्य सेवया कान्तस्वर्णवज्राभ्रकार्हकः ।
<स्वर्णकान्तवज्राभ्रकरसायनम्>
भस्मयेत्स्वर्णकान्ताभ्रवज्राणि च यथोक्तवत्

1,9.95

ज्योतिष्मतीरसैर्भाव्यमेकविंशतिवारकं ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु

1,9.96

अश्वगन्धाकन्दचूर्णं कर्षं गोदुग्धकं पलं ।
गुञ्जाचतुष्टयी वृद्धिः परमावधिरीश्वरि

1,9.97

मासषोडशयोगेन साक्षादिन्द्रसमो भवेत् ।
एतस्य सेवया देवि रसं सेवितुं अर्हति

1,9.98

<रसभस्म>
धान्याभ्रं पारदं मर्द्यं तप्तखल्वे दिनत्रयं ।
त्रिफलारग्वधनिशाकुमारीकृष्णधूर्तजैः

1,9.99

पुनर्नवाग्निजंबीरभवैर्नीरैर्विमर्दयेत् ।
पातयेत्पातनायन्त्रे त्वेवं मर्दनपातनं

1,9.100

कुर्यात्त्रिवारं शुद्धः स्यात्पारदो दोषवर्जितः ।
नियामकैर्मर्दयेत्तं मूषालेपं नियामकैः

1,9.101

कृत्वा तं मर्दितं सूतं मूषायां निक्षिपेत्सुधीः ।
अन्ध्रयित्वा भूधराख्ये यन्त्रे पाच्यं सुरेश्वरि

1,9.102

एवं च सप्तधा कुर्यान्मर्दनं पुटपाचनं ।
रसभस्म भवेच्छुभ्रं योज्यं योगे रसायने

1,9.103

<आरोटकरसाः; अभ्रकजीर्णरसभस्म>
अथ चारोटकरसं देहसिद्ध्येककारणं ।
माषमात्रं लिहेत्प्रातर्मध्वाज्यत्रिफलैः सह

1,9.104

धारोष्णं गोपयः पेयं मात्रमनु प्रिये ।
अष्टगुञ्जावधिं वृद्धिं कृत्वा षोडशमासकं

1,9.105

वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकं ।
एतस्य सेवया देवि ह्यभ्रसूतार्हको भवेत्

1,9.106

मुखीकृते रसे देवि चतुःषष्टिकनिष्कके ।
अभ्रसत्वं निष्कमात्रं क्षिप्त्वा जम्बीरजैर्द्रवैः

1,9.107

तप्तखल्वे मर्दयेच्च दिनं कच्छपयन्त्रके ।
सबिडं च पचेत्पश्चात्तमादाय विमर्दयेत्

1,9.108

अभ्रसत्वं द्विनिष्कं च जम्बीराम्लेन पार्वति ।
तप्तखल्वे कच्छपाख्ये यन्त्रे पचनकर्म च

1,9.109

तृतीये च चतुर्निष्कं चतुर्थे पञ्चमे क्रमात् ।
अष्टनिष्काभ्रसत्वं च दद्यात्पञ्चमपातने

1,9.110

घनषोडशनिष्कं च षष्ठे द्वात्रिंशदंशकं ।
सत्त्वं सप्तमे स्यात्सममेव हि पार्वति

1,9.111

पारदेऽभ्रकसत्वस्य जारणा भवति प्रिये ।
एवं जारितसूतेन्द्रं भस्मीकुर्याच्च पूर्ववत्

1,9.112

पलं चैतत्सूतभस्म व्योमसत्वं चतुष्पलं ।
भृङ्गराजद्रवैर्मर्द्यं मूषायामन्धयेद्दृढं

1,9.113

कुक्कुटाख्ये पुटे पच्यात्स्वाङ्गशीतं समाहरेत् ।
त्रिफलाभृङ्गजैर्नीरैर्भावयेत्तत्त्रिसप्तधा

1,9.114

मध्वाज्याभ्यां गुञ्जमात्रं लिहेत्प्रातर्विशुद्धधीः ।
पिबेदनु वराक्वाथं पलं नियतमानसः

1,9.115

गुञ्जाषोडशिका वृद्धिः सेव्यं षोडशमासतः ।
आचन्द्रतारकं जीवेद्वलीपलितवर्जितः

1,9.116

एतस्य सेवया कान्तसूतसेवार्हको भवेत् ।
<कान्तजीर्णरसभस्म>
मुखीकृते सूतराजे यथाभूदभ्रजारणा

1,9.117

तथैव कान्तसत्वस्य जारणा भवति प्रिये ।
मारयेत्पूर्ववत्सूतं कान्तसत्वेन जारितं

1,9.118

एवंविधं सभस्म भागमेकं भवेत्पुनः ।
चतुर्भागं कान्तभस्म मर्दयेत्त्रिफलाम्बुना

1,9.119

मूषायां अन्ध्रयेत्पश्चात्पचेत्कौक्कुटिके पुटे ।
तमादाय वरानीरैर्भावयेच्च त्रिसप्तधा

1,9.120

मध्वाज्याभ्यां लिहेद्गुञ्जामात्रं प्रातरतन्द्रितः ।
अनुपेयं च गोक्षीरं पलमात्रं सुरेश्वरि

1,9.121

गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
दिव्यदृष्टिं खेचरत्वं प्राप्नुयादैन्द्रकं पदं

1,9.122

एतस्य सेवया सूतघनकान्तार्हको भवेत् ।
मुखीकृतरसे कुर्यात्पूर्ववद्व्योमजारणं

1,9.123

<कान्ताभ्रकजीर्णरसभस्म>
समं सूतस्य देवेशि पश्चात्कार्यं विचक्षणैः ।
पूर्ववत्कान्तसत्वस्य जारणा सूतराट्समा

1,9.124

कान्तसत्वाभ्रसत्वाभ्यां जारितः पारदो यदि ।
स रसः पक्षहीनः स्याच्चाञ्चल्यरहितः शिवः

1,9.125

तं रसं पूर्ववद्दिव्यैरौषधैर्मारितं रसं ।
पलं तद्द्विगुणं व्योमसत्वभस्म च तत्समं

1,9.126

भस्म वैक्रान्तसत्वस्य मर्द्यमेवं त्रयं त्रिधा ।
भृङ्गधात्रीफलरसे ततो लघुपुटे पचेत्

1,9.127

भृङ्गधात्रीफलरसैश्छायायां भावयेद्रसं ।
त्रिफलामधुसर्पिर्भिर्गुञ्जामात्रं लिहेदनु

1,9.128

पिबेत्पलं च गोक्षीरं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकं

1,9.129

एतस्य सेवया सूतस्वर्णसेवार्हको भवेत् ।
<स्वर्णजीर्णरसभस्म>
हेमजीर्णं सूतराजं भस्मीकुर्याच्च पूर्ववत्

1,9.130

एवंविधं सूतभस्म पलं स्वर्णपलद्वयं ।
भृङ्गधात्रीफलरसैश्छायायां भावयेत्त्रिधा

1,9.131

रुद्ध्वा तं संपुटे पच्यात्कुक्कुटाख्ये पुटे पचेत् ।
पुनस्त्रिसप्तधा भृङ्गधात्रीनीरैश्च भावयेत्

1,9.132

माषमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां युतं रसं ।
अनुपेयं च गोक्षीरं वृद्धिः षोडशमाषकं

1,9.133

मासषोडशयोगेन देवतुल्यश्चिरायुषः ।
सेवया स्वर्णसूतस्य घनहेमरसार्हकः

1,9.134

<स्वर्णाभ्रकजीर्णरसभस्म>
मुखीकृतरसे चाभ्रसत्वं जार्यं समं पुरा ।
ततः स्वर्णं समं जार्यं तं सूतं भस्मयेत्ततः

1,9.135

पूर्वोक्तवत्सूतभस्म पलं स्वर्णपलद्वयं ।
चतुष्पलं व्योमसत्वभस्म चैकत्र योजयेत्

1,9.136

नीलीपत्ररसे मर्द्यं वराक्वाथे दिनं प्रिये ।
रुद्ध्वा तं संपुटे पच्यादन्यैर्विंशतिगोमयैः

1,9.137

नीलीरसवराक्वाथैर्भावयेत्तं त्रिसप्तधा ।
गुञ्जोन्मेयं लिहेत्कल्ये मध्वाज्याभ्यां पिबेदनु

1,9.138

पलमात्रं वराक्वाथं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकं

1,9.139

एतस्य सेवया कान्तहेमसूतार्हको भवेत् ।
<स्वर्णकान्तजीर्णरसभस्म>
समुखे पारदे कान्तसत्वं जार्यं यथोक्तवत्

1,9.140

जारयेच्च तथा स्वर्णं द्वाभ्यां जीर्णं समं समं ।
विधिना भस्मयेत्सूतं कान्तहाटकजारितं

1,9.141

तं रसं पलमेकं च हेमभस्म पलद्वयं ।
चलं कान्तसत्वभस्म युञ्ज्याद्यथाविधि

1,9.142

शतावरीवरानीरे दिनं संमर्द्य संपुटे ।
रुद्ध्वा तं कुक्कुटपुटे पचेदादाय तं रसं

1,9.143

त्रिः सप्तधा शतावर्या रसैर्भाव्यं वरारसैः ।
गुञ्जामात्रं घृतक्षौद्रयुक्तं लेह्यं पिबेदनु

1,9.144

शतावरीरसः पेयः पलमात्रं सुरेश्वरि ।
गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः

1,9.145

वलीपलितनिर्मुक्तः प्रलयान्तं च जीवति ।
एतस्य सेवया स्वर्णकान्ताभ्ररसभुग्भवेत्

1,9.146

<स्वर्णकान्ताभ्रजीर्णरसभस्म>
घनकान्तसुवर्णानि चैकैकानि समानि वै ।
मुखीकृतस्य सूतस्य जारयेत्क्रमशः प्रिये

1,9.147

घनादिजारितं सूतं मारयेत्पूर्ववत्सुधीः ।
तस्माद्भस्मीकृतात्सूताद्द्विगुणं हेमभस्म च

1,9.148

हेमतुल्यं मृतं कान्तं कान्ततुल्यं मृतं घनं ।
एतत्सर्वं वराक्वाथमुण्डीभृङ्गरसैर्दिनं

1,9.149

मर्दयेत्संपुटे रुद्ध्वा पचेत्कौक्कुटिके पुटे ।
तदादाय वराभृङ्गमुण्डिनीरैश्च भावयेत्

1,9.150

त्रिः सप्तवारं छायायां प्रातर्गुञ्जोन्मितं लिहेत् ।
शर्करामधुसर्पिर्भिरनुपेयं च गोपयः

1,9.151

गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकं

1,9.152

एतस्य सेवया सूतवज्रसेवार्हको भवेत् ।
<वज्रजीर्णरसभस्म>
समुखे पारदे कुर्यात्पूर्ववद्वज्रजारणां

1,9.153

वज्रजीर्णं रसं देवि भस्मीकुर्याच्च पूर्ववत् ।
भस्मीभूतरसाद्वज्रभस्म च द्विगुणं प्रिये

1,9.154

कन्याभृङ्गवरानीरैर्दिनं मर्द्यं च संपुटे ।
कुक्कुटाख्ये पुटे पच्यात्तमादायाथ भावयेत्

1,9.155

कन्याभृङ्गवरानीरैर्भावयेच्च त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु

1,9.156

गोक्षीरं पलमात्रं तु वृद्धिर्गुञ्जाचतुष्टयं ।
मासषोडशयोगेन जीवेदाचन्द्रतारकं

1,9.157

एतस्य सेवया वज्रसूतव्योमार्हको भवेत् ।
<वज्राभ्रकजीर्णरसभस्म>
घनजीर्णं वज्रजीर्णं भस्मीकुर्याद्रसं सुधीः

1,9.158

भस्मीभूताद्रसाद्वज्रं द्विगुणं व्योमभस्म च ।
चतुर्गुणं च तत्सर्वमेकीकृत्य विमर्दयेत्

1,9.159

वराक्वाथे रसैर्दिनं संपुटके पचेत् ।
कृते लघुपुटे पश्चाद्भाव्यं भृङ्गवरारसैः

1,9.160

त्रिसप्तधा समध्वाज्यं माषमात्रं पिबेदनु ।
गव्यं क्षीरपलं पेयं वृद्धिर्गुञ्जाष्टकावधिः

1,9.161

एवं षोडशमासेन जीवेदाचन्द्रतारकं ।
एतस्य सेवया कान्तवज्रसूतार्हको भवेत्

1,9.162

<कान्तवज्रजीर्णरसभस्म>
कान्तं वज्रं समं जार्यं समुखे पारदे प्रिये ।
कान्तहीरकजीर्णं तं पारदं मारयेत्सुधीः

1,9.163

पूर्वोक्तविधिना कान्ते एतत्पारदभस्म च ।
पारदाद्द्विगुणं वज्रं वज्रात्कान्तं चतुर्गुणं

1,9.164

पलाशपुष्पस्वरसैर्दिनं मर्द्यं च संपुटे ।
रुद्ध्वा कुक्कुटके पश्चात्तमादायाथ भावयेत्

1,9.165

पलाशपुष्पनीरेण भावयेत्तं त्रिसप्तधा ।
समध्वाज्यं माषमात्रं लिहेदनु पिबेत्पयः

1,9.166

अष्टगुञ्जावधिर्वृद्धिर्भवेत्षोडशमासतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकं

1,9.167

एतस्य सेवया वज्ररसकान्ताभ्रकार्हकः ।
<कान्तवज्राभ्रकजीर्णरसभस्म>
समुखे पारदे व्योमकान्तवज्राणि च क्रमात्

1,9.168

समानि जारयेत्पश्चाज्जीर्णं तं मारयेद्रसं ।
पूर्ववत्पारदाद्वज्रं समं वज्रचतुर्गुणं

1,9.169

कान्तं कान्तसमं व्योमसत्वं चैतानि मर्दयेत् ।
त्रिफलाभृङ्गजरसै रुद्ध्वा संपुटके पचेत्

1,9.170

लघुनाग्निपुटेनैव तमादायाथ भावयेत् ।
वराभृङ्गरसैरेकविंशतिं वारमातपे

1,9.171

माषमात्रं समध्वाज्यं लिहेत्प्रातर्विशुद्धधीः ।
अनुपेयं च गोक्षीरं वृद्धिर्गुञ्जाष्टकं भवेत्

1,9.172

मासषोडशयोगेन जीवेदाचन्द्रतारकं ।
एतस्य सेवया हेमवज्रसूतार्हको भवेत्

1,9.173

<स्वर्णवज्रजीर्णरसभस्म>
समुखे पारदे तुल्ये हेम वज्रं च जारयेत् ।
तं रसं भस्मयेद्देवि रसं वज्रं समं समं

1,9.174

तयोः समं मृतं हेम वराक्वाथेन मर्दयेत् ।
तत्सर्वं संपुटे क्षिप्त्वा भूधराख्ये पुटे पचेत्

1,9.175

तमादाय वराक्वाथैर्भावयेच्च त्रिसप्तधा ।
माषमात्रं लिहेत्प्रातस्तिलाज्यमधुसंयुतं

1,9.176

गोक्षीरमनुपेयं स्यादष्टगुञ्जावधि क्रमात् ।
मासषोडशपर्यन्तं जीयादाचन्द्रतारकं

1,9.177

एतस्य सेवया व्योमहेमवज्ररसार्हकः ।
<स्वर्णवज्राभ्रकजीर्णरसभस्म>
समुखे पारदे व्योमहेमवज्राणि जारयेत्

1,9.178

पारदस्य समांशानि ततः सूतं विमारयेत् ।
रसतुल्यं मृतं वज्रं तयोस्तुल्यं च हाटकं

1,9.179

सर्वतुल्यं रसं व्योम तत्सर्वं ब्रह्मबीजकैः ।
तैलैस्त्र्यहं पेषयित्वा संपुटेद्भूधरे पुटे

1,9.180

तं पलाशकषायेण भावनाश्चैकविंशतिः ।
तं रसं माषमात्रं च तैलं ब्रह्मद्रुबीजकं

1,9.181

कर्षमात्रं पिबेच्चानु यावद्गुञ्जाष्टकावधि ।
मासषोडशयोगेन सिद्धो भवति शाश्वतः

1,9.182

एतस्य सेवया कान्तहेमवज्ररसार्हकः ।
<स्वर्णकान्तवज्रजीर्णरसभस्म>
मुखीकृते सूतराजे कान्तं स्वर्णं समं समं

1,9.183

जारयेद्भस्मयेत्तं च तत्समं वज्रभस्म च ।
तयोस्तुल्यं मृतं हेम कान्तं सर्वसमं प्रिये

1,9.184

वराभृङ्गरसे पिष्ट्वा भूधरे संपुटे पचेत् ।
ततो भृङ्गवरानीरैरेकविंशतिभावनाः

1,9.185

वराक्षौद्रैर्लिहेत्प्रातर्माषमात्रं रसं सुधीः ।
गव्यं पयः पलं पेयं वृद्धिः षोडशमाषिका

1,9.186

मासषोडशयोगेन भवेत्सिद्धसमः प्रभुः ।
एतस्य सेवया व्योमकान्तहेमपवीरसं

1,9.187

सेवितुं जायतेऽर्होऽसौ संयतात्मा महेश्वरः ।
<स्वर्णकान्तवज्राभ्रकजीर्णरसभस्म>
घनकान्तस्वर्णवज्रं जारयेत्समुखे रसे

1,9.188

प्रत्येकं पारदसममेव कार्यं सुरेश्वरि ।
ततस्तं मारयेद्युक्त्या रसतुल्यं मृतं पविं

1,9.189

तयोस्तुल्यं मृतं हेम सर्वतुल्यं मृतं घनं ।
घनतुल्यमयस्कान्तं सर्वतुल्यं सुरद्रुजैः

1,9.190

तैलैस्ततः संपुटे च क्षिप्त्वा भूधरके पचेत् ।
गुञ्जामात्रं रसं चैतं लिहेत्प्रातः शुचिः सुधीः

1,9.191

देवदारुजतैलेन कर्षमात्रं तु पार्वति ।
धारोष्णं गोपयः पेयं पलमात्रमनु प्रिये

1,9.192

गुञ्जाषोडशपर्यन्तं मासषोडशयोगतः ।
य इमं पारदं दिव्यं सेवते पथ्यभुक्सदा

1,9.193

व्याधिजन्मजरामृत्युवर्जितः सर्वसिद्धिभाक् ।
सर्वज्ञः सर्वगः सिद्धः सृजतीव पितामहः

1,9.194

विष्णुवत्त्रायते विश्वं हरतीव हरः स्वयं ।
वाञ्छितार्थान्स्वयं दत्ते कल्पद्रुम इवापरः

1,9.195

कन्दर्प इव कामाक्षीः सहस्रं रमयेत्क्षणात् ।
सच्चिदानन्दरूपोऽयं रससेवी भवेद्ध्रुवं

1,9.196

घनादिपञ्चयोगोत्थमेकत्रिंशद्रसायनं ।
भवत्स्नेहेन कथितं रहस्यं देवदुर्लभं

1,10.1

âक्, १, १०
<घुटिकासिद्धिः>
प्रणम्य परया भक्त्या भैरवं भैरवी शिवं ।
उवाच विनयेनेदं लोकानां हितकांक्षिणी

1,10.2

श्रीभैरवी ।
देवदेव कृपामूर्ते सर्वानुग्राहक प्रभो ।
त्वत्प्रसादान्मया ज्ञातं रहस्यं अतिदुर्लभं

1,10.3

कान्ताभ्रहेमकुलिशरसभस्म रसायनं ।
अतः परं महादेव श्रोतुमिच्छामि भैरव

1,10.4

एतैर्घनाद्यै रचितघुटिकानां रसायनं ।
श्रुत्वा सविनयं वाक्यं भैरव्यास्त्वादिभैरवः

1,10.5

स्थित्वेत्युवाच वचनं तद्वक्ष्यामि रसायनं ।
श्रीभैरवः ।
<१. सञ्जीवनी घुटिका>
शृणु पार्वति यत्नेन सावधानेन साम्प्रतं

1,10.6

प्रथमं जारणं कार्यं पश्चात्पारदबन्धनं ।
तस्माज्जारणबीजानि घनादीनां वदामि ते

1,10.7

गन्धतालशिलातुत्थखर्परीहिङ्गुलामलाः ।
भूनागताप्यकासीसनृपावर्ताभ्रगैरिकं

1,10.8

कान्तत्रिक्षारवैक्रान्तास्त्वेते चूर्णसमांशकः ।
सिद्धचूर्णमिदं ख्यातं श्रेष्ठं स्याद्बीजकर्मणि

1,10.9

द्वन्द्वमेलोपलिप्तायां मूषायां निक्षिपेत्प्रिये ।
कृष्णसत्वाभ्रसत्वं च द्रावयेत्समशुल्बकं

1,10.10

समित्रपञ्चकं तस्मिन्सिद्धचूर्णं मुहुर्मुहुः ।
घनाद्दशगुणं क्षेप्यं धमेद्गाढं वरानने

1,10.11

घनसत्वावशिष्टं स्याद्धमनीयं च तावता ।
कालेनेदं व्योमसत्वबीजं जार्यं रसायने

1,10.12

समुखे पारदे बीजं चतुःषष्ट्यंशके क्षिपेत् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयं

1,10.13

तं सूतं कच्छपे यन्त्रे सबिडे जारयेत्प्रिये ।
ततो द्वात्रिंशदंशं च षोडशांशं रसस्य तु

1,10.14

अष्टमांशं चतुर्थांशं द्व्यंशं चैव समांशकं ।
पारदे जारयेदेवं क्रमाद्बीजं सुरेश्वरि

1,10.15

सूतमेवंविधं व्योमसत्वं बीजसमं प्रिये ।
तप्तखल्वेऽम्लवर्गेण मर्दयेदेकवासरं

1,10.16

पिष्टिं पारदराजं तं जम्बीरान्तर्विनिक्षिपेत् ।
दोलायन्त्रेऽम्लयुक्ते तं विपचेत्सप्तवासरं

1,10.17

तमादाय बलिं क्षिप्त्वा सिद्धचूर्णेन पार्वति ।
ततस्तं भूधरे यन्त्रे पचेल्लघुपुटेन च

1,10.18

यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः ।
दोलापाकं सिद्धचूर्णलेपं भूधरके पुटं

1,10.19

मृतसञ्जीवनी नाम्ना घुटिका सर्वसिद्धिदा ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत्

1,10.20

हेम्ना सुवेष्टिता सम्यग्वलीपलितनाशिनी ।
वक्त्रस्था मृत्युहा वर्षाद्विषविग्रहनाशिनी

1,10.21

शुद्धं गन्धं कर्षमात्रं गव्यं क्षीरं पलं पिबेत् ।
अनेन क्रमणेनैव सूतः संक्रमते तनुं

1,10.22

<२. दिव्या घुटिका>
कान्तम्लेच्छमुखं रूप्यं लिप्तमूषान्तरे समं ।
द्रावयित्वा सिद्धचूर्णं कान्ताद्दशगुणं शनैः

1,10.23

वहेन्मुहुर्मुहुर्द्राव्यं यावत्कान्तोऽवशिष्यते ।
कान्तबीजमिदं प्रोक्तं श्रेष्ठं जार्यं रसायने

1,10.24

समुखे पारदे चेदं बीजं चार्यं च पूर्ववत् ।
चतुःषष्ट्यंशकं पूर्वं समांशं तं क्रमेण वै

1,10.25

एवंविधं सूतराजं कान्तबीजं द्वयं समं ।
मर्दयेत्तप्तखल्वे च साम्लवर्गे दिनत्रयं

1,10.26

पिष्टीभूतं च जम्बीरे क्षिप्त्वाम्लगणपूरिते ।
दोलायन्त्रे पचेत्सम्यगेवं आ सप्तवारकं

1,10.27

तमादाय लिहेद्बाह्ये सिद्धचूर्णेन भैरवि ।
ततो दिव्यौषधैर्लिप्ते संपुटे भूधरे पचेत्

1,10.28

यावत्कठिनतां याति तावत्कुर्यात्क्रमेण च ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनं

1,10.29

पुटे तौ जारयेद्दिव्यनाम्नाथ परमेश्वरि ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत्

1,10.30

हेम्ना सुवेष्टितं धार्यं वलीपलितनाशनं ।
पूर्ववत्फलदा पुण्या धार्या यत्नेन मानवैः

1,10.31

पूर्ववत्क्रामणं कार्यं देहे संक्रमते रसः ।
<३. कामेश्वरी घुटिका>
समुखे पारदे व्योमकान्तबीजं च मारयेत्

1,10.32

प्रत्येकं पारदसमं पूर्ववच्च शनैः शनैः ।
चतुःषष्ट्यंशकं चादौ समांशं तं क्रमाद्रसे

1,10.33

अस्य सूतस्य तुल्यांशं कान्तबीजाभ्रबीजकं ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद्वासरत्रयं

1,10.34

पिष्टीकृतं च जम्बीरे क्षिप्त्वा दोलागतं पचेत् ।
पुनरादाय तां पिष्टिं सिद्धचूर्णेन लेपयेत्

1,10.35

दिव्यौषधिगणैर्लिप्ते संपुटे भूधरे पचेत् ।
यदा कठिनतां याति द्विधा कुर्यात्क्रमेण तु

1,10.36

दोलास्वेदं चूर्णलेपं कृत्वा भूधरपाचनं ।
कामेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा

1,10.37

पूर्ववत्क्रामणं कार्यं रसेन्द्रः क्रामते तनुं ।
<४. हेमसुन्दरी घुटिका>
स्वर्णं रूप्यं म्लेच्छमुखं कान्तसत्वाभ्रसत्वकं

1,10.38

द्वन्द्वमेलोपलिप्तायां मूषायां तद्विनिक्षिपेत् ।
तस्मिन्द्रुते सिद्धचूर्णं स्वर्णाद्दशगुणं क्षिपेत्

1,10.39

यावत्स्वर्णावशेषं स्यात्तावद्द्राव्यं शनैः शनैः ।
हेमबीजं इदं ख्यातं श्रेष्ठं रसरसायने

1,10.40

समुखे पारदे देवि बीजं रससमं क्रमात् ।
जारयेत्पूर्ववद्देवि चतुःषष्ट्यंशकादिकं

1,10.41

एतद्रसं हेमबीजं समं खल्वे च तापिते ।
मर्दयेदम्लवर्गेण त्र्यहात्पिष्टिर्भवेद्रसः

1,10.42

पिष्टिं जम्बीरजां कृत्वा दोलायन्त्रेऽम्लपूरिते ।
षडहं पाचयेद्देवि सिद्धचूर्णप्रलेपनं

1,10.43

तथा संपुटलेपं च तथा भूधरपाचनं ।
यावत्कठिनतां याति तावत्कुर्याच्च पूर्ववत्

1,10.44

इयं तु घुटिका दिव्या विख्याता हेमसुन्दरी ।
वक्त्रस्था सिद्धिदा नःणां जरामृत्युविषापहा

1,10.45

पूर्ववत्क्रामणं कार्यं सूतः संक्रमते पुनः ।
<५. मदनसुन्दरी घुटिका>
मुखीकृते रसे व्योमबीजं हाटकबीजकं

1,10.46

समं समं क्रमाज्जार्यं चतुःषष्ट्यंशकादिकं ।
इत्येवं जारितं सूतं बीजं गगनरुक्मयोः

1,10.47

मर्दयेत्पारदसमं तप्तखल्वेऽम्लवर्गतः ।
त्रिदिनाज्जायते पिष्टिः पुनर्जम्बीरगां कुरु

1,10.48

दोलायन्त्रेऽम्लभरिते पचेत्तां सप्तवासरं ।
लेपनं सिद्धचूर्णस्य तथा संपुटलेपनं

1,10.49

तथा भूधरपाकश्च यावत्कठिनतां व्रजेत् ।
सिद्धिदा घुटिका ह्येषा नाम्ना मदनसुन्दरी

1,10.50

आस्यान्तरस्थिता कुर्यात्सर्वसिद्धीश्चिरायुषः ।
व्यालव्याघ्रगजादीनां राज्ञां वश्यं स्त्रियामपि

1,10.51

पूर्ववत्क्रामणं कार्यं कायं आक्रामते रसः ।
<६. खेचरी घुटिका>
मुखीकृते रसे कान्तहेमबीजं समं समं

1,10.52

रसोन्मिते पृथक्जार्यं चतुःषष्ट्यंशकादिकं ।
इत्थं जीर्णं रसं बीजं कान्तहेम्नो रसोन्मितं

1,10.53

पूर्ववत्पिष्टिकां कृत्वा दोलायन्त्रे च पाचनं ।
यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः

1,10.54

घुटिका जायते नाम्ना खेचरी सर्वसिद्धिदा ।
पूर्ववत्क्रामणं कार्यं सुगन्धं गोपयः पिबेत्

1,10.55

तेन संक्रमते देहं घुटिकान्तर्गतो रसः ।
<७. वज्रेश्वरी घुटिका>
समुखे पारदे व्योमकान्तहेम्नां समं समं

1,10.56

बीजं पृथक्पृथक्जार्यं चतुःषष्ट्यंशकादिकं ।
इत्थंभूतस्य सूतस्य समं व्योमादिबीजकं

1,10.57

त्रयं तापितखल्वेन त्र्यहमम्लेन मर्दयेत् ।
स सूतः पिष्टिं आप्नोति तां पिष्टिं पूर्ववत्प्रिये

1,10.58

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनं ।
यावत्कठिनतां याति तावत्कार्यं अतन्द्रितैः

1,10.59

वज्रेश्वरीति घुटिका वक्त्रस्था सर्वसिद्धिदा ।
पूर्ववत्क्रामणं कार्यं गात्रं व्याप्नोति पारदः

1,10.60

<८. महावज्रेश्वरी घुटिका>
शुद्धं स्वर्णं वज्रभस्म लोहचूर्णाभ्रसत्वकं ।
एतच्चतुःसमं नागं मूषायां चान्ध्रितं धमेत्

1,10.61

द्वन्द्वमेलोपलिप्तायां पुनरादाय तं प्रिये ।
एकीभूतं च मूषायां प्रकटं च धमेत्पुनः

1,10.62

धौतसत्त्वं माक्षिकं च स्वल्पं स्वल्पं मुहुः क्षिपेत् ।
वज्रहेमावशेषं तु यावत्स्यात्तत उद्धरेत्

1,10.63

एतस्मिन्व्योमसत्वायश्चूर्णनागांश्च पूर्ववत् ।
द्वन्द्वमेलोपलिप्तायां अन्ध्रयित्वा दृढं धमेत्

1,10.64

एकीभूतं समादाय मूषायां प्रकटं धमेत् ।
हेमवज्रावशेषं स्याद्यावत्तत्पुनराहरेत्

1,10.65

व्योमसत्वं अयश्चूर्णं नागं वाह्यं पुनः पुनः ।
पूर्ववत्क्रमयोगेन माक्षिकं धौतसत्त्वकं

1,10.66

मुहुः क्षिप्य धमेत्तं तु बाह्यमेवं तु षड्गुणं ।
वज्रबीजमिदं श्रेष्ठं जार्यं रसरसायने

1,10.67

समुखे पारदे जार्यं वज्रबीजं रसोन्मितं ।
चतुःषष्ट्यंशकाद्यं च क्रमात्संक्रामयेत्प्रिये

1,10.68

इत्थं जारितसूतस्य समं कुलिशबीजकं ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयं

1,10.69

स पिष्टिर्जायते सूतस्तां पिष्टीं च समाहरेत् ।
दोलापाकः सिद्धचूर्णलेपः सम्पुटभूधरं

1,10.70

कुर्वीत पूर्ववत्सर्वं यावत्कठिनतां व्रजेत् ।
महावज्रेश्वरी नाम्ना घुटिका सिद्धिदायिनी

1,10.71

वक्त्रस्था क्रामणं कार्यं पूर्ववत्क्रामते रसः ।
<९. वज्रखेचरी घुटिका>
मुखीकृते रसे व्योमवज्रबीजं रसोन्मितं

1,10.72

पृथक्पृथक्जारणीयं चतुःषष्ट्यंशकादिकं ।
अमुष्य जीर्णसूतस्य समं वज्राभ्रबीजकं

1,10.73

तप्तखल्वेऽम्लवर्गेण त्रिदिनं मर्दयेद्दृढं ।
स रसो जायते पिष्टिस्तां पुनः पूर्ववत्प्रिये

1,10.74

दोलास्वेदं सिद्धचूर्णलेपं भूधरपाचनं ।
यावत्कठिनतां यति तावदेवं मुहुर्मुहुः

1,10.75

घुटिका जायते दिव्या नाम्नेयं वज्रखेचरी ।
वक्त्रस्था सिद्धिदा नृणां पूर्ववत्क्रामणं प्रिये

1,10.76

<१०. कालविध्वंसिनी घुटिका>
मुखीकृते रसे कान्तवज्रबीजं रसोन्मितं ।
पृथक्पृथग्जारणीयं चतुःषष्ट्यंशकादिकं

1,10.77

अस्य जीर्णस्य सूतस्य समं कुलिशकान्तयोः ।
बीजं संतप्तखल्वेऽम्लवर्गे मर्द्यं दिनत्रयं

1,10.78

पिष्टिर्भवत्येष सूतः पिष्टिं तां पुनराहरेत् ।
दोलास्वेदः सिद्धचूर्णलेपः संपुटभूधरं

1,10.79

यावत्कठिनतां याति तावदेवं मुहुर्मुहुः ।
कालविध्वंसिनी नाम्ना घुटिका जायते शुभा

1,10.80

मुखस्था सिद्धिदा दिव्या पूर्ववत्क्रामणं पिबेत् ।
<११. गगनेश्वरी घुटिका>
मुखीकृते सूतराजे वज्रकान्ताभ्रबीजकं

1,10.81

पृथक्पृथक्सूतराजे चतुःषष्ट्यंशकादिकं ।
रसस्य तस्य सदृशं वज्रबीजाभ्रबीजकं

1,10.82

तप्तखल्वेऽम्लवर्गेण त्र्यहात्पिष्टिः सुमर्दनात् ।
दोलापाकः सिद्धचूर्णलेपः संपुटभूधरं

1,10.83

यावत्कठिनतां याति तावत्कुर्यान्मुहुर्मुहुः ।
गगनेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा

1,10.84

पूर्ववत्क्रामणं कार्यं देहे क्रामति सूतकः ।
<१२. वज्रघण्टेश्वरी घुटिका>
मुखीकृते सूतराजे बीजं वज्रसुवर्णयोः

1,10.85

पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकं ।
अस्य सूतस्य सदृशं हेम्नो वज्रस्य बीजकं

1,10.86

तप्तखल्वेऽम्लवर्गेण त्र्यहात्पिष्टिर्भवेद्रसः ।
तां पिष्टिं पुनरादाय पूर्ववत्परिकल्पयेत्

1,10.87

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनं ।
यावत्कठिनतां याति तावत्कुर्यान्मुहुर्मुहुः

1,10.88

वज्रघण्टेश्वरी ह्येषा घुटिका सिद्धिदायिनी ।
मुखस्था सिद्धिदा दिव्या पूर्वोक्तं क्रामणं पिबेत्

1,10.89

<१३. वज्रभैरवी घुटिका>
मुखीकृते सूतराजे हेमवज्राभ्रबीजकं ।
पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकं

1,10.90

अस्य सूतस्य सदृशं हेमवज्राभ्रबीजकं ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयं

1,10.91

पिष्टिर्भवेत्पुनस्तां च समादाय ततः प्रिये ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनं

1,10.92

यावत्कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
घुटिका जायते दिव्या नाम्नेयं वज्रभैरवी

1,10.93

मुखस्थिता सिद्धकरी क्रामणं पूर्ववत्प्रिये ।
<१४. त्रिपुरभैरवी घुटिका>
मुखीकृते रसे कान्तवज्रहाटकबीजकं

1,10.94

जार्यं पृथक्सूतसमं चतुःषष्ट्यंशकादिकं ।
जीर्णसूतसमं कान्तवज्रकाञ्चनबीजकं

1,10.95

तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयं ।
जायते पारदः पिष्टिः पूर्ववत्तां समाहरेत्

1,10.96

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनं ।
यावत्कठिनतां एति तावत्कार्यं मुहुर्मुहुः

1,10.97

घुटिका जायते दिव्या नाम्ना त्रिपुरभैरवी ।
मुखस्था सिद्धिदा ह्येषा पूर्ववत्क्रामणं प्रिये

1,10.98

<१५. महाभैरवी घुटिका>
मुखीकृते रसे कान्तवज्राभ्रस्वर्णबीजकं ।
पृथक्सूतसमं जार्यं चतुःषष्ट्यंशकादिकं

1,10.99

अस्य सूतस्य जीर्णस्य समं व्योमादिबीजकं ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयं

1,10.100

पिष्टिर्भवति सूतेन्द्रस्तां पिष्टिं पुनराहरेत् ।
दोलापाकं सिद्धचूर्णलेपं संपुटभूधरे

1,10.101

यावत्कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
नाम्ना महाभैरवीयं घुटिका सर्वसिद्धिदा

1,10.102

धारयेन्मुखमध्ये तत्पूर्ववत्क्रामणं पिबेत् ।
<क्रामणानि>
त्रिफला मुसली मुण्डी भृङ्गराजश्च वाकुची

1,10.103

नीली कन्या काकमाची हयगन्धा शतावरी ।
उत्तरा वारुणी देवदाली चित्रा पुनर्नवा

1,10.104

निर्गुण्डी सहदेवी च रुदन्ती गजकर्णिका ।
भूतावरातभल्लातकाकतुण्डामृतालताः

1,10.105

पलाशः कुक्कुरूटश्च धात्रीफलरसः पयः ।
पलाशबीजकं तैलं घृतं मधु शिवाम्बु च

1,10.106

बिल्वमज्जा च तैलं च तैलं ज्योतिष्मतीभवं ।
एतानि क्रामणार्हाणि चौषधानि भवन्ति हि

1,10.107

एते चाष्टार्धगदिताः क्रामणार्थे प्रयोगतः ।
रसभस्मप्रयोगे च घुटिकानां रसायने

1,10.108

<पञ्चदशघुटिकाफलम्>
प्रिये पञ्चदशानां च घुटिकानां फलं शृणु ।
अभ्रबीजेन रचितघुटिका रससंयुता

1,10.109

मुखस्थिता द्वादशाब्दं सर्वरोगविनाशनी ।
स जीवेद्वत्सरशतं पुमांश्च परमेश्वरि

1,10.110

कान्तबीजेन रचिता घुटिका रससंयुता ।
आस्यस्था सर्वरोगघ्नी द्वादशाब्दं वरानने

1,10.111

धातुदार्ढ्यप्रजननी सहस्रायुष्यदायिनी ।
कान्ताभ्रबीजरचिता रसयुग्घुटिका शुभा

1,10.112

द्वादशाब्दं मुखान्तस्था जरामयविनाशिनी ।
अयुतायुष्यदा दिव्या महाबलविवर्धिनी

1,10.113

हेमबीजयुता सूतघुटिका मुखमध्यगा ।
आ द्वादशाब्दं देहस्य वलीपलितरोगहा

1,10.114

आयुष्यप्रदा पुण्या नागायुतबलप्रदा ।
हेमाभ्रबीजघटिता घुटिका युक्तपारदा

1,10.115

वक्त्रास्थितार्कसंख्याब्दं दशलक्षाब्दजीवदा ।
दिव्यबुद्धिप्रजननी दिव्यसत्वप्रदायिनी

1,10.116

कान्तकाञ्चनबीजाभ्यां ससूता घुटिका कृता ।
द्वादशाब्दं मुखान्ता कोट्यायुष्यविवर्धिनी

1,10.117

महातेजःप्रजननी बिलनिध्यादिदर्शिनी ।
कान्ताभ्रहेमघटिता घुटिका रससंयुता

1,10.118

मुखस्था द्वादशाब्दान्ताद्दशकोट्यब्दजीवदा ।
हालाहलादिसंवर्तखेचरत्वप्रदायिनी

1,10.119

निर्मुक्तवज्रबीजेन रसयुग्घुटिका शुभा ।
मुखस्था द्वादशाब्दान्तं सर्वलोकगतिप्रदा

1,10.120

यावद्भूमिः स्थिरतरा तावदायुःप्रवर्धिनी ।
तरुणः सर्वदा कामः कान्तानां सुरतक्षमः

1,10.121

वज्राभ्रबीजरचिता घुटिका रसगर्भिता ।
घुटिका रससंख्याब्दं मुखस्था सर्वसिद्धिदा

1,10.122

ब्रह्मायुष्यप्रदा पुंसां जगत्सृष्टुं क्रमात्प्रभुः ।
पूज्यते ब्रह्मवद्देवैर्वेदवेदाङ्गपारगः

1,10.123

सरस्वत्या च सावित्र्या सेव्यते सर्वलोकगः ।
अष्टाभिः सिद्धिभिर्युक्तो ह्यणिमादिभिरीश्वरि

1,10.124

वज्रकाञ्चनबीजेन ससूता घुटिका कृता ।
मुखस्था द्वादशाब्दान्तं विष्ण्वायुष्यप्रदा नृणां

1,10.125

स च विष्णुत्वमाप्नोति विष्णुवत्पालितुं क्षमः ।
सेव्यते सनकाद्यैश्च श्रिया युक्तो महाबलः

1,10.126

स्वेच्छागतिर्महेन्द्राद्यैर्निर्जरैः सेव्यते सदा ।
हेमाभ्रवज्रबीजेन रचिता घुटिका प्रिये

1,10.127

सपारदा मुखान्तःस्था द्वादशाब्दं वरानने ।
रुद्रायुष्प्रदा नःणां रुद्रत्वं सा ददाति हि

1,10.128

संहर्ता रुद्रवल्लोकं विष्ण्विन्द्राद्यैश्च सेव्यते ।
अणिमाद्यैश्च सहितः सर्वज्ञः सर्वलोकगः

1,10.129

सेव्यते प्रमथश्रेष्ठैर्दिव्यशक्त्या समन्वितः ।
योगीन्द्रैर्ध्यायते धीरो महातेजा महाबलः

1,10.130

कान्तकाञ्चनवज्राणां बीजैः सूतयुता कृता ।
घुटिका भानुसंख्याब्दं मुखस्था सिद्धिदा नृणां

1,10.131

ईश्वरायुष्यमाप्नोति खेचरत्वं च मानवः ।
तिरोधत्ते स्वयं लोकाद्ब्रह्मेन्द्राद्यभिवन्दितः

1,10.132

कोटिसूर्यप्रतीकाशो महामारुतसत्त्ववान् ।
महाकल्पान्तकालेऽपि विनाशं न व्रजेद्ध्रुवं

1,10.133

योगक्रीडानुषक्तात्मा ध्यायते योगवित्तमैः ।
कान्ताभ्रहेमवज्राणां कृता बीजै रसात्मिका

1,10.134

घुटिका रविसंख्याब्दवक्त्रस्था यस्य भैरवि ।
सदाशिवायुः स भवेत्सर्वानुग्राहकः प्रभुः

1,10.135

सदाशिवत्वं आप्नोति देवानामधिपस्तथा ।
वह्नौ वह्निर्जले वारि मारुते मारुतात्मकः

1,10.136

पृथिव्यां पृथिवीरूपः शून्ये शून्यात्मको भवेत् ।
तस्याक्षिणीन्दुवह्न्यर्का ब्रह्मेन्द्राद्याश्च सेवकाः

1,10.137

गायका नारदाद्याश्च नर्तक्यश्चाप्सरोऽङ्गनाः ।
तदाज्ञयैव ब्रह्मेन्द्राः सृष्टिस्थितिविनाशकाः

1,10.138

सच्चिदानन्दकः शक्तः सर्वगः सर्वविच्छिवः ।
पराशक्तियुतः पुण्यो निर्मायो निष्कलः परं

1,10.139

एवं गुणाः प्रकथिता घुटिकानां मया प्रिये ।
शस्त्रस्तम्भकरश्चासां सर्वासां अपि विद्यते

1,10.140

रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।
<घुटिकासिद्धौ मन्त्रप्रयोगः>
वक्ष्यते मन्त्रराजोऽयं सर्वसिद्धिप्रदायकः

1,10.141

ऐं ह्रीं श्रीं क्लीं सौः अमृतेश्वरभैरव अमृतं कुरु अमृतेश्वरभैरवाय हुं ।
सौः क्लीं श्रीं ह्रीं ऐं हुं फट्स्वाहा ।
सौः क्लीं श्रीं ह्रीं ऐं ।
पुमाननेन मन्त्रेण शीघ्रं सिद्धिमवाप्नुयात्

1,11.1

âक्, १, ११
<जीवत एव दिव्यदेहसिद्धिः; भूतकालान्तकरसः>
श्रीभैरवी ।
देवदेव महादेव कथितानि त्वयाधुना ।
रसायनानि दिव्यानि सिद्धिदानि महेश्वर

1,11.2

चिरकालेन देहानां कल्पानां सिद्धिदानि हि ।
सद्यः सिद्धिर्यथा देव जायते परमेश्वर

1,11.3

तद्ब्रूहि न्यूनाभ्यधिकहीनक्षीणाङ्गिनां अपि ।
अथ गद्गदमूकानां कुब्जानामथ कुष्ठिनां

1,11.4

अन्धपङ्ग्वबलानां च जराजर्जरितात्मनां ।
सदा रोगार्तषण्डानां कृशानां भ्रान्तचेतसां

1,11.5

भूतप्रेतपिशाचापस्मारोन्मत्तयुजामपि ।
प्रमादाज्जीवशेषाणां देहसिद्धिप्रदं नृणां

1,11.6

श्रीभैरवः ।
श्रुत्वा तद्भैरवीवाक्यं साधु पृष्टं त्वया प्रिये ।
तथाविधां प्रवक्ष्यामि देहसिद्धिं वरानने

1,11.7

पञ्चभूतात्मिकाः पञ्च कर्तव्या घुटिकाः प्रिये ।
जीवात्मिका भवेत्षष्ठी घुटिका पिण्डकोष्टयुक्

1,11.8

काले तु या कन्या कुर्यात्संभोगमायतं ।
तद्वराङ्गस्थितं रक्तं शुक्लं स्याद्व्योमसत्वकं

1,11.9

तस्याः सद्यः प्रसूतस्य विष्ठा पुत्रस्य मारुतं ।
तत्त्वं स्यात्केवलं तस्या रजस्तेजात्मसत्त्वकं

1,11.10

तदपत्यस्य रुधिरं जलतत्त्वं प्रकीर्तितं ।
तत्सूतस्य वपुः सर्वं पार्थिवं तत्त्वमुच्यते

1,11.11

सूतसेवकशुक्लं च जीवतत्त्वं भवेत्प्रिये ।
कोटिवेधकरं सूतं कर्षं कर्षं नियोजयेत्

1,11.12

एकैकतत्त्वमध्ये तु प्रसेकं तानि मर्दयेत् ।
तेषां च गोलकान्कृत्वा षड्रसं स्थापयेत्पृथक्

1,11.13

नृमानमुन्नतं कायमायामं तु तदर्धकं ।
कटाहं ताम्रघटितं पिण्डस्थौल्यं षडङ्गुलं

1,11.14

चतुर्मुखमयं कोष्ठं तस्योपरि कटाहकं ।
धारयेन्निश्चलं सम्यक्तदन्तः पूरयेत्प्रिये

1,11.15

गोघृतं च महातैलं समभागमिदं द्वयं ।
अर्चयेद्दशदिक्पालान्योगिनीश्च कुमारिकां

1,11.16

श्रीगुरुं सिद्धचक्रं च भैरवं भैरवीं तथा ।
गणाधिपं क्षेत्रपालं निजेष्टदैवतं तथा

1,11.17

नवग्रहाग्निविप्रांश्च दैवज्ञान्भिषगुत्तमान् ।
तथान्तरायकर्तःंश्च भूतप्रेतपिशाचकान्

1,11.18

यक्षराक्षसगन्धर्वान्मन्त्रज्ञान्स्वजनानपि ।
तर्पयेन्मद्यमांसैश्च वस्त्रभूषणकाञ्चनैः

1,11.19

तत्तत्प्रियकरैर्दिव्यैर्बलिं दिक्षु विनिक्षिपेत् ।
चतुर्भिर्वङ्कनालैश्च धमयेत्खदिराग्निना

1,11.20

फेनहीनं अधूमं च संतप्तं च यदा भवेत् ।
श्रीगुरुं निजदेवं च चन्द्रसूर्याग्नितारकाः

1,11.21

भुवनानि नमस्कृत्य कटाहे निक्षिपेत्तनुं ।
ज्ञात्वा सम्यग्द्रुतं देहं पार्थिवाख्यं रसं क्षिपेत्

1,11.22

धमेद्गाढं प्रयत्नेन तत्कल्कं च यदा भवेत् ।
ततोऽप्तत्त्वाख्यरसकं निक्षिपेद्रक्ततां नयेत्

1,11.23

तेजस्तत्त्वरसं पश्चात्क्षिपेत्तन्मांसतां व्रजेत् ।
निक्षिपेद्वायुतत्त्वाख्यं रसं तत्र विनिक्षिपेत्

1,11.24

शुभ्रवर्णत्वमाप्नोति ततश्चाकाशतत्त्वकं ।
निक्षिपेज्जीवतत्त्वाख्यं रसतत्त्वं च पार्वति

1,11.25

रसं क्षिपेत्त्वन्ध्रितस्य स्वर्णस्य तत्समं भवेत् ।
सजीवो जायते सिद्धो हुंकारत्रयं उच्चरेत्

1,11.26

यथोदितो भानुबिम्बो महाबुद्धिपराक्रमः ।
महावपुर्महातेजा नागायुतमहाबलः

1,11.27

मन्मथोपमरूपाढ्यो वाचा वागीश्वरीसमः ।
बुद्ध्या जीवसमः श्रीमान्विष्णुवद्धनदोपमः

1,11.28

त्यागे रोषे च कालाग्निर्गाम्भीर्येण महोदधिः ।
स्रष्टा हर्ता च गोप्ता च सर्वानुग्राहकः प्रभुः

1,11.29

दिव्यदृष्टिर्वज्रदेहः स साक्षाद्भैरवस्त्वयं ।
अर्धयोजनविस्तीर्णहेमकिङ्किणिमण्डितं

1,11.30

चलद्भ्रमरसशोभं नानामाणिक्यमण्डितं ।
हेममालापरिष्वक्तं घण्टानादमनोहरं

1,11.31

दिव्यदीप्तमहानादिशङ्खकाहलसंकुलं ।
वीणावेणुमृदङ्गाद्यैर्वादित्रैर्मुरजैः समं

1,11.32

तालैर्बहुविधैश्चान्यैर्दिव्यघोषैः समाकुलं ।
गायत्किन्नरगन्धर्वैस्तथा किंपुरुषैर्युतं

1,11.33

लसन्माणिक्यकेयूरहारकङ्कणमुद्रकाः ।
काचनूपुरसंयुक्ता दिव्याभरणभूषिताः

1,11.34

दिव्यमालापरिष्कारा दिव्यगन्धानुलेपनाः ।
दिव्याम्बराश्चारुरूपा मत्तमन्मथविह्वलाः

1,11.35

दिव्याङ्गनास्तदा चैनं समाश्रित्य ब्रुवन्ति च ।
किं कर्म सिद्धसंखेदास्त्वादेशो देव दीयतां

1,11.36

उपासते सिद्धकन्याः परः शतसहस्रकं ।
यत्र यास्यति तत्रैव चानुयामो वयं वृताः

1,11.37

दिव्यालयांश्च विविधान्हेममाणिक्यमण्डितान् ।
दिव्यानि स्नानपानानि स्वीकुर्वाणो मुहुर्मुहुः

1,11.38

वज्र्यादिसर्वलोकेषु स्वेच्छया विहरत्यसौ ।
पूज्यते देवसिद्धौघैः यथायं भैरवस्तथा

1,11.39

भुञ्जानः सर्वभोगांश्च क्षुत्पिपासाविवर्जितः ।
योगिनीशतसाहस्रं भोक्ता संचिन्तयन्सुखं

1,11.40

महाकल्पान्तकालेऽपि प्रक्षीणेऽस्मिन्वरानने ।
लीयते परमे व्योम्नि लीयन्ते यत्र देवताः

1,11.41

भूतकालान्तको नाम रसस्यास्य प्रभावतः ।
अभेद्योऽयं अखण्ड्यश्च त्वदाह्यो भवति प्रिये

1,11.42

रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।
वक्ष्यते मन्त्रराजोऽयं रससिद्धिप्रदायकः

1,11.43

ऐं ह्रीं श्रीं क्लीं सौः श्रीभैरव

1,12.1

âक्, १, १२
<श्रीशैले सिद्धिलाभः>
श्रीभैरवी ।
श्रीशैले विविधा सिद्धिः सद्यः प्रत्ययकारिणी ।
सुलभा श्रूयते देव तां ब्रूहि विविधां प्रभो

1,12.2

श्रीभैरवः ।
वक्ष्यामि शृणु तत्सर्वं सद्यः सिद्धिकरं प्रिये ।
कैलासान्मन्दरान्मेरोर्विन्ध्याद्रेश्च हिमालयात्

1,12.3

महेन्द्रान्मलयाद्रेश्च सह्यादृश्यगिरेरपि ।
श्रेष्ठः श्रीपर्वतो दिव्यः सिद्धियोगीन्द्रसेवितः

1,12.4

तत्र तीर्थानि सर्वाणि सरांसि सरितः प्रिये ।
सिद्धिप्रदानि लिङ्गानि लतापाषाणपादपाः

1,12.5

मृत्तिकाकन्दतोयानि पत्रपुष्पफलानि च ।
एवमादीनि विद्यन्ते सर्वसिद्धिकराणि च

1,12.6

श्रीपर्वतोऽहमीशानि त्वहं साक्षात्स पर्वतः ।
स्थावरं मामकं रूपं विद्धि तं सुरसेवितं

1,12.7

अस्मिन्यदस्ति नान्यत्र यदन्यत्र स्थितं च तत् ।
दिव्यलिङ्गस्पर्शनीयं ज्योतिर्लिङ्गमनामयं

1,12.8

श्रीमल्लिकार्जुनमिति प्रख्यातं परमेश्वरि ।
वामपार्श्वेऽस्य लिङ्गस्य घण्टासिद्धेश्वरः स्थितः

1,12.9

घण्टा विलम्बते द्वारे तीर्थकुण्डं च विद्यते ।
उपोषितैस्त्रिभिः कार्यं जागरूकैरतन्द्रितैः

1,12.10

निशि कृष्णचतुर्दश्यामजस्रं स्नापयेच्छिवं ।
एकः समानयेत्तोयं कुण्डस्थमपरः प्रिये

1,12.11

घण्टां निनादयेदन्यश्चतुर्यामावधि प्रिये ।
घण्टासिद्धेश्वरस्तुष्टो दद्यात्तेभ्योऽपि खे गतिं

1,12.12

घण्टासिद्धेश्वरस्यास्य दक्षिणे निखनेत्प्रिये ।
जानुदघ्नं तु तत्रैव दृश्यते रोचनप्रभा

1,12.13

मृत्तिका तां समाहृत्य कर्षमात्रं पिबेत्प्रिये ।
क्षीरयुक्तां च सप्ताहं स साक्षादमरो भवेत्

1,12.14

श्रीगिरीशस्य पुरतो गजाकारा महाशिला ।
स्रवत्येव दिवारात्रं दिव्यगन्धं सुगुग्गुलुं

1,12.15

तं गृह्णीयात्पलाशस्य दर्व्यालाबुकपात्रके ।
प्रक्षिपेद्गन्धकयुतं भक्षयेत्कर्षमात्रकं

1,12.16

प्रत्यहं मासपर्यन्तं ततः सिद्धिमवाप्नुयात् ।
सदानन्दो युवा धीरो जीवेदाचन्द्रतारकं

1,12.17

विद्रुते म्लेच्छवदने गुग्गुलुं तं विनिक्षिपेत् ।
कोटिमंशं ततस्ताम्रं दिव्यं भवति काञ्चनं

1,12.18

<चन्द्रोदक बेइ ंअल्लिकार्जुन>
मल्लिकार्जुनदेवस्य चन्द्रवाप्यस्ति पश्चिमे ।
वैशाखपूर्णिमायां तु साधयेत्साधकोत्तमः

1,12.19

निर्भयो निर्विकल्पश्च वसंस्तोयसमीपतः ।
जपेन्मृत्युञ्जयं मन्त्रं रात्रौ वासोविवर्जितः

1,12.20

निशीथे चन्द्रसलिलं चन्द्रस्पृष्टं भवेद्यदा ।
तत्तीर्थच्छिद्रदेशे च स्वाञ्जलिं प्रक्षिपेदतः

1,12.21

स्पृष्ट्वा चन्द्रो यदा गच्छेत्तदा तत्तोयमाहरेत् ।
पिबेच्च सहसा धीरो जीवेदाचन्द्रतारकं

1,12.22

वज्रकायः सौम्यरूपः शान्तात्मा स भवेन्नरः ।
<ठ्रिपुरान्तक>
पूर्वद्वारे श्रीगिरेस्तु विद्यते त्रिपुरान्तकः

1,12.23

देवस्य निकटे देशे चोत्तरे तिन्त्रिणीतरुः ।
दृश्यते तत्र मूले तु स्वयं श्रीभैरवः प्रभुः

1,12.24

नृमात्रां निखनेद्भूमिं तदग्रे दृश्यते तदा ।
तप्तकुण्डं नीलजलं दिव्यसिद्धिप्रदायकं

1,12.25

तत्तिन्त्रिणीकपत्राणि वस्त्रे बद्ध्वा विनिक्षिपेत् ।
कुण्डे तस्मिंस्तदा तानि स्थूलमीना भवन्ति च

1,12.26

गृहीत्वा तिन्त्रिणीकाष्ठैः पचेदेवं क्रमात्सुधीः ।
तेषां शिरःकण्टकानि खानि च विवर्जयेत्

1,12.27

भक्षयेच्छेषमखिलं साधकः सिद्धिकाङ्क्षया ।
क्षणमात्रं भवेन्मूर्च्छा तेन पश्चाद्विबुध्यते

1,12.28

वसुधायां बिलं पश्येज्जीवेद्दिव्यायुताब्दकं ।
<मणिपल्लि>
पश्चिमे त्रिपुरान्तस्य गव्यूतिद्वयमात्रके

1,12.29

मणिपल्लिरिति ग्रामस्तस्य पश्चिमभागतः ।
विद्यते कश्चन गिरिस्तत्पश्चादेकवाटकं

1,12.30

दृश्यते प्रविशेत्तत्र पूर्वास्यश्च ततो व्रजेत् ।
दक्षिणाभिमुखः पश्चाद्दशचापान्तमात्रकं

1,12.31

तत्र चाम्रफलाकारान्पाषाणाञ्ज्वलनप्रभान् ।
गृहीत्वा बन्धयेद्वस्त्रे तद्वस्त्रं रक्ततां व्रजेत्

1,12.32

पाषाणयुक्तं तद्वस्त्रं क्षीरमध्ये विनिक्षिपेत् ।
ततः क्षीरं रक्तवर्णं स्यात्पिबेत्साधकोत्तमः

1,12.33

सप्ताहाज्जायते सिद्धिर्वज्रकायो महाबलः ।
जीवेदाचन्द्रतारं च आ कल्पमविल्पकं

1,12.34

<कोकिलाबिल>
त्रिपुरान्तस्योदग्भागे कोकिलाबिलं उत्तमं ।
जगत्प्रकाशं तत्रास्ते कृत्वा देहविशोधनं

1,12.35

साधको वमनाद्यैश्च तद्बिलं प्रविशेत्सुधीः ।
दशचापावधिस्तत्र पाषाणाः कोकिलोपमाः

1,12.36

सन्ति गृहीत्वा तत्पृष्ठे तिलाः क्षिप्ताः स्फुटन्ति च ।
इत्येतत्प्रत्ययं दृष्ट्वा ताश्च घृष्य परस्परं

1,12.37

दुग्धान्तः प्रक्षिपेत्तांश्च तत्क्षीरं कृष्णतां व्रजेत् ।
तत्क्षीरं मासमात्रं च पिबेद्दिव्यतनुर्भवेत्

1,12.38

ब्रह्मणस्त्रिदिनं जीवेद्वलीपलितवर्जितः ।
वेगे समीरसदृशश्छिद्रं पश्यति भूतले

1,12.39

त्रिपुरान्तस्य पूर्वस्यां दिशि योजनमात्रके ।
अस्ति स्वर्गपुरीनाथो देवस्तस्याग्रतः खनेत्

1,12.40

जानुमात्रं च वसुधां तत्र सर्पफणोपमाः ।
स्पर्शसंज्ञास्तु पाषाणा निर्गच्छन्ति वरानने

1,12.41

त्रिपुरान्तकदेवस्य पश्चिमेऽर्धार्धयोजने ।
अस्ति दिव्यबिलद्वारं तत्र चापत्रयान्तरं

1,12.42

व्रजेत्खर्जूरवृक्षोऽस्ति कृष्णवर्णः फलान्वितः ।
तत्फलानां रसं पीत्वा तेन मूर्च्छा भवेत्क्षणं

1,12.43

प्रबुद्धोऽसौ भवेत्सिद्धो जीवेदा चन्द्रभास्करं ।
श्रीगिरेर्दक्षिणद्वारे वज्रेश्वरसुरेश्वरौ

1,12.44

तिष्ठतो निखनेद्भूमिं तत्र श्रीफलसन्निभाः ।
पाषाणाः स्पर्शभेदाः स्युः संग्राह्यास्ते सुरेश्वरि

1,12.45

तत्र रामेश्वराख्योऽस्ति निखनेत्तस्य सन्निधौ ।
रुद्राक्षाकारपाषाणाः स्पर्शभेदा भवन्ति ते

1,12.46

<आवर्तक>
ज्योतिःसिद्धवटस्थाने दक्षिणे चैकपादपः ।
तिष्ठत्यावर्तको नाम तदासन्ने तु पश्चिमे

1,12.47

पर्वतो विद्यते तत्र खनेत्तालफलोपमाः ।
पाषाणास्तान्धमेद्गाढं तत्सर्वं काञ्चनं भवेत्

1,12.48

तस्यैव दक्षिणे द्वारे विद्यते कुण्डलेश्वरः ।
तन्निकृष्टे जानुमात्रं खनेद्भूमिं समुद्धरेत्

1,12.49

रक्ताभाः श्रीफलाकाराः पाषाणाः स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य समीपे कुण्डमस्ति हि

1,12.50

गुञ्जारिड्ढौ च विद्येते वृक्षौ तत्पत्त्रं अश्नीयात् ।
सप्ताहाज्जायते सिद्धो जरामरणवर्जितः

1,12.51

<हस्तिशिला>
तत्र हस्तिशिला दक्षे खनेद्धस्तप्रमाणतः ।
तत्र जम्बूफलाकारा ग्राह्यास्ते स्पर्शसंज्ञकाः

1,12.52

ख्याता हस्तिशिरोनाम्ना ख्याता हस्तिशिलेति सा ।
<छायाछत्त्र>
एकयोजनमात्रे तु तस्या दक्षिणभागतः

1,12.53

शिवरूपं शिवप्रोक्तं छायाछत्त्रं तु विद्यते ।
वर्तुलं शतहस्तं तु छिद्रं तस्याप्यधो व्रजेत्

1,12.54

न कैश्चिद्दृश्यते सोऽपि सिद्धो भवति तत्क्षणात् ।
यदृच्छया रुद्रतुल्यः क्रीडत्येव जगत्त्रये

1,12.55

सिद्ध्यष्टकं साधयेद्वा सर्वसिद्धिप्रदायकः ।
कान्ताभ्रसत्वकनकसूताः क्रमगुणोत्तराः

1,12.56

अम्लेन मर्दयेद्गाढं गोलं कृत्वा तु वेष्टयेत् ।
तद्गोलं दीर्घवंशाग्रे बद्ध्वा श्रीकालिकामनुं

1,12.57

जपेन्निवेशयेत्तत्र छायाछत्त्रेण तेन च ।
वंशाग्रबद्धगोलान्तर्जायते घुटिका शुभा

1,12.58

वक्त्रान्तर्धारयेत्तां तु तत्क्षणात्खेचरो भवेत् ।
शिलां तालं वस्त्रबद्धं कृत्वा वंशाग्रवेष्टितं

1,12.59

छायाछत्त्रे निवस्यैतत्ताभ्यां नेत्रे समञ्जयेत् ।
निधिं पश्यति भूमिस्थं नात्र कार्या विचारणा

1,12.60

वंशाग्रबद्धखड्गं च छायाछत्त्रे विनिक्षिपेत् ।
मन्त्रयेत्कालिकामन्त्रं तं खड्गं धारयेत्करे

1,12.61

त्रैलोक्यविजयी धीरो भवेद्वीरो जगत्त्रये ।
वंशाग्रे रोचनं बद्ध्वा छायाछत्त्रे निवेशयेत्

1,12.62

ललाटे तिलकं तेन कृत्वा लोकं वशं नयेत् ।
स्रोतोञ्जनाञ्जने तद्वच्छायाच्छत्रे निवेशयेत्

1,12.63

तेनाञ्जनेनाञ्जितोऽसौ देवैरपि न दृश्यते ।
पादुके पूर्ववद्बद्ध्वा छायाच्छत्रे निधापयेत्

1,12.64

पादाभ्यां पादुके धृत्वा यत्र यत्राभिवाञ्छति ।
प्रयातुं तत्र तत्रैव नयतस्तं च पादुके

1,12.65

पूर्ववद्रक्तवस्त्रं च छायाच्छत्रे निवेशयेत् ।
आवेष्टयेत्तं च पटमदृश्यो भवति क्षणात्

1,12.66

समुज्झिते पटे पश्चाद्दृश्यतेऽसौ न संशयः ।
कान्तं व्योम हेम सूतमेकीकृत्य विमर्दयेत्

1,12.67

गोलीभूतं तु वस्त्रेण वंशाग्रे बन्धयेत्सुधीः ।
छायाच्छत्रे स्थापयेत्तत्कालीमन्त्रेण मन्त्रयेत्

1,12.68

स्पर्शवेधी भवेदेतत्सत्यं सत्यं वरानने ।
श्रीशैलपश्चिमद्वारे देवो ब्रह्मेश्वरः स्थितः

1,12.69

दुर्गा देवी च तत्रस्था सोपानं नवमं च यत् ।
तुङ्गभद्रायां च नद्यां ततो ब्रह्मेश्वरस्य च

1,12.70

द्वारदेशे मुद्गवर्णं चत्वारः स्पर्शका अमी ।
चिञ्चावनं च नैरृत्ये स्थितं ब्रह्मेश्वरस्य हि

1,12.71

कुण्डं च विद्यते तत्र चिञ्चाधश्चण्डिका स्थिता ।
एकपादेन सततं तच्चिञ्चाफलं आहरेत्

1,12.72

वस्त्रेण बन्धयेत्कुण्डे क्षिप्त्वा स्नानं समाचरेत् ।
स्नानान्ते तानि गृह्णीयात्तावन्मत्स्या भवन्ति हि

1,12.73

तदिन्धनैः पचेत्ताश्च ह्यस्थिपुच्छशिरस्त्यजेत् ।
दद्याद्देवायैकं अंशं अतिथीनां द्वितीयकं

1,12.74

तृतीयांशं स्वयं भक्षेन्मूर्छितो भवति क्षणात् ।
दिव्यो भवति सिद्धोऽयं बिलं पश्यति भूतले

1,12.75

जरामरणनिर्मुक्तो ह्यबध्यो निर्जरैरपि ।
अलम्पुरोत्तरे ग्रामो विद्यते भीमपादुकः

1,12.76

पार्श्वे तु तस्य ग्रामस्य हस्तमात्रं धरां खनेत् ।
पाषाणा हि फणाकाराः स्पर्शसंज्ञा भवन्ति ते

1,12.77

योगीश्वरीति देव्यस्ति तत्रालंपुरदेवता ।
तस्याग्रतो रम्यगुहा तस्या मध्ये खनेद्भुवं

1,12.78

पाषाणा भेदसंकाशा ग्राह्या मार्जालविष्ठया ।
संमिश्र्य निक्षिपेद्वङ्गे द्रुते तत्तारतां व्रजेत्

1,12.79

मध्वाज्याभ्यां पिबेत्तांश्च पाषाणान्साधकोत्तमः ।
दिव्यो भवति सिद्धोऽयं वलीपलितमृत्युजित्

1,12.80

श्रीपर्वतोत्तरद्वारे देवो नाम्ना महेश्वरः ।
तिष्ठति भ्रमराम्रश्च तत्र तत्फलमाहरेत्

1,12.81

स्फोटयेच्च तदन्तस्था निर्यान्ति भ्रमरास्तथा ।
सजीवा अथ तान्सर्वान्भ्रमरांस्तान्विवर्जयेत्

1,12.82

तत्फलानि पचेत्क्षारे यावच्छक्यं पयः पिबेत् ।
क्षणं मूर्च्छा भवेत्तेन मूर्च्छान्ते च पयः पिबेत्

1,12.83

एवं कुर्यात्प्रयत्नेन चैकविंशतिवासरं ।
तेन वज्रशरीरः स्याद्वलीपलितवर्जितः

1,12.84

वेदवेदाङ्गतत्त्वज्ञो जीवेदादित्यतारकं ।
तरसा वायुना तुल्यस्तत्क्षणाद्भवति प्रिये

1,12.85

तदाम्रस्य फलेनैव त्यक्तभ्रमरकेन च ।
वङ्गस्य पलसाहस्रं द्रावितं रजतं भवेत्

1,12.86

रन्ध्रमापादयेदाम्रफले भृङ्गं विवर्जयेत् ।
तन्मध्ये निक्षिपेत्सूतं कर्षं कृष्णाभ्रसत्वकं

1,12.87

निरुध्य वक्त्रं समृदा गोमयेन च लेपयेत् ।
छायायां शोषयेत्काष्ठैस्तदीयैः प्रहरं पचेत्

1,12.88

स्वभावशीतलं कृत्वा वक्त्रस्थां कारयेत्सुधीः ।
खेचरत्वमवाप्नोति वलीपलितवर्जितः

1,12.89

जीवेच्चन्द्रार्कपर्यन्तं वाग्मित्वं ब्रह्मणा समं ।
सूतं कृष्णाभ्रसत्वं चाम्रफले पूर्ववत्क्षिपेत्

1,12.90

प्रलिप्य गोशकृन्मृद्भ्यां पुटेदारण्यकोपलैः ।
स्वशीतं पारदं ग्राह्यं मधुसर्पिर्भिर्युतं लिहेत्

1,12.91

गुञ्जामात्रं च मासान्तं बालो भवति मानवः ।
नवनागोपमः सत्वे जीवेद्ब्रह्मैकवासरं

1,12.92

उत्तरे श्रीगिरीशस्य विद्यते शुक्लपर्वते ।
पञ्चोपचारैः सम्पूज्य त्रिषु लोकेषु विश्रुतः

1,12.93

ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकः ।
पश्येत्पश्चिमदिग्भागं अन्तरिक्षे विमानकं

1,12.94

दिव्यं ह्यनेकरुचिरं सद्यः प्रत्ययकारकं ।
ततः पश्चिमदिग्भागे व्रजेत्तीर्त्वा महानदीं

1,12.95

दृश्यते च गुहा तत्र प्रविशेत्पश्चिमाननः ।
त्रियोजनं व्रजेत्तत्र विभीरेकोऽविकल्पकः

1,12.96

कदलीकाननं तत्र दृश्यते पञ्चयोजनं ।
अच्छोदपूर्णा सरसी तन्मध्ये भद्रपीठकं

1,12.97

तत्पीठं तु महद्दिव्यं पश्येत्स्फटिकसन्निभं ।
उच्चारयेन्मन्त्रमिमं दण्डवत्प्रणतिं भजेत्

1,12.98

ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीं ओं स्वाहा ।
तत्र स्नात्वा जपेन्मन्त्रं लक्षमेकं वरानने ।
कन्दमूलाशनो वा यथेष्टं साधकः प्रिये

1,12.99

सिंहासनान्तरे देवं पश्येत्स्फटिकसन्निभं ।
चतुर्भुजं त्रिणेत्रं च विशदेन्दुकलाधरं

1,12.100

नीलग्रीवं नागभूषं परश्वथमृगायुधं ।
वराभयं वरेण्यं तं विशिष्टविबुधार्चितं

1,12.101

नमस्कुर्याच्च साष्टाङ्गं मन्त्रैः स्तोत्रैर्मुहुर्मुहुः ।
ततः प्रसन्नः स शिवो वरं दत्ते यथेप्सितं

1,12.102

शतमायतनं तत्र कूपं नवशतं यथा ।
आरामाश्चापि तावन्ति नन्दनानि वनानि च

1,12.103

वाप्यो नवशतं सन्ति विवरं चैव तत्समं ।
कल्पवृक्षाश्च तावन्ति एते सर्वेऽपि सिद्धिदाः

1,12.104

तत्रास्ते मोहली नाम्ना प्रथिता यक्षिणीष्टदा ।
ब्रूते सा देहि मे भुक्तिं सिद्धिं त्वं यदि वाञ्छसि

1,12.105

देवि दास्याम्यहं भुक्तिं वक्तव्यमिह चामुना ।
कन्दमूलं फलं तस्यै पायसं वा समर्पयेत्

1,12.106

सा यक्षिणी पुनर्वक्ति यावद्भुञ्जे सुतं मम ।
धारयेर्वक्षसा तावद्वरं दास्यामि ते महत्

1,12.107

विसृजेस्त्वं यदि तदा भवन्तं हन्मि निर्दया ।
एवं गतभयश्चीरः कुर्याच्चेत्सिद्धिभाग्भवेत्

1,12.108

व्रजेदुदीचीदिग्भागे तत्सरो योजनार्धके ।
तत्रास्ते चन्दनं दिव्यं पुष्पपूर्णं महेश्वरि

1,12.109

तत्पुष्पाघ्राणमात्रेण क्षुत्पिपासा न बाधते ।
भक्षयेदथवा तस्य फलमेकं यथोचितं

1,12.110

वज्रकायो भवेत्तस्य भक्षणादेव मानवः ।
सरोदक्षिणदिग्भागे गच्छेद्योजनपादकं

1,12.111

नन्दनं दृश्यते तत्र दाडिमीवृक्षसंकुलं ।
तत्फलं भक्षयेद्यस्तु जीवेद्युगसहस्रकं

1,12.112

तस्यैव सरसः पूर्वभागे क्रोशार्धमात्रकं ।
गच्छेद्धात्रीफलैर्युक्तं विद्यते नन्दनं वनं

1,12.113

अश्नीयात्तत्फलं धीरो जीवेत्संवर्तकत्रयं ।
सरसस्तस्य भागे च पश्चिमे योजनं व्रजेत्

1,12.114

तत्र श्रीफलसम्पूर्णं नन्दनं विद्यते वनं ।
अद्यते तत्फलं येन जीवत्याचन्द्रतारकं

1,12.115

तत्रैव नन्दनवने लिङ्गं स्यान्नीलवर्णकं ।
तस्योदग्द्वारमार्गेण विशेन्नागो महाबलः

1,12.116

तत्र सप्तफणोपेतस्तूग्रभीतिकरो महान् ।
एवंविधं महानागं हुंहुंकारं वदन्मुहुः

1,12.117

नमस्कुर्यात्प्रयत्नेन साधकः सिद्धिकाङ्क्षया ।
वदत्येवं महानागस्त्वदृश्यत्वं ददामि ते

1,12.118

याहि स्वं पश्चिमद्वारं दिव्या कन्यास्ति तत्र वै ।
समुच्चरन्महामन्त्रं व्रजेत्तत्रैव साधकः

1,12.119

ददाति हारं सा कन्या प्रवेशं न ददाति च ।
हारं गले धारयेत्तं तेन सारस्वतं भवेत्

1,12.120

तस्माद्दक्षिणदिग्द्वारे व्रजेद्भीतिकरं परं ।
तत्र पश्येन्मुक्तकेशं जिह्मनेत्रं दिगम्बरं

1,12.121

गदाहस्तं नीलवर्णं दृष्ट्वा श्रीक्षेत्रपालकं ।
वन्देत मन्त्रमुच्चार्य स्तोत्रैर्विघ्ननिवारणं

1,12.122

हाहाहेहेहुंहुंकारं फतुं स्वाहान्तमेव च ।
क्षेत्रपालोऽप्यनेनैव मन्त्रेणाशु प्रसीदति

1,12.123

स्वागत्वं वितरत्येष प्रवेशं न ददाति हि ।
अथ व्रजेत्पूर्वदिशो द्वारं तत्र गणाधिपं

1,12.124

स्थितं प्रपूजयेत्तत्र प्रविशेत्साधकोत्तमः ।
दृश्यते दिव्यलिङ्गं च चापस्तत्र मनोहरः

1,12.125

ओं हुङ्कारेण मन्त्रेण पूजयेच्च तमीश्वरं ।
उपवासेन तत्रैव दिवारात्रं जपेत्सुधीः

1,12.126

प्रत्यक्षो भवतीशानो ददाति हि वरं परं ।
इत्येवमादयः सन्ति सिद्धयः कदलीवने

1,12.127

तत्रैव सरसः पूर्वभागे योजनमात्रके ।
अक्षरैर्लिखितं द्वारि तत्र पद्मावतीबिलं

1,12.128

वमनाद्यैर्विशुद्धात्मा प्रविशेत्तत्र साधकः ।
तत्र चापान्तरशतं गच्छेत्तत्र मृदङ्गकं

1,12.129

आलोक्य वादयेत्तं च तद्ध्वनिश्रवणात्तदा ।
पद्मावती स्वयं याति ह्यमृतं च ददाति च

1,12.130

तस्य पानेन सिद्धोऽयममरत्वं लभेत च ।
ततः सैनं समागम्य प्रार्थयेत्त्वं ममान्तिकं

1,12.131

समागच्छालये दिव्ये कन्यापञ्चशताकुले ।
स्थित्वा मम पतिर्भूया ब्रह्मायुष्यावधि प्रभो

1,12.132

तदन्ते शाश्वतं स्थानं गमिष्यसि न संशयः ।
तस्य पूर्वतटाकस्य चाग्नेय्यां दिशि विद्यते

1,12.133

कदम्बेश्वरदेवोऽपि वृक्षः कादम्बकोऽग्रतः ।
तत्र पत्राणि चादाय कटुतैलेन लेपयेत्

1,12.134

तद्बीजसंभवैस्तैलैर्लिम्पेद्वाथ पचेत्सुधीः ।
तत्काष्ठैस्तानि मत्स्याः स्युस्ताम्रपात्रे विनिक्षिपेत्

1,12.135

वर्ज्यमस्थि शिरः पुच्छं क्षौद्रसर्पिर्युतं भजेत् ।
तत्सेवया भवेत्सिद्धो रुद्रतुल्यो महाबलः

1,12.136

तद्वृक्षश्च नदीतीरे कुण्डलेशस्य सन्निधौ ।
विद्यते पूर्ववद्युक्त्या सिद्धिर्भवति नान्यथा

1,12.137

अस्त्युत्तरे पुष्पगिरिः कपोतेशश्च विद्यते ।
त्रिः प्रदक्षिणमातन्यात्तस्य मूर्धानमाव्रजेत्

1,12.138

खेचरत्वं भवेत्तस्य साधकस्य न संशयः ।
तस्य पूर्वोत्तरे भागे छेदिकीद्वारकं स्थितं

1,12.139

उदङ्मुखं विशेत्तत्र त्रिचापान्तरमादरात् ।
मूषिकाकारपाषाणं तक्रे पिष्ट्वा पिबेन्नरः

1,12.140

क्षिप्रं मूर्च्छा भवेत्तस्य जीवेद्ब्रह्मदिनत्रयं ।
वेधयेत्सर्वलोहानि स्पर्शमात्रान्न संशयः

1,12.141

उपोष्य च दिवा नक्तं देवाग्रे सिद्धिमाप्नुयात् ।
विद्यते देवतायुग्मं कपोतेश्वरदक्षिणे

1,12.142

आ नाभिमात्रं निखनेद्देवताद्वयमध्यतः ।
गोरोचनोपमास्तत्र पाषाणाः सन्ति तान्हरेत्

1,12.143

पिष्ट्वा क्षौद्रघृताभ्यां च पिबेद्यः सोऽमरो भवेत् ।
कपोतेशस्य वायव्ये निखनेद्धस्तमात्रकं

1,12.144

तत्र पारावताकारपाषाणाः स्पर्शसंज्ञकाः ।
देवताराधनं कृत्वा तेषामेकं समाहरेत्

1,12.145

ऐशान्यां श्रीगिरीशस्य ह्यस्त्येव भृगुपातनं ।
तत्समीपे दिव्यकुण्डं मृदं तस्मात्समाहरेत्

1,12.146

गव्यपञ्चकयुक्तां तां धमेत्खदिरवह्निना ।
तस्माल्लोहं पतेन्नीलं मध्वाज्याभ्यां प्रतापितं

1,12.147

तत्सेचयेत्सप्तधौते तद्गोलं निक्षिपेन्मुखे ।
विष्णुतुल्यो भवेत्सिद्धः सर्वज्ञः सर्वगः सुखी

1,12.148

भृगुपातनशैलाग्रात्क्रोशे दधिकवाटकं ।
अच्छतैलगिरिर्नाम्ना तदग्रे विद्यते सदा

1,12.149

बिलं तत्पश्चिमे ह्यस्ति तन्मध्ये चापपञ्चके ।
गते पश्येत्तत्र कुण्डं तत्र लाक्षासमं रसं

1,12.150

अलाबुपात्रे गृह्णीयात्स सूतः कोटिवेधकः ।
प्राकारश्चन्द्रगुप्तस्य श्रीगिरीशस्य पश्चिमे

1,12.151

तन्मध्ये विद्यते वेश्म चैत्यं तत्पूर्वतः स्थितं ।
चैत्यात्पूर्वे शिला दिव्या मुद्गाभा स्पर्शसंज्ञका

1,12.152

तत्रास्ते मोहनो दन्ती तमारुह्य समाहितः ।
पृष्ठात्तस्य तृणं ग्राह्यं तत्सर्वं काञ्चनं भवेत्

1,12.153

तद्गजस्योत्तरे पार्श्वे जानुदघ्नां खनेद्धरां ।
जम्बूफलाभाः पाषाणाः स्पर्शसंज्ञा भवन्ति ते

1,12.154

क्षितिं खनेद्गजस्याधो जानुमात्रं लभेत्ततः ।
लक्षवेधकरा सिद्धा त्रिकोणे घुटिका परा

1,12.155

मल्लिनाथस्य वायव्ये नत्वा देवह्रदः परः ।
तीर्थं तत्रास्ति पाषाणा मुद्गाभाः स्पर्शसंज्ञः

1,12.156

लिङ्गं कूर्मोपमं तत्र स्पर्शसंज्ञं शुभं प्रिये ।
पूर्णिमायां कृत्तिकायां पूजयित्वा समाहरेत्

1,12.157

तस्माद्गव्यूतियुगलात्स्मृता नीलवनी परा ।
तस्या लिङ्गं च सलिलं नीलवर्णं प्रशस्यते

1,12.158

अश्वाम्रकाकसङ्काशाः पाषाणाः स्पर्शवेधकाः ।
देवालयान्तर्निखनेज्जानुमात्रान्तराद्धरां

1,12.159

मूषिकाकारपाषाणाः स्पर्शसंज्ञा भवन्ति ते ।
श्रीगिरीशस्य नैरृत्यां ख्याता गुण्डीप्रभाख्यया

1,12.160

तस्याग्रगर्ते पीताभां मृत्तिकां च पुटे दहेत् ।
तस्यान्निःसरति स्वर्णं शुद्धदेवार्हकं परं

1,12.161

तत्रास्ते भृङ्गचूतोऽपि पूर्ववत्सिद्धिदायकः ।
तथा तम्बीपुरे चास्ति तीर्थे च विपुले शुभं

1,12.162

सदाफलं तु विख्यातं तस्याः पूर्वोत्तरे सुधीः ।
श्रीगिरेर्नैरृते भागे महानन्देति विश्रुतः

1,12.163

व्रजेद्घण्टापथेनैव तस्य पूर्वोत्तरे सुधीः ।
तत्रास्ते कालकण्ठेशो नाम्नाग्रे तस्य कुण्डकं

1,12.164

तत्रेन्द्रगोपसङ्काशं सिद्धिः सूतस्य विद्यते ।
भवन्ति सप्त लोहानि स्वर्णं तप्तानि सेकतः

1,12.165

ऐशान्ये श्रीगिरीशस्य चास्ति श्रीमालिनीश्वरः ।
तस्योत्तरदिशि ख्यातस्तूमापर्वतसंज्ञकः

1,12.166

तस्याग्रे च त्रिशूलाभाः सन्ति दर्भाः शुभङ्कराः ।
तदधो निखनेन्नाभिमात्रं नीलां मृदं हरेत्

1,12.167

अक्षकाष्ठैः पचेत्तां च देवातिथ्यग्नये क्रमात् ।
एकैकभागं कल्पेत चतुर्थांशं स्वयं भजेत्

1,12.168

जीवेत्कल्पायुतं सिद्धो महाबलपराक्रमः ।
इलेश्वरस्य निकटे तत्र कोटीश्वरः स्थितः

1,12.169

पुष्पं पत्रं तदग्रेऽस्ति स्पर्शवेधकरं भवेत् ।
तत्राचलेश्वरो देवः स्पर्शवेधकरः परः

1,12.170

तस्य योजनमात्रे च दक्षिणे चामरेश्वरः ।
ततः स्वर्णशिला चास्ति तदूर्ध्वं नरमांसकं

1,12.171

गोमांसं वा क्षिपेत्काष्ठैर्बादरैर्ज्वालयेत्सुधीः ।
प्रातः काञ्चनसङ्काशा दृश्यते सा शिला तदा

1,12.172

प्रत्यग्रपुष्पवत्याश्च रजसा भावितांशुकं ।
लोडयेत्तच्छिलायां च क्षिपेदल्पाम्बुपात्रके

1,12.173

तस्य संस्पर्शमात्रेण लेहः स्यात्काञ्चनं परं ।
श्रीगुरौ यत्र तत्रापि पिण्डभूमिस्थितोपलाः

1,12.174

कर्षमात्रं तु तच्चूर्णं भक्षयेत्त्रिफला समं ।
वलीपलितजिन्मासाज्जीवेदाचन्द्रतारकं

1,12.175

श्रीगिरीन्द्रस्य नैरृत्यां पटाहकर्ण ईश्वरः ।
तस्य पूर्वोत्तरे भागे पञ्चविंशतिचापके

1,12.176

द्विहस्तमात्रोर्ध्वशिला खनेत्तत्र द्विहस्तकं ।
शरावसंपुटाकारान्दृषदस्तान्समाहरेत्

1,12.177

कुर्वीत तानग्निवर्णान्सिञ्च्यात्कूष्माण्डजैर्द्रवैः ।
तन्मध्यान्नवनीतं तु दद्याद्देवाय भागकं

1,12.178

भागैकमतिथेर्देयं भागमेकं स्वयं लिहेत् ।
दिवा नक्तं भवेन्मूर्च्छा विनिद्रो भवति स्वयं

1,12.179

वलीपलितसंवर्ज्यो जीवेद्वर्षायुतं नरः ।
स्पर्शकान्तस्य सोपानं द्वितीयं भवति प्रिये

1,12.180

तद्देवपार्श्वयोः सर्वे पाषाणाः श्वेतपीतकाः ।
स्पर्शाः सर्वा भवन्त्येते तेषु चैकं समाहरेत्

1,12.181

प्राच्यां हि तस्य देवस्य समीपे कूपमस्ति च ।
मण्डूकाभाश्च पाषाणाः सन्ति च स्पर्शसंज्ञकाः

1,12.182

तस्येश्वरस्य चोदीच्यां लिङ्गाद्रिर्विद्यते महान् ।
तदुत्तरस्यां दिश्यस्ति तटिनी पूर्ववाहिनी

1,12.183

तटिन्याः पश्चिमाशायां पिङ्गाभं लिङ्गमस्ति हि ।
पूर्णशैलोदकं कुण्डं तत्र स्यात्क्षणवेधकं

1,12.184

द्वियोजने महेशस्य दक्षिणे चण्डिका स्थिता ।
पिण्डिकाख्या सुविख्याता तस्या वायव्यकोणतः

1,12.185

अन्धुरस्ति हि तन्मध्ये मुद्गवर्णास्तथोपलाः ।
केचित्पथ्यानिभाः सन्ति ते सर्वे स्पर्शसंज्ञकाः

1,12.186

अत्रत्यानां च सर्वेषां स्पर्शानां विधिरुच्यते ।
यदि स्थूलं पेषयेत्तं श्लक्ष्णं मूषान्तरेण हि

1,12.187

कुर्यात्सर्वाणि लोहानि तस्यामावर्तयेत्प्रिये ।
तत्सर्वं जायते स्वर्णं कुर्यादेवं यथेष्टकं

1,12.188

सूक्ष्मश्चेत्सर्वलोहानां द्रुतानामन्तरे क्षिपेत् ।
तत्स्पर्शात्सर्वलोहानि काञ्चनत्वं प्रयान्ति हि

1,12.189

वायव्यां मल्लिनाथस्य तीर्थे सर्वेश्वराख्यकं ।
तस्य दक्षिणदिग्भागे राजमार्गे द्वियोजने

1,12.190

गते डोंगलिका तत्र दृश्यते तस्य मूर्धनि ।
कृष्णधात्रीफलान्येव सन्ति तानि च भक्षयेत्

1,12.191

सप्तवासरपर्यन्तं आ तृप्तिं वज्रविग्रहः ।
जरामरणनिर्मुक्तो जीवेत्कल्पशतत्रयं

1,12.192

तस्माच्च दक्षिणे भागे काकलारीमहावने ।
तत्रास्ते स्तम्बकदली प्रविशेत्तत्र साधकः

1,12.193

क्रोशार्धमात्रं गच्छेच्च रसकुण्डं च दृश्यते ।
अलाबुपात्रे संस्थाप्य कोटिवेधी भवेत्तु सः

1,12.194

शिलामयो नीलवर्णः शिखण्डी तत्र दृश्यते ।
तन्मुखाग्रेऽस्ति कुण्डं वितस्तिमात्रातिनीलकं

1,12.195

शुष्कवंशं च तन्मध्ये क्षणं क्षिप्तं नवं भवेत् ।
पत्रं पुष्पं दिनैकेन भवत्येव न संशयः

1,12.196

तत्र प्रस्थं रसं क्षिप्त्वा तावन्मात्रं जलं हरेत् ।
मधुतुल्यं पिबेत्तं च मूर्च्छा भवति तत्क्षणात्

1,12.197

क्षणेन लब्धज्ञानः स्याज्जीवेद्युगसहस्रकं ।
श्रीगिरेर्वह्निदिग्भागे घटिकासिद्धखेचरः

1,12.198

अस्ति तस्य पुरो भूमौ पञ्चहस्तं खनेत्सुधीः ।
बदराकारपाषाणा विद्यन्ते खगतिप्रदाः

1,12.199

एकं वक्त्रे सदा धार्यं सिद्धैः खेगतिलिप्सुभिः ।
<सिद्धिक्रमः>
श्रीशैले सर्वसिद्धीनामुक्तानां विधिरुच्यते

1,12.200

मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेन्मनुं ।
अघोरान्तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात्

1,12.201

<अथ न्यासः>
ओं ह्रीं महापर्वतवासिन्यै हृदयाय नमः ।
ओं ह्रीं ज्येष्ठायै शिरसे स्वाहा ।
ओं ह्रीं रौद्र्यै शिखायै वषट् ।
ओं ह्रीं कनककुण्डलिन्यै कवचाय हुं ।
ओं ह्रीं संजीविन्यै नेत्रेभ्यो वौषट् ।
ओं ह्रीं मालिन्यै अस्त्राय फट् ।
ओं हुं शिवाय नमः पादयोर्न्यसेत् ।
ओं वं वामदेवाय नमः जङ्घयोः ।
ओं पं पद्मिन्यै नमः गुह्ये ।
ओं कां कन्याकुमार्यै नमः नाभौ ।
ओं ग्लौं नमः कुक्षौ ।
ओं द्रां ह्रीं दुर्गायै नमः उरसि ।
ओं हुं विन्ध्यवासिन्यै नमः कण्ठमूले ।
ओं लं नमः ग्रीवायां ।
ओं ह्रीं श्रीं अष्टभुजायै नमः भुजयोः ।
ओं हुं सर्वतोमुखिन्यै नमः मुखे ।
ओं प्रकाशिकायै नमः नेत्रयोः ।
ओं महिषमर्दिन्यै नमः कर्णयोः ।
ओं ह्रां सर्वाङ्गसुन्दर्यै नमः मूर्ध्नि न्यसेत् ।
एवं अङ्गरक्षां कृत्वा क्षेत्रं पूजयेत् ।
ओं ह्रीं श्रीं नमो भगवति सर्वेश्वरि देवि नमो मण्डलवासिनि क्रां क्रीं क्रूं हन हन पच पच मथ मथ शीघ्रं आवेशय शीघ्रमावेशय एह्येहि भुवनवन्दिते स्वाहा ।
अनेन मन्त्रेण देवतामावाहयेत् ।
ओं ह्रां ह्रीं ह्रूं त्रिभुवनेश्वर्यै नमः सांनिध्यं कुरु कुरु स्वाहा ।
अनेन मन्त्रेण तत्क्षेत्रदेवतां पूजयेत् ।
ओं कृष्णवर्णिनि अपरामुख्यै नमः पूर्वस्मिन् ।
ओं सुधावर्षिण्यै नमः आग्नेये ।
ओं पर्वताकृष्णवर्णिनीरौद्रमुख्यै नमः दक्षिणे ।
ओं बालार्कवर्णिनीमहालक्ष्म्यै नमः नैरृत्ये ।
ओं खं रक्तपर्वतवर्णिनी ।
महामहिषासुरमर्दिन्यै नमः पश्चिमे ।
ओं मां सर्ववर्णिनीहुङ्कारवाग्देव्यै नमः वायव्ये ।
ओं सिह्मवाहिन्यै नमः उत्तरे ।
ओं शिवाशिवाशिवात्रिशूलहस्तायै नमः ऐशान्ये ।
ओं ह्रां ह्रीं क्लीं मनोन्मन्यै नमः आकाशे ।
ओं ह्रां ह्रीं महामोहिन्यै नमः पाताले ।
ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रं महाविद्ये जम्भय जम्भय मोहय मोहय दर्शय दर्शय मूर्छय मूर्छय क्लीं मथ मथ आकर्षयाकर्षय हुं फट्स्वाहा ।
मध्ये च पूजयेत् ।
एवं न्यासं रक्षां पूजां कृत्वा तत्कर्मणि लक्षमेकं अघोरं जपेत् ।
ततः सिद्धिमवाप्नोति ।
मन्त्रं यथा ।
ओं ह्रां ह्रीं ह्रं अघोरतर प्रस्फुर प्रस्फुर प्रकट प्रकट कह कह शम शम जात जात दह दह पातय पातय ओं ह्रैं ह्रां ह्रं अधोरास्त्राय फट् ।
अमुं मन्त्रं लक्षं जपेत् ।
ततः स्वप्ने प्रत्यक्षीभूय देवता वरं ददाति

1,13.1

âक्, १, १३
<गन्धकः>
श्रीभैरवी ।
प्रणम्य शिरसा शम्भुमस्तौषीत्परमेश्वरी ।
श्रुतं तव प्रसादेन दिव्यं सर्वरसायनं

1,13.2

उत्पत्तिं गन्धकस्यापि जातिं संशोधनं तथा ।
सेवां रसायनफलं क्रमाद्ब्रूहि महेश्वर

1,13.3

श्रीभैरवः ।
देवि शृणु प्रवक्ष्यामि गन्धकस्य रसायनं ।
श्वेतद्वीपे पुरा देवि लताकल्पद्रुमोज्ज्वले

1,13.4

नानामणिगणाकीर्णे नानापुष्पफलाकुले ।
सिद्धविद्याधरस्त्रीभिः किन्नर्यप्सरसां गणैः

1,13.5

अनेकनिर्जरस्त्रीभिः क्रीडन्ती त्वं मदोल्लसा ।
वेणुवीणाविनोदेन वाद्यनादैर्मनोहरैः

1,13.6

तालैर्झल्लरिकाढक्कानिनादैः करतालकैः ।
अत्यानन्देन देवेशि नृत्यन्ती त्वं सुरार्चिते

1,13.7

तदा ऋतुमती जाता सुस्राव च रजो महत् ।
सुगन्धिना तद्रजसा त्वद्वस्त्रं रक्ततां ययौ

1,13.8

विहाय तद्रक्तवस्त्रं स्नात्वा क्षीरमहोदधौ ।
अनेकामरकान्ताभिर्वृता कैलासमाव्रजः

1,13.9

वायुना तद्रजोवस्त्रं क्षिप्तं क्षीरमहोदधौ ।
मग्नं तत्रैव तद्वस्त्रं चिरकालं सुरेश्वरि

1,13.10

मथ्यमानान्महाम्भोधेरमृतेन सहोद्भवं ।
श्लाघ्येन निजगन्धेन मोदयन्नसुरान्सुरान्

1,13.11

तेनैव नाम्ना ऊचुस्ते शक्राद्याः सुरपुङ्गवाः ।
गन्धकोऽयं भवत्वस्य नाम्ना जातं तु मत्प्रिये

1,13.12

चतुर्विधं शोणितं ते दिव्यं बलकरं परं ।
समर्थोऽयं गन्धकस्तु रसबन्धे च जारणे

1,13.13

रसेन्द्रे ये गुणाः सन्ति ते गुणाः सन्ति गन्धके ।
इत्यूचुरिन्द्रप्रमुखा हृष्टा गन्धकगन्धतः

1,13.14

तदा प्रभृति लोकेऽस्मिन्ख्यातोऽयं गन्धकः प्रिये ।
जपाकुसुमसङ्काशः क्षत्रियश्चोत्तमः प्रिये

1,13.15

पीतो वैश्यो मध्यमः स्याच्छ्वेतो विप्रोऽधमः स्मृतः ।
कृष्णवर्णो भवेच्छूद्रः प्रिये स्यादधमाधमः

1,13.16

रक्तवर्णं लोहवेधि पीतवर्णं रसायनं ।
श्वेतवर्णं च भैषज्ये कृष्णं कुष्ठादिलेपने

1,13.17

<गन्धकशुद्धिः>
अथ वक्ष्ये गन्धकस्य शोधनं सिद्धिदायकं ।
तिलपर्ण्यजमोदाश्च ब्राह्मी भृङ्गी च धुत्तुरः

1,13.18

एतेषां च रसैर्भाव्यं चूर्णितं गन्धकं दिनं ।
कान्तपात्रे विनिक्षिप्य समांशाज्येन पाचयेत्

1,13.19

मृद्वग्निना तु तत्पक्त्वा ह्यजाक्षीरे विनिक्षिपेत् ।
गोक्षीराज्यैः किंचिदूनं स्थाल्या वक्त्रं तु बन्धयेत्

1,13.20

स्वच्छांशुकेन बद्धस्य चूर्णं तदुपरि क्षिपेत् ।
तदूर्ध्वं श्रावकं रुद्ध्वा तत्स्थाप्यं गर्तकान्तरे

1,13.21

वनोत्पलैर्मृदुपुटं दत्त्वा द्रवति गन्धकं ।
पुनश्च तिलपर्ण्याद्यैर्भावयेच्छोषयेत्त्रिधा

1,13.22

द्रावयेत्तत्समादाय मत्स्यपित्तेन सप्तधा ।
भावयेज्जालिनीबीजचूर्णैस्तत्परिपेषयेत्

1,13.23

ततो भृङ्गद्रवैर्भाव्यं सप्तकृत्वस्तपे खरे ।
जलैः प्रक्षाल्य तत्सम्यक्शोषयेत्तत्पुनः पचेत्

1,13.24

मृद्वग्निना कान्तपात्रे घृताक्ते तु क्षणं ततः ।
भृङ्गराजद्रवे क्षिप्त्वा शुद्धं तद्गन्धकं भवेत्

1,13.25

रसे रसायने योगे योज्यं सुखकरं भवेत् ।
<गन्धकरसायनम्>
पूर्वोक्तवद्देहशुद्धिं कुर्याद्वान्तिविरेचनैः

1,13.26

सुमुहूर्ते सुनक्षत्रे पूजयित्वा परं शिवं ।
गणाधिपं क्षेत्रपालं श्रीगुरुं भिषजं क्रमात्

1,13.27

निष्कैकं त्रिफलाचूर्णं निष्कमेकं च गुग्गुलुं ।
गुञ्जोन्मेयं शुद्धगन्धं लिहेदेरण्डतैलतः

1,13.28

गुञ्जावृद्धिक्रमेणैव सेव्यं तत्प्रतिवासरं ।
दिनषोडशपर्यन्तं गुञ्जाषोडशमात्रकं

1,13.29

तदा षोडशघस्रान्ते सेव्यं तत्प्रतिवासरं ।
गुञ्जाषोडशिकोन्मेयं अपूर्वं त्रिफलां परं

1,13.30

एतस्मादधिका वृद्धिर्न कार्या सिद्धिलिप्सुना ।
एवं मासप्रयोगेण कुष्ठमष्टादशं हरेत्

1,13.31

तथा प्रमेहान्गुल्मानि कासश्वासक्षयज्वरान् ।
व्रणान्भगन्दरादींश्चाशीतिवातोद्भवान्गदान्

1,13.32

मासद्वयप्रयोगेण बहुकान्तिं प्रयच्छति ।
सर्वव्याधिप्रशमनं भवेन्मासत्रयात्प्रिये

1,13.33

ततः षण्मासयोगेन वृद्धो यौवनमाप्नुयात् ।
एवमब्दप्रयोगेण सिद्धो भवति शाम्भवि

1,13.34

तन्मूत्रमलयोगेन ताम्रं काञ्चनतां व्रजेत् ।
विधिं च प्रतिषेधं च कुर्यात्पूर्वोक्तवत्सुधीः

1,13.35

रसादि पुण्यममलं यः सेवेत रसायनं ।
स एव कृतकृत्यः स्याद्दैवतैरपि पूज्यते

1,13.36

सर्वतीर्थेषु संस्नातः सर्वव्रतफलान्वितः ।
अश्वमेधादियज्ञानां सर्वेषां फलमाप्नुयात्

1,13.37

धन्यः पुण्यतमः श्रेष्ठः श्लाघनीयो मनीषिभिः ।
स योगविज्ञः सर्वज्ञः सर्वानुग्राहकः प्रभुः

1,13.38

शुद्धः सर्वगतः शान्तः शूरः सत्वगुणोज्ज्वलः ।
तस्य देहलयो नास्ति ह्यदृश्यः शिवतां व्रजेत्

1,14.1

âक्, १, १४
<विषम्; विषोत्पत्तिः>
श्रीभैरवी ।
श्रुतं सर्वं मया देव दिव्यं सर्वरसायनं ।
विषोत्पत्तिं च जातिं च सेवां वद च तत्फलं

1,14.2

श्रीभैरवः ।
क्षीरोदधौ मथ्यमाने मन्थनीकृतमन्दरैः ।
सिद्धकिन्नरगुह्येन्द्रपिशाचोरगराक्षसैः

1,14.3

ब्रह्माद्यैरखिलैर्देवैरेकतो दनुजाधिपैः ।
दैत्यैरन्यत्र विपुलैर्महाबलपराक्रमैः

1,14.4

ततो जातानि रत्नानि कौस्तुभादीनि कामगौः ।
कल्पवृक्षो महालक्ष्मीरैरावतमहागजः

1,14.5

उच्चैःश्रवास्तथा चेन्दुर्धन्वन्तरिभिषग्वरः ।
अमृतं च लता दिव्या दिव्यसिद्धिप्रदायकाः

1,14.6

मन्दरभ्रमणश्रान्तनागराजमुखात्ततः ।
विषज्वाला समुत्पन्ना तीव्रा लोकभयंकरी

1,14.7

ममज्ज क्षीरजलधावत्यन्तमथनात्पुनः ।
कालकूटं महाक्ष्वेडं कल्पान्तयमसन्निभं

1,14.8

संवर्ताग्निप्रतीकाशं वीक्ष्य भीताः सुरास्तदा ।
ममान्तिकं समाजग्मुः स्तुवन्तो दीनमानसाः

1,14.9

स्वामिन्सर्वोत्तम त्राहि शरणागतपालक ।
इत्यादि बहुधा स्तोत्रं कुर्वाणास्ते सुरासुराः

1,14.10

अहं स्मितमुखं कृत्वा कालकूटं तदापिबं ।
तत्र तत्रावशिष्टं तद्बहुधा समभूद्भुवि

1,14.11

क्वचिन्मूलस्वरूपेण क्वापि त्वग्रूपतः प्रिये ।
कुत्रापि पर्णरूपेण तोयरूपेण कुत्रचित्

1,14.12

एवं बहुविधं जातं तत्र तत्र विषं गतं ।
तेषां श्रेष्ठं कन्दविषमष्टादशविषं प्रिये

1,14.13

<पोइसोनःः १० किन्द्स्>
क्रमाद्भेदं प्रवक्ष्यामि कालकूटं च दर्दुरं ।
हालाहलं मेषशृङ्गं मोहदं ग्रन्थि कर्कटं

1,14.14

रक्तशृङ्गि हरिद्रं च केसरं दशमं स्मृतं ।
एते दशविधाः क्ष्वेडा न प्रयोज्या रसायने

1,14.15

<पोइसोनःः ८ किन्द्स्>
श्वेतशृङ्गी वत्सनाभं सर्षपं शृङ्गि वालुकं ।
मुस्तकं सक्तुकं देवि चाष्टमं कर्दमं भवेत्

1,14.16

रसायने योजनीयास्त्वष्टौ भेदाः प्रकीर्तिताः ।
कालकूटं काकचञ्चुप्रभं दर्दुरसन्निभं

1,14.17

दर्दुरं नीलवर्णं च हालाहलविषं समं ।
मेषशृङ्गी तु मेषस्य शृङ्गाभं मोहदं पुनः

1,14.18

रक्तनीलप्रभं देवि ग्रन्थिकं ग्रन्थिसंयुतं ।
कर्कटं कपिलाभं च रक्तशृङ्गि महाविषं

1,14.19

कृष्णपिङ्गं च रक्ताभं हरिद्राभं हरिद्रकं ।
केसरं पद्मकिञ्जल्कप्रभं दशविधं त्विति

1,14.20

श्वेतशृङ्गीभदन्ताभं वत्सनाभं च पाण्डुरं ।
सर्षपाकृतिभिर्युक्तं बिन्दुभिः सर्षपं भवेत्

1,14.21

शृङ्गी शृङ्गाकृतिर्ज्ञेयो वालुकं वालुकाकृति ।
मुस्ताकृतिर्मुस्तकं स्याच्छ्वेतवर्णं तु सक्तुकं

1,14.22

मधूच्छिष्टाकृतिर्देवि कर्दमं विषमुत्तमं ।
विषखण्डेषु भग्नेषु दृश्यन्ते येषु बिन्दवः

1,14.23

श्वेतरक्तपीतवर्णाः कृष्णा विप्रादयः क्रमात् ।
श्वेता रसायने रक्ता वश्ये पारदकर्मणि

1,14.24

क्षुद्रकर्मणि पीताः स्युः कृष्णवर्णास्तु मारणे ।
विषं युक्त्यामृतं देवि तदयुक्त्या विषं भवेत्

1,14.25

तस्माद्युक्त्या विषं सेव्यमयुक्त्या न कदाचन ।
रसाभ्रहेमकान्तानां वीर्येण सदृशं विषं

1,14.26

<विषशुद्धिः>
रक्तसर्षपतैलेन लिप्ते वस्त्रे च बन्धयेत् ।
त्रिदिनान्ते समुद्धृत्य टङ्कणेन समं विषं

1,14.27

मर्दयेच्छ्लक्ष्णचूर्णं तत्कारयेच्च विशुध्यति ।
रोगे रसायने योज्यं सिद्धिदं स्याद्वरानने

1,14.28

<विषरसायनम्>
शुद्धदेहो विरेकाद्यैः पथ्याशी विषभुग्भवेत् ।
क्रमेण सेवनीयं तत्सर्षपं राजसर्षपं

1,14.29

मुद्गव्रीहियवा माषा गुञ्जामात्रं परावधिः ।
शर्करासहितं सेव्यं क्ष्वेलं तदमृतं भवेत्

1,14.30

कट्वम्ललवणास्त्याज्या व्यायामोष्णातपादयः ।
तैलसर्षपखाद्याश्च वर्ज्या विषरसायने

1,14.31

गव्यं क्षीरं घृतं तक्रं स्निग्धं दधि च शर्करा ।
सेव्या स्वादुरसद्रव्या नोचेद्विकृतिकारणं

1,14.32

<विषोपद्रवास्तच्चिकित्सा च>
मात्रया सेवितं क्ष्वेलं अमृतं भवति प्रिये ।
अतिमात्रं यदि भवेदमृतं च विषायते

1,14.33

प्रमादादतिमात्रं चेत्तदा वेगा भवन्ति च ।
कष्टं प्रथमवेगे स्याद्वेपथुश्च द्वितीयके

1,14.34

तृतीये च तृषा दाहश्चतुर्थे गतिभञ्जनं ।
फेनिलास्यः पञ्चमे स्यात्षष्ठे कन्धरभञ्जनं

1,14.35

सप्तमे च निरुत्थानं मरणं चाष्टमे भवेत् ।
तस्माच्छीघ्रं प्रतीकारः करणीयो वरानने

1,14.36

किंचिन्मात्राधिकं क्ष्वेलं नानारोगान्करोति तत् ।
भ्रान्तिविस्मृतिशूलानि वान्त्यतीसारकं परं

1,14.37

स्वरसादं गद्गदत्वं दाहं दृष्टिभ्रमं तथा ।
कर्णरुक्श्वासकासादीनन्यान्वातोद्भवान्गदान्

1,14.38

यदातिमात्रं चिह्नानि दृश्यन्ते वपुषि प्रिये ।
तदा तु टङ्कणं निष्कं आज्यं चापि चतुर्गुणं

1,14.39

पेयं तत्परिहारार्थं जलैर्वा तण्डुलीयकं ।
मज्जां वा पुत्रजीवस्य फलान्निष्कं जलान्वितं

1,14.40

तुत्थं पणद्वयोन्मेयं नृमूत्रैर्वा हरिद्रकं ।
वचां वा देवदालीं वा सर्पाक्षीं वाथ सार्बुणीं

1,14.41

पटोलीं गिरिपर्णीं नृमूत्रैर्विषजित्पृथक् ।
लां यां वां हां चतुर्वर्णैर्गारुडं संपुटीकृतं

1,14.42

स्तम्भस्तोभननिर्वाहनिर्विषीकरणं तथा ।
लां प्रों लां अनेन मन्त्रेण स्तम्भनं ।
शीतजलघटं अभिमन्त्र्य विषातुरस्य मस्तके जलं ढालयेत् ।
विषं नाक्रामति ।
यां प्रों यां अनेन स्तोभनमन्त्रेण विषातुरस्य शिखिनमन्धयेत् ।
वां प्रों वां अनेन निर्वाहमन्त्रेणार्कदण्डं वा धुत्तूरकाष्ठदण्डं वाभिमन्त्र्य विषातुरस्य सर्वाङ्गं स्पृष्ट्वा विषं निर्वाहयेत् ।
हां प्रों हां अनेन निर्विषीकरणमन्त्रेण निर्विषीकरणार्थं विषातुरस्य सर्वाङ्गं दण्डेनापामार्जयेत्स्वस्थो भवति ।
जीर्णं क्ष्वेलं शरीरे चेत्पित्तान्तं वमनं प्रिये

1,14.43

आमान्तं रेचनं कार्यं तण्डुलीयकमूलभुक् ।
सेवेत मांसं सघृतं विषदोषहरं भवेत्

1,14.44

पूर्वोक्तमात्रासेवी यो महाव्याधेर्विमुच्यते ।
देवि षण्मासयोगेन जरापलितखण्डनं

1,14.45

संवत्सरोपयोगेन जीवेच्चन्द्रार्कतारकं ।
हिमशीतवसन्तेषु योज्यं विषरसायनं

1,14.46

ग्रीष्मवर्षशरत्स्वेतन्न प्रयोज्यं कदाचन ।
वातस्थविरगर्भिण्यः क्षुत्तृड्घर्माध्वपीडिताः

1,14.47

नपुंसका गदक्षीणाः पित्तक्रोधाधिकास्तथा ।
यक्ष्मिणो नैव योग्याः स्युः सदा विषरसायने

1,15.1

âक्, १, १५
<दिव्यौषधिरसायनानि>
श्रीभैरवी ।
मलमायाविहीनेश जराजन्मगदापह ।
त्वत्प्रसादेन विदितं रसादीनां रसायनं

1,15.2

इतःपरमपि स्वामिन्शुश्रूषे किमपि प्रभो ।
सुखोपायोपयोग्यं च दिव्यौषधिरसायनं

1,15.3

ब्रूहि मे तद्विधं दिव्यं सर्वसिद्धिप्रदायकं ।
श्रीभैरवः ।
<१. ब्रह्मकल्पः; ब्रह्मवृक्षतैलकल्पः>
वक्ष्यामि ब्रह्मवृक्षादि दिव्यौषधिरसायनं

1,15.4

तत्रादौ ब्रह्मवृक्षस्य शृणु देवि रसायनं ।
ब्रह्मवृक्षस्य बीजानि विदध्यान्निस्तुषाणि च

1,15.5

परिशोष्यातपे तीव्रे सूक्ष्मचूर्णानि कारयेत् ।
धात्रीफलेन सप्ताहं भावयेत्पयसाथवा

1,15.6

चक्रयन्त्रे क्षिपेत्तानि ततस्तत्तैलमाहरेत् ।
इत्थमुत्थापितं तैलं दोषघ्नं च रसायनं

1,15.7

ब्रह्मबीजजतैलस्य प्रस्थमाज्यं च तत्समं ।
निक्षिप्तं स्निग्धभाण्डे च धान्यराशौ विनिक्षिपेत्

1,15.8

मासार्धमासं देवेशि तस्मात्तैलं समाहरेत् ।
शुद्धदेहो विरेकाद्यैरर्चिताग्निगुरुद्विजः

1,15.9

द्विपलं च गवां क्षीरं तत्तैलं निष्कमात्रकं ।
संमिश्र्य च पिबेत्प्रातः पथ्याशी स्याज्जितेन्द्रियः

1,15.10

एवं द्वितीयेऽपि दिने ह्येकाहान्तरिते क्रमात् ।
निष्कवृद्धिर्भवेदेवं यावत्षोडशनिष्ककं

1,15.11

एतत्तैलस्य परमा मात्रा ह्यस्यैवं ईरिता ।
पीतमात्रे क्षणं मूर्च्छा जायते सिञ्चयेन्मुखं

1,15.12

प्रबुद्धे सघृतं दद्याद्दुग्धान्नं शर्करान्वितं ।
एवं तैलोपयोगेन मासाज्ज्ञानी भवेन्नरः

1,15.13

सकृद्ग्राही सुकान्तश्च षोडशाब्द इव स्थितः ।
द्वितीये नागबलवान्सर्वव्याधिविवर्जितः

1,15.14

इन्द्रोपमबलो धीरश्चतुर्थे मासि च क्रमात् ।
वज्रदेहो दिव्यदृष्टिः पञ्चमे खेचरो भवेत्

1,15.15

अणिमादिगुणोपेतः सर्वगः सर्वकालिकः ।
षष्ठे मासि स्वयं स्रष्टा भोक्ता हर्ता त्रिमूर्तिवत्

1,15.16

वर्षैकसेवनाद्देवि भवेत्साक्षात्सदाशिवः ।
यावत्तैलोपजीवी स्यात्तावत्क्षीरौदनाशनः

1,15.17

वमनादिविशुद्धाङ्गः कृत्वा वैद्यद्विजार्चनं ।
प्रातर्गोक्षीरकुडुबं तैलं किंशुकबीजजं

1,15.18

कुडुबं पूर्ववज्जातमेकीकृत्य द्वयं पिबेत् ।
तत्पानमात्रे मूर्छा स्यात्कुर्यात्तं भस्मशायिनं

1,15.19

सप्तरात्रे प्रबुद्धः स्याद्बद्धवच्छयने स्थितः ।
नाङ्गानि चालयेदेष जायते विचलेक्षणः

1,15.20

तैले जीर्णे समापन्ने संज्ञा भवति भैरवि ।
गोक्षीरं तस्य दातव्यं प्रत्यहं दशवासरं

1,15.21

स त्वचं च त्यजेद्देहात्कञ्चुकं भुजगो यथा ।
क्षीराहारी भवेन्नित्यमेकविंशतिवासरं

1,15.22

वाचां पतिर्भवेद्धीरः श्रुतं धारयते क्षणात् ।
दूरश्रावी दिव्यदृष्टिर्जीवेद्ब्रह्मदिनं सुधीः

1,15.23

<ब्रह्मवृक्षपल्लवकल्पः>
पुण्यर्क्षे ब्रह्मवृक्षस्य पल्लवानि समाहरेत् ।
क्रिमिकीटविहीनानि कोमलानि शुभानि च

1,15.24

आतपे शोषयेत्तीव्रे चूर्णितं वस्त्रगालितं ।
कुर्यान्नूतनभाण्डे च निक्षिपेच्च प्रयत्नतः

1,15.25

वमनाद्यैर्विशुद्धाङ्गो ब्रह्मचारी जितेन्द्रियः ।
क्षाराम्लवर्जिताहारः क्षीरशाल्यन्नभोजनः

1,15.26

कोष्णं जलं पिबेन्नित्यं निवाते शयनं भजेत् ।
कर्षमात्रं च सेवेत मासं गोतक्रसंयुतं

1,15.27

द्वितीये च तृतीये च वृद्धिः कर्षाधिका क्रमात् ।
एवं षोडशमासान्तं सतक्रं कुडुबं पिबेत्

1,15.28

एवं नित्योपसेवी यः कुञ्चितस्निग्धकुन्तलः ।
मत्तमातङ्गबलवान्जीवेद्ब्रह्मदिनं नरः

1,15.29

<ब्रह्मवृक्षपुष्पकल्पः>
ब्रह्मवृक्षस्य पुष्पाणि छायायां शोषयेत्सुधीः ।
चूर्णयेद्गालयेद्वस्त्रे नवभाण्डे विनिक्षिपेत्

1,15.30

विंशत्पलं पुष्पचूर्णं चतुर्विंशतिगोघृतं ।
पलमेकत्र संमिश्रं धान्यराशौ निवेशयेत्

1,15.31

तदुद्धरेच्च मासान्ते कृत्वा भागांश्चतुर्दश ।
एकैकं प्रत्येकं सेव्यमेवं मासत्रयं भवेत्

1,15.32

भुञ्जीत शुल्बपात्रे च लवणाम्लादिवर्जितं ।
पायसाशी कषायं तृषार्तः खादिरं पिबेत्

1,15.33

त्रिमासाज्जायते गात्रं वज्रवन्नात्र संशयः ।
नागायुतबलो धीरो वायुवेगगतिर्भवेत्

1,15.34

अस्य वर्षोपयोगेन पुरीषमपि मूत्रकं ।
वेधयेत्सर्वलोहानि काञ्चनानि च कारयेत्

1,15.35

जीवेद्ब्रह्मदिनं साक्षाद्दैवतैः सह मोदते ।
<ब्रह्मवृक्षबीजकल्पः>
ब्रह्मवृक्षस्य बीजानि चूर्णयेन्निक्षिपेद्घटे

1,15.36

मध्वाज्यशर्करायुक्तं धान्यराशौ विनिक्षिपेत् ।
मासादूर्ध्वं समाहृत्य प्रत्यहं कर्षमात्रकं

1,15.37

उपयुञ्जीत शुद्धात्मा गोक्षीरं च पिबेदनु ।
यावत्पलं भवेद्वृद्धिस्तावदेवाधिकं न हि

1,15.38

एवं संवत्सरात्सिद्धिर्जायते मृत्युवर्जिता ।
जीवेद्ब्रह्मदिनं शुद्धो मतङ्गजबलोपमः

1,15.39

<ब्रह्मवृक्षवल्कलकल्पः>
सूक्ष्मचूर्णं प्रकुर्वीत ब्रह्मवृक्षस्य वल्कलं ।
भावयेद्गव्यपयसा पलं चानुदिनं पिबेत्

1,15.40

जितेन्द्रियश्च पथ्याशी भवेदा वत्सरं सुधीः ।
दशवर्षसहस्राणि जीवेत्सिद्धो भवेद्ध्रुवं

1,15.41

<ब्रह्मवृक्षनिर्यासकल्पः>
ब्राह्मी च मधुकं साज्यं निर्यासं ब्रह्मवृक्षजं ।
समभागानि सेवेत पलं चानुपिबेत्पयः

1,15.42

एवमेकाब्दयोगेन शुभंयुदर्शनः शुचिः ।
जीवेद्ब्रह्मदिनं ज्ञानी वलीपलितवर्जितः

1,15.43

<ब्रह्मवृक्षपञ्चाङ्गकल्पः>
पञ्चाङ्गं ब्रह्मवृक्षस्य विधिवत्तत्समाहरेत् ।
छायाशुष्कं प्रकुर्वीत चूर्णितं पटशोधितं

1,15.44

कर्षमात्रं लिहेच्छुद्धः क्षौद्राज्याभ्यां दिनोदये ।
वलीपलितनिर्मुक्तो वत्सराज्जायते नरः

1,15.45

<ब्रह्मवृक्षमूलगुप्तधात्रीकल्पः>
अतिस्थूलतरं दीर्घं भेदयेद्ब्रह्मभूरुहं ।
मूले त्रिहस्तशेषं च तदग्रे गर्तं आरचेत्

1,15.46

धात्रीफलानि पक्वानि तत्र सम्पूरयेत्प्रिये ।
तच्छिन्नकाष्ठशेषेण तद्गर्तं च निरोधयेत्

1,15.47

कुशैः संवेष्टयेत्सम्यगा मूलाग्रं च लेपयेत् ।
मृद्गोमयाभ्यां मतिमांस्ततो वस्त्रेण वेष्टयेत्

1,15.48

पुनर्मृद्गोमयाभ्यां च लेपयेच्छोषयेत्सुधीः ।
सम्यक्शुष्के च परितः करीषैः परिपूरयेत्

1,15.49

दहेत्तं शीतलीभूते सान्द्रं तत्फलमाहरेत् ।
भाण्डे क्षौद्राज्यभरिते क्षिपेद्धात्रीफलं च तत्

1,15.50

भूगृहे वा निवाते वा प्रदेशे च वसन्सुखी ।
यथेष्टं भक्षयेन्नित्यं क्षीराहारी जितेन्द्रियः

1,15.51

षण्मासात्पश्यति छिद्रं निधानानि च भूतले ।
त्यजेत्त्वचं सर्प इव जीवेद्ब्रह्मयुगं नरः

1,15.52

<२. श्वेतब्रह्मवृक्षकल्पः; श्वेतब्रह्मवृक्षपञ्चाङ्गकल्पः>
चूर्णयेच्छ्वेतपालाशपञ्चाङ्गं शोषयेत्प्रिये ।
छायायां वस्त्रगलितं मधुना च लिहेत्प्रिये

1,15.53

कर्षमात्रं त्रिमासान्तर्जरामृत्युं जयेन्नरः ।
संवत्सराच्च ब्रह्मायुः सिद्धः सर्वगतो भवेत्

1,15.54

<श्वेतब्रह्मबीजकल्पः>
श्वेतपालाशबीजानि चैकैकानि समाहरेत् ।
अजाघृतेनानुदिनं मासान्मृत्युं जरां जयेत्

1,15.55

संवत्सराद्ब्रह्मयुगं जीवेत्सिद्धिपुरोगमः ।
ये प्रोक्ता रक्तपालाशतैलत्वक्पर्णकादिषु

1,15.56

ते गुणाः श्वेतपालाशे सन्ति साधकसिद्धिदाः ।
<ब्रह्मवृक्षकल्पसिद्धिः>
वक्ष्यामि ब्रह्मवृक्षस्य कल्पसिद्धिं मनुं

1,15.57

ओं ह्रीं अमृतं कुरु कुरु अमृतमालिन्यै नमः ।
पूर्वं विंशतिसाहस्रं पुरश्चरणमाचरेत् ।
सुधाकुम्भवराक्षस्रग्ज्ञानमुद्रां करांबुजैः

1,15.58

बिभ्राणां मौक्तिकं पाशं ध्यायेदमृतमालिनीं ।
ग्रहणेऽष्टोत्तरशतं भक्षयेत्सप्तवारकं

1,15.59

चन्द्रसूर्योपरागादिकालेष्वष्टसहस्रकं ।
मन्त्रं विना न सिद्धिः स्यात्कल्पकोटिशतैरपि

1,15.60

समन्त्रे शीघ्रसिद्धिः स्याच्चरेन्मन्त्रपुरःसरः ।
<३. मुण्डीकल्पः>
अथ मुण्डीं प्रवक्ष्यामि साधकेष्टार्थदायिनीं

1,15.61

चतुर्विधा भवेत्च रक्ता पीता सितासिता ।
पुष्यार्के पूर्णमास्यां वा रेवत्यां श्रवणेऽपि वा

1,15.62

उपरागादिकाले वा सिद्धयोगेषु वा हरेत् ।
कैदारीं मुण्डिनीं तां च बलिपूजनपूर्वकं

1,15.63

समाहरेत्कृतस्नानो मौनी मन्त्रं समुच्चरन् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ह्रीं सः ।
मन्त्रं द्वादशसाहस्रं पुरश्चर्यां समाचरेत्

1,15.64

मूलं नालं फलं पुष्पं पत्रं पञ्चाङ्गं ईरितं ।
स पञ्चाङ्गं हरेन्मुण्डीं सम्यक्शीतेन वारिणा

1,15.65

प्रक्षाल्य शोषयेत्तां च छायायां चूर्णयेत्ततः ।
वस्त्रेण शोधयेत्कुम्भे नूतने स्थापयेत्क्रमात्

1,15.66

विशुद्धदेहस्तच्चूर्णं कर्षं गोपयसा सह ।
पिबेज्जीर्णे च भैषज्ये घृतमादौ पिबेन्नरः

1,15.67

ततो भुञ्जीत लवणतैलाम्लादिविवर्जितं ।
घृतपक्वं समधुरं षष्टिकान्नं पयोऽधिकं

1,15.68

षण्मासाज्जायते सिद्धिस्त्वचं सर्प इव त्यजेत् ।
पलितादिविनिर्मुक्तो दिव्यदृष्टिर्दृढं वपुः

1,15.69

मत्तनागबलो धीरो युवा दर्पविग्रहः ।
संवत्सरात्सर्वसिद्धिर्भवेद्ब्रह्मायुषो नरः

1,15.70

घृतोपयुक्ता सा मुण्डी पूर्वफलदा भवेत् ।
<४. देवदालीकल्पः>
अथ वक्ष्याम्यहं देवि देवदालीरसायनं

1,15.71

श्वेता कृष्णा च पीता च देवदाली त्रिधा मता ।
श्वेता रोगप्रशमनी कृष्णा पीता विशेषतः

1,15.72

रसायने च फलदा लोहकर्मणि पार्वति ।
चन्द्रसूर्योपरागेषु पूर्णिमायां सुरार्चिते

1,15.73

त्रयोदश्यां कृष्णपक्षे पञ्चम्यां वा यथाविधि ।
शुभाहे शुभनक्षत्रे चाहरेन्मन्त्रपूर्वकं

1,15.74

ओं अमृतगणरुद्रगणान्ताय स्वाहा ।
अष्टोत्तरशतं जप्त्वा बलिपूर्वं समाहरेत् ।
ओं नमो भगवते रुद्राय फट्स्वाहा ।
साधकस्य शिखाबन्धनमन्त्रः ।
देवदाल्याश्च पञ्चाङ्गं छायायां शोषयेत्सुधीः

1,15.75

वस्त्रेण शोधयेत्सम्यग्गव्यक्षीरेण भक्षयेत् ।
पचेत्तां लौहपात्रेण ततो मन्दाग्निना सुधीः

1,15.76

मध्वाज्याभ्यां लिहेत्कर्षं शुद्धात्मा सप्तवासरं ।
तस्य दिव्या भवेत्प्रज्ञा रोगहृन्माससेवया

1,15.77

द्विमासभक्षणेनैव निध्यादिं पश्यति ध्रुवं ।
धात्रीफलरसं क्षौद्रं देवदालीरसं घृतं

1,15.78

प्रत्येकं कर्षमात्रं स्यात्प्रत्यहं च पिबेल्लघु ।
एकविंशद्दिनादूर्ध्वं मेधावी श्रुतधारकः

1,15.79

पञ्चाङ्गं चूर्णयेद्देवदाल्या वस्त्रेण शोधयेत् ।
शिवाम्बुना वा पयसा गोमूत्रैर्वा पिबेत्सदा

1,15.80

पूर्ववत्सिद्धिदा सा स्यात्सर्वकुष्ठापहारिणी ।
कामिलाप्लीहपवनशूलं हन्ति भगन्दरान्

1,15.81

तद्रसो गन्धकोपेतः सर्वलोहं विलापयेत् ।
बध्नाति च रसं सम्यक्समं मूर्छति तत्क्षणात्

1,15.82

गन्धर्वलज्जागान्धारीदेवदालीरसस्तथा ।
लेपनं मेषतैलेन स्तम्भयेदग्निमुज्ज्वलं

1,15.83

बीजानि देवदाल्याश्च सगुडानि च मर्दयेत् ।
तेन वर्तिं प्रकुर्वीत अर्शोघ्नी स्याद्गुदाङ्कुरे

1,15.84

रसेन देवदाल्याश्च नयनं त्वञ्जयेन्नरः ।
पश्यत्यसौ भूतजालं तस्मै सर्वं प्रयच्छति

1,15.85

घृतं धात्रीफलरसं देवदालीरसं मधु ।
रसं च लक्ष्मणायाश्च सर्वमेकपलं पिबेत्

1,15.86

त्रिदिनं ऋतुकाले तु स्त्रीणां पुत्रप्रदायकं ।
देवदालीरसं क्षीरं मध्वाज्याभ्यां समं लिहेत्

1,15.87

पुंसः कोमलबीजानां बीजं गर्भप्रदं भवेत् ।
भृङ्गराड्वाकुची वह्निः सर्पाक्षी देवदालिकं

1,15.88

शिवाम्बुना चानुदिनं पिबेत्कर्षं महेश्वरि ।
धरित्र्याः पश्यति छिद्रं वर्षान्मृत्युं जरां जयेत्

1,15.89

पुनर्नवादेवदाल्योः पलं क्षीरयुतं पिबेत् ।
शिवाम्बुना देवदालीं ससर्पाक्षीपलं पिबेत्

1,15.90

पूर्ववज्जायते सिद्धिः शीघ्रमेव वरानने ।
शिवांबुना देवदाल्या निर्गुण्ड्याश्च पलं पिबेत्

1,15.91

संवत्सराज्जरां हन्याज्जीवेदाचन्द्रतारकं ।
ओं अमृतं कुरु कुरु अमृतेश्वराय स्वाहा ।
एतन्मन्त्रं जपेदादौ देवदाल्युपयोगके

1,15.92

<५. श्वेतार्ककल्पः; श्वेतार्कमूलकल्पः>
अथ श्वेतार्कमूलस्य कल्पं वक्ष्याम्यहं शृणु ।
श्वेतार्कमूलं पुष्यर्क्षे गृहीत्वा काष्ठवर्जितं

1,15.93

शुद्धां त्वचं च छायायां शोषयेत्पटशोधितं ।
चूर्णं कृत्वा कर्षमेकं सेव्यं गोपयसा सह

1,15.94

पलद्वयेन षण्मासात्सर्वव्याधीञ्जरां हरेत् ।
संवत्सराद्ब्रह्मदिनत्रयं जीवेन्न संशयः

1,15.95

<श्वेतार्कपर्णकल्पः>
श्वेतार्कपर्णस्वरसं भृङ्गराजरसं समं ।
एकीकृत्यातपे शोष्यं यावच्चूर्णत्वमाप्नुयात्

1,15.96

चतुर्गुणे गवां क्षीरे तत्पचेन्मृदुवह्निना ।
यावत्पिण्डं भवेत्तावत्सेव्यं तत्कर्षमात्रकं

1,15.97

गवां क्षीरं पलं पेयं पूर्ववत्फलमाप्नुयात् ।
ओं आं हंसमालिनि स्वाहा अयं भक्षणमन्त्रः ।
<६. हस्तिकर्णीकल्पः; हस्तिकर्णीपत्रकल्पः>
अथेन्दुवारसंयुक्तत्रयोदश्यां समाहरेत्

1,15.98

हस्तिकर्णीपलाशानि छायाशुष्काणि चूर्णयेत् ।
पलं सेव्यं गवां क्षीरं वर्षान्मृत्युं जरां जयेत्

1,15.99

जीवेद्ब्रह्मायुषं मर्त्यः सिद्धसाध्यादिसेवितः ।
<हस्तिकर्णीपञ्चाङ्गकल्पः>
पञ्चाङ्गं हस्तिकर्ण्याश्च कुर्याच्छायाविशोषितं

1,15.100

मासैकमुदकैः सार्धं कर्षं प्रत्यहमश्नुयात् ।
सौवीरदधिदुग्धाज्यतक्रक्षौद्रैर्यथाक्रमं

1,15.101

एकैकं प्रतिमासं च सेव्यं वर्षाच्च सिध्यति ।
जीवेद्ब्रह्मदिनं सिद्धो वज्रकायो महाबलः

1,15.102

ओं अमृताय अमृतं गृह्णामि स्वाहा ।
अयं ग्रहणमन्त्रः ।
अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।
अनेन मन्त्रेण पूजयेत् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।
अयं भक्षणमन्त्रः ।
<७. रुदन्तीकल्पः>
अथ वक्ष्याम्यहं दिव्यं रुदन्तीकल्पमुत्तमं ।
चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशैः

1,15.103

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।
रोदितीव जनान्दृष्ट्वा म्रियमाणान्गदाकुलान्

1,15.104

चतुर्विधा च सा ज्ञेया पीता रक्ता सितासिता ।
शुक्लपक्षे शुभदिने रुदन्तीं तां समाहरेत्

1,15.105

समूलां शोषयेद्धीमान्छायायां वस्त्रशोधितां ।
विशुद्धदेहः सेवेत बिडालपदमात्रकं

1,15.106

क्षौद्राज्याभ्यामनुदिनं भुक्तिः क्षीराज्यसंयुता ।
जीर्णायां संयमी भूत्वा वर्षात्तेजोबलान्वितः

1,15.107

परमायुर्भवेन्मर्त्यो जराव्याधिविवर्जितः ।
तैलं कतकमूलोत्थं कुर्यात्पातालयन्त्रके

1,15.108

गर्भयन्त्रेऽथवा क्षाल्यं पञ्चाशद्वारमम्बुना ।
नालिकेराम्बुना वाथ कृत्वेत्थं तैलशोधनं

1,15.109

पञ्चाङ्गं च रुदन्त्याश्च छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुसलीचूर्णं मुसल्यर्धपलत्रयं

1,15.110

एतत्त्रिचूर्णं संमिश्रं कर्षं कतकतैलतः ।
लिहेदनुदिनं शुद्धस्तद्वृद्धिः स्यात्पलावधि

1,15.111

संवत्सराद्वज्रकायः स जीवेद्ब्रह्मणो दिनं ।
<८. निर्गुण्डीकल्पः; निर्गुण्डीमूलकल्पः>
अथ वच्मि शुभं दिव्यं निर्गुण्डीकल्पमुत्तमं

1,15.112

प्रातः पुष्यरवौ ग्राह्या निर्गुण्डीमूलसंभवा ।
त्वक्शोषणीया छायायां तच्चूर्णं कर्षमात्रकं

1,15.113

पलमात्राजमूत्रेण पिबेच्छुद्धोऽनुवासरं ।
षण्मासाद्दिव्यदेहः स्यान्मत्तनागबलान्वितः

1,15.114

मध्वाज्यक्षीरलुलितं तच्चूर्णं स्निग्धभाण्डके ।
पिधाय धान्यराशौ तु मासमेकं तु निक्षिपेत्

1,15.115

मासान्ते तत्समुद्धृत्य शुद्धाङ्गो द्विपलं सदा ।
सेवेत वर्षपर्यन्तं जीवेदाचन्द्रतारकं

1,15.116

अथवार्धपलं चूर्णं तदीयं सघृतं पिबेत् ।
पूर्ववज्जायते सिद्धिर्जरारोगविवर्जितः

1,15.117

वचामुण्डीनिम्बवरागुडूचीभृङ्गराट्समाः ।
एषां समांशं संयोज्य निर्गुण्डीमूलचूर्णतः

1,15.118

क्षौद्राज्याभ्यां लिहेद्धस्तादन्वहं पलमात्रकं ।
आयुर्विरिञ्चित्रिदिनं भवेन्मृत्युजरोज्झितं

1,15.119

निर्गुण्डीमूलचूर्णं तु क्रिमिघ्नकटुकैः समं ।
पलमात्रमजाक्षीरैर्नित्यं शुद्धः पिबेद्बुधः

1,15.120

वलीपलितनिर्मुक्तो निर्गदः स्यात्त्रिमासतः ।
<निर्गुण्डीपत्रकल्पः>
निर्गुण्डीपत्रजद्रावं भाण्डे मृद्वग्निना पचेत्

1,15.121

गुडवत्पाकमापन्नं तं पिबेन्निष्कमात्रकं ।
दिने दिने निष्कवृद्धिर्यावद्द्विपलिकं भवेत्

1,15.122

तेन वान्तिर्विरेकः स्यान्निर्यान्ति क्रिमयः परं ।
अपानतो देहगता मुखनासाक्षिकर्णतः

1,15.123

क्षयकुष्ठादिरोगाश्च नश्यन्ति मुनिवासरात् ।
मासत्रये जरां हन्ति जीवेद्वर्षशतत्रयं

1,15.124

<निर्गुण्डीपञ्चाङ्गकल्पः>
पञ्चाङ्गचूर्णं निर्गुण्ड्यास्तिलतैलेन सेवितं ।
निष्कादिपलपर्यन्तं त्रिमासेन जरां जयेत्

1,15.125

अशीतिं वातजान्रोगान्कुष्ठानपि गलामयान् ।
आस्यार्त्युपकुशादींश्च जयेत्तत्पर्णचर्वणात्

1,15.126

सिन्धुवारकपञ्चाङ्गचूर्णं मधुघृतप्लुतं ।
पलमात्रं लिहेत्प्रातस्ततो जीर्णे गवां पयः

1,15.127

पिबेद्यथानलबलं भुञ्जीताग्नौ क्रमेण च ।
निर्वाते निवसेद्धीमान्सिद्धिमाप्नोति वत्सरात्

1,15.128

सिद्धदेहस्य पूर्वेण म्रियेते विषपारदौ ।
काले काले यथाप्राप्तं पञ्चाङ्गं सिन्धुवारकात्

1,15.129

छायायां शोषितं चूर्णं त्रिमधुत्रिफलायुतं ।
स्निग्धभाण्डे धान्यराशौ त्रिमासं स्थापयेत्ततः

1,15.130

निष्कादिपलपर्यन्तं सेवेताकर्षकं सुधीः ।
सर्वव्याधिविनिर्मुक्तो जरामरणवर्जितः

1,15.131

ओं नमो मायागणपतये कुबेराय स्वाहा ।
अयं भक्षणमन्त्रः ।
<९. शुनकशाल्मलीकल्पः>
अथ वक्ष्यामि देवेशि कल्पं शुनकशाल्मलेः ।
अष्टम्यां कृष्णपक्षस्य स्नात्वा रात्रौ समाहितः

1,15.132

आवेष्ट्य कृष्णसूत्रैश्च वृक्षं शुनकशाल्मलिं ।
तत्राघोरं जपेद्धीरः सहस्रवसुसंमितं

1,15.133

<९. शुनकशाल्मलीमूलकल्पः>
तन्मूलवल्कलं ग्राह्यं छायायां शोषयेत्ततः ।
चूर्णं कृत्वा तु मध्वाज्यैः खादेत्प्रातः पलं पलं

1,15.134

वर्षाद्वलिजरामुक्तः स जीवेद्ब्रह्मणो दिनं ।
<शुनकशाल्मलीपुष्पकल्पः>
तस्याष्टादश पुष्पाणि गोक्षीरेऽष्टपले पचेत्

1,15.135

पुष्पवर्ज्यं पिबेत्क्षारमेवं च प्रतिवासरं ।
मासेन दिव्यदेहः स्याज्जीवेद्ब्रह्मदिनत्रयं

1,15.136

<शुनकशाल्मलीफलकल्पः>
तत्फलं तु गवां क्षीरे पाचयेत्कान्तपात्रके ।
फलं त्यक्त्वा पिबेत्क्षीरं दीप्तेऽग्नौ क्षीरभोजनं

1,15.137

मासषट्कप्रयोगेण दिव्यदेहो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगी महाबलः

1,15.138

तस्य मूत्रपुरीषाभ्यां शुल्बं स्वर्णं भवेद्ध्रुवं ।
<१०. पथ्याकल्पः; पथ्योत्पत्तिः>
अथातः सम्प्रवक्ष्यामि पथ्याकल्पं अनूपमं

1,15.139

येन रोगा विनश्यन्ति सिध्यन्ति च मनोरथाः ।
पीत्वामृतं शचीनाथः प्रीत्या शच्यै समापिबत्

1,15.140

तयोर्हृष्टमुखाम्भोजगलितामृतबिन्दवः ।
सप्तधा भुवि ते जाता महावीर्याः स्थिरायुषः

1,15.141

ते सप्तदेशेषूत्पन्नाः सप्तधा नाम धारकाः ।
विन्ध्यदेशे कान्यकुब्जे सौराष्ट्रे हिमवद्गिरौ

1,15.142

गङ्गातटे च काश्मीरे वैन्यदेशे यथाक्रमं ।
विजया रोहिणी चैव पूता स्यात्त्रिवृतामृता

1,15.143

जीवन्ती त्वभया जाता देशे देशे यथाक्रमं ।
उत्तमा मध्यमा नीचाः स्वयं पक्वास्तु शोभनाः

1,15.144

हरीतक्यां रसाः पञ्च विद्यन्ते लवणोज्झिताः ।
स्वाद्वम्लतिक्तकटुकतुवराश्च यथाक्रमं

1,15.145

स्युर्मज्जस्नायुवृन्तत्वङ्मांसेषु क्रमशो रसाः ।
अलाबुकर्णी वृत्ता च चतुरङ्ग्यल्पचर्मका

1,15.146

पञ्चास्रा मांसला स्वर्णवर्णा कृष्णा स्मृताः क्रमात् ।
या मज्जन्ती जले ग्राह्या गुर्वी स्निग्धा घनाघनाः

1,15.147

द्विकर्षमात्रा सा श्रेष्ठा कर्षमात्रा तु मध्यमा ।
अर्धकर्षा भवेन्नीचा पथ्या फलमुदाहृतं

1,15.148

क्रिमिजुष्टा वह्निदग्धा नष्टा पङ्कजलार्द्रिता ।
स्फुटिता चोषरस्था च वर्जनीया हरीतकी

1,15.149

<पथ्याकल्पः>
शुद्धदेशे पुण्यदिने ग्रहणे चन्द्रसूर्ययोः ।
गन्धाद्यैः पूजयित्वादौ प्रार्थयित्वा जपेत्सुधीः

1,15.150

गायत्रीशतं आवृत्त्य पथ्यामेवं समाहरेत् ।
शुण्ठ्या वाथ गुडेनापि सैन्धवेनाथवा शिवां

1,15.151

सेवेत दीपनं तेन करोत्यामविनाशनं ।
क्षौद्रेण वा गुडेनापि पिप्पल्या नागरेण वा

1,15.152

सैन्धवेनाथवा सेव्या शुद्धाङ्गः प्रतिवासरं ।
द्वे द्वे पथ्ये द्वादशाब्दं तेन जीवेच्छतं समाः

1,15.153

द्विनिष्कचूर्णं पथ्याया निष्कैकं लोहभस्म च ।
लोलयित्वा गोघृतेन कान्तपात्रे च लेपयेत्

1,15.154

अधोमुखीकृतं पात्रं स्थापयेत्तद्दिवानिशं ।
प्रातः शुद्धवपुर्लेह्यं जरां मृत्युं जयेत्सुधीः

1,15.155

शाल्मलीं छिद्रयित्वादौ तदन्तर्निक्षिपेच्छिवाः ।
आ षण्मासं परस्तास्तु ग्राह्या चैकैकशोऽन्वहं

1,15.156

सेवेत पथ्यां शुद्धाङ्गस्तस्य मृत्युर्जरा न हि ।
<११. आमलकीकल्पः>
अथ वक्ष्यामि देवेशि कल्पमामलकीभवं

1,15.157

चैत्रादौ ग्राहयेद्धात्र्याः सुपक्वानि फलानि च ।
हरीतकीवद्ग्राह्यानि छायाशुष्काणि चूर्णयेत्

1,15.158

कर्षं जलेन वाज्येन मधुना वा फलं निशि ।
वर्धयेज्जाठरं वह्निमिन्द्रियाणां प्रसादकृत्

1,15.159

धात्रीचूर्णं लोहभस्म क्षौद्राज्यालुलितं लिहेत् ।
वलीपलितमृत्युघ्नं वत्सरात्पूर्ववद्विधिः

1,15.160

क्षीरपक्वं च तद्भक्ष्यं पूर्ववत्सिद्धिदायकः ।
धात्रीचूर्णं भृङ्गचूर्णं मध्वाज्यसहितं लिहेत्

1,15.161

वलीपलितनिर्मुक्तो वत्सराद्भवति ध्रुवं ।
निंबामलकयोश्चूर्णं मध्वाज्यसहितं लिहेत्

1,15.162

पूर्ववच्च फलं देवि नात्र कार्या विचारणा ।
<१२. त्रिफलाकल्पः>
अथ ब्रवीमि ते देवि त्रिफलाया रसायनं

1,15.163

एकं हरीतकीभागं द्विभागं च विभीतकं ।
चतुर्भागं तथा धात्री सर्वमेकत्र चूर्णयेत्

1,15.164

पिप्पल्या वा तुगाक्षीर्या सैन्धवैर्मधुकेन वा ।
क्षौद्रेण वा सर्पिषा वा वचया सितयाथवा

1,15.165

सुवर्णै रजतैः शुल्बैर्वङ्गैर्नागैस्तथायसैः ।
संयुक्ता त्रिफला लीढा जरामरणनाशिनी

1,15.166

त्रिफलायाः समांशास्तु योज्याश्चैकैकशस्तु ताः ।
पिप्पल्याद्यास्तु सौवर्णभस्मादीनां च कथ्यते

1,15.167

सौवर्णं पणमात्रं च द्विपणं राजतं भवेत् ।
पणार्धं शुल्बचूर्णं च द्विपणं नागवङ्गजं

1,15.168

चूर्णं तथायसं प्रोक्तं पणपञ्चकमात्रकं ।
एवं यस्त्रिफलासेवी जीवेदाचन्द्रतारकं

1,15.169

एकां हरीतकीं प्रातर्भुक्तेः प्राग्द्विविभीतकं ।
चतुरामलकं रात्रौ सर्वे ते घृतपाचिताः

1,15.170

सेवेतावत्सरं धीमान्वलीपलितवर्जितः ।
अन्नोदकेन संपेष्य कान्तपात्रे लिहेन्निशि

1,15.171

सक्षौद्रं तल्लिहेत्प्रातरायुरारोग्यवर्धनं ।
त्रिफलां भावयेत्पूर्वं खदिरासनयूषतः

1,15.172

त्रिः सप्तवारं देवेशि ततः क्षौद्रघृताप्लुतां ।
सेवेतानुदिनं कर्षं वर्षादिन्द्रायुषो भवेत्

1,15.173

विडङ्गभृङ्गखदिरब्रह्मवृक्षरसैः पृथक् ।
पृथक्सप्तदिनं घर्मे भावयेत्त्रिफलां प्रिये

1,15.174

भक्षयेद्गुडसर्पिर्भ्यां कर्षं वर्षात्सुरोपमः ।
त्रिफलायाः शतफलं चूर्णं भृङ्गरसैः पुरा

1,15.175

त्रिः सप्तवासरं भाव्यं लिहेन्मधुघृतान्वितं ।
पलार्धं प्रत्यहं प्रातर्जीर्णेऽद्याद्दधिभक्तकं

1,15.176

वर्षात्प्रसन्नदृष्टिश्च जीवेत्षट्शतवत्सरं ।
महाबलः कृष्णकेशः स्मृतिबुद्धिसमन्वितः

1,15.177

युवा शतस्त्रीरन्ता च धीरः स सुभगो भवेत् ।
<१३. शुण्ठीकल्पः>
अथ वक्ष्यामि गिरिजे दिव्यं शुण्ठीरसायनं

1,15.178

श्रेष्ठं नागरमादाय चूर्णयेत्पटगालितं ।
गुडं चास्य समं योज्यं मधुना गोघृतेन च

1,15.179

स्निग्धभाण्डे विनिक्षिप्य धान्यराशौ सुयन्त्रितं ।
द्विमण्डलात्समाहृत्य शुद्धाङ्गः पुण्यवासरे

1,15.180

कर्षं कर्षं लिहेन्नित्यं सप्ताहाद्रोगवर्जितः ।
षण्मासमुपभुञ्जानो जीवेद्वर्षशतद्वयं

1,15.181

बुद्ध्या वाचस्पतिसमः पुराणागमशास्त्रवित् ।
मयानुभूतं देवेशि कथितं तव सौहृदात्

1,15.182

<१४. पिप्पलीकल्पः>
अथ प्रिये प्रवक्ष्यामि पिप्पलीनां रसायनं ।
पिप्पलीं शोधयेत्पूर्वं किंशुकक्षारवारिणा

1,15.183

सप्तधा च ततः कुर्यात्तासां च घृतभर्जनं ।
ततः सेवेत शुद्धाङ्गः पञ्चाष्टौ दश सप्तधा

1,15.184

वर्षमेकं तु मध्वाज्यै रोगास्तस्य न सन्ति च ।
वलीपलितनिर्मुक्तो जीवेच्च शरदः शतं

1,15.185

प्रातः प्राग्भोजनात्पश्चाद्भक्षयेत्त्रित्रिपिप्पलीः ।
वर्षाद्व्याधिं जरां हन्ति शतायुष्यमवाप्नुयात्

1,15.186

एकद्वित्रिक्रमेणैव वर्धयेद्दशवासरं ।
ह्रासयेत्पिप्पलीस्तद्वद्ध्रासवृद्धी पुनः पुनः

1,15.187

गोक्षीरेण युतं यावत्पिप्पलीनां सहस्रकं ।
तावत्सेवेत शुद्धाङ्गो जरारोगविवर्जितः

1,15.188

अजाक्षीरेण संपेष्य पिबेद्युक्ता बलाधिका ।
क्षीरशृता मध्यफला पूर्ववद्ध्रासवृद्धयः

1,15.189

यावत्सहस्रद्वितयं तावत्सेव्यं रसायनं ।
कासश्वासक्षयाः पाण्डुप्लीहशोणितमारुताः

1,15.190

मेहार्शोग्रहणीशोफहिध्मवमिगलग्रहाः ।
रसायनेन पिप्पल्या नश्यन्ति विषमज्वराः

1,15.191

जीवेद्वर्षशतं पूर्णं वलीपलितवर्जितः ।
<१५. चित्रककल्पः>
अथ चित्रककल्पं ते वक्ष्यामि शृणु पार्वति

1,15.192

चित्रकस्त्रिविधो ज्ञेयः कृष्णो रक्तः सितः शिवे ।
कृष्णो रसायने रक्तो लोहे रोगे सितो भवेत्

1,15.193

श्रेष्ठमध्यकनीयांसो न हेमन्ते समाहरेत् ।
वसन्ते कृष्णपञ्चम्यां कृष्णाम्बरधरः शुचिः

1,15.194

कृष्णगन्धाक्षतैः पुष्पैः पूजयेत्कृष्णसूत्रकैः ।
परिवेष्ट्य च पूर्वेद्युर्दद्यात्कृष्णौदनं बलिं

1,15.195

प्रातर्मौनी खनेच्छुद्धः समूलं चित्रकं हरेत् ।
न गोघ्रातं पदा स्पृष्टं शुचौ देशे विनिक्षिपेत्

1,15.196

क्षिप्तं क्षीरान्तरे कृष्णं वह्नौ क्षीरं तु कृष्णति ।
रक्तचित्रं परीक्ष्यैवं क्षीरं रक्तत्वमाप्नुयात्

1,15.197

एवं च रक्तचित्रस्य रक्तपुष्पाक्षतादिभिः ।
कृष्णं वा लोहितं वापि समूलमपि खण्डयेत्

1,15.198

सप्तधामलकाम्भोभिर्भावयेच्छोषयेत्क्रमात् ।
संचूर्ण्य तार्क्षीतालत्वक्चित्रकत्रिफलाः समाः

1,15.199

एषां समं चाग्निचूर्णं सर्वं भाण्डे नवे क्षिपेत् ।
ततः शुद्धः शुभदिने निष्कं निष्कं घृताप्लुतं

1,15.200

भक्षयेन्मासमात्रेण व्रणकुष्ठादिकृन्तनं ।
दन्तकेशनखा यान्ति पतनं च पुनर्भवं

1,15.201

वलीपलितनिर्मुक्तो जीवेच्च शरदः शतं ।
एवं च रक्तचित्रस्य योजना च फलं तथा

1,15.202

<१६. भल्लातकीकल्पः>
अथ भल्लातकीकल्पं शृणु वक्ष्यामि पार्वति ।
पक्वं नवं सुतीक्ष्णं च भल्लातकफलं हरेत्

1,15.203

गोक्षीरे फलमेकं तु सूचीभिन्नं पचेत्सुधीः ।
मध्वाज्यशर्करायुक्तं फलं त्यक्त्वा पयः पिबेत्

1,15.204

एकद्वित्रिक्रमेणैवं वर्धयेदेकविंशतिं ।
फलानि च दिनान्येकविंशतिः क्रमशः प्रिये

1,15.205

सर्वे रोगा विनश्यन्ति षण्मासाद्दिव्यविग्रहः ।
<१७. भूमिकदम्बकल्पः>
अथ भूमिकदम्बस्य कल्पं वक्ष्यामि पार्वति

1,15.206

त्रिविधः स तु विज्ञेयः श्वेतो रक्तश्च मेचकः ।
शुक्लपक्षे च पुष्यार्के विधिवत्तं समाहरेत्

1,15.207

समूलं शोषयेत्तं च छायायां चूर्णयेत्ततः ।
तच्चूर्णं कर्षमाज्येन लिहेच्छुद्धवपुः प्रिये

1,15.208

तस्मिञ्जीर्णे प्रकुर्वीत क्षीरान्नं विजितेन्द्रियः ।
नश्यन्ति वलयस्तस्य षण्मासात्पलितानि च

1,15.209

संवत्सरप्रयोगेण जीवेद्वर्षशतत्रयं ।
<१८. पुनर्नवाकल्पः>
दिव्यं पुनर्नवाकल्पं वक्ष्यामि शृणु पार्वति

1,15.210

पुनर्नवाख्या द्विविधा लोहिता धवला तथा ।
रसे रसायने श्वेता रोगे रक्ता प्रशस्यते

1,15.211

पुष्यार्के श्वेतशोफघ्नीं समूलामाहरेत्सुधीः ।
छायाशुष्कं चूर्णयित्वा गोक्षीरेण पलार्धकं

1,15.212

पलं वाथ पिबेत्प्रातः शुद्धाङ्गो वत्सरावधि ।
युवा भवति वृद्धोऽपि स जीवेच्छरदः शतं

1,15.213

गोक्षीरेण च तन्मूलं क्षीरक्षीणं पचेत्प्रिये ।
चूर्णीकृत्य च तन्मूलं पक्वीकृतगुडे समं

1,15.214

गोघृतं च क्षिपेत्तत्र त्वेकीकृत्यावतारयेत् ।
पलं चानुदिनं लेह्यं क्षीरान्नाशी जितेन्द्रियः

1,15.215

संवत्सरप्रयोगेण वलीपलितवर्जितः ।
तत्सेवकस्य नश्यन्ति विषाणि विविधानि च

1,15.216

त्वग्दोषः कफपाण्ड्वाद्या औदरा गुल्मपायुजाः ।
नश्यन्ति सकला रोगाश्छर्दिहिक्काक्षिकर्णजाः

1,15.217

पुष्पितां फलितां पक्वां आदाय च पुनर्नवां ।
खण्डितां नागरक्वाथसुस्विन्नां क्षीरपेषितां

1,15.218

पिबेद्दिवा च चूर्णान्ते निशि क्षीरघृताशनः ।
षण्मासात्सिद्धिमाप्नोति योषिच्छतरतो भवेत्

1,15.219

<१९. भृङ्गराजकल्पः>
अथ श्रीभृङ्गराजस्य कल्पं वच्मि महेश्वरि ।
समूलं तच्च पुष्यार्के समाहृत्याथ शोषयेत्

1,15.220

छायायां पूर्णितं कृत्वा कर्षं सौवीरलोडितं ।
प्रातः पिबेच्छुद्धदेहो मासाद्रोगान्व्यपोहति

1,15.221

ततः षण्मासयोगेन वलीपलितखण्डनं ।
घृतक्षीराशनो नित्यं जीवेद्वर्षशतत्रयं

1,15.222

युक्तः कृष्णतिलैरर्धैर्भृङ्गराजस्य पल्लवं ।
उपयुञ्जीत षण्मासं वलीपलितकृन्तनं

1,15.223

भृङ्गराजफलं पुष्पं पत्रं मूलं च चूर्णयेत् ।
एतच्चूर्णस्य सदृशांश्चित्राद्यान्परिकल्पयेत्

1,15.224

चित्रविश्वकणाबिल्वपथ्याधात्रीविडङ्गकं ।
मरीचं व्याधिघातं च चक्रमर्दस्य बीजकं

1,15.225

लोध्रसर्षपराज्यश्च चूर्णिताश्च समाहृताः ।
एकीकृत्यैव भृङ्गस्य रसेन परिभावयेत्

1,15.226

सप्तधा च ततः सर्वं चूर्णीकृत्य पुनः प्रिये ।
कर्षं गोपयसा सार्धं शुद्धकोष्ठो लिहेत्प्रिये

1,15.227

षण्मासाज्जायते सिद्धिर्वलीपलितवर्जितः ।
पूर्वोक्तवद्विधिः प्रोक्तः स्वर्णभृङ्गस्य पार्वति

1,15.228

ओं नमो भगवते रुद्राय तिष्ठ तिष्ठ संगृहाण स्वाहा ।
अयं ग्रहणमन्त्रः ।
ओं नमो रुद्राय अमृतात्मने स्वाहा ।
अयं आलोडनमन्त्रः ।
ओं उत्तिष्ठोत्तिष्ठ कल्याणि स्वाहा ।
अयं भक्षणमन्त्रः ।
<२०. कुमारीकल्पः>
अथ वक्ष्याम्यहं देवि कुमारीकल्पमुत्तमं ।
नदीतीरेऽथवा ग्रामे नगरेऽब्धितटेऽथवा

1,15.229

मृदुकर्णकपत्राणि पीतान्यहिसमानि च ।
प्रवालसमपुष्पाणि सक्लेदहस्तीनि च

1,15.230

यस्याः पत्राणि तिष्ठन्ति सा कुमारीति कथ्यते ।
शुचिः पुण्यदिने कन्यां सोपवासः समाहरेत्

1,15.231

अर्चयित्वा बलिं दत्त्वा कुमारीं सिद्धिदायिनीं ।
शुद्धकोष्ठः प्रगे खादेच्चतुरङ्गुलमात्रतः

1,15.232

एवं मासं ततः खाद्यं यथा वृद्धिः शनैः शनैः ।
अत्यन्तं वर्जयेन्मध्यं खाद्यं भवति सर्वदा

1,15.233

स्वशक्त्यनुगुणं सेव्यं स्वेच्छाहारविहारवान् ।
स्निग्धैर्मांसरसक्षीरैर्युक्त्या सेव्या कुमारिका

1,15.234

हरत्यखिलरोगांश्च राजयक्ष्मादिकान्प्रिये ।
किन्नरैः सदृशं गायेद्गृध्रदृष्टिर्महाबलः

1,15.235

स्निग्धकेशश्च मतिमान्बालादित्यसमप्रभः ।
दशनागबलोपेतः समीरसदृशो गतौ

1,15.236

वलीपलितनिर्मुक्तः षोडशाब्दवया भवेत् ।
एवं वर्षप्रयोगेण भवत्येतैर्गुणैर्युतः

1,15.237

यस्तु द्वादशवर्षान्तं सेवेत स सुरासुरैः ।
महोरगैरवध्यश्च त्रिंशन्नागबलान्वितः

1,15.238

मयूरदृष्टिः सर्वज्ञः सर्वशास्त्रविशारदः ।
विद्याधरो भवेन्मर्त्यो नात्र कार्या विचारणा

1,15.239

कुमार्या दलमादाय हस्तर्क्षे साधकेऽहनि ।
प्रातः प्रत्यहमास्वाद्य शुचिरग्निबलं यथा

1,15.240

तन्मज्जां वा लिहेद्यस्तु मध्वाज्यव्योषसंयुतां ।
मासं सेवेत नियमात्सर्वरोगैः प्रमुच्यते

1,15.241

षण्मासमुपयुञ्जानो वलीपलितवर्जितः ।
तस्याः क्लेदं समानीय व्योषक्षौद्राज्यसंयुतं

1,15.242

स्विन्नं मृद्वग्निना सेव्यं क्षीराहारो जितेन्द्रियः ।
मासाद्रोगा विनश्यन्ति द्विमासाद्दृढविग्रहः

1,15.243

दिव्यदृष्टिश्च तेजस्वी द्विमासाद्द्विषहृद्भवेत् ।
षण्मासयोगाद्वृद्धोऽपि युवा स्यात्सत्यमीश्वरि

1,15.244

एवं वर्षोपयोगेन जीवेद्द्विशतवत्सरं ।
तस्या दलं युगैः सार्धं भक्षयेच्छुद्धकोष्ठवान्

1,15.245

वलीपलितनाशः स्याद्वत्सरान्नात्र संशयः ।
<२१. नीलीकल्पः>
अथ देवि प्रवक्ष्यामि महानीलीरसायनं

1,15.246

पुष्यार्के शुचिरादद्यान्महानीलीं विधानतः ।
मूलपुष्पफलोपेतां छायायां शोषयेत्प्रिये

1,15.247

पटचूर्णं द्विनिष्कं स्यान्निष्कमभ्रं च योजयेत् ।
सर्वं च मधुनालोड्य स्निग्धभाण्डे विनिक्षिपेत्

1,15.248

धान्यराशौ न्यसेन्मासं उद्धृत्य च ततः प्रिये ।
शुद्धकोष्ठो लिहेत्प्रातर्बिडालपदमात्रकं

1,15.249

षण्मासाज्जायते मर्त्यो वलीपलितवर्जितः ।
महानीलीं च कृष्णाभ्रं मुसलीममृतालतां

1,15.250

समांशं चूर्णितान्कृत्वा मधुना कर्षं आलिहेत् ।
एवं वर्षोपयोगेन जीर्णोऽपि तरुणायते

1,15.251

बलवान्मतिमान्धीरो जीवेद्वर्षशतद्वयं ।
अभ्रकं च कुमारीं च काकजङ्घां शतावरीं

1,15.252

एतत्समां महानीलीं चूर्णयेत्स्निग्धभाण्डके ।
मधुना सहितं सप्तरात्र्यन्ते च समुद्धरेत्

1,15.253

कर्षं लिहेत्क्षीरभोजी वर्षाद्वलिजरां जयेत् ।
<२२. मुसलीकल्पः>
अथ ब्रवीमि देवेशि मुसलीकल्पमुत्तमं

1,15.254

स्वर्णपुष्पी च खर्जूरपत्रवत्पत्रशोभिता ।
अन्तः श्वेता च नाराचमूला सा मुसली स्मृता

1,15.255

तन्मूलं च समुद्धृत्य छायाशुष्कं च चूर्णयेत् ।
कर्षं मध्वाज्यलुलितं प्रातः शुद्धतनुर्लिहेत्

1,15.256

जीर्णे दुग्धान्नभोजी स्याद्रूक्षान्नं वर्जयेत्प्रिये ।
षष्ठे मासि भवेद्बालो वृद्धोऽपि बलबुद्धिमान्

1,15.257

पयसा मुसलीचूर्णं दध्ना वापि पिबेच्छुचिः ।
वर्षाद्यौवनं आप्नोति शतस्त्रीगमने पटुः

1,15.258

<२३. इन्द्रवल्लीकल्पः>
अथेन्द्रवल्लीकल्पं च व्याख्यामि शृणु पार्वति ।
मयोदिता सुरेन्द्रस्य दैत्यानां विजयाय च

1,15.259

तदा प्रभृति लोकेषु ख्याता सा चेन्द्रवल्लिका ।
तामिमां भजतां पुंसां देहसिद्धिर्भवेद्ध्रुवं

1,15.260

समूलां तां समुद्धृत्य छायाशुष्कां विचूर्णयेत् ।
तच्चूर्णं द्वादशपलं वचाचूर्णं च तत्समं

1,15.261

व्रणघ्नीचूर्णं एतस्य समांशं त्रिकटूद्भवं ।
षट्पलं सर्वमेकत्र कृत्वा भाण्डे विनिक्षिपेत्

1,15.262

कर्षं कर्षं मधुयुतं प्रातः प्रातर्लिहेत्सदा ।
षण्मासात्सर्वरोगघ्नं वत्सराद्देहसिद्धिदं

1,15.263

भूयो भूयश्च षण्मासान्नवं चूर्णं प्रकल्पयेत् ।
<२४. ज्योतिर्द्रुमकल्पः>
अथ ज्योतिर्द्रुमस्यापि पञ्चाङ्गान्याहरेत्प्रिये

1,15.264

त्रिः सप्तरात्रं सक्षौद्राण्याश्रयेद्धान्यराशिके ।
भक्षयेद्रोगनिर्मुक्तस्तेजस्वी देहसिद्धिभाक्

1,15.265

<२५. अश्वगन्धाकल्पः>
अथाश्वगन्धाकन्दं च पौत्रीकोरण्टयोः समं ।
चूर्णितं मधुसर्पिर्भ्यां कर्षं प्रातर्लिहेच्छुचिः

1,15.266

संवत्सरप्रयोगेण त्रिशतायुर्भवेन्नरः ।
<२६. ज्योतिष्मतीकल्पः>
अथ ज्योतिष्मतीकल्पं वक्ष्यामि शृणु पार्वति

1,15.267

दिव्या ज्योतिष्मती वल्ली तप्तकाञ्चनसन्निभा ।
बहुप्रताना स्वर्णाभा फलबीजा शुभप्रदा

1,15.268

आषाढे शुक्लपक्षे च शुभर्क्षे शुभवासरे ।
कुङ्कुमाक्तेन सूत्रेण तां वल्लीं परिवेष्टयेत्

1,15.269

रक्तगन्धाक्षतैः पुष्पैरर्चयित्वा प्रणम्य च ।
रक्तमाल्याम्बरधरः कुङ्कुमागरुचर्चितः

1,15.270

तांबूलचर्वणं कुर्वन्हृष्टो नियतमानसः ।
अभीष्टदेवतामन्त्रैस्तारामन्त्रेण वार्चयेत्

1,15.271

अभीष्टदेवतां ध्यात्वा ततश्चोदङ्मुखः प्रिये ।
पक्वबीजानि गृह्णीयादातपे शोषयेत्ततः

1,15.272

त्वग्वर्ज्यानि निधायादौ चूर्णितानि विशेषतः ।
तेभ्यस्तैलं समाहृत्य तत्तैलसदृशं पयः

1,15.273

पादांशं मधु संयोज्य तैलशेषं पचेच्छनैः ।
तस्मिन्कर्पूरतक्कोलत्वग्जातीफलमेव च

1,15.274

एतानि समभागानि चूर्णयित्वा च कोविदः ।
तत्तैलं षोडशपलं तच्चूर्णं पलमात्रकं

1,15.275

एकीकृत्यावलोड्याथ स्नेहभाण्डे विनिक्षिपेत् ।
त्रिः सप्तवासरं धान्यराशौ भाण्डे विनिक्षिपेत्

1,15.276

दशाहमथवा त्रिंशत्षष्टिर्वा नवतिस्तथा ।
अधिकं वा यथायोगं पश्चात्तैलं समाहरेत्

1,15.277

शुद्धकोष्ठः शुभदिने कृतदेवद्विजार्चनः ।
सूर्योदये पिबेद्धीरो बिन्दुवृद्ध्या क्रमात्प्रिये

1,15.278

पलान्तं साधकस्तेन निःसंज्ञत्वं अवाप्यते ।
मन्दं मन्दं लब्धसंज्ञो मुहुः क्रन्दति नन्दति

1,15.279

रोदित्येव मुहुः कृच्छ्राल्लब्धसंज्ञो भवेन्नरः ।
गोक्षीरं पाययेत्पश्चात्सक्षौद्रं श्रान्तचेतसे

1,15.280

क्रमादेवं भवेत्स्वस्थः साधकोऽसौ न संशयः ।
षष्टिकान्नं सगोक्षीरं तैले जीर्णे च भोजनं

1,15.281

एवं कुर्यात्प्रतिदिनं मासमेकं निरन्तरं ।
मासात्सूर्यसमः साक्षात्तेजसा मन्त्रशास्त्रवित्

1,15.282

साङ्गोपाङ्गश्रुतिं वेत्ति त्वनधीतोऽपि मानवः ।
मध्याह्ने भास्करं पश्येत्पूर्णचन्द्रमिवापरं

1,15.283

वैनतेयसमा दृष्टिर्दिवा पश्यति तारकाः ।
अन्नवज्जीर्यते क्ष्वेलं सुप्तोऽप्याकर्णयेद्ध्वनिं

1,15.284

अष्टादशविधं कुष्ठं सर्वरोगान्विनाशयेत् ।
फलं द्वितीयमासस्य शृणु वक्ष्यामि भैरवि

1,15.285

गन्धर्वोरगरक्षोभिः सेव्यते तैलसेवकः ।
महापातककर्तारो देवतापितृनिन्दकाः

1,15.286

समयाचाररहितास्त एते मुक्तकिल्बिषाः ।
अमुष्य सेवया मुक्ताः प्रयान्ति परमां गतिं

1,15.287

फलं तृतीयमासस्य शृणु पार्वति वक्ष्यते ।
देवाश्च दिव्या ऋषयो वसवोऽष्टौ महोरगाः

1,15.288

अमुष्य सेवां कुर्वन्ति प्रियं नित्यहितं तथा ।
तस्य मूत्रं ताम्रघटे पूरयित्वा खनेद्भुवं

1,15.289

तद्गर्ते विहितं कृत्वा षण्मासात्कनकं भवेत् ।
चतुर्थमासस्य फलं शर्वाणि शृणु सांप्रतं

1,15.290

अदृश्योऽसौ भवेन्मर्त्यः सर्वैश्वर्ययुतो बली ।
दशब्रह्मदिनं जीवेत्सर्वलोकगतौ पटुः

1,15.291

तन्मूत्रमलघर्माम्बूद्वर्तनैस्ताम्रलेपनं ।
कुर्याद्वह्नौ प्रतपनं तच्छुल्बं काञ्चनं भवेत्

1,15.292

अथ पञ्चममासे तु सदेहः खेचरो भवेत् ।
साक्षाद्ब्रह्मा भवेद्देवि शृणु षाण्मासिकं फलं

1,15.293

महासिद्धैः परिवृतः सर्वलोकान्यदृच्छया ।
विचरेच्छिवतुल्यः स्यान्महातेजा महायशाः

1,15.294

अथ सप्तममासस्य फलं कल्याणि वक्ष्यते ।
जितारिषड्वर्गमनाः सर्वभूतहिते रतः

1,15.295

विष्ण्वायुष्यमवाप्नोति पुण्यापुण्यविवर्जितः ।
विचरेच्च महावीर्यः श्रीमान्विष्णुरिवापरः

1,15.296

अष्टमासफलं वच्मि शृणु त्वं सर्वमङ्गले ।
मत्प्रियो दिव्यकर्मा च सर्वज्ञो मुक्तिमाप्नुयात्

1,15.297

फलं नवममासस्य शृणु कात्यायनि प्रिये ।
द्वितीयचिन्तामणिवद्वीरोऽसौ कामरूपवान्

1,15.298

ब्रह्मविष्ण्विन्द्रचन्द्राणां रूपं सृजति साधकः ।
मनसा चिन्तितं यद्यत्तत्तत्कर्तुं स्वयं प्रभुः

1,15.299

एतद्रसायनं दिव्यं सुकरं मोक्षसाधनं ।
पुण्यं परमगुह्यं च गोपनीयं त्वया प्रिये

1,15.300

एतस्य सदृशं नास्ति देवानामपि दुर्लभं ।
बहुनात्र किमुक्तेन त्वत्प्रियार्थं मयोदितं

1,15.301

रसायनं इदं दिव्यं न कुर्वन्ति च मानवाः ।
अज्ञानोपहताः केचित्केचिन्नास्तीति शङ्कया

1,15.302

अन्तरायेण केचिच्च तदलाभेन केचन ।
तत्कल्पाज्ञानतः केचित्केचिद्गुरुविवर्जिताः

1,15.303

केचिद्रोगाकुला देवि त्वित्थं तैरपि विघ्निताः ।
यत्र ज्योतिष्मती वल्ली सा भूमिः पुण्यभूमिका

1,15.304

तत्रैव सर्वतीर्थानि सिद्धयो विविधा अपि ।
ज्योतिष्मतीफलभवं सेव्यं दिव्यरसायनं

1,15.305

<२७. गुग्गुलुकल्पः>
अथ गुग्गुलुकल्पं च शृणु त्वं चण्डिकेऽधुना ।
चतुर्विधो गुग्गुलुः स्यात्कुमुदः पद्मकस्तथा

1,15.306

महिषाक्षं च हेमाख्यस्तत्तद्वर्णसमुज्ज्वलः ।
हेमाख्यं च मनुष्याणां रसायनं उदाहृतं

1,15.307

कणशो गुग्गुलुं कृत्वा गोघृतेन शनैः पचेत् ।
डोलायन्त्रे युक्तिपरो घृतभर्जितमांसवत्

1,15.308

पथ्याविभीतकौ धात्री गन्धकश्च पृथक्पृथक् ।
समांशं तान्विचूर्ण्यैव एतत्सर्वसमं पुरं

1,15.309

शुद्धकोष्ठो लिहेत्प्रातस्तैलं ह्येरण्डसंभवं ।
लोलयित्वा निष्कमात्रं वृद्धिः कर्षावधिर्भवेत्

1,15.310

एवं वर्षप्रयोगेण शीतवातव्रणास्तथा ।
पिडकागण्डमालाद्या विनश्यन्ति महारुजः

1,15.311

द्वादशाब्दप्रयोगेण वज्रकायो भवेन्नरः ।
यद्यद्द्रव्यं च सात्म्यं स्यात्तत्तद्द्रव्येण वा भजेत्

1,15.312

यस्य यस्य च रोगस्य यद्यद्भेषजमीरितं ।
तैस्तैः सहैव सेवेत तत्तद्रोगहरं भवेत्

1,15.313

<२८. विजयाकल्पः; विजयोत्पत्तिः>
श्रीभैरवी ।
देवदेव जगन्नाथ सुरासुरनमस्कृत ।
पञ्चकृत्यप्रधानेश नमस्तुभ्यं परात्पर

1,15.314

सर्वेऽप्यौषधकल्पाश्च मत्प्रीत्या कथितास्त्वया ।
आश्चर्यं भूतदेवेश सद्यः सिद्धिप्रदायकं

1,15.315

सुखसेव्यं सुखकरं ज्ञानदं भुक्तिदं शुचिं ।
अस्मत्सायुज्यदं ब्रूहि प्रीत्या मम रसायनं

1,15.316

ततः स्मितमुखो भूत्वा शङ्करो लोकशंकरः ।
श्रीभैरवः ।
देवि वक्ष्याम्यहं कल्पं स्पृहणीयं सुरासुरैः

1,15.317

सिद्धैश्च मुनिभिः स्त्रीभिः सर्ववर्णैश्च योगिभिः ।
बालैर्वृद्धैश्च रुग्णैश्च षण्ढैश्च बहुयोषितैः

1,15.318

शृणु त्वममृतोद्भूतं सावधानेन चेतसा ।
आग्नेयो मामकोऽंशः स्यात्सौम्यांशस्तावकः प्रिये

1,15.319

अग्नीषोमात्मकं सर्वमौषधं जलधौ सुराः ।
असुराः प्राक्षिपंश्चक्रुर्मथनं मन्दराद्रिणा

1,15.320

अतीव मथनात्तत्र देव्याग्नेयो ममांशकः ।
ज्वलन्महाविषं घोरं जातं हालाहलाख्यकं

1,15.321

तेन व्याकुलिता म्लाना गतवेगाः सुरासुराः ।
कृपया तन्मया सर्वं विषं च कबलीकृतं

1,15.322

ततो देवा दितिसुता ममन्थुर्हृष्टमानसाः ।
ततो लक्ष्मीप्रभृतयः प्रादुरासंस्ततोऽमृतं

1,15.323

तदुद्भूतं परं दिव्यं जरामरणकृन्तनं ।
तदा तदा महाविष्णुर्मम हस्ताम्बुजेऽर्पयत्

1,15.324

त्रिवारं बिन्दवो दत्ताः परस्मै परमात्मने ।
पराशक्तियुजे पश्चात्तुभ्यं दत्ते मया प्रिये

1,15.325

पीतं त्वया च मे दत्तं मधुसूक्तमुदीर्य च ।
स्वीकृतं च मया कान्ते चिदानन्दात्मकामृतं

1,15.326

सान्द्रानन्देन च मया स्फूत्कृतिर्लज्जया कृता ।
पतिता बिन्दवः सूक्ष्मास्तेभ्यो जाता महौषधिः

1,15.327

तामालोक्य शुभां दिव्यां मुदिताः पर्यपालयन् ।
मत्करांबुजनीतेन पीयूषेण विवर्धितं

1,15.328

तस्मात्त्रिशूलसदृशपर्णं च पटलं बहु ।
तस्मान्महौषधिर्जाता मदादिष्टैर्गुणैर्वृता

1,15.329

कदाचिद्भैरवो दृष्ट्वा हृष्टस्तां प्रार्थयन्मया ।
दत्ता तस्मै भैरवोऽपि योगिनीभ्यः समर्पिपत्

1,15.330

ताश्च प्रीताः स्वभक्तेभ्यो भक्तेभ्यः प्रददुश्च ते ।
निन्युश्च भूतलं दिव्यामौषधिं सर्वसिद्धिदां

1,15.331

<विजयाभेदाः>
श्रीभैरवी ।
किंनाम्नी सा कथंवीर्या सेवनीया कथं प्रभो ।
कीदृग्वर्णा कियद्भेदा कीदृग्रूपगुणा च सा

1,15.332

कथं वा सिद्धिदा सा स्यात्क्रमान्मे ब्रूहि वल्लभ ।
श्रीभैरवः ।
अथ तस्याश्चतुर्वर्णा युगधर्माश्रिताः प्रिये

1,15.333

शुक्लवर्णा कृतयुगे त्रेतायां शोणितप्रभा ।
द्वापरे पीतवर्णा च नीलवर्णा कलौ युगे

1,15.334

एकपर्णा त्रिपर्णा च पञ्चपर्णा मुनिच्छदा ।
दशपर्णा रुद्रपर्णा त्रयोदशदलान्विता

1,15.335

नवपर्णेति विज्ञेया भेदा ह्येते सुरेश्वरि ।
<विजयालक्षणम्>
स्त्रीरूपा सफला वल्ली पुंरूपा च द्रुमाकृतिः

1,15.336

सफला तु मदं मूर्छां सुखं सत्वं करोति च ।
योगवाहा तिक्तरसा सा कटुश्चूग्रगन्धिनी

1,15.337

शिवमूली च विजया भङ्गी गञ्जा विमर्दिनी ।
दिव्या सिद्धा सिद्धिदा च सिद्धमूली मनोन्मनी

1,15.338

मधुद्रवा चिदाह्लादा पशुपाशविनाशिनी ।
कालघ्नी सर्वरोगघ्नी नामान्येतानि पार्वति

1,15.339

शिवो मूलं भवेद्यस्याः शिवमूलीति कथ्यते ।
त्रिलोकानरिषड्वर्गान्विजयाख्या जयेदिति

1,15.340

तापत्रयादिदुःखानां भञ्जनाद्भङ्गिनी स्मृता ।
गञ्जेति मादयत्येषा मदिरास्थानकारिणी

1,15.341

सदृशं मर्शनं यस्याः सैव प्रोक्ता विमर्शिनी ।
क्रीडामोदद्युतिमदकान्तिदत्वाच्च दिव्यका

1,15.342

स्वतःसिद्धेति सिद्धाख्या दिष्टसिद्धिप्रदायिका ।
सिद्धिदेति महासिद्धैः सा नीता सिद्धमूलिका

1,15.343

मनश्चिन्तितकार्याणां साधनाच्च मनोन्मना ।
संविदानन्ददत्वाच्च चिदाह्लादेति कीर्तिता

1,15.344

ब्रह्मरन्ध्रस्थितसुधाद्रावणाच्च मधुद्रवा ।
जन्तूनां पाशनाशत्वात्पशुपाशविनाशिनी

1,15.345

मृत्युञ्जयत्वात्कालघ्नी रोगघ्नी सार्थनामिका ।
<विजयावर्धनक्रमः>
वर्धनक्रममाचक्षे शृणु लोकशिवंकरि

1,15.346

शिलालोष्टादितो वर्ज्या वालुकाशर्करादितः ।
भूमिः कृष्णा पांसुला च मृदुला सकरीषका

1,15.347

भुजङ्गमांससहिता तत्र बीजानि वापयेत् ।
अहिवक्त्रेषु सत्वञ्चि स्निग्धानि च गुरूणि च

1,15.348

पुष्यार्के सिद्धयोगे वा श्रवणे शुक्लपक्षके ।
स्नातो लिप्ततनुर्गन्धैः कृतन्यासजपार्चनः

1,15.349

उदङ्मुखः प्राङ्मुखो वा ध्यात्वा च गुरुपादुकां ।
सक्षीराङ्कोलतैलेन जलेन परिषेचयेत्

1,15.350

अङ्कुरे च समुत्पन्ने सिञ्चेत्सघृतवारिणा ।
पर्णे कीटे समुत्पन्ने सामुद्रं वारि सेचयेत्

1,15.351

ततोऽस्यां विततायां च शिरश्छित्त्वा च रन्ध्रयेत् ।
तत्र सूतं क्षिपेन्निष्कं निष्कं प्रत्येकमादरात्

1,15.352

निरोधयेत्तन्मुखानि कौशिकेन प्रयत्नतः ।
पुष्पिते फलिते मद्यमांसाम्बु च निषेचयेत्

1,15.353

एकैकपक्षपर्यन्तं क्षीरादि परिषेचयेत् ।
अस्यां बद्ध्वा जटामांसीं सक्षौद्रं वारि सेचयेत्

1,15.354

शेषं मद्येन वा वारा वर्धनीया महौषधिः ।
आदौ वा परमं मन्त्रं पश्चात्सेवनमन्त्रकं

1,15.355

ओं क्षां क्षीं क्षूं क्षेत्रपालाय नमः सवीर्यं कुरु कुरु सिद्धिं देहि देहि स्वाहा ।
अयं स्थापनमन्त्रः ।
ओं श्रीं ह्रीं क्लीं यरलवशषसह अमृतेश्वरि अमृतं कुरु कुरु आं ह्रां क्रों स्वाहा ।
अयं सेवनमन्त्रः ।
फाल्गुने कृष्णपक्षस्य चतुर्दश्यां च साधकः ।
स्नातः शुद्धाम्बरो गन्धपुष्पभूषणसंयुतः

1,15.356

अर्चयेद्भैरवं तत्र नन्दीशं च क्रमेण च ।
मद्यमांसोपहारेण रक्तपीतसितासितैः

1,15.357

तन्तुभिर्वेष्टयेद्देवि तन्मन्त्रं च निगद्यते ।
ओं ग्लौं सौं ह्रीं खेचरभूचरदिव्ययोगिनि इमां रक्ष रक्ष सर्वशत्रुप्रमथिनि स्वाहा ।
अयं तन्तुबन्धनमन्त्रः ।
सहस्रं प्रत्यहं जप्यमघोरं मन्त्रनायकं

1,15.358

एवं सप्तदिनं कार्यं पञ्चम्यां अमृतेश्वरीं ।
ध्यात्वा कुन्देन्दुकर्पूरसंकाशां धवलांबरां

1,15.359

सितमाल्यानुलेपार्द्रां मुक्ताभरणमण्डितां ।
दक्षिणेऽक्षगुणं वामे सुधापूर्णघटं ततः

1,15.360

तदधो दक्षिणे वामे संवित्पुस्तकधारिणीं ।
तत्र स्थितां ततः कुर्याल्लवनं च समन्त्रकं

1,15.361

स्निग्धानि च सबीजानि सपर्णानि समाहरेत् ।
ओं क्लीं वं सं क्रौं शिवानन्दामृतोद्भवे त्रिभुवनविजये विजयं प्रयच्छ स्वाहा ।
अयं लावनमन्त्रः ।
मन्दातपे शुद्धदेशे शोषयेत्सप्तवासरं

1,15.362

निक्षिपेन्नूतने भाण्डे तत्पर्णानि सुचूर्णयेत् ।
स्थालीद्वयं प्रताप्यादावेकस्यां प्रथमं पुटेत्

1,15.363

ततोऽपरस्यां पुटयेदेवं कार्यं मुहुर्मुहुः ।
यावत्सुपाकतां याति तज्ज्ञस्तावद्विपाचयेत्

1,15.364

गुञ्जोन्मत्तश्च वल्ली च तासां पर्णरसैर्मुहुः ।
स्थाल्यौ पृथक्पृथक्देवि सप्तधा सप्तधा प्रिये

1,15.365

मुण्डी ब्राह्मी कुमारी च वरी धात्री कटुद्वयं ।
सुगन्धिका क्रमाज्ज्ञेया चैकैकपलमानतः

1,15.366

योजनीयाश्चूर्णिताश्च तत्सर्वसदृशा जयाः ।
सिता सर्वसमा योज्या तत्समं गोपयः क्षिपेत्

1,15.367

क्षीरमध्ये सितां क्षिप्त्वा तन्तुपाकं भवेद्भिषक् ।
मुण्डादिविजयान्तं च तच्चूर्णं तत्र निक्षिपेत्

1,15.368

लोलयित्वावतार्यैवं शैत्ये क्षौद्रं सितार्धकं ।
निक्षिप्य गोघृतं तुल्यं क्षौद्रस्य परिमेलयेत्

1,15.369

पक्षद्वयं धान्यराशौ निधाय प्रत्यहं जपेत् ।
सहस्रं वा यथाशक्त्या महावटुकमन्त्रकं

1,15.370

ह्रीं श्रीं महाकालाग्निभैरवाय सर्वसिद्धिमातृब्रह्मा लिङ्गितविग्रहाय सर्वापदां शोषकाय हुं फट्ठं ।
अयं अग्निपाकमन्त्रः ।
मासादुद्धृत्य विधिवद्ग्रसेदामलकोपमं ।
निवातमन्दिरे स्थायी क्षीरान्नाशी जितेन्द्रियः

1,15.371

गुरूपदिष्टदेवं वा तत्त्वं वा परमं स्मरेत् ।
द्विकालं वा त्रिकालं वा यथा सेवाबलं क्रमात्

1,15.372

एवं त्रिवर्षाज्जरया वलीभिश्च विवर्जितः ।
भूचरीसिद्धिं आप्नोति जीवेत्त्रिशतवत्सरं

1,15.373

वाराही त्रिफला चित्रमश्वगन्धा क्रमेण च ।
एवं द्वित्रिचतुर्भागं अश्वगन्धादि योजयेत्

1,15.374

एतत्समा च विजया मधुना लोलयेत्सुखं ।
आतपे पक्षपर्यन्तं स्थापयेत्प्रतितापयेत्

1,15.375

धात्रीफलोपमं सेव्यं सूर्याभश्चाष्टमासतः ।
साधको जायते वर्षाज्जरामरणवर्जितः

1,15.376

जपन्मन्त्रं इमं भक्त्या देहसिद्ध्यै सुरेश्वरि ।
ह्रीं श्रीं महाव्योमभास्कराय दीपिमातृकालिङ्गितविग्रहाय तेजसां निधिं कुरु कुरु ठं ।
इति सूर्यपाकमन्त्रः ।
पलत्रयं जयायाश्च यष्टीचूर्णं पलद्वयं

1,15.377

पलमेलाभद्रचूर्णं चित्रमूलं पलार्धकं ।
श्रीखण्डचूर्णं च पलं चैतत्सर्वसमा सिता

1,15.378

स्वर्णचूर्णं च निष्कार्धं निष्कं च हिमवालुकं ।
सर्वमाज्येन लुलितं ज्योत्स्नायां निक्षिपेत्सुधीः

1,15.379

शुक्लपञ्चमीं आरभ्य पक्षान्तं शशिभावना ।
विधिवत्पूजयित्वा तु शुद्धकोष्ठो लिहेत्प्रिये

1,15.380

अस्य मन्त्रं पुनर्वच्मि सर्वसिद्धिप्रदायकं ।
ह्रीं श्रीं महाशशाङ्ककिरणविस्फारभैरवाय अमृतेश्वरी मातृकालिङ्गितविग्रहाय विस्फुरणं कुरु कुरु हुं फट्ठं ।
इति चन्द्रपाकमन्त्रः ।
एवंविधस्य कल्पस्य त्रिविधं मन्त्रमीरितं

1,15.381

एकैकमन्त्रमयुतं पुरश्चरणमाचरेत् ।
वह्निपाकं चतुर्मासेष्वाषाढादिषु तन्यते

1,15.382

फाल्गुनादौ प्रकुर्वीत रविपाकं सुरेश्वरि ।
कार्त्तिकादिषु चन्द्रस्य पाकः स्यात्सिद्धिदायकः

1,15.383

मुण्डीचित्रकनिर्गुण्डीसहिता कुष्ठनाशिनी ।
ब्राह्मी कुमार्या युक्ता चेदं अपस्मारविनाशिनी

1,15.384

जया वराव्योषयुता क्षयस्य क्षयकारिणी ।
जया कार्पासमत्स्याक्षीपत्रयुक्ता च पित्तनुत्

1,15.385

स्नुह्यर्कपत्रक्षारेण संयुता गुल्मशूलहृत् ।
वचादूर्वारजोयुक्ता ज्ञानवृद्धिप्रदायिनी

1,15.386

यष्टीगन्धकसंयुक्ता कुष्ठनुत्पुष्टिदायिनी ।
शाल्मलीपिच्छसंयुक्ता ससिता वीर्यवर्धिनी

1,15.387

पाठातिक्तात्रिकटुकैर्युक्ता कफगदापहा ।
शुक्लगुञ्जायुता नःणां महाविषविनाशिनी

1,15.388

व्याघातचूर्णसहिता कुष्ठरोगविनाशिनी ।
आरण्यमरिचैरण्डयुक्ता वातविनाशिनी

1,15.389

एते द्वादशयोगाश्च मासेषु द्वादशेषु च ।
मन्त्रत्रयं च प्रजपेत्प्रतिमासेषु साधकः

1,15.390

साधकोऽनेन योगेन जरामरणवर्जितः ।
भवत्येव न सन्देहः सत्यं सत्यं वरानने

1,15.391

रसत्रिगन्धकृष्णाभ्ररुद्राक्षस्वर्णभस्म च ।
जयारसेन संमर्द्यं पक्षमेकं तु भावयेत्

1,15.392

भूधरे संपुटे यन्त्रे पुटयेच्चूर्णयेत्ततः ।
एतच्चतुर्गुणजया शर्कराघृतसंयुता

1,15.393

सेव्या निष्कप्रमाणेन प्रातः सायन्तनेऽथवा ।
महावटुकमन्त्रं च जपेल्लक्षावधि प्रिये

1,15.394

षष्ठमासे भवेत्सिद्धिर्जरामरणवर्जितः ।
वर्षान्मनोजवगतिर्नागायुतबलो भवेत्

1,15.395

वज्रकायश्च सिद्धोऽसौ जीवेदाचन्द्रतारकं ।
वटाङ्कुरस्य चूर्णेन सितामध्वाज्यसंयुता

1,15.396

त्रिपक्षात्सेवितजया सर्वलोकवशंकरी ।
अपामार्गरजोयुक्ता जया घृतसमन्विता

1,15.397

मन्त्रजापी भवेन्नित्यं षण्मासादमरो भवेत् ।
वरा सितजया चित्रस्त्रिवृता त्रिकटुर्वृषा

1,15.398

दूर्वा भृङ्गो मरीचश्च मधुकाजाजिसैन्धवं ।
कर्पूरं च कचोरं च सर्वतुल्यं जयारजः

1,15.399

मधुत्रयेण लुलितं स्निग्धभाण्डे विनिक्षिपेत् ।
कर्षं प्रभाते सेवेत मण्डलात्सिद्धिभाग्भवेत्

1,15.400

स्याद्वर्षाद्देवसदृशो जीवेद्देवदिनत्रयं ।
अश्वगन्धा वचा व्योषं जयाचूर्णं च तत्समं

1,15.401

लिहेत्त्रिमधुरैर्युक्तं त्रिवर्षाद्देवतासमः ।
गञ्जाचूर्णं चाष्टभागं चतुर्भागा च मुण्डिका

1,15.402

ब्राह्मीरजो द्विभागं स्याद्वाजिगन्धैकभागिका ।
द्विभागस्त्र्यूषणस्यापि वराभागद्वयं तथा

1,15.403

भागमेकं शिलायाश्च भागैकं गन्धकस्य च ।
रसराडेकभागः स्यात्तदर्धं स्वर्णभस्म च

1,15.404

तत्समं मौक्तिकं योज्यं मुक्तातुल्यं प्रवालकं ।
मध्वाज्याभ्यां विलुलितं स्निग्धभाण्डे विनिक्षिपेत्

1,15.405

सप्तरात्रं धान्यपाकं कृत्वा लक्षत्रयं जपं ।
निष्कमात्रवटी सेव्या क्षीराहारो जितेन्द्रियः

1,15.406

मण्डलात्सर्वरोगघ्नं त्वब्दात्पुष्पवदग्निभाक् ।
अर्धवर्षाद्भैरवः स्याज्जीवेदाचन्द्रतारकं

1,15.407

त्रिसुगन्धिवराव्योषैः समांशा शिवमूलिका ।
मध्वाज्याभ्यां युता लेह्या कासघ्नी वह्निवर्धनी

1,15.408

मधुरप्रायभोजी चेत्सकासश्वासरोगजित् ।
हरिद्रया च सहिता सर्वमेहविनाशिनी

1,15.409

मण्डूकपर्ण्या सहिता वचया वाङ्मतिप्रदा ।
द्राक्षा सिता वल्लकी च खर्जूरी दुग्धपिण्डिका

1,15.410

सहिता कन्दलीनीरसैः सर्वस्वादुरिति स्मृतः ।
नारिकेलोदकैर्युक्ता कर्पूरसुरभीकृता

1,15.411

सर्वस्वादुयुता सिद्धा पित्तघ्नी वीर्यवर्धनी ।
स्वादोश्चतुर्गुणं क्षीरं मधुपाकं यथा भवेत्

1,15.412

तद्वस्त्रगालितं कृत्वा कर्पूरं तत्र निक्षिपेत् ।
एलां च सर्वमधुरं जयां च पिबतस्ततः

1,15.413

शतस्त्रीगमने शक्तिः पित्तहृत्पुष्टिवर्धनं ।
समाम्बुपयसि क्षिप्त्वा जयाबीजं सवस्त्रकं

1,15.414

अवशिष्टं चतुर्थांशं पचेन्मृद्वग्निना प्रिये ।
तद्दधीकृत्य विधिवन्मन्थयेत्तत उद्धरेत्

1,15.415

नवनीतं क्षिपेत्तत्र कर्पूरैला सिता मधु ।
पुष्ट्यायुष्यद्युतिकरं बलारोग्यविवर्धनं

1,15.416

शतधा स्तन्यधौतं तच्छतधौतमितीरितं ।
नागकेसरकच्छूरलवङ्गैलागरुं तथा

1,15.417

कर्पूरचन्दनमृगनाभितक्कोलकुङ्कुमं ।
एतत्समं जयाबीजं गोक्षीरेण च मर्दयेत्

1,15.418

निष्कनिष्कप्रमाणेन विदध्याद्वटिकाः सुधीः ।
सुपुष्पवासिताः कृत्वा सताम्बूलं मुखे क्षिपेत्

1,15.419

प्रसेकमुखवैरस्यमलपूतिहरी शुचिः ।
सौगन्ध्यवैशद्यकरी चित्तहर्षप्रदायिनी

1,15.420

गोक्षीरे चार्धसलिले धातकीकुसुमं क्षिपेत् ।
जातीफलं नागरं च तत्सर्वसदृशां जयां

1,15.421

क्षीरावशिष्टं वस्त्रेण गालयेत्त्रिमधुप्लुतं ।
सिद्धयोग इति ख्यातो वृष्यायुष्यबलप्रदः

1,15.422

अजमोदयुता वापि निशारजोयुताथवा ।
तन्मात्रसेविता चूर्णा पामाकिट्टिभनाशिनी

1,15.423

जया तालयुता हन्यात्प्रदरं श्वयथुं तथा ।
कण्डूप्रशमनी ज्ञेया विजया शिलया युता

1,15.424

तैलेन भावयेत्स्थाल्यां जयां पश्चाच्च फाणिते ।
सान्द्रपाकं भवेद्धीमान्सघृतं भक्षयेत्सदा

1,15.425

साक्षात्पर्यायमदनोऽनेकयोषित्सुखप्रदः ।
पथ्या भल्लातकगुडं तिलाश्चैते समांशिनः

1,15.426

तत्समा विजया हन्ति गुदकीलांश्च षड्विधान् ।
यवानी जीरकयुगमजमोदा समांशिनः

1,15.427

एतत्समा च विजया सर्पिषा सेव्यतां बुधैः ।
सन्धिवातं भ्रमं छर्दिमुन्मादं मस्तकव्यथां

1,15.428

शर्करां मधु विश्वं च मागधीं तत्समां जयां ।
कृत्वाज्यगलितां गोलीं इमां पञ्चागदं विदुः

1,15.429

हृद्रोगप्लीहजठरभगन्दरनिकृन्तनीं ।
सचित्रका वह्निकरी सवरा शूलभञ्जिनी

1,15.430

सव्योषा वातसंहर्त्री पित्तघ्नी शर्करायुता ।
श्वेताद्रिकर्णिकाबीजं विजयां खरमूत्रतः

1,15.431

नस्येनापस्मृतिहरा भूतप्रेतादिभञ्जनी ।
जयाचूर्णं समध्वाज्यं भजेदामलकोपमं

1,15.432

वाक्पाटवं वीर्यवृद्धिं कुरुते विजया परं ।
मधुनाज्येन वा धात्र्या मुस्तया स्वरसेन वा

1,15.433

उपयुक्ता जया रात्रौ दृक्प्रसादकरी नृणां ।
यौवनस्थैर्यमातन्यादायुष्यं परमं भवेत्

1,15.434

गुडोऽभया च विजया दुर्नामकुलभञ्जनी ।
जयाकाष्ठेन दन्तानां शोधनं दन्तदार्ढ्यकृत्

1,15.435

तैलाक्तविजयाकाष्ठाद्रसज्ञाशोधनं यदि ।
जिह्वापूतिमलान्हन्याद्यथार्था स्याद्रसज्ञता

1,15.436

नालिकेरभवक्षीरे पचेन्मृद्वग्निना जयां ।
त्रिमध्वक्तां पिबेद्रात्रौ ततो रामाशतं भजेत्

1,15.437

शुण्ठी हरीतकी तुल्ये तत्समा च जया तथा ।
सर्वतुल्या सिता योज्या योगस्त्रैलोक्यमोहनं

1,15.438

त्र्यूषणं मधुकं चव्यं चातुर्जातं फलं वरा ।
गोस्तनी पिप्पलीमूलं समांशं परिकल्पयेत्

1,15.439

प्रियालमज्जा तैस्तुल्या चैतत्सर्वसमा जया ।
त्रिगुणेन गुडे पक्वे तेषां चूर्णं क्षिपेच्छिवे

1,15.440

आलोड्य मोदकान्कुर्यात्कामी कन्दर्पमोदकान् ।
सर्वरोगोपशमनांस्त्रिदोषघ्नान्बलप्रदान्

1,15.441

वृष्यान्पुष्टिकरान्धीमांस्त्रिसंध्यमनुवासरं ।
भक्षयेच्छुद्धकोष्ठे तु त्रिवर्षात्सिद्धिरीदृशी

1,15.442

सदैवमुपयुञ्जानो जरामरणवर्जितः ।
मरीचं पिप्पली शुण्ठी त्वगेलां पत्रकं समं

1,15.443

एतैश्च विजया तुल्या समगोधूमपिष्टकैः ।
द्विगुणेन गुडेनैव मोदकान्परिकल्पयेत्

1,15.444

कर्षमात्रान्प्रतिदिनं भक्षयेन्नियतेन्द्रियः ।
बलपुष्टियुतो वर्षाद्वलीपलितवर्जितः

1,15.445

चणकैर्माषकैर्मुद्गैराढकैर्वा तिलैस्तथा ।
निष्पावैर्वितुषैराज्यभर्जितैर्गुडसंयुतैः

1,15.446

सत्रिजातैश्च सव्योषैः सजीरैः समभागतः ।
संयोज्य विजयां कुर्यान्मोदकान्कर्षमात्रकान्

1,15.447

एकैकं प्रत्यहं खादेत्सायं प्रातर्विशुद्धधीः ।
सर्वरोगहरान्वृष्यान्बुद्धीन्द्रियबलप्रदान्

1,15.448

तक्कोलं चन्दनं सेव्यं कर्पूरं नागकेसरं ।
एलालवङ्गमधुकं पिप्पली मरिचं तथा

1,15.449

सर्वैः समांशा विजया सिता सर्वसमा शुभा ।
पञ्चबाणाभिधानोऽयं चूर्णं सर्वरुजापहं

1,15.450

द्वादशाब्दोपयोगेन वलीपलितहा भवेत् ।
वरा त्रिजातकश्चन्द्रखण्डबीजं कटुत्रयं

1,15.451

एतैः समा सिद्धमूली सर्वतुल्या च शर्करा ।
मधुना लोलिता लीढा दीपनी देहसिद्धिदा

1,15.452

शतावर्युत्तमाव्योषमुसलीद्विगुणान्वितः ।
जया समा समसिता वृष्यायुष्यबलप्रदा

1,15.453

आयुर्घृतयुता धत्ते प्रातः शुण्ठीसितायुता ।
क्षीरसिद्धा जया वृष्या बल्या च निशि सेविता

1,15.454

मधुना सेविता भुक्तेः पूर्वं सा वाजिगन्धया ।
बलपुष्टिकरा सिद्धा रसायनमिदं परं

1,15.455

निस्त्वङ्मर्कटिकाबीजं माषचूर्णं समा जया ।
क्षीरे च माहिषे पक्त्वा रात्रौ सेव्यातिवृष्यकृत्

1,15.456

विधिवच्छाल्मलीपिच्छवरीभृङ्गामृतारसैः ।
कान्तपात्रे प्रतिरसैः सप्तधा सप्तधातपे

1,15.457

कुर्वीत भावनां पश्चाच्चूर्णयेत्तत्समां जयां ।
मधुना च लिहेत्कर्षं जरामरणनाशिनी

1,15.458

पञ्चाङ्गं शाल्मलेर्ग्राह्यं तत्समं विजयारजः ।
मध्वाज्याभ्यां लिहेत्कर्षं वलीपलितखण्डनं

1,15.459

अथ पुष्यरवौ हस्तिकन्दं ग्राह्यं समूलकं ।
अनातपे च संशोष्य चूर्णयेत्तत्समां जयां

1,15.460

मधुनालोडयेत्पश्चात्स्निग्धभाण्डे विनिक्षिपेत् ।
एकविंशद्दिनं धान्यराशौ स्थाप्यं तत उद्धरेत्

1,15.461

प्रत्यहं पलमेकं तु भक्षयेन्मण्डलद्वयं ।
कट्वम्लौ वर्जयेत्तावन्मृदु यूषान्नभोजनं

1,15.462

मधुरं लघु पित्तघ्नं पललं जाङ्गलं हितं ।
बालार्काभश्च मतिमान्पिकालापो बलान्वितः

1,15.463

शतयोजनपर्यन्तं दिनेनैकेन गच्छति ।
मुण्डीचूर्णं जयाचूर्णं समं मधुघृतान्वितं

1,15.464

कर्षं प्रातः प्रतिदिनं लिहेदायुष्यपुष्टिकृत् ।
द्वादशाब्दं तु सेवेत भुञ्जीत घृतसंयुतं

1,15.465

गोक्षीरं षष्टिकान्नं च लोणाम्लक्षारहीनकं ।
भवेद्वलिजराहीनो दृश्यः स्याल्लघुदेहवान्

1,15.466

पत्रं पुष्पं फलं श्वेतब्रह्मवृक्षस्य चाहरेत् ।
छायायां शोषयेच्चूर्णं तत्समं विजयारजः

1,15.467

मध्वाज्याभ्यां लिहेत्कर्षमब्दाद्यौवनमाप्नुयात् ।
जयाबीजानि च तिलान्भर्जयेत्सगुडान्प्रिये

1,15.468

विधाय लड्डुकान्प्रातर्भक्षयेद्गोघृताप्लुतान् ।
मनःसंमोहनकरान्कान्तासङ्गमसाधकान्

1,15.469

पाकार्हव्यञ्जनैः सार्धं जयापत्राणि पाचयेत् ।
भर्जयेद्गोघृतेनैव गुडैलातीक्ष्णजीरकैः

1,15.470

संस्कृतः सुखसेव्योऽयं नाम्ना व्यञ्जनयोगराट् ।
तण्डुलान्विजयाबीजं मुद्गं च विगतत्वचः

1,15.471

सुरन्ध्रनालिकेरान्तः क्षिपेद्रन्ध्रं निरोधयेत् ।
बहिर्गोमयमृल्लिप्तं शोषयेन्मृदुवह्निना

1,15.472

पाचयेन्नालिकेरस्थं समज्जं तत्समाहरेत् ।
मधुत्रयेण सहितं भुञ्जीत च यथाबलं

1,15.473

महावृष्यकरो योगः षण्ढानां अपि पुंस्त्वदः ।
गोक्षीरे विजयाबीजं वस्त्रबद्धं विनिक्षिपेत्

1,15.474

अर्धावशिष्टे तत्क्षीरे व्यजनानिलशीतले ।
वाराहीमर्कटीबीजकर्पूरैलालवङ्गकं

1,15.475

त्रिमधु त्रिसुगन्धं च निक्षिपेच्च समांशतः ।
एकीकृत्य पिबेद्रात्रौ महावृष्यकरः परः

1,15.476

वाराहीयोग एषोऽयं षण्ढत्वादिनिकृन्तनः ।
क्षीरशृतं च तद्बीजं पेषयेच्छिलया तनु

1,15.477

रसेनोत्तमकन्यायाः कांस्यपात्रे प्रलेपयेत् ।
तीव्रातपे धारयेत्तं तस्मात्स्नेहं समाहरेत्

1,15.478

स्नेहान्तरयुजा तेन नस्यकर्म समाचरेत् ।
जत्रूर्ध्वगतरोगांश्च कासश्वासादिकान्हरेत्

1,15.479

यस्य यस्य च रोगस्य विहितं यद्यदौषधं ।
तेन तेन युता सिद्धा तत्तद्रोगहरा भवेत्

1,15.480

गुणा मया च कथ्यन्ते तान्शृणुष्व महेश्वरि ।
जिह्वार्द्रता मनःसौख्यं तृप्तिः संकल्पसिद्धता

1,15.481

वाक्पटुत्वं मुखोल्लासो भवेद्व्यायामपेशलः ।
स्नानध्यानार्चनपरो मधुरास्वादलोलुपः

1,15.482

मृष्टान्नाशी शीतवारि पिबन्नालापतत्परः ।
यथेष्टालोकनपरः कामिनीसङ्गलोलुपः

1,15.483

सर्वभूतदयाविष्टस्तत्त्वज्ञानविलीनधीः ।
कविताख्यानविज्ञानोपन्यासैकपरायणः

1,15.484

वादेषु विजयं कुर्यात्सङ्ग्रामे मल्लसङ्गरे ।
अन्येऽपि बहवः सन्ति गुणास्त्वन्यत्र दुर्लभाः

1,15.485

<विजयाव्यापत्सिद्धी>
एतस्याः सिद्धिमूल्याश्च भक्षणे त्वधिके सति ।
जायन्ते हि विकाराश्च शृणु तान्परमेश्वरि

1,15.486

आरक्तलोचनः शुष्कजिह्वौष्ठपुटतालुकः ।
प्रथमे शुष्कनासाग्र उष्णकृच्छ्वासपार्श्वयोः

1,15.487

द्वितीयेऽक्षिनिमीलत्वं पटलीकृतविग्रहः ।
तृतीये पादहस्ताक्षिदाहकृद्गद्गदध्वनिः

1,15.488

चतुर्थे क्षुत्पिपासार्तो निद्राघूर्णितलोचनः ।
पञ्चमे गद्गदा वाणी स्वप्रोक्तं विस्मरेत्क्षणात्

1,15.489

षष्ठे विकारे संजाते चित्तापस्मृतिकारणं ।
सप्तमे करसादश्च देहे च रुचिरायते

1,15.490

महोर्मय इवोल्लासा जायन्ते च पुनः पुनः ।
अष्टमे दिग्भ्रमः शान्तिर्भ्रूभङ्गश्चातिरोदनं

1,15.491

नवमे श्रोत्रहुङ्कारो मूर्च्छापस्मृतिकातरः ।
उद्गारः कूजनं भूमौ लुठनं दैन्यभाषणं

1,15.492

अन्यथा भाषणं गुह्यं ब्रवन्सौख्यं न वेत्ति च ।
दुःखं च मृदुकल्पोऽयं स्विन्नाङ्गश्च भवेत्प्रिये

1,15.493

अन्ये विकारा बहवः सन्ति तेषां चिकित्सनं ।
विरेकोऽम्लरसः शीर्षस्नानं शीताम्बुना ततः

1,15.494

चन्दनोशीरकर्पूरहिमाम्बुपरिलेपनं ।
सुगन्धिशीतलीभूतमालालंकृतविग्रहः

1,15.495

मल्लिकाजातिचाम्पेयकमलोत्पलधारिणा ।
मृणालवलयोद्भासिशय्या च कदलीदलं

1,15.496

कर्पूरैलालवङ्गाश्च तक्कोलं कटुकीफलं ।
चर्वयेत्सह ताम्बूलं तालवृन्तेन वीजनं

1,15.497

सूक्ष्मकाषायवस्त्राणि सुगन्धीनि च धारयेत् ।
कङ्कणे चन्द्रं आपश्यञ्ज्योत्स्नायां द्विमुहूर्तकं

1,15.498

पीनोत्तुङ्गकुचद्वन्द्वगाढालिङ्गनतत्परः ।
शयीत शर्कराक्षीरघृतमांसरसादिकं

1,15.499

पानकं मुद्गयूषं वा पेयं वा शार्करं मधु ।
केवलं शयनं कुर्याद्यद्यच्छीतं भजेच्च तत्

1,15.500

<२९. कञ्चुकीकल्पः>
अथ वक्ष्यामि देवेशि कञ्चुकीकल्पमुत्तमं ।
सप्ताष्टच्छदसंयुक्ता मूलकोपमकन्दुका

1,15.501

क्षीरान्विता मेषशब्दाज्जायन्ते पल्लवान्यपि ।
सा ज्ञेया पीतरक्ताभकाण्डा श्वेततनुः प्रिये

1,15.502

आषाढे कार्त्तिके मासे चैत्यदेशे प्ररोहति ।
पिष्टां पलाष्टके क्षीरे त्वङ्गुष्ठद्वयमात्रकं

1,15.503

कुटीप्रवेशं कृत्वादौ पीत्वा पश्चात्पयः पिबेत् ।
जीर्णे क्षीरं पुनः पेयं पेयां वा स्नेहवर्जितां

1,15.504

स्तोकोष्णलवणाम्लां तां न स्पृशेच्छीतलं जलं ।
एवं सप्तदिनं सेव्यं खिलकुष्ठं विनाशयेत्

1,15.505

तृतीये सप्तरात्रेण नश्यन्ति निखिला गदाः ।
तृतीये सप्तरात्रेण भुजङ्गः कञ्चुकं तथा

1,15.506

त्वक्केशनखदन्तांश्च स त्यजेत्स्वयमेवं हि ।
जीवेत्पञ्चशतं वर्षं रूपमेधाबलान्वितः

1,15.507

चूर्णितं कञ्चुकीकन्दं तत्क्षीरेण विभावितं ।
कर्षं गोक्षीरकुडुबैः पिष्ट्वा खण्डं पलं क्षिपेत्

1,15.508

नखकेशास्थिदन्तस्थान्रोगान्पानेन नाशयेत् ।
कञ्चुक्यास्तु पलं चूर्णं प्रस्थगोक्षीरवापितं

1,15.509

चूर्णशेषं पचेत्तावद्गोघृतेन च भर्जयेत् ।
सितया मधुना लिह्यात्क्षीरान्नो मण्डलावधि

1,15.510

महागजबलोपेतो द्विरष्टवयसोज्ज्वलः ।
जीवेत्पञ्चशतं वर्षान्कामिनीकेलिमन्मथः

1,15.511

<३०. कुक्कुटीकल्पः>
अथ वक्ष्यामि ते देवि कुक्कुटीकल्पमुत्तमं ।
सुरासुरैर्मथ्यमानादब्धेरमृतबिन्दवः

1,15.512

पतितास्तेभ्य उत्पन्ना कुक्कुटी निर्जरत्वदा ।
पत्त्रैर्मरकतच्छायैः खर्जूरीदलसन्निभैः

1,15.513

कन्दैश्च कुक्कुटास्याभैरीषत्कटुकपिच्छिलैः ।
लक्षिता कुक्कुटी ज्ञेया महारोगहरा परा

1,15.514

विशेषाद्वातरोगांश्च गुदकीलविषाणि च ।
घृतेन भर्जयेत्कन्दं शुद्धकोष्ठः कुटीं व्रजेत्

1,15.515

गुञ्जामात्रं प्रगे सेव्यं धारोष्णं गोपयः पिबेत् ।
जीर्णे क्षीरान्नमश्नीयाज्जलान्नं वा विचक्षणः

1,15.516

यथाबलं प्रतिदिनं वर्धयेन्मण्डलावधि ।
जत्रूर्ध्वरोगान्पाण्ड्वादीन्क्षयकुष्ठादिकान्हरेत्

1,15.517

स्थिरकेशद्विजनखो वलीपलितवर्जितः ।
जीवेद्द्विशतवर्षं च मेधाधैर्यबलान्वितः

1,15.518

शुक्लप्रतिपदारभ्य चैकैकं घृतवर्जितं ।
कन्दं प्राश्नीय पर्वान्तं वर्धयेत्तद्यथाबलं

1,15.519

तथैवासितपक्षादि नूनं कुर्याद्दिनाद्दिनं ।
भुक्तेः प्रागुपयुञ्जीत पश्चात्क्षीराशनो भवेत्

1,15.520

दर्शान्तमेवं सेवेत प्रतिमासं पुनः पुनः ।
त्रिवर्षात्सिद्धिमाप्नोति जीवेद्वर्षायुतत्रयं

1,15.521

कुक्कुटीकन्दचूर्णं च गोक्षीरेण यथाबलं ।
जीर्णे पिबेद्यवागूंश्च मासात्सिद्धिः प्रजायते

1,15.522

नानाविधगदान्हन्ति जीवेद्वर्षशतद्वयं ।
<३१. सोमलताकल्पः>
अथ सोमलताकल्पं दिव्यं वक्ष्यामि शङ्करि

1,15.523

सोमः स्वयं मनुष्याणां हितायावनिमण्डलं ।
प्रतिपेदे च तन्नाम्ना ख्याता सोमलता भुवि

1,15.524

चतुर्विंशतिधा प्रोक्ता स्थाननामादिभेदतः ।
पूर्वप्रतिपदारभ्य पूर्णान्तं प्रतिवासरं

1,15.525

एकैकं जायते पर्णं तथैवापरपक्षके ।
पतति क्रमशः पर्णं दर्शे सैकावशिष्यते

1,15.526

पूर्णमास्यां पञ्चदशछदोपेता सदा भवेत् ।
नानाविधदलोपेताश्छदपञ्चदशात्मिकाः

1,15.527

क्षीरयुक्तलताकन्दाः सर्वाः सोमलताः स्मृताः ।
तुषाराद्रावर्बुदे च सह्ये देवगिरौ तथा

1,15.528

श्रीपर्वते च मलये महेन्द्रे पारियात्रके ।
विन्ध्ये देवसहेऽद्रौ च देवसूतहृदे तथा

1,15.529

वितस्तोत्तरतीरेऽस्ति प्रभासाख्यो महीधरः ।
सिन्धुह्रदोऽस्ति पाञ्चाले चन्द्रमाः प्लवतेऽत्र च

1,15.530

तत्प्रदेशे च वाप्यस्ति त्वंशुमानथ मुञ्जवान् ।
दिव्यं सरोऽस्ति काश्मीरे ख्यातं क्षुद्रकमानसं

1,15.531

औष्णिक्त्रैष्टुभगायत्रो जागतस्त्र्यैष्टुभस्तथा ।
अन्याश्च पञ्च सन्त्यत्र मृगाङ्काभासवल्लिकाः

1,15.532

भाग्यहीना न पश्यन्ति देवाग्निद्विजनिन्दकाः ।
सर्वसोमलतानां च विधिरेक उपासने

1,15.533

चन्द्रमाः स्वर्णसच्छायो विशदो रजतप्रभः ।
तौ रंभाकृतिकन्दौ तु चन्द्रमास्तु जलेचरः

1,15.534

लशुनच्छदनः पुण्यो मुञ्जवान्गरुडाहृतः ।
श्येनच्छदनिभः पाण्डुः सर्पनिर्मोकवत्सदा

1,15.535

लम्बते पादपाग्रेषु विशेषं लक्षणं स्मृतं ।
अंशुमांश्चन्द्रमाश्चैव शोनकी कर्णकोपमः

1,15.536

दूर्वासोमौ जाग्रतश्च कन्याभासश्च शाक्वरः ।
करवीरस्तालवृन्तः प्रतानश्च गवीनसः

1,15.537

पथ्यः सोमप्रदश्चैव गरुडाहृतनामकः ।
अयःप्रभोऽग्निष्टोमः स्यादौक्थ्यो रेवतकस्तथा

1,15.538

अंशुमान्सर्वमुख्यः स्यादस्य सेवां प्रचक्षते ।
एतद्रसायनज्ञैश्च प्रीतैर्मन्त्रविदुत्तमैः

1,15.539

भिषग्वरैः सुहृद्भिश्च संयुक्तः शुद्धकोष्ठवान् ।
कुटीं प्रविश्य निवृतां पुण्यर्क्षे शुभवासरे

1,15.540

पूर्वेद्युर्देवि विप्राग्निसिद्धसामायिकान्गुरून् ।
योगिनीश्च कुमारीश्च बालकान्सिद्धसन्ततिं

1,15.541

गन्धपुष्पाक्षताद्यैश्च धूपैर्दीपैश्च पूजयेत् ।
भोजनैर्दक्षिणाभिश्च तोषयेच्च विधानतः

1,15.542

क्षीरमंशुमतः कन्दात्स्वर्णसूच्या विभेदितात् ।
हेमपात्रे समादाय तत्क्षीरं कुडुबं पिबेत्

1,15.543

सकृदेव पिबेत्सर्वं पीतशेषं जले क्षिपेत् ।
दिवा सुहृद्भिर्विहरेद्वाग्यतश्च वशी भवेत्

1,15.544

द्रव्यदेहोपदेशज्ञैः कुट्यामास्तिकबुद्धिभिः ।
उपवासी जपरतः सायं सन्ध्यार्चनापरः

1,15.545

प्रसुप्याद्दर्भशयने कृष्णाजिनतिरोहिते ।
पिपासितोऽपि पानीयं शीतलं मात्रया पिबेत्

1,15.546

प्रभाते च समुत्थाय कृतप्रागेतनक्रमः ।
विना सोमं तथासीत जीर्णे क्षीरे सशोणितं

1,15.547

पित्तावसानं सकृमि वमनं भवति प्रिये ।
शृतशीतं च गोक्षीरं सायं पेयं सुसाधकैः

1,15.548

विरेको जायते तस्य तृतीयदिवसे महान् ।
तेन प्रमुच्यते मर्त्यः पूर्वकैर्दुष्टभोजनैः

1,15.549

स्नानं कुर्याद्दिनान्ते स शृतशीतं पिबेत्पयः ।
दर्भशय्यां सुमक्षौमछादितायां शयीत सः

1,15.550

ततश्चतुर्थे दिवसे श्वयथुस्तस्य जायते ।
अङ्गेभ्यः क्रिमयो बह्व्यः सूक्ष्मा निर्यान्ति तद्दिने

1,15.551

गोविड्भस्ममयीं शय्यां शोधितां मृदुलां सुधीः ।
अधिशेत पिपासा चेच्छृतशीतं जलं पिबेत्

1,15.552

सायं गव्यं शृतं क्षीरं पीत्वा शिष्यसुहृद्वृतः ।
यथासुखं प्रसुप्याच्च निशि पञ्चमषष्ठयोः

1,15.553

अह्नो विधिरयं कार्यो द्विकालं पाययेत्पयः ।
सप्तमे दिवसे देहस्त्वगस्थिस्नायुशेषितः

1,15.554

मांसरक्तविहीनः स्यात्सोमपः प्राणशेषितः ।
सुखोष्णैः सिञ्चयेत्क्षीरैर्गव्यैरेतस्य विग्रहं

1,15.555

श्रीखण्डतिलयष्ट्याह्वैः पिष्टैस्तं परिलेपयेत् ।
क्षीराशी कटशायी च क्षौममय्यां शयीत सः

1,15.556

अष्टमेऽह्नि नखं श्मश्रु त्वक्केशा रदना अपि ।
पतन्ति सद्योजातस्य देहवज्जायते वपुः

1,15.557

क्षीराशी स्यात्तु नवमेऽणुतैलाभ्यङ्गमाचरेत् ।
स्नायात्सोमलताकल्पं क्वथितेन जलेन च

1,15.558

ततस्तु नवमे त्वक्च स्थिरतां प्रतियाति च ।
तथैवैकादशदिनं प्रारभ्य षोडशं दिनं

1,15.559

अभ्यङ्गं नाचरेत्स्नानं सोमवल्ककषायजं ।
दिनात्सप्तदशादूर्ध्वं चतुर्विंशतिकावधि

1,15.560

स्थिरत्वं त्वगवाप्नोति दन्ता वज्रनिभोज्ज्वलाः ।
स्थिरा दृढतराः स्निग्धा जायन्ते समपङ्क्तयः

1,15.561

पञ्चविंशत्तमे घस्रे षष्ट्यन्नं गोपयोऽन्वितं ।
भुञ्जीत नखरास्तस्य शुकचञ्चुनिभोज्ज्वलाः

1,15.562

त्वगस्य जायते स्निग्धा नीलोत्पलसमद्युतिः ।
सुलक्षणातसीपुष्पवैडूर्याम्बुदसन्निभा

1,15.563

मासादनन्तरं कुर्यात्तिलोशीरकचन्दनैः ।
पिष्टैः प्रलेपनं पश्चात्पयसा स्नपनक्रिया

1,15.564

रोहन्ति चिकुरास्तस्य भ्रमराञ्जनसन्निभाः ।
माससप्तदिनादूर्ध्वं द्वितीयावरणस्थितिः

1,15.565

पुनस्तृतीयावरणे तिष्ठेत्सिद्धो मुहूर्तकं ।
कुटीं विशेद्यथापूर्वं बलातैलाज्यलेपनं

1,15.566

कुर्याद्दिनत्रयं पश्चाच्चत्वारिंशद्दिनात्परं ।
करीषभस्मनोद्धूल्य देहं कल्कैर्विलेपयेत्

1,15.567

अजशृङ्गीत्वगुद्भूतैः स्नानं कोष्णजलेन च ।
चन्दनोशीरकर्पूरैर्लिप्ताङ्गो मुद्गधात्रिजैः

1,15.568

यूषैः षष्ट्यन्नं अश्नीयात्क्षीरैस्त्रिमधुसंयुतैः ।
घृतेन वा द्वितीये तु वसेदावरणे सुधीः

1,15.569

दिवसं पञ्चकं तत्र किंचिद्वातातपे सुधीः ।
मध्ये मध्ये च सेवेत तथैव दशवासरं

1,15.570

सोढवातातपस्तस्मात्तृतीयावरणं भजेत् ।
एकविंशद्दिनं तिष्ठन्स्थिरीकृतमनाः समुत्

1,15.571

ततो द्वाविंशतिदिने देहसिद्धिः प्रजायते ।
बहिर्निर्गत्य च तदा पूजयेद्भैरवं पुरा

1,15.572

गुर्वग्निद्विजसिद्धानां चेतांसि परिमोदयन् ।
सर्वत्र स्वेच्छया नित्यं विहरेद्दुःखवर्जितः

1,15.573

वर्षायुतं नवं दिव्यं वपुर्धत्ते सुकान्तिमत् ।
बलं गजसहस्राणां भवेदस्य न संशयः

1,15.574

विषाग्नितोयशस्त्रास्त्रमृगादिभ्यो भयं न हि ।
ब्रह्मलोकादिलोकेषु विचरेत्स्वेच्छया सदा

1,15.575

कान्त्या द्वितीयश्चन्द्रः स्याद्रूपेण मकरध्वजः ।
सर्वाह्लादकरः शान्तः सषडङ्गपदक्रमान्

1,15.576

वेदान्वेत्ति च शास्त्राणि भूलोकगतिनिर्जरः ।
ह्रस्वशाखाप्रतानायाः सोमवल्ल्याः समाहरेत्

1,15.577

काण्डान्द्वात्रिंशतिं स्वर्णपात्रे पुण्ये यथाविधि ।
रौप्ये पात्रेऽथवा योज्यं द्विपलं गोपयस्तथा

1,15.578

सोमवल्लीरसं तद्वन्मेलयित्वा पिबेत्ततः ।
कुटीप्रवेशः पथ्यं च पूर्ववत्समुदाहृतं

1,15.579

अणिमाद्यष्टसिद्धिः स्यात्स साक्षादमरो भवेत् ।
<३२. गुडूचीकल्पः>
अथामृतलताकल्पं वक्ष्यामि शृणु भैरवि

1,15.580

साक्षात्सुधामृतलता व्याधिजन्मजरापहा ।
अमृतायाः शतपलं त्रिप्रस्थं मधुरत्रयं

1,15.581

चूर्णं लिहेत्कर्षमात्रमेवं संवत्सरावधि ।
सर्वव्याधिप्रशमनं जीवेच्च शरदः शतं

1,15.582

अथ छिन्नरुहाचूर्णं पञ्चविंशत्पलं सिता ।
द्विगुणा च तवक्षीरी चात्मगुप्ताश्वगन्धिका

1,15.583

पुनर्नवाज्यं प्रत्येकं युञ्ज्याद्दशपलं प्रिये ।
मृद्वीकाष्टपला यष्टी ततः पञ्चपला तथा

1,15.584

एकीकृत्य च तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् ।
पक्षमेकं धान्यराशौ निधाय प्रतिवासरं

1,15.585

पलं पलं प्रयुञ्जीत मासं स्याद्व्याधिवर्जितः ।
षण्मासाद्गृध्रदृष्टिः स्याद्वर्षं जीवेच्छतायुषं

1,15.586

अमृतायाः शतपलं चूर्णं षष्टिपलं मधु ।
चत्वारिंशत्पलं सर्पिर्द्विमासं धान्यराशिगं

1,15.587

प्रत्यहं पलमात्राशी मासात्सर्वगदान्हरेत् ।
दिव्यदृष्टिः शतं जीवेन्मेधाबलमहाद्युतिः

1,15.588

<३३. तुवरककल्पः>
अथ वक्ष्याम्यहं देवि कल्पं तुवरकस्य च ।
वृक्षाः पश्चिमवारीशतटे तिष्ठन्ति संततं

1,15.589

तरङ्गानिलसंक्षुब्धशीकारार्द्रितपल्लवाः ।
वर्षर्तौ च सुपक्वानि तत्फलानि समाहरेत्

1,15.590

शोषयित्वाथ संचूर्ण्य तिलवत्तैलमाहरेत् ।
अथवैरण्डवत्तैलं प्रयत्नेन समाहरेत्

1,15.591

पुनर्वह्नौ पचेत्तैलं यावदंभःक्षयं भवेत् ।
तत्कर्षं निक्षिपेत्पक्षं तत उद्धृत्य प्रयत्नतः

1,15.592

चतुर्भक्तविहीनः सन्शुद्धः कर्षं पिबेत्प्रिये ।
शङ्खचक्रगदापाणिस्त्वामाज्ञापयदच्युतः

1,15.593

मन्त्रेणानेन सेवेत सर्वो दोषो विनश्यति ।
एवं पञ्चदिनं सेव्यमहितानि च वर्जयेत्

1,15.594

मासं मुद्गरसाशी स्यात्सर्वकुष्ठविवर्जितः ।
ततः क्षौद्रघृताभ्यां च लिहेत्षाण्मासिकावधि

1,15.595

वलीपलितहीनश्च जीवेद्वर्षशतद्वयं ।
तत्तैलं दिनपञ्चाशं नस्येद्धीरकवद्द्विजः

1,15.596

वलीपलितनिर्मुक्तः श्रुतधारी दृढाङ्गवान् ।
जीवेद्द्विशतवर्षं च मेधावी गृध्रलोचनः

1,15.597

<३४. सोमराजीकल्पः>
अथ वक्ष्याम्यहं देवि सोमराजीरसायनं ।
संग्रहेत्तां पुष्यरवावातपे शोषयेत्ततः

1,15.598

चूर्णितां कोष्णसलिलैः पिबेत्प्रातर्विशुद्धये ।
त्रिदिवं च ततः क्षौद्रैः कर्षमात्रं लिहेत्प्रगे

1,15.599

मासेन रोगा नश्यन्ति षण्मासात्सिद्धिमाप्नुयात् ।
<३५. वृद्धदारुककल्पः>
अथ ब्रवीमि देवेशि वृद्धदारुककल्पकं

1,15.600

नागवल्लीदलक्षौद्रैः सदुग्धैर्मृदुरोमकैः ।
पत्रैर्युतापि सफला रक्तपुष्पा प्रतानिका

1,15.601

तिक्तोषणं काम्बुतेति महिषाख्यलता स्मृता ।
तुलोन्मितं च तन्मूलं चूर्णितं सर्षपायुतं

1,15.602

धान्यराशौ न्यसेत्पक्षं उद्धृत्योन्मितकर्षकं ।
अनुपेयं च गोक्षीरं जीर्णे क्षीरान्नभोजनं

1,15.603

वृद्धोऽपि तरुणो भूयाद्वर्षात्सर्वगदोज्झितः ।
एवं द्वादशवर्षाणि सेवेतालस्यवर्जितः

1,15.604

जीवेत्षट्शतवर्षं च वलीपलितवर्जितः ।
वृद्धदारुकचूर्णं च शुद्धं शतपलोन्मितं

1,15.605

वाजिगन्धाकन्दचूर्णं शतत्रयपलं घृतैः ।
आलोड्य भक्षयेत्कर्षं स जीवेच्छरदां शतं

1,15.606

तुरंगमसमो वेगे बले दन्ताबलोपमः ।
कान्त्या हिमांशुसदृशस्तेजसा भास्करोपमः

1,15.607

शतावर्याश्वगन्धा च गोक्षुरो वृद्धदारुकः ।
समांशमखिलं सर्पिर्युक्तं कर्षं च खादयेत्

1,15.608

सप्ताहात्किन्नरध्वानो वत्सरात्सिद्धिभाग्भवेत् ।
वृद्धदारुकमूलं च वरीस्वरसपेषितं

1,15.609

कर्षं पिबेद्वत्सरं यत्स जीवेच्छरदः शतं ।
वृद्धदारुकचूर्णं च धात्रीस्वरसभावितं

1,15.610

एकविंशतिधा प्रातर्मध्वाज्याभ्यां तु कर्षकं ।
लिहेदब्दं स जीवेच्च वर्षाणि च शतद्वयं

1,15.611

योवसापस्तधा जीवेन्नीरुजः स महान्भवेत् ।
गोदुग्धेन च तन्मूलं रसं धात्र्याश्च संमितं

1,15.612

पिबेत्संवत्सरं यस्तु स जीवेच्छरदः शतं ।
तत्सिद्धं सर्पिरश्नीयात्पूर्ववत्फलं आप्नुयात्

1,15.613

पुनर्नवा वरी शुण्ठी मागधी रजनीद्वयं ।
एतत्सर्वं समं वृद्धदारुकं काञ्जिकान्वितं

1,15.614

पलं प्रातः पिबेद्धीमान्दच्छदाद्धारमाचरेत् ।
मासात्सर्वामयान्हन्ति वर्षादायुः शतं भवेत्

1,15.615

द्वीपी शौण्डी वरा विश्वं मुस्तमेला समांशकं ।
एतत्संयोज्य सिद्धं तच्चूर्णं वेल्लरिकं भवेत्

1,15.616

क्षौद्राज्यलुलितं खादेत्कर्षं वर्षेण सिध्यति ।
तत्फलं स्वरसं कर्षं घृतं क्षौद्रं च तत्समं

1,15.617

पिबेदनु गवां क्षीरं माहिषं वा पलोन्मितं ।
मासेन सर्वरोगघ्नं वर्षाज्जीवेच्छतायुषं

1,15.618

चूर्णं वेल्लरिकामूलं फलं पिप्पलिकाभवं ।
समवेल्लरिकामूलफलजैश्च रसैस्तथा

1,15.619

गुडूचीस्वरसेनापि भावयेदेकविंशतिं ।
शुष्कं घृतप्लुतं भाण्डे स्निग्धे धान्यचये स्थितः

1,15.620

त्रिसप्ताहात्तदुद्धृत्य कर्षं प्रातर्लिहेन्नरः ।
वर्षाद्वर्षसहस्रायुः सर्वरोगविवर्जितः

1,15.621

<३६. वज्रवल्लीकल्पः>
अथ व्याख्याम्यहं देवि वज्रवल्लीरसायनं ।
वज्रवल्लीं समूलां च छायाशुष्कां विचूर्णयेत्

1,15.622

वरा व्रणारिमूलं च प्रत्येकं भास्करं पलं ।
रोगानशेषान्षण्मासाद्धन्यात्संवत्सराद्भवेत्

1,15.623

देहसिद्धिश्च षण्मासाच्चूर्णमन्यत्प्रकल्पयेत् ।
<३७. तिलक्षीरिणिकाकल्पः>
तिलक्षीरिणिकाकल्पं कथयिष्यामि शाम्भवि

1,15.624

तिलक्षीरिणिकामूलं मौनेनोत्पाट्य साधकः ।
कोष्णेन वारिणा पिष्ट्वा प्राङ्मुखोदङ्मुखः पिबेत्

1,15.625

गिलेद्वा गुलिकां कृत्वा क्षीराज्यानाशयेच्छुचिः ।
क्रमेणार्धद्वित्रिनिष्कं सेवेताब्दं स सिद्धिभाक्

1,15.626

दशाहाच्छुक्रवृद्धिः स्यात्त्रिमासात्सर्वरोगजित् ।
षण्मासात्सिद्धिमाप्नोति नात्र कार्या विचारणा

1,15.627

<३८. ब्राह्मीकल्पः>
अथ वक्ष्यामि देवेशि ब्राह्मीकल्पमनुत्तमं ।
समूलामुद्धरेद्ब्राह्मीं प्रक्षाल्य सलिलेन च

1,15.628

उलूखले कुट्टयित्वा पात्रे तत्र समाहरेत् ।
जुहुयाच्छारदामन्त्रैस्तद्रसैश्च सहस्रकं

1,15.629

अर्चयित्वा गुरून्विप्रान्प्राश्नीत हुतशेषकं ।
पलमात्रं तद्रसं च जीर्णे क्षीरान्नभोजनं

1,15.630

एवं सप्तदिनं सेव्यं ब्रह्मचारी जपे रतः ।
मेधावी ब्रह्मवर्चस्वी वाग्विशुद्धः प्रजायते

1,15.631

ऊर्ध्वं सप्तदिनात्सेव्यं प्रबध्नातीच्छया अपि ।
विस्मृतानपि वेत्त्येव श्रुतं शीघ्रं च धारयेत्

1,15.632

द्वितीये सप्तमादूर्ध्वं पूर्ववत्तद्रसं पिबेत् ।
सकृच्छ्रुतं श्लोकशतं सहस्रमपि धारयेत्

1,15.633

एवं त्रिसप्तदिवसं पिबेद्ब्राह्मीरसं शुचिः ।
देहादलक्ष्मीर्निर्याति वाणी विशति शाश्वती

1,15.634

भवेत्पुंरूपवाग्देवी सर्वशास्त्रार्थवेदिनी ।
वेदवेदान्तविद्धीमाञ्जीवेत्पञ्चशताब्दकं

1,16.1

âक्, १, १६
<१. अङ्कोलकल्पः>
अथ ब्रवीम्यहं देवि कल्पमङ्कोलबीजकं ।
चतुर्भिः साधकैर्धीरैर्विशुद्धैः शुद्धिकाङ्क्षिभिः

1,16.2

समवेतः साधकेन्द्रैः पुण्यर्क्षेष्वारभेच्च तत् ।
अङ्कोलमूलं वितृणं कृत्वा संमार्ज्य शोधनं

1,16.3

तत्र लिङ्गं च संस्थाप्य तदग्रे स्थापयेद्घटं ।
एकसूत्रेण बध्नीयाल्लिङ्गाङ्कोलघटान्प्रिये

1,16.4

गन्धपुष्पादिभिः पूजामघोरेण प्रकल्पयेत् ।
प्रतिमासं दिवा नक्तं पुष्पादि फलितावधि

1,16.5

गृहीत्वा तत्फलं पक्वं पूरयेत्तद्घटं फलैः ।
योगिनीभैरवीप्रीत्यै महापूजां विधाय च

1,16.6

आनीय तद्घटं गेहे शोषयेदातपे फलं ।
वितुषाणि च बीजानि कुर्यात्तन्मुखघर्षणं

1,16.7

कुर्यात्ततो विशालास्ये पात्रे मृच्चूर्णलेपनं ।
एकैकशश्चोर्ध्वमुखं रोपयेद्भुजगाकृति

1,16.8

ततस्तु टङ्कणं तद्वत्तत्तद्वक्त्रेषु लेपयेत् ।
तत्पात्रं कांस्यपात्रे च स्थापयेत्तदधोमुखं

1,16.9

आतपे धारयेद्धीमान्पललैश्च तिरोदधेत् ।
दिने दिने च्युतं तैलं गृह्णीयाद्दिनपञ्चकं

1,16.10

तत्तैलं काचकूप्यन्तः स्थापयेच्च समन्त्रकं ।
अर्धमात्राङ्कोलतैलं द्विगुणं तिलतैलकं

1,16.11

नासारन्ध्रद्वये नस्यं जरामृत्युविनाशनं ।
स जीवेत्त्रिशतं वर्षं सर्वामयविवर्जितः

1,16.12

रोगादिजलपाशाद्यैर्भ्रमाद्यैश्च विषेण च ।
गतासूनां नृणां नस्यं कुर्यात्पुंशुक्लमिश्रितं

1,16.13

मृतसूतं च तैलं ते जीवन्ति च न संशयः ।
मृतसंजीवनी विद्या पूर्वोक्ता कथितानघे

1,16.14

<अन्ये रसायनकल्पाः>
एलाभया वचा काकतुण्डीफलमरुष्करः ।
सहदेवी निम्बपत्रं लाङ्गलीकन्दमेव च

1,16.15

समांशं शोषयेद्यन्त्रे पाताले तैलमाहरेत् ।
तत्तैलं नस्यमादद्यात्सप्ताहान्तरितं प्रिये

1,16.16

एवं वर्षे कृते नस्ये सहस्रायुर्भवेन्नरः ।
नीलिकामूलसंयुक्तं तैलं चार्धपलं पिबेत्

1,16.17

वत्सराज्जायते सिद्धो वलीपलितवर्जितः ।
जीवेद्ब्रह्मदिनं त्र्यब्दाद्वायुवेगो महाबलः

1,16.18

भृङ्गीरसं कृष्णजीरं प्रस्थं प्रस्थं प्रकल्पयेत् ।
नीलोत्पलं च मधुकं प्रस्थार्धं च पृथग्भवेत्

1,16.19

तिलतैलं पञ्चपलं पाचयेत्सर्वमेकतः ।
तैलावशिष्टं तत्तैलं जरा मृत्युश्च नश्यति

1,16.20

अर्धनिष्कं चैकनिष्कं सार्धनिष्कं क्रमेण च ।
तैलप्रमाणमित्युक्तं अब्दाञ्जीवेच्छतत्रयं

1,16.21

इष्टिकाक्षिपलं क्षिप्त्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति सहस्रायुर्भवेन्नरः

1,16.22

सर्पाक्षी काकमाची च सहदेवी च भृङ्गराट् ।
काकतुण्डीफलं निम्बं पर्णं वाकुचिबीजकं

1,16.23

समूलां देवदालीं च ब्राह्मीमूलं फलत्रयं ।
मूलं च वाजिगन्धाया नीलकोरण्डपत्रकं

1,16.24

समं समं कन्यकाया द्रवैश्च परिभावयेत् ।
सप्ताहं शोषयेच्चूर्णं छायायां त्रिमधुप्लुतं

1,16.25

द्विकर्षं प्रत्यहं सेव्यं वत्सरेण जरां जयेत् ।
आ चन्द्रतारकं जीवेन्महाबलयुतः सुखं

1,16.26

<महाकामेश्वरकल्पः>
चातुर्जातकचोरचन्दनजलद्राक्षातुगारेणुकं कस्तूरीतगरेन्दुकुङ्कुमजटाकुष्ठाश्वगन्धाब्दकं ।
कङ्कोलामरदारुचित्रकविषं द्वे जीरके सैन्धवं भार्ङ्गीगोक्षुरदेवपुष्पमुसलीयष्टीबलाफेनकं

1,16.27

रंभाकन्दफलत्रयं त्रिकटुकं जातीफलं वाशकं तालीशं कटुकीफलं गजकणा माषामृताशर्करा ।
पिच्छाभृङ्गविदारिकामदनकं बीजं च कच्छूद्भवं शाल्मल्यङ्घ्रिपुनर्नवागरुशतावर्यप्यथो दीप्यकं

1,16.28

पादांशं मृतमभ्रकं च विजया तुल्यौषधानां समा सर्वेषां सदृशा सिता च मधुना चाज्येन संयोजिता ।
जातीचम्पककेतकादिकुसुमैः सेवेत संवासितं कर्षार्धं निशि देहसिद्धिदमहाकामेश्वरः कामदः

1,16.29

पुंसां शुक्रविवृद्धिदार्ढ्यकरणे क्षीरानुपानं हितं शाल्मल्यङ्घ्रिजलानुपानं अथवाप्यन्यच्च यच्छुक्रलं ।
प्रौढानां सुदृशां सुखातिसुखदो वश्यो महाद्रावकः सङ्गे भङ्गुरकामकौतुकरसः क्रीडाकलामोददः

1,16.30

संभोगे स्थविराग्नियोषिति मदे यूनां स्मरे दर्पहा नित्यानन्दनिदानं आदिपुरुषैरप्याहितास्वादनः ।
वाचां सिद्धिकरः प्रकृष्टकवितासंदर्भसंपादनः सौख्यारोग्यविशेषयौवनकलासामग्र्यसंधायकः

1,16.31

वृद्धत्वं हरते बलं च कुरुते मृत्युं निरस्येत्परं व्याधिव्रातं अपाकरोति कुरुते कान्तिं नयत्यार्जवं ।
योगाभ्यासविधौ रतस्य सुलभा सिद्धिं विधत्तेतरां अंहः संततिसंहृतिं कलयते स्त्रीणां अपत्यप्रदः

1,16.32

रोगाणां निचयं क्षयं क्षपयति क्षिप्रं महारुद्गणं व्याहन्ति श्वसनं लयं गमयते छिन्ते च कासोदयं ।
दुर्नामानि च षड्भिनत्ति हरते सर्वार्तिरोगोल्बणं मेहौघं च लुनाति शोणितदरं विध्वंसते सेवनात्

1,16.33

क्षीणे पोषमुपादधाति विपुलं पूर्णातिजीर्णोज्ज्वलं मन्दाग्निं ग्रहणीं निकृन्ततितरां दोषानशेषानपि ।
श्रेष्ठः सर्वरसायनेषु विदुषां भोगार्थिनां योगिनां सिद्धिं सम्यगिहातनोति वपुषः संसेवनादन्वहं

1,16.34

<मूलिकाकल्पेषु रसाभ्रकादिमेलनातिदेशः>
महावृक्षादिकल्पेषु प्रोक्तेष्वेतेषु साधकैः ।
एष साधारणो योगः कर्तव्यः सिद्धिकाङ्क्षिभिः

1,16.35

गुञ्जामात्रं शुद्धसूतं वाभ्रकं वा पणद्वयं ।
कान्तलोहं तथैवोपयोजयेद्भक्षयेन्नरः

1,16.36

रसाभ्रलोहयोगेन सद्यः सिद्धिमवाप्नुयात् ।
जीवहीनो यथा देहो गन्धहीनं प्रसूनकं

1,16.37

तथैव मूलिकाकल्पा रसहीना न सिद्धिदाः ।
तस्माद्रसेन सहिताः सद्यः सिद्धिप्रदायकाः

1,16.38

<अभ्यङ्गरसायनम्; महानीलीतैलम्>
महानीलीरसं प्रस्थं प्रस्थं भृङ्गरसं प्रिये ।
धात्रीफलरसं प्रस्थं काकतुण्डीफलोद्भवं

1,16.39

प्रस्थं कषायतिलजं तैलप्रस्थं च गोपयः ।
आढकं योजयेत्सर्वं काकतुण्डीफलं पलं

1,16.40

त्रिपलं चामलं भृङ्गनीलीपत्ररजः पलं ।
पिष्ट्वा तस्मिन्क्षिपेत्सर्वं पचेन्मन्दाग्निना प्रिये

1,16.41

तैलावशिष्टं विपचेत्ततो वस्त्रेण शोधयेत् ।
तैलेनानेन चाभ्यज्य शिरोऽभ्यङ्गं समाचरेत्

1,16.42

प्रत्यहं कर्णपूरं च एवं कुर्याद्रसायनं ।
केशा भ्रमरसङ्काशाः श्रोत्रं दिगन्तपाटवं

1,16.43

जत्रूर्ध्वरोगा नश्यन्ति तथा पादहितं भवेत् ।
<चन्दनाद्यं तैलम्>
चन्दनागरुकर्पूरकस्तूरीकुङ्कुमं तथा

1,16.44

उशीरद्वयकङ्कोलजातीफललवङ्गकं ।
नलिकानलदास्पृक्कातुरुष्कस्थाणुलोचनं

1,16.45

हरेणुस्तगरं लाक्षा नखं स्थौणेयकं मुरा ।
नलदामलकं कुष्ठं चोरकं कटुकीफलं

1,16.46

प्रपौण्डरीकं खर्जूरं पद्मकं जातिपत्त्रिका ।
शैलेयं धातकीपुष्पं सरलं चैलवालुकं

1,16.47

पूगीफलं सप्तपर्णं तथा तामलकं प्रिये ।
एकैकं कर्षमात्रं स्यात्प्रस्थं तैलं च गोपयः

1,16.48

आढकं तत्पचेत्सर्वं तैलशेषं समाहरेत् ।
तस्मिन्मृगाण्डं कस्तूरीं कर्पूरं कुङ्कुमं क्षिपेत्

1,16.49

पृथक्कर्षं च जात्यादिकुसुमैर्वासयेद्बुधः ।
तेनाभ्यङ्गं अधःकाये कुर्याद्दौर्गन्ध्यनाशनं

1,16.50

अशीतिवर्षदेशीयोऽप्यसौ स्यात्षोडशाब्दकः ।
कामिनीलोककन्ददर्पः सुभगः शुक्लवृद्धिमान्

1,16.51

योषिच्छतं च रमते स जीवेच्छरदः शतं ।
<उद्वर्तनरसायनम्>
अथोद्वर्तनमाख्यामि वलीपलितभञ्जनं

1,16.52

सूतं गन्धं समं मर्द्यं स्तनदुग्धेन योषितः ।
मुण्डिका मेघनादश्च विष्णुक्रान्ता मुनिस्तथा

1,16.53

सर्पाक्षी च द्रवैरासां दिनमेकं विमर्दयेत् ।
एतद्दशगुणं क्षारस्तिलस्य च यवस्य च

1,16.54

एतत्सर्वं समध्वाज्यमनेनोद्वर्तनं वपुः ।
वलीपलितनाशः स्याद्वर्षात्त्रिशतवत्सरः

1,16.55

जीवेद्दिव्यवपुर्भूत्वा साधको नात्र संशयः ।
सनालमुत्पलं सूतं सप्ताहं परिमर्दयेत्

1,16.56

आत्मीयशिवतोयेन ततश्चाङ्गं विमर्दयेत् ।
वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः

1,16.57

शिवांभसा च सूतेन्द्रं ब्रह्मदण्डीयमूलकं ।
मर्दयेत्सप्तदिवसं सम्यग्देवि विमर्दयेत्

1,16.58

वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः ।
कटुतैलेन सुरभिं भावयेद्दिनसप्तकं

1,16.59

पलार्धं भक्षयेन्नित्यं वर्षाद्वज्रवपुर्भवेत् ।
त्रिशतायुःस्वर्णवर्णो वलीपलितवर्जितः

1,16.60

समध्वाज्यं कुष्ठचूर्णं कर्षं प्रातर्लिहेन्नरः ।
शतपुष्पसुगन्धाङ्गो जीवेद्वलिविवर्जितः

1,16.61

<केशरञ्जनकल्पाः>
काकतुण्डीफलं कान्तचूर्णमाम्राण्डतैलकं ।
आलोड्य भाण्डे निक्षिप्य मासं धान्यमये क्षिपेत्

1,16.62

उद्धृत्य लेपयेच्छीर्षं नस्यकर्मामुना भवेत् ।
त्र्यहात्केशाः सुनीलाः स्युः षण्मासात्केशरञ्जनं

1,16.63

हरीतकी निष्कमेकं द्विपलं कान्तचूर्णकं ।
पलमेकं नागचूर्णमम्लदध्ना प्रमर्दयेत्

1,16.64

अभ्यक्तो निक्षिपेन्मूर्ध्नि मर्दयेन्नाडिकार्धकं ।
एरण्डपत्रैः संवेष्ट्य पुनर्वस्त्रेण बन्धयेत्

1,16.65

स्नायात्पुनश्च त्रिदिनं पूर्ववत्केशरञ्जनं ।
समूलौ नीलिकाभृङ्गावयश्चूर्णं वरासमं

1,16.66

चूर्णमेडकमूत्रेण दिनमेकं च भावयेत् ।
स्नानादि पूर्ववत्कृत्वा पूर्ववत्केशरञ्जनं

1,16.67

निस्त्वग्गुञ्जाफलं चैला देवदारु च कुष्ठकं ।
समं चूर्णं भृङ्गरसैर्भाव्यं एकदिनं प्रिये

1,16.68

अन्यच्चूर्णं तैलं पचेन्मृद्वग्निना बुधः ।
यस्य तैलघृताभ्यङ्गात्केशा भ्रमरसन्निभाः

1,16.69

हस्तिदन्तस्य दग्धस्य समभागं रसाञ्जनं ।
छागीदुग्धेन संपेष्य लेपनात्केशरञ्जनं

1,16.70

कृष्णमृत्त्रिफलाभृङ्गरसायश्चूर्णकं समं ।
आलोड्यैनं समं भाण्डे मासमेकं निरोधयेत्

1,16.71

तल्लेपाच्चिकुराः कृष्णा भवेयुः पञ्चमासतः ।
धात्रीफलं जपापुष्पं किट्टं पिष्ट्वा च मूर्धनि

1,16.72

लेपयेत्त्रिदिनं तेन केशाः स्युर्भ्रमरोपमाः ।
चूर्णं सिन्दूरसदृशं तयोस्तुल्या च सांब्रणिः

1,16.73

पिष्ट्वांभसा प्रलेपेन तत्क्षणात्केशरञ्जनं ।
गोरोचनं कृष्णतिलान्शतपुष्पां शिवांबुना

1,16.74

काकमाचीमिदं सर्वमयःपात्रे विमर्दयेत् ।
तेनैव दिवसादूर्ध्वं केशरञ्जनमुत्तमं

1,16.75

चूर्णं सिद्धार्थकं सर्जो यवक्षारं च काञ्जिकैः ।
नागपुष्परसैः पेष्यं लेपनं केशरञ्जनं

1,16.76

कदलीकन्दचूर्णं च सिन्दूराङ्गारकौ तथा ।
रसैर्जम्बीरजैर्लोहमुष्ट्यायःपात्रके पिषेत्

1,16.77

दिनैकलेपनात्तेन केशानां रञ्जनं भवेत् ।
कासीसं नीलिकापत्रं दधिभृङ्गरसस्तथा

1,16.78

समांशं लोहचूर्णं च लेपनात्केशरञ्जनं ।
नागदण्डेन पत्राणि कोरण्टस्य च मर्दयेत्

1,16.79

दिनत्रयं च तल्लेपात्केशाः स्युर्भ्रमरोपमाः ।
वरा भृङ्गी चूतबीजं मृणालं च प्रियङ्गुकं

1,16.80

नीली निशा लोहनागौ चूर्णिता निंबतैलकैः ।
कान्तपात्रे लोडयित्वा मासमेकं विभावयेत्

1,16.81

तेन लिप्ताः कचाः कृष्णा रञ्जिता भ्रमरोपमाः ।
तिलाः कृष्णाः काकमाचीबीजानि समभागतः

1,16.82

तत्तैलयन्त्रतो ग्राह्यं तेन स्यात्केशरञ्जनं ।
कर्षं जपारसः क्षौद्रं सप्ताहं नस्यमाचरेत्

1,16.83

तदूर्ध्वं रञ्जयेत्केशान्सर्वनस्योत्तमो ह्ययं ।
भृङ्गराजरसैः पिष्ट्वा त्रिफलां लोहचूर्णकं

1,16.84

तैलं एतत्समं योज्यं तथा भृङ्गरसैः पुनः ।
मृद्वग्निना पचेत्सर्वं तैलशेषं यथा भवेत्

1,16.85

स्निग्धभाण्डे च तत्तैलं मासं भूमौ विनिक्षिपेत् ।
तैलेन लेपयेच्छीर्षं कारवल्लीदलैः पुरा

1,16.86

वेष्टयेत्तत्तु वस्त्रेण निवाते क्षीरभोजनं ।
क्षालयेत्त्रिफलाक्वाथैः कुर्यात्सप्तदिनं प्रिये

1,16.87

कपालरञ्जनं कुर्याद्यावज्जीवं न संशयः ।
श्रियालीकाकतुण्ड्याश्च बीजं निर्गुण्डिकारसैः

1,16.88

जपापुष्परसैर्भाव्यं पृथक्दिनचतुष्टयं ।
पातालयन्त्रे तत्तैलं पातयेत्तेन लेपनं

1,16.89

कुर्यान्मूर्ध्नि च गन्धर्वपत्त्रैश्च परिवेष्टयेत् ।
वस्त्रेण च ततो वातशून्यदेशे वसन्सुधीः

1,16.90

क्षीराशी काञ्जिके स्नानं कुर्यात्सप्तदिनं त्विति ।
केशा भ्रमरसङ्काशा यावज्जीवं न संशयः

1,16.91

जलमण्डनिकाकाकमाचीभृङ्गाः समाः समाः ।
पिष्ट्वा तैलं पचेत्सूपं पुनस्तैलेन लेपयेत्

1,16.92

मूर्धानं लेपयेत्तेन सप्ताहं केशरञ्जनं ।
स्नानभोजनशय्यां च पूर्ववत्परिकल्पयेत्

1,16.93

वराभृङ्गरसैः पिष्ट्वा कान्तपात्रे विलेपयेत् ।
अवाङ्मुखं विनिष्ठाप्य प्रातस्तं भृङ्गराड्रसैः

1,16.94

पुनः पिष्ट्वा लिहेच्छीर्षं क्षालयेत्त्रिफलांबुना ।
एकविंशद्दिनं कुर्यात्पूर्ववत्फलं आप्नुयात्

1,16.95

गरलं कृष्णजीरं च पिष्ट्वा रुद्ध्वा च तन्मुखं ।
गृहाङ्गणे पङ्किले च खनित्वा स्थापयेत्सुधीः

1,16.96

षण्मासात्तद्द्रवीभूतं कृष्णं साधु समुद्धरेत् ।
शिरोमध्ये क्षिपेत्कर्षं पूर्ववद्वेष्टनादिकं

1,16.97

आ जन्म रञ्जयेत्केशांस्तच्च कापालरञ्जनं ।
भृङ्गी नीली वरा कृष्णायसं मदनबीजकं

1,16.98

कोरण्टकुसुमं चूर्णमर्जुनस्य त्वचोद्भवं ।
अम्भोजमूलं जम्ब्वाश्च तत्सर्वं च समांशकं

1,16.99

लोहभाण्डगतं कुर्यात्पक्षं भूमौ विनिक्षिपेत् ।
हरेद्भाण्डगतं कल्कं कल्कात्तैलं चतुर्गुणं

1,16.100

तैलाच्चतुर्गुणं भृङ्गरसस्तस्माच्चतुर्गुणः ।
वराक्वाथः सर्वमिदं मन्दवह्नौ विपाचयेत्

1,16.101

तैलावशिष्टं विपचेत्तत्पिष्ट्वायसपात्रके ।
निक्षिपेच्च परीक्षार्थं काकपक्षं विलेपयेत्

1,16.102

तैलेन यदि कृष्णं तदौषधं सिद्धिदं भवेत् ।
साधको मासं एकं तु तस्मिन्पात्रे विपाचितं

1,16.103

तेन लिप्ताः कचास्तस्य षण्मासाद्भ्रमरोपमाः ।
चिञ्चाश्वत्थपलाशानां वासायाश्च द्रवैर्मुहुः

1,16.104

द्रुतं पात्रगतं नागं चालयेद्भस्मतां व्रजेत् ।
तावत्पचेन्नागभस्म पलं लोहस्य चूर्णकं

1,16.105

द्विपलं च वराचूर्णं त्रिपलं दाडिमत्वचः ।
पलं चैतत्सर्वसमं काञ्जिकं लोहभाजने

1,16.106

लोडयेत्पाचयेत्किंचित्क्षणं तल्लोहपात्रके ।
आतपे धारयेद्भृङ्गकोरण्टरसभावितं

1,16.107

एकविंशद्दिनं भाव्यं भूयो भूयो द्रवं द्रवं ।
तेनैव लिप्ताश्चिकुराः पिञ्छतापिञ्छसन्निभाः

1,16.108

कचरञ्जनयोगेषु कथिताकथितेषु च ।
निशि लेपं तथैरण्डपत्रैश्च परिवेष्टनं

1,16.109

प्रातः स्नानमिदं कर्म सर्वसाधारणं स्मृतं ।
<दिव्यौषधिग्रहणयोग्यस्थलनिर्देशः>
श्मशाने सलिले मार्गे गृहे देवालये तथा

1,16.110

मलमूत्रयुतस्थाने ग्रामे गोष्ठे तरोरधः ।
छायायां च विषप्राये कुशीते चान्यबाधिते

1,16.111

एवंप्रायेषु देशेषु न ग्राह्या सिद्धमूलिका ।
अरण्ये पर्वते तीरे नद्या तपवने शुचौ

1,16.112

शिलासङ्गिशुचिक्षेत्रे सिद्धक्षेत्रेऽब्धिरोधसि ।
श्रीपर्वते हिमगिरौ तटाके विजने ह्रदे

1,16.113

गृह्णीयान्मूलिका जाता देहसिद्धिप्रदायिकाः ।
<दिव्यौषधिग्रहणविधिः>
सर्वेषां सिद्धमूलानां रक्षाबन्धनकर्मणि

1,16.114

खननेषूत्पाटनेषु ग्रहणेषु क्रमेण वै ।
कथ्यन्ते मनवो दिव्याः सर्वसाधारणाः स्मृताः

1,16.115

पूर्वेद्युरेव सुस्नातः कृतदन्तविशोधनः ।
अनुलिप्तः शुद्धवस्त्रो हृष्टः संयतमानसः

1,16.116

मौनी गन्धाक्षतोपेतो रक्षाबन्धनसूत्रितां ।
पूर्वं अन्वेषितां गत्वा मूलिकां स्वेष्टदायिकां

1,16.117

वितृणं परितः कृत्वा खात्वाम्बु परिषेचयेत् ।
गन्धपुष्पाक्षतैः पूजां कृत्वा सूत्रेण बन्धयेत्

1,16.118

समन्त्रकं साधकेन्द्रः सोपवासो जितेन्द्रियः ।
अत्रैव तिष्ठ कल्याणि मम कार्यकरी भव

1,16.119

मम कार्यकरी सिद्धा ततः स्वर्गं गमिष्यसि ।
ओं ह्रीं नमस्तेऽमृतसम्भूते बलवीर्यविवर्धिनि बलमायुश्च मे देहि पापं मे जहि दूरतः ।
ह्रीं फट् ।
अनेनैव तु मन्त्रेण त्रिधा सूत्रेण वेष्टितं

1,16.120

रक्षां बध्नीत तां स्पृष्ट्वा जपेदष्टोत्तरं शतं ।
ततः प्रातः समुत्थाय कृत्वा नित्यविधिं शुचिः

1,16.121

मूलिकां तां समासाद्य गन्धपुष्पाक्षतादिभिः ।
सर्वोपचारैः सम्पूज्य बलिं दद्यात्सहेतुकां

1,16.122

समन्त्रकं खनेद्धीमान्मन्त्रोऽयमपि कथ्यते ।
येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः

1,16.123

येनेन्द्रो वरुणो विष्णुस्तेन त्वामुपचक्रमे ।
त्वामेवाहं खनिष्यामि मन्त्रपूतेन पाणिना

1,16.124

एवं सम्प्रार्थयित्वादौ पश्चान्मन्त्रं समुच्चरेत् ।
ओं श्रीं ह्रीं तं अमृतेश्वरि एहि एहि मम सकलसिद्धिं कुरु हुं फट् ।
अनेनैव तु मन्त्रेण निखनेत्सिद्धिमूलिकां

1,16.125

अथ तूत्पाटयेत्तां तु प्राञ्जलिः प्रार्थयेदिति ।
मा उत्पते मा निपते मा च ते चान्यथा भवेत् ।
ओं ह्रीं चण्ड हुं फट्स्वाहा ।
उत्पाटयेदनेनैव मन्त्रेण परमेश्वरि ।
अच्छिन्नमूलामादाय शुद्धवस्त्राभिवेष्टितां

1,16.126

क्षिप्त्वा पटलिकायां च स्ववेश्मनि शुचिस्थले ।
निचये हृष्टमनसा निदध्यात्पारणं ततः

1,16.127

ओं नमो भैरवाय महासिद्धिप्रदायकाय आपदुत्तरणाय हुं फट् ।
अनेनैव तु मन्त्रेण गृहीत्वा गृहमानयेत्

1,17.1

âक्, १, १७
<उषःपानरसायनम्>
अथ प्रीतमना देवी पप्रच्छ परमेश्वरी ।
श्रीभैरवी ।
आदिभैरव देवेश सृष्टिस्थित्यन्तकारण

1,17.2

सर्वज्ञ शिव लोकेश त्वत्प्रसादान्मया विभो ।
रसायनानि दिव्यानि श्रुतानि विविधानि च

1,17.3

सुसाध्यं सुलभं दिव्यं सद्यः प्रत्ययकारणं ।
बालस्त्रीषण्ढवृद्धानां रोगार्तानां विशेषतः

1,17.4

योग्यं रसायनार्हाणां ब्रूहि देव कृपानिधे ।
ततः स्मेराननाम्भोजो भैरवो भवभैरवः

1,17.5

श्रीभैरवः ।
शृणु देवि प्रवक्ष्यामि सर्वयोग्यं सुखङ्करं ।
पावनं सुलभं चान्तर्बहिरंहोविनाशनं

1,17.6

यस्माज्जगन्ति जातानि प्राणाः प्राणभृतामपि ।
त्रायते विश्वमखिलं सर्वदेवात्मकं प्रिये

1,17.7

त्रिदोषशमनं सौख्यं पथ्यं सर्वरसाधिकं ।
षड्जीवनादिगुणयुग्रसयुक्तं बलप्रदं

1,17.8

जीवनं च बलं प्रायः प्राणिनामग्निमूलकं ।
तस्याग्निरिन्धनं तोयं तस्मात्तोयं पिबेद्बुधः

1,17.9

वैद्युतो बाडवो वह्निर्जाठरश्च त्रयोऽग्नयः ।
अबिन्धनाः स्युरन्येषां काष्ठादीनीन्धनानि हि

1,17.10

तस्माद्देवि शिवं वच्मि शृणु तोयरसायनं ।
पूरयेन्नूतनघटे प्रातः शोध्यैश्च वारिभिः

1,17.11

गाङ्गेयैर्वाथ नादेयैस्ताटाकैर्वापि सारसैः ।
कौपैर्वा चापि वै घर्मैर्वार्षिकैर्वा यथाभवैः

1,17.12

तद्घटं स्थापयेन्मञ्चे दिव्यभास्कररश्मिभिः ।
नष्टदोषं निशायां च चन्द्रामृतकराप्लुतं

1,17.13

एलोशीरककर्पूरचन्दनैरधिवासितं ।
पाटलीकेतकीजातिमल्लिकोत्पलवासितं

1,17.14

उशीरतालवृन्तेन तोयसिक्तेन मन्द्रतः ।
मुहुर्मुहुर्वीजितं तु हंसोदकमुदाहृतं

1,17.15

अनुराधोदयात्पूर्वं नास्पृष्टमलमूत्रकं ।
पिबेत्तोयं ततः कुर्यान्मलमूत्रविसर्जनं

1,17.16

सन्ध्यावन्दनकर्मादि कुर्वन्स्वेच्छाशनो भवेत् ।
एकाब्दबालको नित्यं पिबेत्तोयं पलं पलं

1,17.17

एवं षोडशवर्षान्तं प्रत्यब्दं च पलं पलं ।
वर्धयेत्क्रमशो धीमान्पलषोडशिकावधि

1,17.18

षोडशाब्दात्परं सेव्यं षोडशप्रसृतं जलं ।
एवं विंशतिवर्षान्तं नित्यं सेवेत सादरं

1,17.19

अनेन व्याधयः सर्वे विनश्यन्ति न संशयः ।
जीवेद्वर्षशतं बुद्धिबलेन्द्रियसुखान्वितः

1,17.20

प्रसृतं च पिबेदष्टपलं दीर्घायुषाय च ।
यथा वह्निबलं तोयं त्र्यहाद्वा पञ्चवासरात्

1,17.21

सप्ताहाद्वा क्रमात्प्राज्ञः प्रसृतं प्रसृतं तथा ।
पुनस्तु कुडवं वापि वर्धयेत्तच्छनैः शनैः

1,17.22

षोडशप्रसृतं यावत्तावत्सेव्यं ततः परं ।
यथा यथाम्बुनो वृद्धिस्तथा दोषः प्रशाम्यति

1,17.23

षण्मासं वा वत्सरं वा वाद्यन्तं वा पिबेज्जलं ।
यथा वृद्धिस्तथा ह्रासो यावच्चुलुकमात्रकं

1,17.24

उपवासं दिवा रात्रौ पथ्याशी तत्परित्यजेत् ।
आत्यन्तिके च व्यायामे सति वाञ्जलिमात्रकं

1,17.25

पादमर्धं त्रिपादं वा यथा सेवाञ्जलिं पिबेत् ।
मध्वाज्यतैलदुग्धाज्यजलाद्यन्यतमैर्युतं

1,17.26

हन्याच्छीघ्रं वातरोगमथवास्यस्थभेषजैः ।
तत्तद्रोगोपशमनं भक्षयित्वा च भेषजं

1,17.27

ततो जलं वा प्रपिबेन्मुहूर्ते वा गते सति ।
जीर्णे वा सलिले सेव्यं भोजनान्तेऽथवा निशि

1,17.28

ज्वरादिरोगे संजात उपवासो भवेद्यदि ।
पिबेदर्धं च पूर्वस्माल्लघ्वाहारी यथासुखं

1,17.29

उपवासो व्रतार्थं चेत्तत्क्षीरं वा पलं निशि ।
रात्रावभोजनं देवि जठरे वारि शुष्यति

1,17.30

अर्धं वा प्राञ्जलिं वारि पिबेन्नित्यं प्रयत्नतः ।
सर्वत्राहारसत्वाग्निसाम्यं वारि पिबेत्सुधीः

1,17.31

विण्मूत्रोत्सर्जनं ब्राह्मान्मुहूर्तात्पूर्वतो यदि ।
ततः पीत्वैव सलिलं विण्मूत्रं च विसर्जयेत्

1,17.32

वारि पूतं विषं त्वल्पं विण्मूत्रोत्सर्जनात्परं ।
अज्ञातवेले रात्रौ चेत्पिबेत्तोयं पुनः प्रगे

1,17.33

पादं वाथ चतुर्थांशमञ्जलिं वा पिबेज्जलं ।
<जलपानकल्पे पथ्यं अपथ्यञ्च>
गोधूमषष्टिशाल्यन्नं यवजाङ्गलजामिषं

1,17.34

गव्यं सर्पिर्दधि क्षीरमुदश्विन्नवनीतकं ।
मध्विक्षुदाडिमद्राक्षामोचखर्जूरशर्कराः

1,17.35

सहकारफलं धात्री नालिकेरजलं नवं ।
कूष्माण्डालाबुरुनिम्बपत्रफलानि च

1,17.36

पत्रपुष्पफलं शिग्रोर्मुद्गयूषरसौ कृतौ ।
सुनिषण्णकगोरण्टी जीवन्तीद्वयकं तथा

1,17.37

राजवृक्षकशोथघ्नी चिल्ली वापि लघुच्छदा ।
शतावरी तण्डुली च मत्स्याक्षी च विदारिका

1,17.38

उपोदकी च वार्त्ताकी कारवल्लीफलानि च ।
लघुकोशातकी लक्ष्मी पटोलं तालमूलकं

1,17.39

मोचायाः कुसुमं दण्डफलानि क्षुद्रदन्तिका ।
सदाफलं च मत्स्याण्डी शृङ्गवेरं च सैन्धवं

1,17.40

फलपूराम्लकं पक्वधात्रीफलं अलर्ककः ।
वायसी कुन्तली चैव वसुकन्यालिका तथा

1,17.41

कुस्तुम्बरी च सरसी शार्ङ्गेरी चक्रमर्दकः ।
मण्डूकपर्णी पालक्याः पत्रं गाङ्गेरुकं तथा

1,17.42

आखुकर्णी कासमर्दपत्रं गाङ्गेरुकं तथा ।
संस्कारार्थं च कैडर्यसैन्धवोषणजारकाः

1,17.43

सर्वेऽपि मधुरप्रायाः स्वादुशीताः सुखप्रदाः ।
कतकस्य च पथ्यायाः शलाटुं लवणाक्तकं

1,17.44

नीलोत्पलाब्जयोर्नालपुष्पशालूककेसराः ।
स्नेहयुक्तं भजेत्स्नानं श्वेताम्बरधरः शुचिः

1,17.45

कस्तूरीचन्दनहिमकर्पूरैरनुलेपनं ।
मन्दानिलं पुष्पमाल्यं कौमुदीरत्नभूषणं

1,17.46

पथ्यं रुच्यं जलीयं च स्वादुप्रायं च सद्रवं ।
घृतक्षीरयुतं भक्तं भुञ्जीतोदकसेवकः

1,17.47

ताम्बूलचर्वणं कुर्यात्सकर्पूरं सुखासनं ।
नारिकेलजलं सायं निशि क्षीरं सशर्करं

1,17.48

शाल्मली तूलशय्या च निशि निद्रा यथासुखं ।
ऊनातिमात्रविष्टम्भिविबन्ध्युष्णखराणि च

1,17.49

रूक्षाहृद्यस्थिरगुरुपिच्छिलाकालभोजनं ।
कुल्माषबृहतीचोषद्वयालाबुनिरूढकं

1,17.50

कुलुत्थयूषकालिङ्गगुञ्जावृक्षफलं तथा ।
पलाण्डु लशुनं सर्वकन्दं सिद्धार्थकं तथा

1,17.51

अजाङ्गलं पलं मत्स्यं किंचित्क्षीरान्नभोजनं ।
अनुक्तशाकमन्नं च फलं क्षीरयुतं पलं

1,17.52

सर्वक्षीरयुतान्सर्वान्रसानमधुरानपि ।
तिलतैलं च तत्कल्कं एतैः संयुक्तं औषधं

1,17.53

बहुभाष्यातपछायासमचिन्ताध्वरोषणं ।
शोकवाहनभीतिश्चालस्यात्यन्तरतं तथा

1,17.54

मूर्ध्नि भारवहश्चांभस्तरणं चोपवासकं ।
व्यायामेर्ष्यादिवास्वापो निशि जागरणं तथा

1,17.55

पुरोवातो हिमं धूलिर्वातप्रायस्थलं तथा ।
धूमप्रायगृहं तल्पं कार्पासपरिकल्पितं

1,17.56

अग्निः श्रमाम्बुजननं तथोष्णाम्बरधारणं ।
कौशेयधारणं तूर्वोस्ताडनं कठिनासनं

1,17.57

उष्णालयक्षारकूपसलिलं कटुतिक्तकौ ।
अम्लः कषायतिक्तश्च रामठं च विरूक्षकं

1,17.58

मदिरा च वसा मज्जा मूत्रं दुष्टजलानि च ।
मदं शीतमनारोग्यं भोजनं तैलवर्जितं

1,17.59

अभ्यङ्गं काञ्जिकं शीतं रोगाभावे कषायकं ।
विदाहि शोषणं मूर्ध्नि स्नानमप्युष्णवारिभिः

1,17.60

कारणं दोषकोपानां निन्द्यमन्यद्विवर्जयेत् ।
<पीतजलजीर्णलक्षणम्>
स्वस्थः पीत्वा सुखासीनः सलिलं वाग्यतः शुचिः

1,17.61

विसर्जयेन्मलं मूत्रं ताम्बूलादींश्च वर्जयेत् ।
यावज्जलं पिबेत्तावन्मूत्रं निर्याति चेत्तदा

1,17.62

जलं जीर्णं विजानीयादौषधेन विना यदा ।
निर्गच्छेत्सलिलं पीतं तदा स्वस्थतरो मतः

1,17.63

निर्गते पीतसलिले निःशेषे क्षुत्प्रजायते ।
तैलाभ्यङ्गं ततः कुर्याद्विहितं पथ्यमाचरेत्

1,17.64

<जलाजीर्णलक्षणं तत्परिहारश्च>
परिहारं विना रोगा जायन्ते नाविचारतः ।
श्रमः क्लमश्च वमनं शिरस्तोदः शिरोभ्रमः

1,17.65

सलिलस्तम्भशोषौ चाभिष्यन्दो वेगरोधनं ।
गुल्मोदावर्तकौ वह्निसदनं गात्रभञ्जनं

1,17.66

तोदो बस्तौ मेहने च वक्षणे हृदि लोचने ।
जङ्घोद्वेष्टनकं श्वासो भुक्तिद्वेषस्त्वरोचकः

1,17.67

अश्मरी पीनसः कासस्त्वतिसारश्च दुस्तरः ।
सकृदम्भोविशोषश्चेद्रूक्षायासादिकर्मभिः

1,17.68

स दोषो न तु विज्ञेयो दोषस्तंभोऽसकृद्यदि ।
प्रपीते सलिले स्तब्धे चिकित्सात्र विधीयते

1,17.69

कूष्माण्डपत्रैरुदरं बस्तिं चाच्छादयेत्सुधीः ।
मूत्रमोचनकृल्लेपं विदध्याज्जलमुक्तये

1,17.70

यद्वाज्यधात्रीलिप्ताङ्गस्नानं कुर्याद्रसायनं ।
सगुडं वा पिबेत्क्षीरं तक्रं वा शर्करान्वितं

1,17.71

नालिकेरोदकैर्वापि ससितोर्वारुबीजकं ।
कष्टाज्जीर्णं जलं यस्य भुक्तेः प्राक्सर्पिराददेत्

1,17.72

यद्वा तिष्ठेच्चिरं चाप्सु स्नायाद्धात्र्यादिभिर्हिमैः ।
यद्वा स्तब्धे जले पीते स्वादुशीतैर्विशोधयेत्

1,17.73

कृष्णामदनसिन्धूत्थैः कल्कैर्मधुयुतैर्वमेत् ।
पथ्याचूर्णं नालिकेरजलैः पीत्वा विरेचयेत्

1,17.74

यद्वा त्रिजातकव्योषक्रिमिघ्नामलकाब्दकैः ।
त्रिवृत्सर्वसमा योज्या ह्येतत्सर्वसमा सिता

1,17.75

सक्षौद्रगुलिकां कृत्वा लिहेदम्भोविमुक्तये ।
रात्रौ वरा सेविता चेत्सर्वदोषविनाशिनी

1,17.76

नाभेरधश्चार्द्रपटं क्षणमात्रं निधापयेत् ।
अवगाहेन शीताम्भो मूर्ध्नि वा शीतवारि च

1,17.77

निक्षिपेदथवा सार्द्रसिकतातल्पशोभिते ।
धारागृहे वा चासीत त्रपुसोर्वारुबीजकं

1,17.78

वरीद्राक्षाम्बुना पेयं वा तु काश्मीरजं वृषं ।
द्राक्षारसेन वा पेयं कर्कटीबीजकानि च

1,17.79

तण्डुलक्षालनजलैर्मधुकं वाथ शर्करां ।
सद्राक्षं च गुडं दार्वीं तण्डुलोदकयोगतः

1,17.80

यद्वा धात्रीफलरसैर्गोस्तनीं शर्करान्वितां ।
वरीं वा शर्करायुक्तां द्राक्षां वा मस्तुना सह

1,17.81

जलेन वा गुडं पेयं नालिकेरजलेन वा ।
तुगाक्षीरीभवं कल्कं वापि कर्कारुबीजकं

1,17.82

कल्पं वा तामलक्याश्च मूलं वा यष्टिकल्ककं ।
पिशाचकदलीपक्वफलं क्षौद्रसितान्वितं

1,17.83

नालिकेरजलैर्वापि तक्रैर्वा मस्तुनापि वा ।
रम्भाकन्दजलैर्वापि क्षीरैर्वामलकीरसैः

1,17.84

यद्वामृतारसैर्वापि कूष्माण्डस्वरसेन वा ।
दाडिमस्य रसैर्वापि त्वभीरोश्च रसैस्तथा

1,17.85

अलाबोश्च रसैर्वापि पिबेदेलां सशर्करां ।
कदलीकन्दयष्ट्याह्वश्वदंष्ट्राश्च कशेरुकाः

1,17.86

तृणपञ्चकमूलानि शुक्रा चैव शतावरी ।
एतेषां कदलीकन्दप्रमुखानां कषायकं

1,17.87

सक्षौद्रं ससितं वापि पेयं जलविमुक्तये ।
<उषःपानगुणाः>
एवं ब्राह्मे मुहूर्ते यत्पीतं वारि रसायनं

1,17.88

दोषानशेषान्शमयेद्रोगानपि विनाशयेत् ।
रक्तवातं च वातांश्च हृद्रोगं श्वासकासकं

1,17.89

रक्तपित्तं च पित्तानि ग्रहणीछर्द्यरोचकान् ।
क्षयमूर्च्छाकुष्ठमेहमोहगण्डार्बुदान्गदान्

1,17.90

गुल्मप्लीहाश्मरीशूलानाहाजीर्णविषूचिकाः ।
क्रिमिं पाण्डुं कामिलां च हलीमकविसर्पकाः

1,17.91

व्रणं च श्वयथुं श्वित्रमग्निसादं त्रिधा विषं ।
जत्रूर्ध्वगुह्यकान्रोगानपस्मारं च विभ्रमं

1,17.92

ज्वरानाध्मानजठरमूत्राघातगुदाङ्कुरान् ।
वलीपलितनिर्मुक्तो जीवेत्त्रिशतवत्सरं

1,17.93

स्थिरधीर्बलवान्धीरः कान्तः कान्तामनोभवः ।
<नासापानरसायनम्>
नासापुटाभ्यां सलिलं यस्तु प्रातः पिबेन्नरः

1,17.94

शुक्तिमात्रं प्रतिदिनं पथ्याशी विजितेन्द्रियः ।
इन्द्रियाणां पटुत्वं च वलीपलितनाशनं

1,17.95

शतायुष्यं अवाप्नोति नासारन्ध्ररसायनं

1,19.1

âक्, १, १९
<ऋतुचर्या, कालविभागः>
श्रीभैरवी ।
भगवन्त्वत्प्रसादेन नित्याचारक्रमः श्रुतः ।
स्वामिन्नैमित्तिकाचारं श्रोतुं वाञ्छास्ति मे वद

1,19.2

श्रीभैरवः ।
तच्छृणु त्वं महादेवि ब्रूमि नैमित्तिकीं विधिं ।
कालाधीनः स तु भवेदनपायोऽमितः सदा

1,19.3

अनादिनिधनः सूक्ष्मः स्थूलो व्याप्तः सदातनः ।
ब्रह्मादयश्च सूर्याद्या महाभूतादयः परे

1,19.4

कालानुसारिणः सर्वे प्रयत्ने कालरूपिणः ।
कालादेव हि जायन्ते लीयन्ते तत्र सर्वदा

1,19.5

यः कालः सोऽहमेवेति त्वं च कालप्रवर्तिनी ।
तस्माज्जन्मभृतां जन्मनिधनाय निवेद्यते

1,19.6

अविभाज्यो हि कालोऽयं तथापि प्रविभज्यते ।
तीक्ष्णसूच्याब्दपत्रं तु यावत्कालेन भिद्यते

1,19.7

स कालो लव इत्युक्तस्त्रुटी त्रिंशल्लवैर्भवेत् ।
तद्योऽयं स्यात्त्रुटिः कालो मात्रा स्यात्तद्द्वयान्विता

1,19.8

दृक्पक्ष्मणोः परिक्षेपः स तु मात्रा प्रशस्यते ।
मात्राष्टादशभिः काष्ठा काष्ठात्रिंशद्युता कला

1,19.9

कलात्रिंशत्क्षणः प्रोक्तः क्षणैः षड्भिश्च नाडिका ।
नाडीद्वयं मुहूर्तः स्यात्तैश्चतुर्भिश्च यामकः

1,19.10

यामैश्चतुर्भिर्दिवसस्तथा रात्रिर्भवेत्प्रिये ।
एवं दिवानिशं किं तु पूर्वाह्णो दश नाडिकाः

1,19.11

मध्याह्ने दश नाडी स्यादपराह्णस्तथैव च ।
पूर्वरात्रं चार्धरात्रं तथैवापररात्रकं

1,19.12

दिवसैः पञ्चदशभिः पक्षः स्याच्छुक्लसंज्ञकः ।
द्वितीयः कृष्णपक्षः स्याद्द्वाभ्यां मासस्तु जायते

1,19.13

मासाभ्यामृतुसंज्ञा स्यादृतुभ्यां कालसंज्ञकः ।
ऋतुत्रयं स्यादयनं द्वाभ्यां संवत्सरो भवेत्

1,19.14

अष्टादशप्रकारेण कालस्तस्माद्विभज्यते ।
माघादिमासाः क्रमशो भवन्ति शिशिरादयः

1,19.15

शिशिरश्च वसन्तश्च ग्रीष्मो वर्षा शरद्धिमः ।
ऋतवो दक्षिणं तेषां कथयामि शृणु प्रिये

1,19.16

<हेमन्तर्तुस्वरूपम्>
तत्र सूर्यो दिशश्चैव हिमानीकलुषीकृताः ।
धूमधूम्ररजोमन्दो वायुः शीतप्रबोधनः

1,19.17

रोमाञ्चकारी कौबेरो लवल्यः पुष्पितास्तदा ।
पुंनागलोध्रफलिनीपुष्पामोदितषट्पदाः

1,19.18

गजवाजीगोमहिषीकाकाजाद्याश्च गर्विताः ।
सरित्प्रालेयपटलसंछन्नशकुनादयः

1,19.19

सोष्णबाष्पजलाः कूपाः पश्य हैमन्तिके ऋतौ ।
<शिशिरर्तुस्वरूपम्>
एवं हि शिशिरे काले चयं याति कफः स्वतः

1,19.20

<वसन्तर्तुस्वरूपम्>
वसन्ते विमला दिक्काः सूर्यश्चारुणदीधितः ।
मलयानिलसञ्चारो नवपल्लवशोभिताः

1,19.21

नवीनत्वक्पलाशाढ्या वृक्षाः सर्वत्र पुष्पिताः ।
सहकाशोकबकुलमाधवीचम्पकोद्भवैः

1,19.22

पलाशकादिमैः पुष्पैः प्रविभाति वनस्थली ।
भ्रमद्भ्रमरनिध्वानकोकिलालापसंकुला

1,19.23

श्लेष्मकोपश्च भवति कालः सर्वोत्तमो ह्ययं ।
<ग्रीष्मर्तुस्वरूपम्>
ग्रीष्मे तीक्ष्णकरश्चण्डोऽतसीकुसुमसन्निभः

1,19.24

संतापितमहीदिक्कः शोषिताशेषभूरसः ।
दावाग्निनातिज्वलिता दिशो भूमिश्च धूसराः

1,19.25

नैरृतो वायुरत्युग्रो वात्या चोग्रासुखा भवेत् ।
आतपस्वेदपवनैः प्राणिनो ज्वरिता इव

1,19.26

संतप्तक्रोडमहिषमातङ्गैराकुलीकृताः ।
चण्डाशुकिरणोत्तप्तशुष्कस्वल्पजलान्विताः

1,19.27

कल्लोलितास्तटाकाद्याः संतप्तजलजन्तवः ।
जीर्णशुष्कविशीर्णैश्च पर्णैश्च पतितैर्द्रुमाः

1,19.28

सोष्माश्छायाविहीनाश्च वायुव्याकुलिता भृशं ।
शुष्कपत्रलतागुल्माः शिरीषाः कुसुमोज्ज्वलाः

1,19.29

श्लेष्मक्षयश्चानुदिनं तस्माद्वायोश्चयो भवेत् ।
<वर्षर्तुस्वरूपम्>
वर्षर्तौ पश्चिमो वायुर्मही नवतृणावृता

1,19.30

भिन्नैस्तथाञ्जनाभैश्च जलदैश्छादिताखिला ।
शक्रगोपावृता पृथ्वी सर्वसस्यमनोहरा

1,19.31

भूलतानिवहच्छन्ना जलक्लिन्ना च पङ्किला ।
मत्तकेकिकुलक्रीडानृत्तविस्तीर्णपिञ्छका

1,19.32

भेकभीकरनिध्वानबधिरीकृतदिङ्मुखा ।
कदम्बकदलीजातिकुटजामोदमेदुरा

1,19.33

धाराधराम्बुधाराभिघातनष्टसरोरुहा ।
प्रभूतसलिलापूर्णसोपाना दीर्घिका भृशं

1,19.34

पतिसंयोगसदृशमहाकारा महाजलाः ।
पूर्णोभयतटान्ताश्च नद्यः सकलुषोदकाः

1,19.35

नभः स्तनितजीमूतप्रोद्यद्विद्युत्प्रदीपितं ।
अन्योन्याम्बुदसंघट्टजातनिर्घोषभीकरं

1,19.36

इन्द्रचापलसन्मेघच्छादितार्केन्दुमण्डलं ।
वनं हृष्टाजमहिषकिटिचातकसङ्कुलं

1,19.37

श्लेष्मा क्षीणतरो वायोः कोपः पित्तचयस्तदा ।
<शरदृतुस्वरूपम्>
शरदि स्फुरिताभाश्च भानोस्तीक्ष्णा मरीचयः

1,19.38

प्रक्षीणवारिविमलवारिदोन्मुक्तमार्गकाः ।
ज्योत्स्नामृतरसासिक्तमोदिताखिलजन्तवः

1,19.39

स्फुरितोडुकुलाकीर्णा रात्रयश्च मनोहराः ।
विमलाकाशरुचिराः कामलीलोत्सवप्रदाः

1,19.40

मही चाश्यानपङ्का च कणिकापूर्णशालिका ।
सदस्यः फुल्लकमलकुमुदोत्पलमण्डिताः

1,19.41

प्रहृष्टमीनहंसालीलीलालोलतरङ्गिकाः ।
अमलाम्बुसराकीर्णाः स्नानपानहितप्रदाः

1,19.42

दिशः प्रफुल्लरुचिरकाशचामरशोभिताः ।
विमलामोदितक्रोञ्चमल्लिकापरिमण्डिताः

1,19.43

सप्तच्छदरजोयोगदृप्तदन्तिकुलं वनं ।
प्रक्षीयते तदा वायुः पित्तं कुप्यति पार्वति

1,19.44

<आदानविसर्गकालस्वरूपम्>
दिवानिशादिमध्यान्ते श्लेष्मपित्तसमीरणाः ।
कुप्यन्ति ऋतवः सर्वे प्रवर्तन्ते क्रमाच्छिवे

1,19.45

दिनमाग्नेयरूपं स्याद्रात्रिः सौम्यमयी भवेत् ।
द्वौ च पक्षौ तदा देवि ऋतू हेमन्तशैशिरौ

1,19.46

तौ ऋतू हिमकालः स्यादुष्णौ मधुनिदाघकौ ।
प्रावृट्शरदृतू ज्ञेयौ वर्षाकालः स उच्यते

1,19.47

ऋतुभिः शिशिराद्यैस्तत्त्रिभिः स्यादुत्तरायणं ।
तदा ज्ञेयमिति ज्ञेयमादानं तद्भवेत्प्रिये

1,19.48

सूर्यानिलौ स्वभावेन भूमिसौम्यरसापहौ ।
किंतु मार्गवशादेतावत्युष्णखररूक्षकौ

1,19.49

आददाते बलं तेजः प्राणिनां प्रतिवासरं ।
तिक्तः कषायकटुकौ प्रबलाः स्युर्यथोत्तरं

1,19.50

प्रावृडाद्यैश्च ऋतुभिस्त्रिभिः स्याद्दक्षिणायनं ।
एतत्सोमात्मकं विद्धि विसर्गाख्यमिति स्मृतं

1,19.51

प्रकृत्या शीतला वृष्ट्या वायुसोमाम्बुदाः परं ।
बलिनः स्युर्यतस्तस्मात्सूर्यः क्षीणरुचिर्भवेत्

1,19.52

गते भूतलतापेऽस्मिन्प्राणिनां प्रतिवासरं ।
कालो बलं विसृजति प्रबलाः स्युर्यथोत्तरं

1,19.53

अत्राम्ललवणौ स्वादू रसाः स्निग्धा भवन्ति हि ।
हेमन्ते शिशिरे पूर्णं मधौ शरदि मध्यमं

1,19.54

ग्रीष्मे प्रावृषि शीतं स्यात्सर्वेषां प्राणिनां बलं ।
<हेमन्तर्तुचर्या>
रसस्य बलिनः शीतसंवृतत्वाद्धिमागमे

1,19.55

कोष्ठाग्नेश्चाविकीर्णत्वात्पिण्डितो जठरे यतः ।
ततो बलीयान्कोष्ठाग्निस्तस्मिन्स्वल्पाशनो यदि

1,19.56

वायुना दीप्यते वह्निः पचेद्धातून्रसादिकान् ।
तस्माद्धिमागमे सेव्यो मधुरो लवणाम्लकः

1,19.57

अथ दैर्घ्यान्निशानां तु क्षुधा प्रातस्तरां भवेत् ।
दिनचर्याप्रकारेण विसृजन्मलमूत्रकं

1,19.58

दन्तकाष्ठादिकं सर्वं विदध्यात्परमेश्वरि ।
ततो मूर्धार्हवातघ्नतैलेनाभ्यङ्गं आचरेत्

1,19.59

गात्राभ्यङ्गं मर्दनं च यावच्छक्यं च यथासुखं ।
कुशलैर्बाहुयुद्धं च यावच्छक्यं भजेत्ततः

1,19.60

गोधूमचणकैर्मुद्गैर्हृततैलो यथाविधि ।
स्नात्वा कौशेयेके रक्ते लघुन्युष्णे सुसान्द्रके

1,19.61

वाससी परिधायैव कस्तूर्या कुङ्कुमेन च ।
कालागरुद्रवेणैव चर्चां कुर्वीत विग्रहे

1,19.62

धूपयेद्देहचिकुरान्कालागरुजधूपतः ।
चम्पकं बकुलं पुष्पं शतपत्रं च कैतकं

1,19.63

जवाद्यैरुपलिप्तानि कृत्वा शिरसि धारयेत् ।
गुडासवं मद्यमण्डं मद्यं मांसं च मेदुरं

1,19.64

स्निग्धं मांसरसं सोष्णं माषगोधूमपिष्टजान् ।
इक्षुक्षीरविकारांश्च सोष्णमन्नं तिलोद्भवं

1,19.65

शौचे सुखोष्णं सलिलं सोष्मलं चारु मन्दिरं ।
शयनं कौथकश्लक्ष्णमृदुलाजिनकम्बलैः

1,19.66

प्रावारैः शुभकौशेयैः क्रमेणास्तृतमुज्ज्वलं ।
भजेदवृद्धसूर्यांशून्पृष्ठभागेन शाम्भवि

1,19.67

स्वेदं चोपानहं नित्यं हसन्तीतीव्रतापिते ।
गर्भगेहे निवासं च वृत्तपीनोन्नतस्तनीः

1,19.68

रथाङ्गवृत्तसुश्रोण्यो रम्भास्तम्भोरुमण्डिताः ।
मद्यपानमदोन्मत्ता वस्त्रस्रग्गन्धशोभिताः

1,19.69

प्रियाः प्रीताः समाश्लिष्येन्न बाधा शीतदोषजा ।
कस्तूरी कुङ्कुमं चन्द्रं लवङ्गं जातिकाफलं

1,19.70

प्रत्येकं निष्कमेकं स्यात्सारः खदिरसम्भवः ।
युञ्ज्यात्षोडशनिष्कं च सर्वं पेष्यं हिमाम्बुना

1,19.71

गुलिकां मरिचाकारां कुर्याद्दौर्गन्ध्यनाशिनीं ।
वातश्लेष्महरा रुच्या गुटिकैषा प्रकीर्तिता

1,19.72

गुट्यन्वितं च ताम्बूलं यथेष्टं भक्षयेत्सदा ।
एवं हेमन्तचर्या स्यात्शिशिरेऽप्यमुमाचरेत्

1,19.73

श्लेष्मा चितः स्यान्नितरां भजेद्धैमन्तिकं विधिं ।
अत्रादानभवं रूक्षं भवेच्छीतो महत्तरः

1,19.74

<वसन्तर्तुचर्या>
शिशिरे तु चितः श्लेष्मा वसन्तेऽर्कांशुविद्रुतः ।
नाशयेज्जाठरं वह्निं स्वयं तोयस्वभावतः

1,19.75

जनयेद्रोगमखिलं तस्माच्छीघ्रं कफं जयेत् ।
अथ वासन्तिकां चर्यां कथयामि मम प्रिये

1,19.76

तीक्ष्णाञ्जनच्छर्दिनस्यैर्व्यायामोद्वर्तनैरपि ।
पादाभ्यां मर्दनेनोष्मवारिस्नानेन तं हरेत्

1,19.77

काषायरक्तकौसुम्भकौशेयवसनानि च ।
परिधाय सकर्पूरागरुणाङ्गानि धूपयेत्

1,19.78

कस्तूरीकुङ्कुमहिमैश्चन्दनैर्लेपयेत्तनुं ।
चूतचम्पकपुन्नागपूगकेसरपाटलं

1,19.79

माधवीकेतकीमल्लिकाशोकनवमालिकाः ।
जवाद्यैर्लेपिताः कृत्वा वहेत्कल्हारमुत्पलं

1,19.80

मद्यं पञ्चविधं प्रोक्तं सर्वव्याधिहरं परं ।
माधवारिष्टमार्द्वीकासवशीथुरितीरिताः

1,19.81

क्षौद्रैर्मदकरद्रव्यै रचितो माधवः स्मृतः ।
चिरं मदकरद्रव्यं खनित्वा स्थापितं भुवि

1,19.82

अरिष्टोऽयमिति ज्ञेयो मार्द्वीको गोस्तनीभवः ।
आसवो मदकृद्द्रव्यसवनाद्वा समुद्भवः

1,19.83

शीथुरिक्षुरसाज्जातः सेव्याः पञ्च मया मताः ।
कामिनीवदनाम्भोजवासिताश्चित्तहारिणः

1,19.84

पुष्पादिवासिता हृद्याः कान्तानयनरञ्जिताः ।
पुराणाः कटुकास्तिक्ताः कषायाः श्लेष्महारिणः

1,19.85

मातुलुङ्गाम्रजम्बूनां पत्रपुष्पफलान्विताः ।
सुहृद्भिः सह जंबीररसार्द्रकपलाण्डुकं

1,19.86

जाङ्गलं पललं शूल्यं तद्रसं च कृतं नवं ।
पुराणक्षौद्रगोधूमयवषष्टिकशालिकान्

1,19.87

भजेत्कफघ्नं शाकं च व्यञ्जनं पानकं तथा ।
अमद्यपस्तु शुण्ठ्यम्बु मुस्ताम्बु क्षौद्रवारि वा

1,19.88

खदिरासनसारोत्थक्वथितं वारि वा पिबेत् ।
उद्याने सौधकाचाद्यैर्मणिनीकाशरोचिभिः

1,19.89

कुट्टिमैर्मण्डिते चारुमण्डपे सुरतोचिते ।
कोकिलालापरुचिरे सुगन्धिकुसुमोज्ज्वले

1,19.90

बहुपादपसच्छायावारितोष्णाशुदीधितौ ।
समन्तात्सलिलापूर्णकुल्याभिः शीतलीकृते

1,19.91

मलयानिलसञ्चारशमितश्रमवारिणि ।
नानाप्रसूनसुभगशाखिनीनालनन्दिते

1,19.92

लम्बमानसुगन्धस्रङ्मकरन्दाभिषेचिते ।
उशीरपाटलीपङ्क्तिशोभिते बिसविस्तृते

1,19.93

पुष्पैराकीर्णिते मन्दतालवृन्तानिलोज्ज्वले ।
समासीनः प्रियालापचतुराः कामलोलुपाः

1,19.94

कन्दर्पदर्पसर्वस्वाः सूक्ष्मस्वच्छांबराः प्रियाः ।
तरुणी रमयन्गोष्ठीः कुर्वंस्ताभिर्मनोहराः

1,19.95

सुहृद्भिराप्तैः सहितो मध्याह्नं गमयेत्सुखी ।
अतिशीतगुरुस्निग्धस्वाद्वम्ललवणानि च

1,19.96

तिलेक्षुक्षीरविकृतिदिवास्वप्नातिपिच्छिलं ।
मत्स्यं क्षारोदकं पूपं श्लेष्मलं वर्जयेन्मधौ

1,19.97

<ग्रीष्मर्तुचर्या>
ग्रीष्मे ह्यत्यर्थतीक्ष्णः स्याद्घर्मभानुर्भुवो रसान् ।
स्निग्धान्गुणांश्च क्षपयेत्कफस्तस्मात्क्षयं व्रजेत्

1,19.98

तेन वायुश्चितः स्याच्च पूरितैः शीतलैर्जलैः ।
चन्दनागरुकस्तूरीकुङ्कुमैश्च सुगन्धिभिः

1,19.99

प्रसूनैर्विविधैः फुल्लैर्वासिते मल्लिकादिभिः ।
कामिनीपीनवक्षोजदघ्नाम्बुनि सुशोधिते

1,19.100

ह्रदे वा दीर्घिकायां वा संस्कृतायां यथाविधि ।
आ कर्णपूर्णनयनविराजितमुखेन्दुभिः

1,19.101

मृणालभूषणोद्भासिशिरीषमृदुबाहुभिः ।
कर्पूरमुक्ताकुसुममालामलयजोज्ज्वलैः

1,19.102

सूक्ष्मकौसुम्भवसनबद्धमध्यनितम्बिभिः ।
स्वनूपुररवाकृष्टसारसारावरञ्जितैः

1,19.103

जलक्रीडातिचतुरैः संयुक्तः कामिनीजनैः ।
संक्रीडेत करोन्मुक्तवारिसिक्ताङ्गनामुखः

1,19.104

द्रुतिशृङ्गमुखोत्सृष्टवारिसेचितविग्रहः ।
ताभिर्भुजान्तरं श्लिष्यन्कुर्वन्लीलां मुहुर्मुहुः

1,19.105

उत्तीर्य च वपुर्वस्त्रैरुद्वर्त्य चिकुरान्सुखं ।
स्वच्छे सूक्ष्मे कषाये च वसने धारयेत्ततः

1,19.106

चन्दनागरुकर्पूरैर्धूपयेत्केशविग्रहौ ।
श्रीखण्डचन्द्रकस्तूरीपङ्कचर्चितविग्रहः

1,19.107

नेपालमालतीमल्लीपाटलीशतपत्रकाः ।
सौगन्धिकं मरुवकं ह्रीवेरं च मृगाण्डजैः

1,19.108

सुगन्धतैलैर्लिप्तानि धारयेत्कुसुमानि च ।
अत्र मद्यं न पेयं स्यादथवा मद्यसात्म्यकैः

1,19.109

स्वल्पं पेयं तु तेनेषन्न तृप्तिश्चेत्तदा जलैः ।
स्वादुभिर्बहुभिर्युक्तं पिबेन्मद्यं यथासुखं

1,19.110

तथा नोचेद्भवेद्धातुशोषोऽन्तर्दाहमोहभाक् ।
शिथिलावयवक्षीणप्राणबुद्धिबलः प्रिये

1,19.111

मधुरं शीतलं स्निग्धं द्रवं लघु हितं भजेत् ।
सद्यः सशर्करं लिह्याच्छालेयं जाङ्गलं पलं

1,19.112

अमेदुरं मांसरसं रसालां पानकं पिबेत् ।
पञ्चसारं च रागं च षाडवं चाथवा हितं

1,19.113

<रसालापानके>
शर्करामरिचोपेतं दधि हस्तविलोडितं ।
एतद्रसाला विख्याता रम्भापनसचूतजैः

1,19.114

फलैः सशर्कराम्भोभिर्नवमृत्पात्रगं कृतं ।
ईषदम्लमिति ख्यातं पानकं तद्धितंकरं

1,19.115

<पञ्चसारः>
मृद्वीकाराजखर्जूरमधूककुसुमानि च ।
श्रीपर्णीक्षुद्रखर्जूरीपरिपक्वफलानि च

1,19.116

सशर्कराम्बु निक्षिप्य दृढं हस्तेन पेषयेत् ।
संस्थाप्य नवमृद्भाण्डे ह्यन्येद्युर्वस्त्रशोधितं

1,19.117

पञ्चसार इति ख्यातो हृद्यो वातकफापहः ।
<रागषाडवौ>
सिताक्षौद्रादिमधुरद्रव्ययुक्तं फलं च यत्

1,19.118

स्वच्छं राग इति ज्ञेयः सर्वसन्तापनाशनः ।
अयमेव तु सान्द्रश्चेल्लेह्यं षाडव ईरितः

1,19.119

स च वस्त्रेण संशुद्धः पेयषाडव उच्यते ।
एतत्पञ्चविधं पानं पाटलीचम्पकादिभिः

1,19.120

एलया वासितं शुद्धं मृद्भाण्डे स्थापिते नवे ।
उशीरतालवृन्तस्य वायुना शीतलीकृतं

1,19.121

मोचचोचदलोपेतमेषा सामान्यसंस्कृतिः ।
अथ नूतनभाण्डान्तः पूरितं स्वादु निर्मलं

1,19.122

पाटलीकेतकीपुष्पकर्पूरसुरभीकृतं ।
सान्द्रांबरेण संवीतं तालवृन्तैः सुशीतलं

1,19.123

पिबेज्जलं तालसालपूगखर्जूरपादपैः ।
नालिकेराम्रपनसजम्बूपुन्नागचम्पकैः

1,19.124

करप्रचेयव्यालम्बिफलपुष्पकगुच्छकैः ।
द्राक्षास्तबकसंछन्नशाखान्तरितराजितैः

1,19.125

माधवीस्तबकालीनभृङ्गगीताभिनन्दितैः ।
नानासुगन्धितरुभिर्वार्यमाणार्कदीधितौ

1,19.126

हंससारसकारण्डशोभमानसरोवरे ।
परितः प्रवहत्कुल्यातरङ्गानिलशीतले

1,19.127

नृत्यत्केकिकलाकीर्णकोकिलालापशोभिते ।
शारिकाशुकसंलापमुह्यन्मानवतीजने

1,19.128

उद्याने बालकोशीरवृतौ सलिलसेचिते ।
मृणालपद्मकल्हारोत्पलपल्लवनिर्मिते

1,19.129

सुगन्धिपुष्पमालाभिर्लम्बमाने सुशीतले ।
आर्द्राम्बरैश्च रचितच्छायानवपटालिके

1,19.130

माधवीमण्डपे रम्ये सर्वसन्तापहारिणि ।
कदलीमृणालकुसुमपल्लवैः परिकल्पितां

1,19.131

चारूत्तमच्छदपटां हिमाम्बुपरिषेचितां ।
शय्यामत्यन्तमृदुलां सन्तापश्रमहारिणीं

1,19.132

तुषारशीतलतरैश्चर्मवस्त्राभिपूरितैः ।
सूक्ष्मैर्जललवैः सिक्तः सवयोभिः समन्वितः

1,19.133

मध्याह्नं गमयेदेवं तथा धारागृहेऽथवा ।
दीव्यन्पुस्तमयीकान्तास्तनहस्तमुखच्युतैः

1,19.134

बालोशीराम्बुभिः शीते स्वच्छस्फटिकपट्टके ।
कर्पूरचन्दनालिप्ते लुठंस्तापप्रशान्तये

1,19.135

प्रत्यग्रस्नानशीताङ्ग्यो मुक्ताभरणभूषिताः ।
मृणालचन्दनालेपा मृणालवलयान्विताः

1,19.136

स्वच्छाम्बरातिरुचिराः प्रमदास्तापहारिणीः ।
चुम्बनालिङ्गनस्पर्शैस्तोषयन्परिहासयन्

1,19.137

पुष्पमालाविरचितवितानपरिशोभिते ।
शीतांशुकिरणस्पर्शद्रवच्चन्द्रोपलोज्ज्वले

1,19.138

चन्द्रिकाकान्तिलसिते मन्दानिलविराजिते ।
सौधस्थले समासीनः शशाङ्ककिरणाह्वयान्

1,19.139

भक्षानश्नीत तारेन्दुकिरणैः शीतलीकृतं ।
सशर्करं पिबेत्क्षीरं माहिषं बलकृद्धितं

1,19.140

निदाघहं शरीरस्य मालाचन्दनधारिणः ।
स्वच्छांशुकावृताङ्गस्य समाप्तरतिकर्मणः

1,19.141

जलार्द्रांशुकवातेन तालवृन्तानिलेन च ।
विस्तारिताब्जपत्रस्य वीजनैश्चाम्बुवर्षिभिः

1,19.142

मयूरतालवृन्तैश्च तथा च हरिचन्दनैः ।
कर्पूरमल्लिकामुक्तामालाभिर्मधुरैः प्रिये

1,19.143

शारिकाशुकबालानां आलापैर्बिसभूषणैः ।
फुल्लकल्हारकमलनीलोत्पलविराजितैः

1,19.144

कर्पूरचन्दनालेपैः कान्तैश्च प्रमदाजनैः ।
तापः संह्रियते चास्य चादानोष्णाभितापिनः

1,19.145

सक्तुकट्वम्ललवणरूक्षायासातपांस्त्यजेत् ।
<वर्षर्तुचर्या>
अथातो वार्षिकीं चर्यां शृणु वक्ष्यामि भैरवि

1,19.146

आदानक्षीणधातूनां नराणां जठरानलः ।
क्षीणोऽपि वर्षासमये दोषैः सीदति सत्वरं

1,19.147

सवारिवारिदव्राततिरोहितदिवाकरे ।
व्योम्नि झञ्झासमीरेण शीतलेन तुषारिणा

1,19.148

वातः स्यात्कुपितोऽत्यन्तं प्रतप्ताया निदाघतः ।
भूमेर्मेघादिसिक्ताया बाष्पैः कालस्वभावतः

1,19.149

अम्लपाकैश्च लूतादिमलिनैः सलिलैस्तथा ।
पित्तं कुप्यति चात्यर्थं दुर्दिनत्वाच्च जाठरः

1,19.150

वह्निः सीदति तेनैव श्लेष्मा कुप्यति दुस्तरः ।
एवमन्योन्यदुष्टाः स्युर्दोषाः साधारणं ततः

1,19.151

मर्दनं च शिरोऽभ्यङ्गं तैलैर्नारायणैर्भजेत् ।
उष्णोदकैश्च बहुभिः स्नात्वा संमार्जयेत्तनुं

1,19.152

रक्तं चाप्यथवा शुक्लं माञ्जिष्ठं वाथ धारयेत् ।
सान्द्रेणागरुधूपेन शरीरं धूपयेच्छिवे

1,19.153

कस्तूरीं कुङ्कुमं चारु भजेत्कालागरुद्रवं ।
कुटजं केतकीं जातिं मरुवं करवीरकं

1,19.154

स्निग्धजाङ्गलमांसानि संस्कृतांस्तद्रसानपि ।
मुद्गाढककुलुत्थानां पिबेद्यूषं च संस्कृतं

1,19.155

अरिष्टाख्यं च मैरेयं पुराणमथवा पिबेत् ।
सौवर्चलयुतं मस्तु पञ्चकोलरजोयुतं

1,19.156

भजेदुष्णकरं सर्वं शुद्धकोष्ठो भवेन्नरः ।
कुर्यात्कषायबस्तिं च जीर्णधान्याशनं भजेत्

1,19.157

दिव्यं वा कौपमुदकं शृतं पेयं सुखावहं ।
अत्यन्तवातवर्षेऽह्नि प्रायेण लवणाम्लकं

1,19.158

मधुरं लघु सक्षौद्रं शुष्कनिस्तालितानि च ।
व्यञ्जनानि च तैलं च वटकान्पर्पटान्भजेत्

1,19.159

यथासुखं च ताम्बूलं कस्तूरीफलसंयुतं ।
नेतेवनीस्यादगरुधूपिताम्बरमावहेत्

1,19.160

सुगन्धावयवस्तिष्ठेत्सौधे भूबाष्पवर्जिते ।
तुषारशीतरहिते सुरम्येऽगरुधूपिते

1,19.161

दिवासुप्तिं नदीतोयं सक्तुं जलघृताप्लुतं ।
व्यायाममर्ककिरणान्संगमात्यन्तिकं त्यजेत्

1,19.162

<शरदृतुचर्या>
अथातः शारदीं चर्यां वक्ष्यामि शृणु वाङ्मयि ।
वर्षर्तौ शीतवृष्टिभ्यां सहसैव रवेः करैः

1,19.163

तप्ताङ्गानां नृणां पित्तं चितं वृष्टौ तु शारदे ।
सुतरां कुप्यति तदा तस्मात्पित्तापनुत्तये

1,19.164

पित्तघ्नतैलेनाभ्यङ्गं मर्दनं मृदु कल्पयेत् ।
सुखोष्णवारिणा स्नानं शुक्लकाषायमम्बरं

1,19.165

धृत्वा चागरुकर्पूरधूमेनाङ्गानि लेपयेत् ।
भद्रश्रीहिमलिप्ताङ्गः केतकीभल्लकानि च

1,19.166

चम्पकाम्बुजपत्राणि वहेन्मृगमदान्वितं ।
विरेचनं सिरामोक्षं तिक्ताज्यास्वादनं भजेत्

1,19.167

शालिगोधूममुद्गं च पटोलक्षौद्रशर्कराः ।
जाङ्गलं पिशितं तिक्तं कषायं मधुरान्भजेत्

1,19.168

बुभुक्षितस्तु लघ्वन्नं धात्रीं शीथुं घृतं पयः ।
पानकं यावसं चेक्षुनालिकेरोदकं नवं

1,19.169

अगस्त्योदयसंशुद्धनिर्विषं लघु शीतलं ।
अर्केन्दुकिरणोत्तप्तशीतं हंसोदकं पिबेत्

1,19.170

मौद्गयूषं प्रदोषे तु हिमचन्दनचर्चितः ।
सुगन्धमालानिर्धौतवसनालंकृतः सुखी

1,19.171

मुक्तामालापरिष्कारः सुगन्धोशीरलेपितः ।
रम्यारामापरिवृते हर्म्ये ज्योत्स्नातिसुन्दरे

1,19.172

समासीनश्चन्द्रपादान्सेवेत तरुणीयुतः ।
स्वादन्स्वादंश्चेक्षुदण्डान्पित्तघ्नमदिरामपि

1,19.173

पायं पायं सुखं तिष्ठन्क्रीडयन्कामिनीजनं ।
यवक्षारादिकान्क्षारान्हिमं आतृप्ति भोजनं

1,19.174

तिलतैलं रविकरान्दिवा निद्रां वसां दधि ।
तीक्ष्णं मद्यं त्यजेद्वस्तु प्राचीवायुं च पित्तकृत्

1,19.175

<सर्वर्तुसाधारणी चर्या>
अथ साधारणी चर्या संक्षेपाद्वक्ष्यते शिवे ।
स्वाद्वम्ललवणान्प्रायो हिमवर्षागमे भजेत्

1,19.176

तिक्तोषणकषायांश्च वसन्ते नितरां भजेत् ।
निदाघे मधुरप्रायं भजेद्वर्षात्यये पुनः

1,19.177

तिक्तस्वादुकषायांश्च वर्षर्तौ च भजेत्क्रमात् ।
मधौ रूक्षोष्णमश्नीयाद्ग्रीष्मे स्निग्धं च शीतलं

1,19.178

प्रावृट्शिशिरहेमन्ते स्निग्धं चोष्णतरं भजेत् ।
मेघात्यये रूक्षशीतं विधिनानेन सेवयेत्

1,19.179

तत्तदृतूक्तानधिकान्रसान्सेवेत चान्वहं ।
अन्यानपि रसान्सर्वानल्पमात्रं यथारुचि

1,19.180

एकस्यान्त्यं च सप्ताहमन्यस्य दिनसप्तकं ।
एवं चतुर्दशदिनं ऋतुसंधिरिति स्मृतः

1,19.181

वर्तमानामृतोश्चर्यां मन्दं मन्दं समुत्सृजेत् ।
आगामिन ऋतोश्चर्यां ऋतुसंधौ भजेत्क्रमात्

1,19.182

सात्म्यद्रव्यविसर्गाच्च ह्यसात्म्यद्रव्यसेवनात् ।
रोगा भवन्ति तस्मात्तच्छीलत्यागौ शनैर्व्रजेत्

1,19.183

ऋतुचर्यामिति भजन्नायुरारोग्यं आप्नुयात् ।
<अन्नपाकक्रमो धातुमलाद्युत्पत्तिक्रमश्च>
अन्नपाकक्रमं वक्ष्ये समासेन सुरार्चिते

1,19.184

भुक्तमन्नं च सकलं कोष्ठकं प्राणवायुना ।
आहृतं तद्द्रवैर्भिन्नसंघातं मार्दवं पुनः

1,19.185

स्नेहेन नीतं कोष्ठाग्निरामाशयगतं पचेत् ।
समानवायुनोद्दीप्तो जाठरस्तु यथा बहिः

1,19.186

स्थालीस्थं तण्डुलं तोयं पचेदन्नं च पावकः ।
भुक्तमात्रेण तत्सर्वं षड्रसं मधुरायते

1,19.187

पच्यमानं कफोत्पाद्यैः फेनः स्यान्मधुरादिभिः ।
फेनस्तु कफतत्त्वं यात्यम्लतां च विदाहतः

1,19.188

आमाशयाच्च्युतं तच्च पित्तं भवति निर्मलं ।
पक्वाशयमनुप्राप्तमग्निना परिशोषितं

1,19.189

पिण्डितं परिपक्वं स्यान्महतः पाकतः कटुः ।
पार्थिवश्चाप्य आग्नेयो वायव्यश्चेति नाभसः

1,19.190

पञ्चोष्माणः पार्थिवादीनन्नाननु पचन्ति च ।
पञ्चाहारगुणान्पक्वांस्तथा भूतगुणानपि

1,19.191

पृथक्पृथक्यथास्वं च पुष्णन्त्येते यथासुखं ।
भौमो भौमांस्तथैवान्यानन्ये देहगतान्क्रमात्

1,19.192

पक्वं तदन्नं द्विविधं किट्टसारप्रभेदतः ।
किट्टं तु द्विविधं चाच्छं मूत्रं सान्द्रं शकृद्भवेत्

1,19.193

पुनः सारं पचन्त्येव यथास्वं सप्त वह्नयः ।
धातुगास्तु ततो देवि रसाद्रक्तं भवेत्ततः

1,19.194

मांसं मांसाद्भवेन्मेदस्तस्मादस्थि प्रजायते ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भो भवेत्प्रिये

1,19.195

प्रसादशेषजान्वक्ष्ये रसात्स्तन्यमसृक्ततः ।
सिराश्च कण्डरा मांसात्षट्त्वचश्च वसा भवेत्

1,19.196

मेदसः स्नायुसन्धी च शेषं नश्यत्यतः परं ।
रसस्य किट्टं श्लेष्मा स्यादसृजः पित्तमेव च

1,19.197

मांसस्य किट्टं खमला मेदसो घर्मवारि च ।
अस्थ्नो रोमाणि केशाः स्युर्मज्जायास्त्वक्षिविट्त्वचां

1,19.198

स्नेहः शुक्लस्य चौजः स्यात्क्रमाद्धातुमलाः स्मृताः ।
किट्टं प्रसादो भवति धातूनां परिपाकतः

1,19.199

इतरेतरसंस्तम्भा धातुस्नेहपरम्परा ।
आहारात्साधु जीर्णाद्यो जातः सारो रसो हि सः

1,19.200

तस्माद्रसस्तु धातूनां रक्तादीनां च वर्धनः ।
नराणां धातवः सप्त सन्ति स्त्रीणां यथा तथा

1,19.201

पुंसां शुक्लं च शिरसि नारीणां हृष्टमानसे ।
पतिसङ्गे तु तच्छुक्लं स्रवन्ति स्मरमन्दिरे

1,19.202

तच्चाम्बुसदृशं स्वच्छं सौम्यं गर्भाय नो भवेत् ।
भुक्तमन्नं दिवारात्रं शुक्लवृद्धिं करोति तत्

1,19.203

सप्ताहादच्छशुक्लं स्यान्मासाद्गर्भक्षमं हि तत् ।
एवं पाकक्रमेणैव भवेत्षाण्मातुरांबिके

1,19.204

वृष्यौषधप्रभावेण सद्यः शुक्लादि जायते ।
चङ्क्रमद्भोज्यधातूनां परिवृत्तिः सदा भवेत्

1,19.205

<पाचकाग्निस्वरूपम्>
जाठरो भौतिकश्चैव धातवीयोऽग्नयः स्मृताः ।
एतेषु जाठरः श्रेष्ठो येनान्नं परिपच्यते

1,19.206

स एव मूलं सर्वेषामग्नीनां तत्क्षये क्षयः ।
तद्वृद्धौ च भवेद्वृद्धिस्तन्मूलं जीवितं बलं

1,19.207

देवि तस्माद्धितैः सात्म्यैरन्नपानाख्यदारुभिः ।
पालयेत्तं प्रयत्नेन तदायत्ता ह्यरोगता

1,19.208

चतुर्विधः स एवाग्निस्तीक्ष्णो मन्दः समोऽसमः ।
पित्ताभिमूर्छिते वायौ समाने तीक्ष्णपावकः

1,19.209

असम्यग्बहु वा भुक्तं पचेच्छीघ्रं तु पित्तजान् ।
रोगान्कुर्यात्तु मन्दाग्निः समाने कफपीडिते

1,19.210

सम्यग्भुक्तं मितं वापि हितं चान्नं चिरात्पचेत् ।
वक्त्रशोषाध्मानताश्च गौरवं चान्त्रकूजनं

1,19.211

आटोपमसकृत्कुर्याच्छ्लेष्मजानामयानपि ।
स्वस्थानस्थे समाने तु समोऽग्निरभिधीयते

1,19.212

सम्यग्भुक्तं पचेत्काले त्वारोग्यफलदो भवेत् ।
असमोऽग्निरमार्गस्थे समाने स्यात्सुभोजनं

1,19.213

चिरात्पचेत्तु दुर्भुक्तं अचिराद्वातजान्गदान् ।
कुर्यात्तस्मादप्रमत्तः समाग्निं रक्षयेत्प्रिये

1,19.214

यामद्वये पचेत्तीक्ष्णः षड्यामान्मन्दपावकः ।
कृच्छ्रादन्नं समाग्निस्तु चतुर्यामात्पचेत्सुखं

1,19.215

असमाग्निः कदाचित्तु शीघ्रं वा मन्दमेव वा ।
नाभिस्थाने स्थितो वह्निः सर्वेषां प्राणिनामपि

1,19.216

गजोष्ट्रतुरगादीनां वह्निरङ्गुष्ठमात्रकः ।
पशुमर्त्यमृगाणां च यवमात्रानलो भवेत्

1,19.217

गृध्रोलूकबकादीनां जाठराग्निस्तिलोन्मितः ।
कृमिकीटादिजन्तूनां केशमात्रो हुताशनः

1,19.218

प्रदीप्तो जाठरो वह्निरादावन्नं पचेत्ततः ।
अन्नाभावे पचेद्दोषान्दोषे क्षीणे पचेत्ततः

1,19.219

धातून्धातुक्षये प्राणान्संहरेत्प्राणिनां परं

1,20.1

âक्, १, २०
<योगरसायनम्>
श्रीभैरवी ।
देवदेव कृपाम्भोधे कालकन्दर्पनाशन ।
अष्टमूर्ते महामूर्ते पञ्चकृत्यपरायण

1,20.2

प्रपञ्चितं जगत्सर्वं त्र्यम्बक त्रिपुरान्तक ।
जटाकलितभोगीन्द्रफूत्कारक्लान्तचन्द्रमः

1,20.3

सूर्येन्दुवह्निनयन स्मेरपञ्चानन प्रभो ।
कुण्डलाहिफणारत्नद्योतमानकपोलभूः

1,20.4

कुन्दाग्रदन्तसुभगपल्लवाधरशोभित ।
हालाहलासितगल सप्तभोगीन्द्रभूषण

1,20.5

महाहिवलयप्रोद्यदष्टादशभुजोज्ज्वल ।
सर्वदिव्यायुधोपेत वरव्याघ्राजिनांबर

1,20.6

नमत्सुरासुराधीशमकुटोत्पलरश्मिभिः ।
नीराजितपदद्वन्द्व योगिजन्मजरापह

1,20.7

सच्चिदानन्दविभव प्रसन्न करुणाम्बुधे ।
ओङ्कारगम्य विमलातर्क्याचिन्त्याप्रमेय भोः

1,20.8

स्तोता स्तुत्यः स्तुतिस्त्वं हि कर्ता कार्यं च कारकः ।
सर्वोऽपि हि त्वमेवासि प्रसीद परमेश्वर

1,20.9

त्वन्मायया जगत्सर्वं सृष्टं त्रातं हतं तथा ।
त्वं भूस्त्वमापस्त्वं वह्निस्त्वं वायुस्त्वं नभः शशी

1,20.10

रविस्त्वं परमात्मा त्वं गुणास्त्वं प्रकृतिस्तथा ।
पुरुषस्त्वं मनस्त्वं च बुद्धिश्चित्तमहंकृतिः

1,20.11

रसायनं च सकलमाख्यातुं च सविस्तरं ।
आज्ञापयाहं यदि ते हृद्या प्राणप्रिया विभो

1,20.12

जीवन्मुक्तिः कथं नाथ योगरूपं च कीदृशं ।
अनुगृह्णीष्व देवेश सुखोपायं भवापहं

1,20.13

श्रुत्वा स्तुतिं स्मितमुखो भैरवः परया मुदा ।
उवाच देवीं कल्याणीं पर्वताधिपनन्दिनीं

1,20.14

श्रीभैरवः ।
साधु साधु महामाये सर्वं वेत्सि सनातने ।
तथापि पृच्छसीशानि लोकानां हितकाम्यया

1,20.15

प्रवक्ष्यामि समासेन सावधानं शृणु प्रिये ।
त्वत्तोऽन्या वल्लभा का मे रहस्यार्थविभाषणे

1,20.16

<जीवन्मुक्तलक्षणम्>
शृणु वक्ष्यामि देवेशि जीवन्मुक्तस्य लक्षणं ।
कामं क्रोधं भयं लोभं मदं मोहं च मत्सरं

1,20.17

मानं लज्जां कुलं शीलं कुत्सां दम्भं च वञ्चनां ।
अविद्यां जडतां गर्वं शीतमुष्णं तथातपं

1,20.18

वातं सुखं च दुःखं च पापं पुण्यं हिताहितं ।
तापत्रयं पुत्रमित्रकलत्रादीनि यस्त्यजेत्

1,20.19

न सक्तः सर्वविषये तत्त्वचिन्तापरायणः ।
पद्मपत्रं इवाम्भोभिर्निर्लिप्तहृदयो भवेत्

1,20.20

मैत्रीकृतातटोपेक्षामदैतैर्मण्डिताशयः ।
ऐहिकामुष्मिकसुखप्राप्तिकार्याविरक्तधीः

1,20.21

नित्यानित्यविवेकज्ञो ह्यन्तःकरणनिग्रहः ।
जरामरणहीनश्च शिवसामरसात्मवान्

1,20.22

जीवन्मुक्तः स विज्ञेयस्तीर्णसंसारसागरः ।
देवदैत्यादिभिर्वन्द्यः स सेव्यः स गुरुः शिवः

1,20.23

यथाहं सर्वलोकेषु पूजनीयो महेश्वरि ।
तथासौ सर्वलोकेषु सर्वैः सम्पूज्यते सदा

1,20.24

देहान्तेषु तु मुक्तिर्या प्राणिनां साप्रयोजना ।
देहान्ते देहिनः सर्वे मुक्तिं यान्ति न संशयः

1,20.25

भगसंद्रावणान्मुक्तिर्भवेच्चेद्गर्दभादयः ।
पक्षिणो वृषभा मेषाः किं मुक्तास्त्रिपुराम्बिके

1,20.26

रेतोविण्मूत्रसेवायां यदि मुक्तिर्भवेत्प्रिये ।
कपिश्च सूकराद्याश्च कथं मुक्ता भवन्ति ते

1,20.27

न केवलामरत्वाच्च न शिवत्वाद्भवेत्तथा ।
तद्द्वयोर्मेलनाच्च स्याज्जीवन्मुक्तिरियं स्मृता

1,20.28

सर्वस्मिन्समये शास्त्रे मुक्तिरस्त्यन्तकालजा ।
न दृश्यते करान्तस्थमणिवत्सा च शाम्भवि

1,20.29

अतिगोप्यमवाच्यं यद्देवानामपि दुर्लभं ।
कथयिष्यामि देवेशि देहस्थैर्यं सदातनं

1,20.30

<जीवन्मुक्तिसाधकशरीरस्थैर्यसंपादनोपायः; योगसिद्धिः>
शिवत्वं खेचरत्वं च सर्वसिद्धिप्रदं शुभं ।
देहं विना न किंचित्स्याद्देहोऽयं सर्वसाधनं

1,20.31

तस्माद्देहं प्रयत्नेन रक्षयेत्सर्वतः सदा ।
देहपाते धर्मनाशो धर्मनाशे क्रियाच्युतिः

1,20.32

क्रियाच्युतौ कुतो योगो योगभ्रंशे न चिद्भवेत् ।
चिदभावे कुतो मोक्षो मोक्षे भ्रष्टे न किंचन

1,20.33

अन्योपायशतेनापि न देहो धार्यते सदा ।
पारदः पवनश्च स्यात्सर्वसिद्धिद उत्तमः

1,20.34

संमूर्छितौ मृतौ बद्धावुभौ पवनपारदौ ।
क्रमाद्रोगहरौ नित्यं मृत्युघ्नौ खेचरप्रदौ

1,20.35

रसः पूर्वं मया ख्यातोऽधुना वायुः प्रशस्यते ।
वायोः संधारणाज्ज्ञानं ज्ञानान्मोक्षः प्रजायते

1,20.36

सर्वेषां देहमूलं स्यात्तत्स्थैर्ये पवनः प्रभुः ।
परस्मादक्षरात्तस्मादाकाशं समभूत्ततः

1,20.37

वायुस्तस्माच्च दहनस्तस्मादापस्ततो मही ।
एतेषां पञ्चभूतानामक्षरं कारणं परं

1,20.38

व्योम शब्दात्मकं वायुः शब्दस्पर्शात्मको भवेत् ।
वह्निः शब्दस्पर्शरूपमयः सलिलमुच्यते

1,20.39

शब्दरूपस्पर्शरसात्मकं भूमिर्विशेषतः ।
शब्दरूपरसस्पर्शगन्धरूपा भवेत्प्रिये

1,20.40

भूवाय्वग्न्यनिलाकाशाधिष्ठात्र्यश्चैव देवताः ।
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ

1,20.41

भूमिर्नष्टाम्बुसंमग्ना ताश्च ग्रस्ता महाग्निना ।
स च चण्डसमीरेण शमितः सोऽपि पार्वति

1,20.42

व्योम्नि लीनः क्रमात्तस्मादाकाशादुद्भवन्ति ते ।
अन्तर्बहिः स्थितं व्याप्तं निराधारं निराश्रयं

1,20.43

आकाशं चेतसा ध्यायन्प्रच्छिन्द्याद्भवबन्धनं ।
जगत्प्राणमयं वायुं चिदानन्दप्रदं जलं

1,20.44

निश्चलीकुरुते युक्त्या वायुवत्स्यात्स खेचरः ।
अनन्तार्काग्निसंदीप्तं दहन्तं जगतां त्रयं

1,20.45

तेजो ध्यात्वा स्वहृदये नाग्निना स तु बाध्यते ।
सुधातरङ्गनिकरप्लाव्यमानमहीतलं

1,20.46

अप्तत्त्वं भावयन्स्वान्ते वारि तं न हि बाधते ।
अभूतलचराक्रान्तं भूतलं भूतसंप्लवं

1,20.47

हृदये भावयन्नित्यं तस्य नो पार्थिवं भयं ।
यद्यद्भावयते चित्ते तत्तद्रूपं अवाप्नुयात्

1,20.48

यथाग्नित्वं व्रजेत्काष्ठः कीटो भ्रमरतां यथा ।
<योगाङ्गानि>
आसनं प्राणनियमः प्रत्याहारश्च धारणा

1,20.49

ध्यानं समाधिः षोढा स्युर्योगाङ्गानि क्रमेण च ।
<१. आसनविधिः>
चतुरशीतिलक्षाणि ह्यासनानि भवन्ति हि

1,20.50

तेषु मुख्यासने द्वे च सिद्धपद्मासने स्मृते ।
<सिद्धासनम्>
स्वयोनिं पादमूलेन चैकेन घटयेद्दृढं

1,20.51

अन्यच्चरणमूलं च मेहनोपरि विन्यसेत् ।
अवक्राङ्गः समासीनो वशीभूतेन्द्रियः प्रिये

1,20.52

निश्चलाक्षो भ्रुवोर्मध्यं पश्यन्निश्चलमानसः ।
सिद्धासनमिदं ज्ञेयं मुक्तिमार्गप्रदायकं

1,20.53

<पद्मासनम्>
दक्षिणोरौ पदं वामं वामोरौ दक्षिणं पदं ।
विन्यस्य करयुग्मेन पृष्ठभागगतेन च

1,20.54

विपरीतेन चाङ्गुष्ठं वामं वामकरेण च ।
दक्षिणं दक्षिणेनैव दृढं धृत्वा निजोरसि

1,20.55

विन्यस्य चुबुकं ध्यायेन्नासाग्रं संयतेन्द्रियः ।
एतत्पद्मासनं ख्यातं सर्वरोगनिबर्हणं

1,20.56

<२. प्राणायामः; अजपामुद्रा>
आधारं तु गुदस्थाने चतुर्दलसरोरुहं ।
वादिसान्ताक्षरोपेतं बालारुणसमप्रभं

1,20.57

स्वाधिष्ठानं षड्दलाब्जं बादिलान्ताक्षरान्वितं ।
विद्युत्प्रभं ततो देवि रत्नाभं मणिपूरकं

1,20.58

डादिफान्तार्णसंयुक्तं नाभौ दलशतात्मकं ।
अनाहतं सुवर्णाभं द्वादशच्छदपङ्कजं

1,20.59

हृदये कादिठान्तार्णं विशुद्धिस्तु प्रशस्यते ।
षोडशारं महापद्मं षोडशस्वरभूषितं

1,20.60

आज्ञाचक्रं द्वयदलं पद्महस्तविराजितं ।
श्वेतमेवं क्रमाद्देवि षट्चक्रं समुदाहृतं

1,20.61

नाभेरधस्तान्मेढ्रस्योपरिष्टात्कन्द उच्यते ।
विहंगमाण्डसङ्काशस्तत्र नाडीसमुद्भवः

1,20.62

सप्ततिद्विसहस्राः स्युस्तासु मुख्या दश स्मृताः ।
इडा च प्रथमा नाडी पिङ्गला च द्वितीयका

1,20.63

सुषुम्ना च तृतीया स्याद्गान्धारी च चतुर्थिका ।
पञ्चमी हस्तिजिह्वा स्यात्षष्ठी पूषा तरस्विनी

1,20.64

सप्तम्यलम्बुषा नाडी चाष्टमी च कुहूः स्मृता ।
नवमी शङ्खिनी चैव दशमी च क्रमेण हि

1,20.65

एतास्तु प्राणवाहिन्यो वायवस्तु जपाः स्मृताः ।
प्राणापानौ तथा व्यानोदानौ चैव समानकः

1,20.66

नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
सर्वेषु नाडीचक्रेषु वर्तन्ते दश वायवः

1,20.67

वामदक्षिणमार्गाभ्यामध ऊर्ध्वं च चञ्चलाः ।
प्राणापानवशो जीवः प्रधावति न दृश्यते

1,20.68

हस्ताभ्यामाहतो भूमौ कन्दुको न स्थिरो यथा ।
प्राणापानपरिक्षिप्तस्तथा जीवोऽपि न स्थिरः

1,20.69

प्राणापानसमाकर्षे तथा प्राणमपानतः ।
बहिर्गच्छद्धकारेण सकारेणान्तराविशेत्

1,20.70

हंसः सोऽहं मनुममुं सदा जीवो जपेत्प्रिये ।
एकविंशत्सहस्रं च षट्शताधिकमीश्वरि

1,20.71

हंसमन्त्रस्य संख्या स्यादहोरात्रेण सर्वदा ।
हंसाख्योऽयं महामन्त्रो ह्यजपेति प्रकीर्तितः

1,20.72

जपाख्येयं च गायत्री यमिकैवल्यदायिनी ।
एतत्समं तपो ज्ञानं जपः पुण्यं न किंचन

1,20.73

अनुच्चार्या ह्यवर्णा च कुण्डलिन्याः समुद्भवा ।
प्राणसंचारिणी ह्येषा ज्ञातव्या योगिभिः सदा

1,20.74

माता कुण्डलिनी शक्तिः कन्दादूर्ध्वं प्रतिष्ठिता ।
अष्टधा परिवृत्ता च प्रसुप्तभुजगाकृतिः

1,20.75

ब्रह्मद्वारमुखं सा तु स्वमुखेन पिधाय च ।
तां च प्रबोधयेदादौ वह्नियोगेन पार्वति

1,20.76

वायुना मनसा सार्धं मध्यनाड्या व्रजेच्छिवे ।
हठादाकुञ्चनाद्ब्रह्मद्वारं उद्घाटयेत्तु सा

1,20.77

यथा नयेद्गुणं सूची तद्वद्ब्रह्मबिलं तु सा ।
सुखं पद्मासनासीनः पाणी चोत्तानितौ प्रिये

1,20.78

अङ्कमध्ये निधायैव चुबुकं वक्षसि न्यसेत् ।
दृढं गुदमुखं गाढं आकुञ्च्यापानरन्ध्रकं

1,20.79

मुहुर्मुहुर्वायुमूर्ध्वं चालयेत्त्वरितं प्रिये ।
प्राणं मुञ्चन्कुण्डलिन्याः प्रभावान्मोक्षवर्त्मजं

1,20.80

उपैति सत्प्रबोधं च देवानामपि दुर्लभं ।
तदोद्भूतैः श्रमजलैः स्वाङ्गानि परिमार्जयेत्

1,20.81

क्षीराहारी मितान्नाशी कट्वम्ललवणं त्यजेत् ।
जितेन्द्रियो ब्रह्मचारी कुटीस्थः कर्मवर्जितः

1,20.82

एवमभ्यासनिरतो वत्सरात्सिद्धिमेति सः ।
<प्राणायामे मुद्राः>
जालन्धरं मूलबन्धं ओड्डीयाणं च खेचरीं

1,20.83

महामुद्रां च यः कुर्यात्स भवेद्देहसिद्धिभाक् ।
एषां वक्ष्ये लक्षणानि गोप्यानि तव शाम्भवि

1,20.84

<जालन्धरबन्धः>
जालन्धरं कण्ठसिरासमूहानां च बन्धनं ।
कृत्वाधो नमयित्वा कं तदा स्यन्दति मूर्धतः

1,20.85

नभस्तः स्यन्दमाना च सुधा दोग्धौ पतेन्न च ।
न धावति मरुत्तत्र कर्णसंकोचने कृते

1,20.86

कर्णामयसमूहघ्नं मृत्युघ्नं तत्परं भवेत् ।
<मूलबन्धः>
मूलबन्धं पार्ष्णिभागाद्योनिस्थानं प्रपीडयेत्

1,20.87

गुदमाकुञ्चयेद्योगी नयेदूर्ध्वं अपानकं ।
एवं कृते मूलबन्धे क्षीयते मलमूलकं

1,20.88

प्राणापानौ च संयुक्तौ स्यातां वृद्धोऽपि यौवनं ।
प्राप्नुयान्मूलबन्धेन मृत्युथोपि विवस्वतां

1,20.89

<ओड्याणबन्धः>
ओड्डियाणे नाभिविवरमूर्ध्वं जठरे दृढं ।
आकृष्य पश्चिमं तानं बन्धयेत्पवनस्तदा

1,20.90

विश्रान्तः स्यान्महामाये चोड्याणोऽयं प्रकीर्तितः ।
मृत्युदावानलो दीप्तो जरारोगाब्धिवाडबः

1,20.91

<खेचरीमुद्रा>
आस्यान्तर्विवरे जिह्वां तालुरन्ध्रे प्रवेशयेत् ।
विपरीतां भ्रुवोर्मध्ये पश्येन्निश्चलया दृशा

1,20.92

एषा हि खेचरी मुद्रा गोपनीयातिदुर्लभा ।
जिह्वा तु खगता यस्मान्मनश्चरति खे ततः

1,20.93

खेचरीति प्रसिद्धेयं मृत्युरोगजरापहा ।
निद्रा क्षुधा तृषा नास्ति खेचर्या मुद्रितस्य च

1,20.94

मूर्च्छा भवति साध्वी च कर्मबन्धभयं न हि ।
रमण्या संगतस्यापि रेतो न पतति ध्रुवं

1,20.95

यावच्छुक्रं स्थिरं देहे तावत्कालभयं न हि ।
येन बद्धा नभोमुद्रा बीजस्तस्य न गच्छति

1,20.96

यदि गच्छेत्तस्य बीजो हुताशनमुपैति हि ।
स बीजश्चोर्ध्वमायाति शक्त्या प्रतिहतः स्वयं

1,20.97

योनिमुद्रानिबद्धः सन्सा मुद्रा तेन दुर्लभा ।
बीजस्तु द्विविधः प्रोक्तः शुक्रं चैव महारजः

1,20.98

शिरःस्थानगतं शुक्रं योनिस्थानगतं रजः ।
शुक्रं तु श्वेतवर्णं स्यात्प्रवालाभं रजः स्मृतं

1,20.99

शुक्रं चन्द्रगतं नित्यं रजः सूर्येण सङ्गतं ।
शुक्रं शिवो रजः शक्तिस्तया योगः सुदुर्लभः

1,20.100

मरुता शक्तिचारेण रजश्चोर्ध्वं प्रणीयते ।
ऐक्यं तद्बिन्दुना याति तदा दिव्यं वपुर्भवेत्

1,20.101

<महामुद्रा>
वामाङ्घ्रिमूलभागेन योनिस्थानं प्रपीडयेत् ।
दक्षिणाङ्घ्रिं च विततं हस्ताभ्यां अभिधारयेत्

1,20.102

हनुं वक्षसि निक्षिप्य वायुना जठरं ततः ।
आपूर्य रेचयेद्देवि स्थित्वा बद्धासनो यमी

1,20.103

एषा ख्याता महामुद्रा मलसंशोधनी वरा ।
सूर्येन्दू घटयेज्जिह्वाशोषणी पापनाशिनी

1,20.104

तथा दक्षिणपादेन योनिस्थानं प्रपीडयेत् ।
वितत्य वामपादं च कराभ्यां धारयेत्प्रिये

1,20.105

शेषं पूर्वोक्तवत्कुर्यादेवं सव्यापसव्ययोः ।
भागयोः समकालः स्यादभ्यासस्तां विवर्जयेत्

1,20.106

तस्य पथ्यमपथ्यं च षड्रसा नीरसा अपि ।
घोरं विषं वातिसुखं पीयूषमिव जीर्यते

1,20.107

गुल्मोदावर्तकुष्ठाद्या रोगा नश्यन्त्यसंशयं ।
सिद्धिदेयं महामुद्रा कालं हन्ति जराभयं

1,20.108

न प्रकाश्या न देया च यस्मै कस्मैचन प्रिये ।
<३. प्रत्याहारः>
मुक्तासनस्थितो योगी ऋज्वङ्गग्रीवमस्तकः

1,20.109

घोणाग्रलोचनः स्वस्थः कुटीस्थः प्रणवं जपेत् ।
त्रिलोकश्च त्रिकालश्च त्रिदेवास्त्रीश्वरा अपि

1,20.110

त्रिज्योतींषीन्दुमुख्यानि त्रिवेदाश्चाग्नयस्त्रयः ।
शक्तित्रयं त्रिपदवी ब्राह्मी चैन्द्री च वैष्णवी

1,20.111

वर्णत्रयं च भासन्ते यत्र तज्ज्योतिरोमिति ।
तं ओंकारं च मनसा वचसा कर्मणा तु यः

1,20.112

ध्यायेज्जपेदभ्यसेच्च स मुक्तो भवबन्धनात् ।
गच्छंस्तिष्ठञ्जपञ्जाग्रच्छुचिर्वाप्यशुचिर्यदि

1,20.113

न कर्मणा च लिप्तः स्याज्जलेनाब्जदलं यथा ।
वायौ चलति सर्वेऽपि चलन्तीन्द्रियधातवः

1,20.114

स्थिते वायौ स्थिरे सर्वं वपुःप्रभृति शाम्भवि ।
तस्माद्वायुं निबध्नीयात्स्थिरे वाते स्थिरं मनः

1,20.115

स्थिरे मनसि जीवश्च स्थिरो भवति भैरवि ।
यावत्संयमितो वायुर्यावच्चेतोऽपि सुस्थिरं

1,20.116

बीजं यावद्भ्रुवोर्मध्ये तावत्कालभयं न हि ।
षट्त्रिंशद्व्यङ्गुलं नित्यं ततः प्राणः प्रकीर्तितः

1,20.117

बद्धपद्मासने स्थित्वा ऋज्वङ्गः स्थिरमानसः ।
वामनासापुटेनैव पूरयेत्प्राणमारुतं

1,20.118

यावत्षोडशमात्रं च कुम्भयेद्द्वादश प्रिये ।
रेचयेद्दशमात्रं च दक्षनासापुटेन च

1,20.119

पुनश्च सूर्यमार्गेण पूरयेत्पूर्ववत्प्रिये ।
कुम्भयित्वा रेचयेच्च वामनासापुटेन च

1,20.120

प्राणायामविधिः प्रोक्तस्त्रिविधो योगिवन्दिते ।
अधमो मध्यमो देवि ह्युत्तमोऽपि यथाक्रमं

1,20.121

प्रोक्तोऽयं अधमस्तस्माद्द्विगुणो मध्यमः स्मृतः ।
उत्तमस्त्रिगुणः प्रोक्तः प्राणायामोऽयमीश्वरि

1,20.122

यदा तु वामनासायां पूरयेच्चन्द्रमक्षरं ।
ध्यायेदमृतवारीशमध्यस्थं क्षीरसन्निभं

1,20.123

यदा तु दक्षनासायां पूरयेत्सूर्यमक्षरं ।
ज्वलज्ज्वलनसङ्काशं नाभिस्थं चिन्तयेत्सदा

1,20.124

एवं बीजद्वयं ध्यात्वा नासारन्ध्रद्वयेन च ।
पूरयेद्यस्तु मतिमान्नाडीशुद्धिरतो भवेत्

1,20.125

एवं मासत्रयाभ्यासाद्यथेष्टं वायुधारणं ।
प्रदीप्तो जाठरो वह्निर्नादव्यक्तिश्च जायते

1,20.126

आरोग्यं प्राप्नुयाद्देवि नित्यमभ्यासयोगतः ।
प्रथमेयं न धर्मः स्याद्द्वितीये कम्पते वपुः

1,20.127

उत्तिष्ठति तृतीये तु बद्धपद्मासनस्थितेः ।
प्राणायामादिषट्केन प्रत्याहारो भवेच्छिवे

1,20.128

तद्द्विषट्केन विधिना धारणा तु प्रशस्यते ।
धारणाद्वादशेन स्याद्ध्यानं तद्द्वादशात्मकः

1,20.129

समाधिः कथ्यते देवि तेन दृश्यं परात्परं ।
तस्मिन्परापरे धाम्नि क्षीयते कर्मसंचयः

1,20.130

जन्ममृत्यू न भवतो जरारोगश्च नश्यति ।
युक्तियुक्तेन योगेन चिरायुश्च सुखी भवेत्

1,20.131

अयुक्त्याभ्यासनाद्धिक्काकर्णरोगशिरोव्यथा ।
श्वासकासादयो रोगा दोषाः स्युर्बहवस्तथा

1,20.132

<विपरीतकरणीमुद्रा>
सौम्यस्थानात्समायाता द्वाभ्यां चैका तु भुज्यते ।
ततस्तृतीयो यः कश्चित्स स्याज्जन्मजरोज्झितः

1,20.133

प्रज्वलज्ज्वलनाकारो नाभिमध्ये स्थितो रविः ।
तालुमध्ये शशी भाति सुधां वर्षत्यधोमुखः

1,20.134

तां ग्रसत्यूर्ध्ववदनो भास्करः किरणत्विषा ।
एतस्य विपरीतं यत्करणं विपरीतकं

1,20.135

काकचञ्चुवदास्यं च कृत्वा वायुं ससूत्कृतं ।
आदाय नासारन्ध्रेण पुनस्तं श्वसनं त्यजेत्

1,20.136

शीतलीकरणाख्योऽयं योगस्तु ज्वरपित्तहृत् ।
अमृतं शीतलं तस्य पिबतश्च जरा न हि

1,20.137

जिह्वया तालुमूलेन प्राणं यः पिबति प्रिये ।
तस्य षण्मासतः सर्वे रोगा नश्यन्ति योगिनः

1,20.138

रसनामूर्ध्वतः कृत्वा सोमं पिबति यः प्रिये ।
सिद्धिर्मासार्ध आयाति रोगास्तस्य न सन्ति हि

1,20.139

जिह्वाग्रेण च संपीड्य रसनान्तर्बिलं महत् ।
ध्यात्वामृतझरीमम्बां अर्धाब्देन भवेत्कविः

1,20.140

अमृताप्लाविततनोर्योगिनो वत्सरत्रयात् ।
रेतश्चोर्ध्वं प्रयात्येव सिध्यन्ति ह्यणिमादयः

1,20.141

त्रिविधं गरलं तस्य शरीरे च न संक्रमेत् ।
जरा च मरणं नास्ति दुष्टसत्त्वभयं तथा

1,20.142

<४. धारणम्>
उक्तासनसमारूढः प्राणायामरतः सदा ।
प्रत्याहारप्रसन्नः सन्नभ्यसेद्धारणं ततः

1,20.143

चेतसो निश्चलत्वं यद्धारणा सा स्मृता शिवे ।
पृथ्व्यादिपञ्चभूतानां या पृथग्धारणा हृदि

1,20.144

चतुरश्रा सुवर्णा सलकारा च हृदि स्थिता ।
ब्रह्मणा सहिता भूमिर्ध्यातव्या पञ्च नाडिकाः

1,20.145

प्राणं तत्रैव मनसा धारयेत्सह शांभवि ।
एषा स्तम्भकरी विद्या पृथ्वीजयमवाप्नुयात्

1,20.146

अर्धचन्द्रप्रतीकाशं कर्पूरहिमनिर्मलं ।
कण्ठस्थानगतं नित्यं सुधाप्लुतवकारयुक्

1,20.147

जलतत्त्वं च संयुक्तं विष्णुना तत्र धारयेत् ।
प्राणं चित्तेन सहितं ध्यातव्यं पञ्चनाडिकाः

1,20.148

एषा हि वारुणी विद्या विषपित्तज्वरापहा ।
ग्रसने कालकूटस्य मयैव परिकल्पिता

1,20.149

त्रिकोणं तप्तहेमाभं सरेफं रुद्रदैवतं ।
तालुस्थानगतं ध्यायेद्वह्नितत्त्वं ज्वलत्प्रभं

1,20.150

तत्रैव पञ्चघटिकाः प्राणं च मनसा सह ।
धारयेन्निहितं योगी ह्येषा वैश्वानरी परा

1,20.151

विषाग्निभीतिसंहर्त्री वातश्लेष्मादिरोगहृत् ।
वर्तुलं नीलमेघाभं भ्रुवोर्मध्ये प्रतिष्ठितं

1,20.152

सयकारं वायुतत्त्वं नित्यमीश्वरदैवतं ।
तत्रैव नाडिकाः पञ्च प्राणं च मनसा सह

1,20.153

धारयेद्वायवीयैषा विद्या खगतिदायिनी ।
मृगतृष्णाम्बुसङ्काशं हकारेण समन्वितं

1,20.154

सदाशिवादिदैवं च ब्रह्मरन्ध्रगतं सदा ।
व्योमतत्त्वं निराकाशं शान्तं सर्वगतं प्रिये

1,20.155

तत्र प्राणं च संयम्य मनसा सह धारयेत् ।
यावत्स्युः पञ्च घटिका नभोविद्येयमीश्वरि

1,20.156

कथिता मोक्षदा देवि योगिनां दुःखहारिणी ।
स्तम्भनी पार्थिवी विद्या प्लावनी वारुणी मता

1,20.157

ततो वैश्वानरी विद्या दाहिनीति प्रकीर्तिता ।
वायवी भ्रामणी प्रोक्ता शमनी व्योमरूपिणी

1,20.158

क्रमशः पञ्चविद्याश्च धारणीयाः पृथक्पृथक् ।
स्वनामकर्मसदृशं फलं ददति योगिनां

1,20.159

एषा पञ्चविधा देवि धारणा भुवि दुर्लभा ।
<५. ध्यानम्>
तत्त्वेषु निश्चला चिन्ता या तद्ध्यानं प्रकीर्त्यते

1,20.160

ध्यानं द्विधेति विख्यातं सगुणं निर्गुणं प्रिये ।
सगुणं वर्णसहितं निर्गुणं वर्णवर्जितं

1,20.161

लक्षं च वाजपेयानामश्वमेधसहस्रकं ।
सकृद्ध्यानस्य योगस्य कलां नार्हन्ति षोडशीं

1,20.162

प्रत्यङ्मना बहिर्दृष्टिरृजुः पद्मासनस्थितः ।
ध्यानयोगः स विज्ञेयः सद्यः सिद्धिप्रदः शुभः

1,20.163

मूलाधारे सुवर्णाभे चक्रेऽस्मिन्प्रथमे प्रिये ।
ध्यात्वात्मानं च नासाग्रे लक्षयेद्धन्ति किल्बिषं

1,20.164

स्वाधिष्ठाने च रत्नाभे ह्यात्मानं परिचिन्तयेत् ।
नासाग्रलक्षो दुःखेभ्यो मुच्यते योगिसत्तमः

1,20.165

बालारुणाभे चात्मानं चक्रेऽस्मिन्मणिपूरके ।
स्मृत्वा नासाग्रदृष्टिः संस्त्रिजगत्क्षोभयेद्यमी

1,20.166

विद्युन्मालानिभे चक्रेऽनाहते हृदयस्थले ।
प्राणायामेन बहुधा साधिते परमेश्वरि

1,20.167

आत्मानं चिन्तयेद्यस्तु नासाग्रगतलोचनः ।
भवेद्ब्रह्मसमो योगी वशीकृतमनाः प्रिये

1,20.168

घण्टिकायां विशुद्धाख्ये स्वर्णचम्पकसन्निभे ।
घ्राणाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्

1,20.169

लम्बिकायां सुधापूर्णे चन्द्रमण्डलमण्डिते ।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्

1,20.170

भ्रुवोर्मध्येऽञ्जनाकारे ध्यायेदात्मानमीश्वरि ।
जितप्राणो भवेद्योगी योगानन्दमयो भवेत्

1,20.171

निर्गुणं निरपायं च शिवं शान्तं परात्परं ।
विश्वतैजसं आत्मानं ध्यायेद्भ्रूमध्यलोचनः

1,20.172

ब्रह्मानन्दमयो योगी भवत्येव न संशयः ।
आज्ञाचक्रमिति ख्यातं परे व्योम्नि निरामये

1,20.173

शिवं आत्मानमाचिन्त्य भवेज्ज्ञानमयो वशी ।
गगनाकारममलं मृगतृष्णाम्बुसन्निभं

1,20.174

ध्यात्वात्मानं सर्वगतं मोक्षं व्रजति संयमी ।
अपानमेढ्रौ नाभिश्च हृदयं घण्टिका तथा

1,20.175

लम्बिका च भ्रुवोर्मध्यं नभश्च ब्रह्मरन्ध्रकं ।
तव चक्रमिति ख्यातं देयं स्थानं च योगिनां

1,20.176

धारणा पञ्चघटिका षण्णाडी ध्यानमुच्यते ।
समाधिर्द्वादशाहं स्यात्प्राणसंयमनात्प्रिये

1,20.177

<६. समाधिः>
जलसैन्धवयोर्योगादेकत्वं च यथा भवेत् ।
चित्तात्मनोः सामरस्यं समाधिः स तु कथ्यते

1,20.178

मनः प्रलीयते चान्ते यदा प्राणक्षयो भवेत् ।
सामरस्यं तदा स्याच्च समाधिः स तु कथ्यते

1,20.179

प्रणष्टाखिलसङ्कल्पो जीवात्मा परमात्मना ।
यदेकत्वं भजेद्देवि समाधिः स तु कथ्यते

1,20.180

परापेक्षोज्झितं चित्तमिन्द्रियेषु प्रवर्तते ।
यदा जीवो गतश्चैक्यं तदा नैवेन्द्रियं मनः

1,20.181

शब्दं स्पर्शं च रूपं च रसं गन्धं परं तथा ।
आत्मानं च सुखं दुःखं मानामानं प्रियाप्रिये

1,20.182

शीताशीतं तथा वातमातपं यो न वेत्ति च ।
न बाध्यते स्वकर्मौघैर्न कैश्चिदपि बाध्यते

1,20.183

न शस्त्रैर्बाध्यते मन्त्रैर्यन्त्रैस्तन्त्रैर्न गृह्यते ।
नाग्निना न जलेनापि वायुना न च पीड्यते

1,20.184

अवध्यो देहिभिः सर्वैर्माननीयः सुरैरपि ।
आहारे च विहारे च निद्रायां अवबोधने

1,20.185

सर्वकर्मसु युक्तः सन्स तत्त्वं वेत्ति योगिनि ।
निरालम्बं निराकारमनाद्यन्तं निराश्रयं

1,20.186

अनालयं निष्प्रपञ्चं निष्क्रियं निर्मलं महत् ।
निश्चलं निर्मलं नित्यं निर्गुणं व्योम चिन्मयं

1,20.187

सदानन्दमनन्तं च सर्वगं विभु संततं ।
एतद्ब्रह्मपदं तत्त्वं विद्धि त्वं विन्ध्यवासिनि

1,20.188

अनामये निरालम्बे निरातङ्के महाद्युतौ ।
निराभासे परे तत्त्वे योगयुक्तः प्रलीयते

1,20.189

दुग्धे दुग्धं घृते चाज्यमग्नावग्निर्जले जलं ।
क्षिप्तं व्रजेत्तन्मयत्वं तथा ब्रह्मणि लीयते

1,20.190

<योगाभ्यासफलम्>
मयोदितमिदं सर्वं दिव्यवायुरसायनं ।
यः सेवेत स पुण्यात्मा कृतकृत्यो जगत्त्रये

1,20.191

सर्वयज्ञफलोपेतः स स्नातः सर्वतीर्थके ।
स यशस्वी स योगीन्द्रः स एवामरवन्दितः

1,20.192

स एव सिद्धः शुद्धश्च मम तुल्यो वरानने ।
तस्मिन्स्निह्यति मे चेतस्तच्चित्तं मे निवासभूः

1,20.193

सफलं जीवितं तस्य पूतं तदुभयं कुलं ।
तत्पदन्यासमात्रेण धरित्री पावनीकृता

1,20.194

यत्रोषितं क्षणं तेन पुण्यक्षेत्रं हि सा मही ।
धन्या तज्जनयित्री च पुण्यस्तज्जनकः प्रिये

1,20.195

तद्दर्शनात्सजीवाः स्युः शूलप्रोतादयः शवाः ।
तद्वाक्येनैव सर्वेऽपि लभन्तेऽपि शुभाशुभं

1,20.196

तन्मूत्रमलसंस्पर्शाल्लोहा यान्ति सुवर्णतां ।
किं पुनः कथ्यते देवि मम तुल्यपराक्रमः

1,21.1

âक्, १, २१
<योगसिद्धिदकुटीनिर्माणविधिः>
श्रीभैरवी ।
कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी ।
तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो

1,21.2

श्रीभैरवः ।
वक्ष्यामि तां कुटीं सम्यक्शृणु त्रिपुरसुन्दरि ।
मेदिनीं उन्नतीकृत्य पुनस्तां सुहृदं प्रिये

1,21.3

स्तंभांश्च क्रमशः षट्षट्पङ्क्तिशः स्थापयेदृजून् ।
तुला उपरि चारोप्य दारूणि सुदृढानि च

1,21.4

स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् ।
परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभां

1,21.5

कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः ।
निखनेच्चतुरश्रं च दशप्रादेशमात्रकं

1,21.6

पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः ।
एवं दशवितस्त्याभिरचिन्त्यां तां मनोहरां

1,21.7

प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे ।
याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते

1,21.8

द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते ।
सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितं

1,21.9

सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलं ।
दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयं

1,21.10

सार्धत्रयं वितस्तीनां विशालं चायतं दश ।
प्रादेशमात्रं उत्सेधं मध्यं प्रादेशिकत्रयं

1,21.11

तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितं ।
पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरं

1,21.12

भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहं ।
फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितं

1,21.13

नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनं ।
दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहं

1,21.14

हारकेयूरकटकमुद्रिकादिविभूषितं ।
दशहस्तं च डमरुमङ्कुशं खड्गशूलकं

1,21.15

वरदं सव्यहस्ताब्जैर्नागं पाशं च घण्टिकां ।
मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः

1,21.16

कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनं ।
व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनं

1,21.17

ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये ।
पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितं

1,21.18

किङ्किणीमालया बद्धकर्णनूपुरशोभितं ।
बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणं

1,21.19

श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः ।
दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनं

1,21.20

मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् ।
आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयं

1,21.21

वटुकायेति मायां च वटुकस्य मनुः स्मृतः ।
मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते

1,21.22

मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् ।
रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात्

1,21.23

कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितं ।
अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके

1,21.24

बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् ।
द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान्

1,21.25

अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः ।
आपदुद्धारणं यन्त्रमपमृत्युनिवारणं

1,21.26

रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि ।
स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकं

1,21.27

नानासिद्धिप्रदं नित्यं सर्वरोगविषापहं ।
हारकेयूररुचिरं कान्त्या विश्वविमोहनं

1,21.28

महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् ।
एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च

1,21.29

स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः ।
रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः

1,21.30

प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् ।
तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत्

1,21.31

आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् ।
बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत्

1,21.32

चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकं ।
अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनं

1,21.33

तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् ।
नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननं

1,21.34

पाशारुणोत्पलं वामे दक्षे शूलकपालकौ ।
दधानं इन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरं

1,21.35

वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः ।
प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः

1,21.36

इदं चिन्तामणेर्मन्त्रं चिन्तितार्थप्रदं शुभं ।
षोडशस्वरसंवीतं चिन्तामणिमभीष्टदं

1,21.37

ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहं ।
ततश्च शारदादेवीं आलिखेत्सिद्धिदायिनीं

1,21.38

शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधरां ।
सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः

1,21.39

बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलां ।
वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः

1,21.40

वाग्वादिनीं ससम्बुद्धिं अग्निपत्नीं समुच्चरेत् ।
एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः

1,21.41

आदिबीजद्वयं हित्वा शेषं पूर्ववदुच्चरेत् ।
दशार्णशारदामन्त्रो वाग्विलासप्रदायकः

1,21.42

वियद्वर्णसुकारं च सद्यान्तं सविसर्गकं ।
कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि

1,21.43

अष्टच्छदेष्वष्टवर्गान्यशहाद्यैः परैस्त्रिभिः ।
काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः

1,21.44

लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् ।
इदं हि मातृकायन्त्रं विषमृत्युगदापहं

1,21.45

अघोरं विलिखेद्देवि नीलजीमूतसन्निभं ।
क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितं

1,21.46

रक्ताङ्गरागवसनं रक्तमालाविराजितं ।
परश्वथुं च डमरुं खड्गं खेटं इषुं धनुः

1,21.47

त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः ।
भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितं

1,21.48

घोरं ततोऽघोरतरं तनुरूपं चटद्वयं ।
प्रकटद्विगुणं चैव कहशब्दयुगं ततः

1,21.49

वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितं ।
घातयद्वितयं देवि कवचं च फडन्तकं

1,21.50

एकोत्तरोऽयं पञ्चाशदर्णोऽघोरः स्मृतो मनुः ।
वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतं

1,21.51

मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहं ।
सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये

1,21.52

मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतं ।
तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकं

1,21.53

ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान्लिखेत् ।
अग्रशेषेषु तद्वत्तत्षट्कोणे कवचास्त्रकौ

1,21.54

तद्बहिर्भूपुरं लेख्यं एनदाघोरयन्त्रकं ।
स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः

1,21.55

षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् ।
षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः

1,21.56

ऋतुभिः शिष्टमन्त्रार्णैरमीभिर्विलिखेत्ततः ।
षट्कोणे वह्निचास्त्राभ्यां उद्धृतं वीतकोणकं

1,21.57

भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये ।
व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहं

1,21.58

अथो महागणपतिं लिखेद्विद्रुमसन्निभं ।
कोटीरचन्द्रशकलं गजास्यं लोचनत्रयं

1,21.59

तुन्दिलं रक्तवसनं रक्तमालानुलेपनं ।
दशदोर्दण्डसुभगं वामोरुस्थितयोषितं

1,21.60

हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलं ।
फलपूरं गदां इक्षुकोदण्डं च त्रिशूलकं

1,21.61

चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीं ।
स्वदन्ततुण्डया रत्नकलशं दशभिः करैः

1,21.62

बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया ।
आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमं

1,21.63

प्रणवं कमलां मायां कामराजं वसुंधरां ।
क्रमाद्गणपतेर्बीजं महागणपतिं ततः

1,21.64

चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा ।
ततः सर्वजनं मे च वशमानय शब्दकं

1,21.65

अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकं ।
मन्त्रं महागणपतेर्मृत्युदारिद्र्यनाशनं

1,21.66

त्रिकोणे बीजमालिख्य सतारे च गणेशितुः ।
दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत्

1,21.67

षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकं ।
ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत्

1,21.68

अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः ।
लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः

1,21.69

भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभं ।
गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनं

1,21.70

एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् ।
कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत्

1,21.71

असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवं ।
कपालिनं भीषणं च संहारं भैरवं क्रमात्

1,21.72

द्वितीयावरणस्यान्तर्भित्तावेकादश क्रमात् ।
रुद्रांस्त्रिलोचनांश्चन्द्रकलाजूटजटान्लिखेत्

1,21.73

तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश ।
सनत्कुमारसनकसनन्दादीन्लिखेत्ततः

1,21.74

तृतीयावरणस्यान्तर्भित्तौ ब्राह्म्यादिमातरः ।
चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि

1,21.75

तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् ।
ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः

1,21.76

मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः ।
कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत्

1,21.77

द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ ।
गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च

1,21.78

द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ ।
यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः

1,21.79

देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनं ।
तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः

1,21.80

राष्ट्रं सुभिक्षं आरोग्यं अनामयसुखावहं ।
ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलं

1,21.81

तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितं ।
तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च

1,21.82

इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः ।
योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः

1,21.83

तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः ।
सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलं

1,21.84

वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् ।
कुष्ठापस्मारभूतादिमहाव्याधिविनाशनं

1,21.85

कुटीगता भवेयुस्ते ये सेवन्ते रसायनं ।
सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभां

1,21.86

<अमरीकल्पः>
देवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवं ।
अमरीकल्पमनघं सुलभं निजदेहजं

1,21.87

अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदं ।
वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः

1,21.88

कुटीगतस्तु देवेशि शिवतोयमुदारधीः ।
स्थूलस्य कतकस्यैव दारुणा पानपात्रकं

1,21.89

कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे ।
कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये

1,21.90

स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् ।
मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः

1,21.91

लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा ।
इष्टदेवान्गुरून्वृद्धान्नत्वार्चितगणेश्वरः

1,21.92

मिताहारो युक्तचेष्टो वातातपविवर्जितः ।
एकमण्डलमात्रेण बाह्यान्तः शुचिभाग्भवेत्

1,21.93

मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनं ।
मण्डलेन तृतीयेन चतुर्विधविषापहं

1,21.94

मण्डलेन चतुर्थेन नालिकेराम्बुवद्भवेत् ।
आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनं

1,21.95

षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनं ।
सप्तमण्डलयोगेन भवेदिन्द्रियपाटवं

1,21.96

ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् ।
सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलं

1,21.97

वलीपलितहीनः स्यान्महाविषभयोज्झितः ।
मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ

1,21.98

शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिं ।
मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः

1,21.99

द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतं ।
एवं भजेद्यमी यावदष्टाविंशतिमण्डलं

1,21.100

मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः ।
एकोनत्रिंशति प्राप्ते मण्डले वरया युतां

1,21.101

सकान्तचूर्णविमलां गोधामपि पिबेत्प्रिये ।
पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः

1,21.102

षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितं ।
आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकं

1,21.103

चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् ।
त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतं

1,21.104

वरायुतं पिबेदूनपञ्चाशन्मण्डलावधिः ।
अणिमादिगुणोपेतो वज्रकायश्च खेचरः

1,21.105

सिद्धैर्युक्तो निरातङ्को निरपायो निरञ्जनः ।
यदृच्छया सर्वलोके विहरत्येव सर्वदा

1,21.106

आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् ।
आत्मतोयेन धुत्तूररसेन परिलोडयेत्

1,21.107

भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् ।
अन्यकालसमायातं आत्मतोयं विशेषतः

1,21.108

मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये ।
शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः

1,21.109

कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये ।
अमरीसेविनः पुंसः शिवतोयेन जायते

1,21.110

सर्वलोहं च कनकं दिव्यं मनुजदुर्लभं ।
विजयासहितां गोधां प्रतिवासरमापिबेत्

1,22.1

âक्, १, २२
<वन्दाककल्पः>
वन्दाको द्विविधः प्रोक्तः पुरुषस्त्रीविभेदतः ।
खर्जूरीपत्रवत्पत्रः पुरुषः सर्वसिद्धिदः

1,22.2

स्त्रीसंज्ञस्तु गुणैरल्पो वृत्तपत्रः प्रतापवान् ।
वन्दाकः पादपरुहः शिखरी तरुरोहिणी

1,22.3

वृक्षादनी कामिनी च वृक्षरुग्बन्धबन्धकं ।
वन्दाकस्तिक्ततुवरः कफपित्तश्रमापहः

1,22.4

वश्यादिसिद्धिदो वृष्यो विषघ्नश्च रसायनं ।
<वन्दाकाहरणविधिः>
कृतोपवासः सुस्नातो रक्तमाल्यानुलेपनः

1,22.5

मुक्तकेशाम्बरो भूत्वा रात्रौ संयतमानसः ।
वृक्षं प्रदक्षिणं कृत्वा गन्धपुष्पाक्षतादिभिः

1,22.6

पूजाद्रव्यैः समभ्यर्च्य बलिं दध्योदनैः किरेत् ।
चिन्तामणिं नृसिंहं च मनुमष्टोत्तरं शतं

1,22.7

जप्त्वा खड्गेन संछिद्य वन्दाकं विधिनाहरेत् ।
वन्दाकानां तु सर्वेषां विधिरेष उदाहृतः

1,22.8

अश्विन्यां शुचिरश्वत्थवन्दाकं विधिनाहृतं ।
क्षीरेण पिष्टमालोड्य पिबेदश्वबलो भवेत्

1,22.9

तथैवाश्वत्थवन्दाकमुपरागेऽर्कचन्द्रयोः ।
नृसिंहमन्त्रं प्रजपन्खड्गेनाच्छिद्य चाहरेत्

1,22.10

घृष्ट्वांभसा प्रकोष्ठेण लिप्त्वा गोरोचनान्वितं ।
विधाय तिलकं पश्येत्सर्ववश्यो भवेद्ध्रुवं

1,22.11

न्यग्रोधस्य तु वन्दाकमश्विन्यां विधिनाहरेत् ।
सूत्रेण बन्धयेद्धस्ते ह्यदृश्यो जायते नरः

1,22.12

सर्ववश्यं भवेत्क्षीरैः पिष्ट्वा पाने गदाञ्जयेत् ।
अश्विन्यां तु शिरीषस्य वन्दाकं विधिनाहरेत्

1,22.13

सूत्रेण बन्धयेद्धस्ते वीर्यस्तम्भो भवेद्ध्रुवं ।
अश्विन्यामाहरेद्धीमान्पलाशस्य तु बन्धकं

1,22.14

हस्ते बद्ध्वा स्पृशेद्यस्तु सा नारी वशगा भवेत् ।
अङ्कोलबन्धं अश्विन्यां करे बद्ध्वा जगत्प्रियः

1,22.15

भरण्यां कुशवन्दाकं गृहीत्वा शुभयोगतः ।
बध्नीयाद्दक्षिणे हस्ते तेनादृश्यो भवेन्नरः

1,22.16

भरण्यां फल्गुवन्दाकं धान्यराशौ विनिक्षिपेत् ।
तेन वै धान्यवृद्धिः स्यान्नात्र कार्या विचारणा

1,22.17

भरण्यां बदरीणां च वन्दाकं विधिनाहरेत् ।
बन्धयेद्दक्षिणे हस्ते संलभेदीप्सितं फलं

1,22.18

कृत्तिकायां तु कतकवन्दाकं विधिनाहरेत् ।
वर्तिमध्ये क्षिपेत्तं च तेन संगृह्य कज्जलं

1,22.19

स्त्रीणामञ्जनमात्रेण पतिर्वश्यो भवेद्ध्रुवं ।
कृत्तिकायां शुचिर्भूत्वा जम्बूवन्दाकं आहरेत्

1,22.20

क्षीरेण पिष्टं तत्कल्कं पीत्वा रोगैर्विमुच्यते ।
रोहिण्यां तिन्त्रिणीकस्य वन्दाकं विधिनाहरेत्

1,22.21

बद्ध्वा हस्ते स्पृशेद्यं यं सर्ववश्यो भवेन्नरः ।
तिमिरादिषु शस्तं तदसाध्यं घृतमञ्जनात्

1,22.22

क्षौद्रघृष्टेन तेनैव कृतं चक्षुष्यमञ्जनं ।
बन्धकं उदुम्बरभवं रोहिण्यां गृह्य वलयकं कुर्यात् ।
तद्वलयोपरि विनिहितभाण्डस्थितमोदकं क्षयं नैति

1,22.23

अश्वत्थस्य तु वन्दाकं रोहिण्यां विधिनाहरेत्

1,22.24

गृहे स्थिते च वन्दाके नित्यैश्वर्यं प्रजायते ।
कतकस्य तु वन्दाकं रोहिण्यां विधिनाहरेत्

1,22.25

अञ्जने नेत्रयुगले निधिं पश्यति निश्चितं ।
तदेव बन्धयेद्धस्ते सर्ववश्यो भवेद्ध्रुवं

1,22.26

उदुम्बरस्य वन्दाकं रोहिण्यां विधिनाहरेत् ।
हस्ते बद्ध्वा निहन्त्याशु ज्वरं चातुर्थिकं प्रिये

1,22.27

रोहिण्यां मातुलुङ्गस्य बन्धकं तु समाहरेत् ।
धारयेद्दक्षिणे कर्णे जगद्वश्यकरं परं

1,22.28

रोहिण्यां बिल्ववन्दाकं करे बद्ध्वा जगत्प्रियः ।
मृगशीर्षे शिरीषस्य वन्दाकं सम्यगाहृतं

1,22.29

हस्ते बद्ध्वा स्पृशेन्नारीं नरं वा वशयेद्ध्रुवं ।
मृगशीर्षे तु वन्दाकं तिन्त्रिणीवृक्षसम्भवं

1,22.30

क्षीरेण पिष्ट्वा प्रपिबेददृश्यो जायते नरः ।
तद्दध्ना यः पिबेत्प्रातः सर्वव्याधिहरो भवेत्

1,22.31

महिषीतक्रपिष्टेन तेन सर्वाङ्गलेपनं ।
कृत्वा वह्निगतो यस्तु वह्निना च न दह्यते

1,22.32

तिन्त्रिणीकस्य वन्दाकं गृहे यस्य प्रतिष्ठितं ।
तस्य चोरभयं नास्ति करे द्यूतजयो भवेत्

1,22.33

उदुम्बरस्य वन्दाकं मृगशीर्षे समाहरेत् ।
हस्ते बद्ध्वा स्पृशेन्नारीं सा नारी वशगा भवेत्

1,22.34

स्त्रीणां हस्ते तु बध्नीयादन्नमध्ये विनिक्षिपेत् ।
जायते चान्नवृद्धिस्तु नात्र कार्या विचारणा

1,22.35

न्यग्रोधस्य तु वन्दाकं मृगशीर्षे समाहरेत् ।
बध्नीयाद्दक्षिणे हस्ते जनवश्यो भवेद्ध्रुवं

1,22.36

आदाय माटरूषस्य वन्दाकं समुदाहृतं ।
बद्ध्वा हस्ते जनैर्दीव्यन्स्याद्द्यूतेष्वपराजितः

1,22.37

आर्द्रायां तौम्बुरं ग्राह्यं वन्दाकं विधिना हरेत् ।
क्षीरेण प्रपिबेद्यस्तु तस्य स्याल्लोहमोटनं

1,22.38

आर्द्रार्के वा पुष्यरवौ वन्दाकं तुम्बुरोर्हरेत् ।
बध्नीयाद्दक्षिणे हस्ते बाणस्तम्भः प्रजायते

1,22.39

पुनर्वसोर्हृतं वंशवन्दाकं क्षीरपेषितं ।
पीत्वा स्त्रीपुरुषौ वन्ध्यौ प्रसुवाते सुतान्बहून्

1,22.40

नक्तमालस्य वन्दाकमाहरेच्च पुनर्वसौ ।
क्षीरेण पिष्ट्वा प्रपिबेदखिलामयनाशनं

1,22.41

तच्चूर्णस्य मात्रेण नश्यन्ति ग्रहराक्षसाः ।
पुष्ये बन्धूकवन्दाकं गृहीत्वा तं निधापयेत्

1,22.42

क्षेत्रमध्ये रिपोस्तत्र सस्यनाशश्च जायते ।
आश्लेषायां कर्णिकारवन्दाकं सम्यगाहृतं

1,22.43

बद्ध्वा हस्ते दृढं तेन स्पृशन्वशति तेजनात् ।
मधूकस्य च वन्दाकमाश्लेषायां समाहरेत्

1,22.44

बन्धयेद्दक्षिणे हस्ते व्याघ्रादिभयनाशनं ।
मघासु मुचुकुन्दस्य वन्दाकं विधिनाहृतं

1,22.45

निधापयेद्धान्यमध्ये तद्धान्यं त्वक्षयं भवेत् ।
विभीतकस्य वन्दाकं फल्गुन्योः पूर्वयोर्हृतं

1,22.46

स्थापयेद्धान्यमध्येन तदक्षय्यं क्षणाद्भवेत् ।
फल्गुन्योरन्ययोर्हस्तेऽप्ययमेव विधिः स्मृतः

1,22.47

शाकवृक्षस्य वन्दाकं मघायां विधिनाहरेत् ।
धान्यसंचयकृद्द्वारे धान्यवृद्धिश्च जायते

1,22.48

मौञ्जीवृक्षस्य वन्दाकं मघार्के विधिनाहरेत् ।
शिरसा धारयेन्नित्यं तस्य श्रीर्वशमाप्नुयात्

1,22.49

पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ।
करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत्

1,22.50

तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ।
बद्ध्वा हस्ते समस्तानां सध्वधो भवति द्विषां

1,22.51

कुटजस्य तु वन्दाकं चित्रायां विधिनाहरेत् ।
बध्नीयाद्दक्षिणे हस्ते दुर्लभं चेप्सितं लभेत्

1,22.52

स्वात्यां लिकुचवन्दाकं गृहीत्वा यत्र वस्तुनि ।
निधापयति तत्सर्वमक्षयं नात्र संशयः

1,22.53

बब्बूलबन्धकं स्वात्यां बदर्यास्त्वनुराधके ।
बध्नन्यो धारयेद्धस्ते तत्स्पृष्टा स्त्री वशा भवेत्

1,22.54

आहृत्य धात्रीवन्दाकं विशाखायां यथाविधि ।
शुक्तकारस्य भवने विरुद्धस्य निधापयेत्

1,22.55

सर्वं मद्यमपेयं स्यान्मोक्षस्तस्मिन्समुद्धृते ।
अनुराधासु विधिना ऐन्द्रीवन्दाकमाहृतं

1,22.56

धान्यमध्ये विनिक्षिप्तं धान्यमक्षयतां नयेत् ।
ज्येष्ठायां आम्रवन्दाकं हृत्वा वेश्यागृहे खनेत्

1,22.57

सा दुर्भगा भवेत्सत्यमुद्धृते मोक्ष उच्यते ।
मूले खदिरवन्दाकं गृहीत्वा विधिपूर्वकं

1,22.58

बद्ध्वा हस्ते नरः क्षिप्रं दुर्भगः सुभगो भवेत् ।
तदेव पिष्टं क्षीरेण पीतं कुष्ठादिनाशनं

1,22.59

मूलार्के गोट्टिकायाश्च वन्दाकं विधिनाहरेत् ।
दक्षिणे बन्धयेद्धस्ते स्त्रीवश्यं भवति ध्रुवं

1,22.60

तदेव शिरसा धार्यं सर्वसिद्धिर्भवेद्ध्रुवं ।
करवीरस्य वन्दाकं पूर्वाषाढासु साधितं

1,22.61

धारयेच्छिरसा युद्धे स भवेदपराजितः ।
पूर्वाषाढासु वन्दाकं बदरीवृक्षसम्भवं

1,22.62

पिबेत्क्षीरेण या वन्ध्या सा बहूंश्च सुतांल्लभेत् ।
कुरवस्य तु वन्दाकं पूर्वाषाढार्कवारके

1,22.63

बन्धयेद्दक्षिणे हस्ते ह्यदृश्यो जायते नरः ।
उत्तराषाढनक्षत्रे ग्राह्यं मन्दारबन्धकं

1,22.64

पलाशबन्धकं वाथ करे बद्ध्वा वशंकरं ।
श्रवणे चित्रकोद्भूतं वन्दाकं प्राप्यते न तु

1,22.65

कङ्कुणीतैलघृष्टेन ताम्रपत्रं च लेपयेत् ।
पुटपाकविधानेन तत्स्वर्णं भवति ध्रुवं

1,22.66

एरण्डस्य तु वन्दाकं श्रवणार्के समाहरेत् ।
बन्धयेद्दक्षिणे हस्ते सदा द्यूतजयो भवेत्

1,22.67

धनिष्ठायां तु बदरीवन्दाकं विधिनाहृतं ।
बद्ध्वा करे स्पृशेद्यं यं स स दासो भवेद्ध्रुवं

1,22.68

हृतं पुन्नागवन्दाकं वारुणेषु यथाविधि ।
क्षीरेण पिष्ट्वा प्रपिबन्महानागबलो भवेत्

1,22.69

नक्तमालस्य वन्दाकं मघार्के विधिनाहरेत् ।
विधिना धारयेद्बाहौ पिशाचानां च दर्शनं

1,22.70

तिन्त्रिणीकस्य वन्दाकं पुन्नर्क्षे विधिनाहरेत् ।
बन्धयेद्दक्षिणे हस्ते नित्यं द्यूतजयो भवेत्

1,22.71

पुन्नर्क्षे वंशवन्दाकमदृश्यो जायते करे ।
शिरीषस्य तु वन्दाकमुत्तरे विधिनाहरेत्

1,22.72

करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ।
मघायां स्थापयेत्क्षेत्रे वन्दाकं मधुकोद्भवं

1,22.73

पक्षिणां मूषिकानां च जायते तुण्डबन्धनं ।
पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत्

1,22.74

लिङ्गलेपं प्रकुर्वीत वीर्यस्तम्भो भवेद्ध्रुवं ।
क्षीरेणालोड्य वल्लीकं क्षौद्रं पिष्ट्वा निषेचयेत्

1,22.75

वङ्गं तु सप्तधा देवि तद्वङ्गं रजतं भवेत् ।
पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत्

1,22.76

क्षीरेण प्रपिबेद्यस्तु ह्यदृश्यो जायते नरः ।
तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा

1,22.77

बद्ध्वा हस्ते समस्तानामवध्यो भवति द्विषां ।
हरीतक्यास्तु वन्दाकं पूर्वभाद्रपदाहृतं

1,22.78

क्षीरेण कल्कितं पीत्वा चरेद्वररुचेः समः ।
उत्तरास्वर्कवन्दाकं हृतं भाद्रपदासु तत्

1,22.79

प्रलेपाद्यैः परं हन्याद्विषं स्थावरजङ्गमं ।
रेवत्यां बोधिवन्दाकलतया कृतकौतुका

1,22.80

वन्ध्यापि लभते गर्भं पीत्वा गोपयसा च तत् ।
रेवत्यां वटवन्दाकं वल्मीकमधुघर्षितं

1,22.81

अक्षिदोषेष्वतिश्रेष्ठमक्षरावरणादिषु ।
रेवत्यां वटवन्दाकं गृहीत्वा धारयेद्भुजे

1,22.82

महानागबलोपेतो महागणश्च जायते ।
समुद्धृतं विशाखायां वन्दाकं राजवृक्षकं

1,22.83

निवारयति गेहस्थं वैश्वानरभयं गृहे ।
रोहिण्यां वटवन्दाकं कटिस्थं वीर्यवर्धनं

1,22.84

अश्वत्थभववन्दाकं रेवत्यां गर्भदं स्मृतं ।
विषवृक्षोत्थवन्दाकं पूर्वाषाढोद्धृतं यदि

1,22.85

प्रलिप्तं तनुते भूतपिशाचादिप्रभाषणं ।
चुल्लिकान्तर्गतं कुर्यात्सभक्तां पानसन्ततिं

1,22.86

द्यूते जाम्बववन्दाकं रेवत्यां जयकारकं ।
कुर्यात्कुरववन्दाकं हस्तस्थं बाणवारणं

1,22.87

मधूकवृक्षवन्दाकं धान्यस्थं धान्यवृद्धिदं ।
पलाशतरुवन्दाकं वाक्प्रदं क्षीरसेवितं

1,22.88

वेश्यायां निम्बवन्दाकं गृहान्तर्निहितं यदि ।
वश्यं करोति साश्चर्यं आ जन्ममरणान्तिकं

1,23.1

âक्, १, २३
<विशिष्टा रससंस्काराः>
श्रीभैरवी ।
श्रुतं सर्वं मया देव दिव्यं सर्वरसायनं ।
शंभो तव प्रसादेन कृपांभोधे सुरेश्वर

1,23.2

विज्ञापयिष्याम्यपरं सर्वलोकहितङ्करं ।
वृद्धस्त्रीबालषण्ढानां अन्येषां रोगिणामपि

1,23.3

रसायनेष्वशक्तानां कथं सौख्यं भवेत्प्रभो ।
सर्वानुग्राहक श्रीमन्तदाज्ञापय भैरव

1,23.4

श्रुत्वा देव्याः स्तुतिपरं सर्वलोकहितप्रदं ।
श्रुत्वा मन्दस्मितं देवो जगादेत्थं परं वचः

1,23.5

श्रीभैरवः ।
साधु साधु महाभागे लोकानां जननी यतः ।
तस्माल्लोकहितं पृष्टं तद्वक्ष्याम्यहमीश्वरि

1,23.6

रसादिसंस्कारविधिं सर्वरोगनिबर्हणं ।
यथाक्रमं प्रवक्ष्यामि श्रूयतामवधानतः

1,23.7

रसेन्द्रो रसराजश्च रसः सूतश्च पारदः ।
शिवबीजं शिवो जैत्रो रसलोहो महारसः

1,23.8

रसोत्तमो महातेजाः सूतराट्चपलोऽमृतः ।
धुत्तुरो लोकनाथश्च प्रभुरिन्द्रो भवस्तथा

1,23.9

रुद्रतेजाः खेचरश्च रसधातुरचिन्त्यजः ।
अमरो देहदः स्कन्दः स्कन्देशो मृत्युनाशनः

1,23.10

देवो रसायनः श्रेष्ठो यशोदः पावनः स्मृतः ।
प्रोक्ता दिव्यरसाश्चैव त्रयस्त्रिंशच्च नाम च

1,23.11

दोषयुक्तः सूतराजो विषमेव वरानने ।
दोषहीनो रसः साक्षादमृतं नात्र संशयः

1,23.12

तस्मात्पारदसंस्कारं दोषघ्नं शृणु पार्वति ।
रसाचार्यो भिषक्श्रेष्ठो यतात्माघोरमन्त्रवित्

1,23.13

<रसशोधनसंस्काराः; प्रथमः प्रकारः>
शुभर्क्षे शुभलग्नेषु सुमुहूर्ते सुवासरे ।
पूर्वोक्तवत्सूतपूजां कुर्यादादौ शुचिस्थले

1,23.14

शतं पलानां पञ्चाशत्पञ्चविंशति वा पुनः ।
दश वा पञ्च वा देवि नैतस्मादूनमिष्यते

1,23.15

लोहजे वा शिलोत्थे वा खल्वे सूतं विनिक्षिपेत् ।
कलांशं सूतराजस्य चूर्णेष्टकनिशारजः

1,23.16

जम्बीराम्लेन संमर्द्य तप्तखल्वे दिनं प्रिये ।
क्षालयेदुष्णसौवीरैर्नागदोषो विनश्यति

1,23.17

अङ्कोलेनेन्द्रवारुण्या वङ्गदोषो विनश्यति ।
आरग्वधेन च मलं चित्रके नागदूषणं

1,23.18

कृष्णधूर्तेन चाञ्चल्यं त्रिफलाभिर्विषं हरेत् ।
गिरिदोषं त्रिकटुकैरसह्याग्निस्तु गोक्षुरैः

1,23.19

वङ्गादिसप्तदोषाणां नाशार्थं सप्तवासरं ।
तत्तच्चूर्णैः कलांशैश्च कुमार्या रससंयुतैः

1,23.20

मर्दयित्वा रसं पश्चात्क्षालयेदुष्णकांजिकैः ।
पारदः सकलैर्दोषैर्मुच्यते सप्तकञ्चुकैः

1,23.21

वैद्यकर्मणि योज्यश्चेद्रसः स्यात्सर्वरोगहा ।
<द्वितीयः प्रकारः>
देवदारुमलयजजयावायसतुण्डिका

1,23.22

कुमारीमुसलीवन्ध्याकर्कोटीरससंयुतं ।
सूतं दिनं मर्दयेच्च पुनः पातनयन्त्रके

1,23.23

पातयेद्योजयेत्सूतं शुद्धं वैद्यस्य कर्मणि ।
<तृतीयः प्रकारः>
दग्धं पाषाणचूर्णं च निशाकन्यारसै रसं

1,23.24

मर्दयेद्दिनमेकं च पूर्वयन्त्रे च पातयेत् ।
एवं संस्कारसंशुद्धं योजयेद्वैद्यकर्मणि

1,23.25

<चतुर्थः प्रकारः>
दरदं याममात्रं तु पारिभद्रद्रवैः प्रिये ।
अथवा जम्बीररसैर्मर्दयित्वा तु पाचयेत्

1,23.26

यन्त्रे पातनके देवि दोषकञ्चुकवर्जितः ।
<पञ्चमः प्रकारः>
पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समं

1,23.27

तप्तखल्वे दिनं कृत्वा वज्रमूषागतं रसं ।
पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तं

1,23.28

पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ।
कृत्वैतं दशवारं तं पात्यं पातनयन्त्रके

1,23.29

शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ।
<षष्ठः प्रकारः>
दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत्

1,23.30

वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ।
पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा

1,23.31

सगन्धकं मर्दनं च पातनं भवति प्रिये ।
शुद्धः स्यात्पारदो देवि योज्यः पारदकर्मणि

1,23.32

<सप्तमः प्रकारः>
तिलतैलैर्माहिषिकैर्मूत्रैर्मद्याम्लकेन च ।
गोमांसैर्हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना

1,23.33

सप्ताहं लोहदण्डेन चालयेत्तद्द्रवं मुहुः ।
सार्द्रं मयूरपित्तेन भावयेदातपे दिनं

1,23.34

पातयेत्पातनायन्त्रे दरदं खरवह्निना ।
शुद्धो भवेच्चतुर्यामात्पारदो योगवाहकः

1,23.35

<जारणार्हो वडबानलविडः>
शृणु देवि प्रवक्ष्यामि जारणार्हं बिडं प्रिये ।
चूर्णं कृत्वा दग्धशङ्खं घर्मेऽर्कक्षीरभावितं

1,23.36

कुर्याद्दिनं ततो देवि धूमसारं च भावयेत् ।
दिनं जम्बीरकरसैरातपे चातितीव्रके

1,23.37

चतुर्याममजामूत्रैः षोडशांशं सुवर्चलं ।
यथा सान्द्रत्वमाप्नोति तावत्क्वाथ्यं वरानने

1,23.38

नरमूत्रे षोडशांशे कण्टकारीं समूलकां ।
यावद्घनीभवेत्तावत्क्वाथनीया प्रयत्नतः

1,23.39

तिन्त्रिणीक्षारकासीससर्जक्षाराः शिलाजतु ।
जम्बीरस्य रसैः सर्वं चतुर्यामं पृथक्पृथक्

1,23.40

जेपालं तत्त्वचाहीनं मूलकक्षारसैन्धवं ।
गुञ्जां च टङ्कणं शिग्रुद्रवैर्भाव्यं पृथक्पृथक्

1,23.41

जम्बीराणां द्रवैर्भाव्यं शङ्खाद्यं तत्त्रयोदश ।
सर्वं समांशं च दिनमेकीकृत्य तु गालितं

1,23.42

रक्षयेत्सर्वदा ज्ञेयो नाम्ना च वडबानलः ।
सुवर्णादिमलोहानां रत्नानां जारणे तथा

1,23.43

अभ्राद्युपरसानां च योजनीयं प्रयत्नतः ।
<पारदभस्मविधिः; प्रथमः प्रकारः>
शुद्धसूतं शुद्धगन्धं मर्दयेद्गोघृतैः समं

1,23.44

पिण्डीभूतं कुमार्याश्च दलगर्भे निवेशयेत् ।
सम्यक्सूत्रेण संवेष्ट्य तमयस्कान्तसंपुटे

1,23.45

निरुध्य तं मृदुपुटे त्रिधा पाच्यं पुनः प्रिये ।
आदाय दृढमूषायामन्धयित्वा धमेत्सुधीः

1,23.46

भस्मीभवेत्सूतराजो योज्यो योगे रसायने ।
<द्वितीयः प्रकारः>
छायाशुष्काणि कुर्वीत शाकपक्वफलानि च

1,23.47

मर्दयेदर्कपयसा तेन मूषोदरं लिपेत् ।
अग्रप्रसूतगोजातजरायोः शिषितं रजः

1,23.48

मूषामध्ये क्षिपेत्पश्चात्सूतं गन्धश्च तद्रजः ।
क्षिप्त्वा निरुध्य च धमेद्भस्मीभवति पारदः

1,23.49

<तृतीयः प्रकारः>
वन्ध्या कार्कोटकी काकतुण्डी च कटुतुम्बिका ।
कञ्चुकी नलिका काकमाची वै कालमञ्जरी

1,23.50

काकजङ्घास्त्विमाः सर्वाः पिष्ट्वा मूषान्तरे क्षिपेत् ।
पूर्वोक्तवन्ध्यामुख्याभिरष्टाभिर्मर्दयेद्रसं

1,23.51

तद्रसं लिप्तमूषायां क्षिप्त्वा रुद्ध्वा च भूधरे ।
पचेदेवं चाष्टवारमेवं मूषाप्रलेपनं

1,23.52

मर्दनं धमनं कुर्याद्भूयो भूयः सुरेश्वरि ।
मृतो भवति सूतेन्द्रो योग्यो रोगे रसायने

1,23.53

<चतुर्थः प्रकारः>
नियामकौषधैर्मर्द्यं चतुर्यामं रसं दृढं ।
द्विगुणे गन्धतैले च शनैर्मन्दाग्निना पचेत्

1,23.54

यावत्खोटत्वमाप्नोति तावदेवं पचेद्रसं ।
तत्खोटं संपुटे लौहे क्षिप्त्वा रुन्ध्याद्दृढं सुधीः

1,23.55

पथ्याजलैर्लोहकिट्टं पिष्ट्वा सम्पुटमालिखेत् ।
तस्योर्ध्वं श्रावके काचं कृत्वा नागं विनिक्षिपेत्

1,23.56

स नागो द्रवते यावत्तावदेवं धमेत्प्रिये ।
यावन्न याति काठिन्यं तावन्नैव धमेत्सुधीः

1,23.57

पुनः कठिनतां प्राप्ते धमेत्पूर्वोक्तवन्मुहुः ।
त्रियामधमनादेवं भस्मीभवति पारदः

1,23.58

भस्मीकृते मूलिकाभिर्जारणारहितो रसः ।
देहे लोहे न योज्यः स्याद्योज्यो भेषजकर्मणि

1,23.59

<पञ्चमः प्रकारः>
द्विगुणे गन्धतैले च शुद्धं सूतं विमर्दयेत् ।
एकाहं तं पुनर्मर्द्यं सर्पाक्षीभृङ्गराडपि

1,23.60

विष्णुक्रान्ता त्र्यहं चैषां रसैः श्लक्ष्णं विमर्दयेत् ।
पचेद्यन्त्रे त्रिसंघट्टे ह्यष्टवारमिति प्रिये

1,23.61

कुर्याद्भस्मति सूतेन्द्रो रोगसंघातनाशनः ।
<षष्ठः प्रकारः>
श्वेताङ्कोलस्य मूलोत्थरसैर्मर्द्यस्त्र्यहं रसः

1,23.62

मूषायां निक्षिपेद्रुद्ध्वा पचेद्भूधरयन्त्रके ।
पारदो भस्मतां याति सर्वरोगहरः परः

1,23.63

<सप्तमः प्रकारः>
विष्णुक्रान्तां वेदिकां च काञ्जिकेन विमर्दयेत् ।
तत्कल्केन रसो मर्द्यः सप्तधा मूर्छितोत्थितः

1,23.64

तं रसं श्रावके क्षिप्त्वा सिञ्चयेत्तद्रसैर्मुहुः ।
दीपाग्निना दिनं पच्याद्भस्म स्याल्लवणाकृतिः

1,23.65

<अष्टमः प्रकारः>
काकोदुंबरिकाक्षीरैर्भावयेत्सोमरामठं ।
पुनः पुनः सप्तधैवं शोषयेन्मर्दयेत्सुधीः

1,23.66

काकोदुम्बरपञ्चाङ्गं षोडशांशे जले क्षिपेत् ।
यथैकांशोऽवशिष्टः स्यात्तेन तद्धिङ्गु मर्दयेत्

1,23.67

तद्गोलके रसं क्षिप्त्वा मूषायां तं च रोधयेत् ।
भूधरे च पुटेदेवमष्टवारं पुनः पुनः

1,23.68

पुटे पुटे च तद्धिङ्गु दद्यात्सूतो मृतो भवेत् ।
<नवमः प्रकारः>
उरुबूकस्य बीजानि तथापामार्गजानि च

1,23.69

पूर्णयेत्तच्च मूषायां क्षिप्त्वा सूतं ततः क्षिपेत् ।
तदूर्ध्वं पूर्वचूर्णं च सम्यङ्मूषां निरोधयेत्

1,23.70

पचेल्लघुपुटैरेवं चतुर्भिर्भस्मतां व्रजेत् ।
<दशमः प्रकारः>
कुडुहुञ्च्याः कन्दमध्ये कान्तास्तन्यपरिप्लुते

1,23.71

रसं क्षिप्त्वा मुखं रुद्ध्वा तन्मज्जकल्कतः सुधीः ।
तं गोमयैः समालिप्य स्वेदयेद्गोमयाग्निना

1,23.72

एवं कृते सप्तवारं रसो भस्मत्वं आप्नुयात् ।
<एकादशः प्रकारः>
अङ्कोलस्य शिफानीरैः सूतं गन्धं समं समं

1,23.73

दिनमेकं मर्दयेच्च मूषागर्भं निरोधयेत् ।
पुटेद्भूधरयन्त्रे च दिनान्ते भस्म जायते

1,23.74

<द्वादशः प्रकारः>
सूतं धान्याभ्रकं तुल्यं मारकौषधिजै रसैः ।
मर्दयेद्दिनमेकं तु तत्कल्कैर्वस्त्रलेपनं

1,23.75

तद्वस्त्रं वर्तिकां कृत्वा धृत्वा दंशेन दीपयेत् ।
तद्द्रुतिं पतितां कांस्ये कृष्णवर्णं च तद्भवेत्

1,23.76

तत्पुनर्मारकैर्मर्द्यं पातनायन्त्रके पचेत् ।
मृतो भवेद्दिनैकेन तद्भस्माखिलरोगहृत्

1,23.77

<त्रयोदशः प्रकारः>
कालधुत्तूरतैलेन मर्दनीयश्च पारदः ।
ततो नियामकैर्मर्द्याद्दिनैकं कूर्मयन्त्रके

1,23.78

पाचयेद्भस्मतां याति शुभ्रः स्यात्सर्वरोगहा ।
<चतुर्दशः प्रकारः>
शुद्धसूतादर्धभागं शुद्धं गन्धं विमर्दयेत्

1,23.79

मारकौषधजैर्द्रावैर्दिनं मूषागतं पचेत् ।
यन्त्रे भूधरसंज्ञे च दिनेनैकेन भस्मति

1,23.80

<पञ्चदशः प्रकारः>
सूतमभ्रं वटक्षीरैस्त्रियामं मर्दयेत्प्रिये ।
मूषागर्भे विनिक्षिप्य करीषाग्नौ दिनं पचेत्

1,23.81

भस्मीभवति सूतेन्द्रः शुभ्रः सर्वार्तिनाशनः ।
<षोडशः प्रकारः>
मुखीकृते वासिते च पारदे समकाञ्चनं

1,23.82

जारयेत्पूर्वयोगेन ततो गन्धं समं क्षिपेत् ।
दिव्यौषधिद्रवैर्मर्द्यं दिनं मूषाधृतं रसं

1,23.83

दिवानक्तं करीषाग्नौ पचेद्वा तुषवह्निना ।
स्वेदयेत्तं समुद्धृत्य भूयो दिव्यौषधोद्भवैः

1,23.84

बीजैः समांशैः संमर्द्यं चतुर्यामं सुरेश्वरि ।
वज्रमूषागतं धाम्यं भस्मीभवति पारदः

1,23.85

तद्भस्म दिव्यं युञ्जीत सदा रोगे रसायने ।
<सप्तदशः प्रकारः>
स्वजीर्णे पारदे स्वर्णं सममम्लेन मर्दयेत्

1,23.86

पिष्टीभूतं काञ्जिकेन प्रक्षाल्यादाय तां पुनः ।
पिष्ट्यर्धं शुद्धगन्धं च तदर्धं टङ्कणं क्षिपेत्

1,23.87

सर्वतुल्यां निशां नारीपुष्परक्तद्रवैर्दिनं ।
मर्दयेत्तां दिनान्ते च कुर्यात्तद्गोलकं ततः

1,23.88

पचेद्गड्डुकयन्त्रे च दिनं मन्दाग्निना सुधीः ।
समादाय विचूर्ण्यैव दत्त्वा तत्समगन्धकं

1,23.89

गर्भयन्त्रे त्र्यहं पाच्यं लघुना तत्तुषाग्निना ।
रसो भस्म भवेद्देवि निरुत्थः स्याद्रसायनं

1,23.90

<अष्टादशः प्रकारः>
कर्षत्रयं शुद्धसूतं कर्षं ताम्ररजः प्रिये ।
अम्लैः संमर्दयेद्गाढं दिनं खल्वे ततो भवेत्

1,23.91

पिष्टिस्तां क्षालयेत्तोयैस्तत आदाय निर्मलं ।
माक्षीकसत्वं तत्सर्वं चक्रमर्दच्छदद्रवैः

1,23.92

त्रिदिनं मर्दयेद्गाढं तां पिष्टिं गर्भयन्त्रके ।
तुषाग्निना पचेद्देवि त्रिदिनं वा दिवानिशं

1,23.93

करीषाग्नौ भवेत्सूतभस्म रोगजरापहं ।
<एकोनविंशः प्रकारः>
सूतं स्वर्णं व्योमसत्वं समं स्वर्णसमं बिडं

1,23.94

रम्भादण्डद्रवैः सर्वं तत्खल्वे मर्दयेद्दिनं ।
ततो दिव्यौषधोद्भूतैर्बीजैस्तुल्यं दिनद्वयं

1,23.95

सह संमर्दयेद्रम्भातोयैस्तद्गर्भयन्त्रके ।
पूर्वक्रमेण विपचेद्रसभस्म भवेच्छुभं

1,23.96

जरामरणरोगघ्नं सर्वसिद्धिप्रदायकं ।
<विंशः प्रकारः>
रसेन्द्रं विमलासत्वं तुल्यं मर्द्य दिनत्रयं

1,23.97

सिन्दुवारछदरसैः पिष्टिः स्यात्तां विनिक्षिपेत् ।
काचकूप्यन्तरे कूपीं सप्तमृत्कर्पटैर्लिपेत्

1,23.98

शोषयेद्वालुकायन्त्रे दिनं मन्दाग्निना पचेत् ।
रसभस्म भवेद्दिव्यं रुग्जरामरणापहं

1,23.99

<एकविंशः प्रकारः>
कर्षद्वयं रसेन्द्रं च तदर्धं शुद्धगन्धकं ।
माक्षीकसत्वं गन्धांशं तत्सर्वं मर्दयेद्दिनं

1,23.100

निर्गुण्डीपत्रसारैश्च तं गोलं निक्षिपेत्प्रिये ।
मूषामध्ये ततो मूषावक्त्रं रुद्ध्वा विनिक्षिपेत्

1,23.101

तां मूषां गड्डुकायन्त्रे पचेन्मन्दाग्निना दिनं ।
रसभस्म भवेद्दिव्यं सिन्दूरारुणसन्निभं

1,23.102

जरामरणरोगघ्नं सर्वसिद्धिप्रदं शुभं ।
<द्वाविंशः प्रकारः>
पक्वमूषोदरे तुल्यगन्धकान्तरितं रसं

1,23.103

तयोश्चतुर्गुणं दत्त्वा काकमाचीरसं पुनः ।
आच्छाद्य गड्डुकायन्त्रे तां निधाय पचेत्क्रमात्

1,23.104

मृदुमध्यमचण्डाख्यवह्नौ यामचतुष्टयं ।
ततश्च सर्वरोगघ्नं रसभस्म भवेच्छुभं

1,23.105

<त्रयोविंशः प्रकारः>
स्नुहीक्षीरैर्दिनं सूतं मर्दयेत्तदभावतः ।
अम्लवल्ल्या रसैरेव तं रसं गन्धकैः समं

1,23.106

गर्भयन्त्रे विनिक्षिप्य पूर्ववद्विपचेद्बुधः ।
मृतो भवेद्रसः सोऽयं सर्वरोगहरो भवेत्

1,23.107

<चतुर्विंशः प्रकारः>
गुञ्जाफलं रससमं मधुटङ्कणयावकैः ।
भृङ्गपत्ररसैर्युक्तं दिनं एकं विमर्दयेत्

1,23.108

छादितं वज्रमूषायां धमयेन्मृदुवह्निना ।
अयं रसायनो वृष्यो रसः स्याच्छशिसन्निभः

1,23.109

<पञ्चविंशः प्रकारः>
समं गन्धरसं शुद्धं कीटमारिणिकाद्रवैः ।
अजमार्यहिमार्योर्वा श्वेताङ्कोलरसेन वा

1,23.110

मर्दयेत्त्रिदिनं क्षिप्त्वा मृण्मये संपुटे ततः ।
दिनमेकं करीषाग्नौ तुषाग्नौ वा दिनत्रयं

1,23.111

पचेत्ततः सूतभस्म जायते रुग्जरापहं ।
<षड्विंशः प्रकारः>
ताम्राभ्रपातनायोगाच्छोधितं पारदं प्रिये

1,23.112

वज्रभस्म समं हंसपादीद्रावैर्विमर्दयेत् ।
दिव्यौषधिभवैर्बीजैर्वज्रमूषान्तरं लिपेत्

1,23.113

तस्मिन्पूर्वरसं क्षिप्त्वा रुद्ध्वाथ त्रिदिनं पचेत् ।
तुषाग्निना तत उद्धृत्य तत्तुल्यं द्रुतपारदं

1,23.114

हंसपादीरसैः सर्वं मर्दयेत्त्रिदिनं ततः ।
पूर्ववत्तं पचेत्सोऽयं रसो भस्मति निश्चयः

1,23.115

जरामरणरोगघ्नः सर्वसिद्धिप्रदः शुभः ।
<सप्तविंशः प्रकारः>
वासितं पारदं कर्षमष्टगुञ्जं सुवर्णकं

1,23.116

मृतवज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ।
तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत्

1,23.117

पचेद्भूधरयन्त्रे च पुनरादाय तं रसं ।
हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयं

1,23.118

पूर्ववद्भूधरे यन्त्रे पचेत्तं च पुनः पुनः ।
एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकं

1,23.119

जरामरणदारिद्र्यनाशनं भवनाशनं ।
<अष्टाविंशः प्रकारः>
युगांशः शुद्धसूतः स्यादेकांशं ताम्रचूर्णकं

1,23.120

अम्ले दिनं मर्दयेत्तं प्रक्षाल्यादाय पिष्टिकां ।
ताप्यसत्वं पिष्टिसमं चक्रमर्ददलद्रवैः

1,23.121

मर्दयेत्त्रिदिनं सर्वं गोलकं गर्भयन्त्रके ।
निक्षिप्य त्रिदिनं पाच्यं तुषाग्नौ वा सुरेश्वरि

1,23.122

दिवारात्रं करीषाग्नौ पचेद्भस्म भवेद्रसः ।
<एकोनत्रिंशः प्रकारः>
मुखीकृतरसं चाभ्रसत्वं स्वर्णं त्रयं समं

1,23.123

रंभाद्रवेण संमर्द्यं दिनं सर्वसमं बिडं ।
ततो दिव्यौषधीनां च बीजैर्मर्द्यं दिनत्रयं

1,23.124

गर्भयन्त्रे पचेत्पश्चात्करीषाग्नौ मृतो भवेत् ।
<त्रिंशः प्रकारः>
खजीर्णसूतं विमलां समं निर्गुण्डिकारसैः

1,23.125

मर्दयित्वा त्र्यहं काचकूपिकायां विनिक्षिपेत् ।
सिकतायन्त्रके पच्याच्चतुर्यामेन भस्मितः

1,23.126

<एकत्रिंशः प्रकारः>
ताप्यसत्वं समं गन्धं द्वाभ्यां तुल्यं च जारितं ।
सूतं निर्गुण्डिकां मर्द्य दिनं तद्गोलकं पुनः

1,23.127

वज्रमूषान्धितं कृत्वा धमेद्वा गड्डुयन्त्रके ।
पचेत्तद्रक्तवर्णं स्यात्स रसः सर्वरोगहा

1,23.128

<रसभस्मलक्षणम्>
अक्षयित्वं निरुत्थत्वं निर्लेपत्वं सुभस्मता ।
मारकत्वं च लोहानां लक्षयेद्रसभस्मतः

1,23.129

<१. गन्धपिष्टी; प्रथमः प्रकारः>
संचूर्ण्य शोधितं गन्धं पूर्वपत्ररसेन च ।
सप्तधा भावयेद्घर्मे स्त्रीणां च रजसा तथा

1,23.130

तथा मानवपित्तेन लोलयेद्गन्धकं पुनः ।
पलमेकं शुद्धरसं कर्परे चातपे न्यसेत्

1,23.131

तदूर्ध्वं लोलितं गन्धं विन्यस्याङ्गुष्ठमर्दितं ।
कुर्यात्सूतो भवेत्पिष्टिः सर्वकर्मसु सिद्धिदः

1,23.132

<द्वितीयः प्रकार, स्वर्णगन्धपिष्टी>
गन्धकं शोधितं देवि तिलपर्णीरसेन च ।
सप्तधा मर्दयेच्छोष्यं छायायां भावयेत्क्रमात्

1,23.133

मूषायां पारदं शुद्धं पलमात्रं विनिक्षिपेत् ।
सुवर्णनिष्कगुलिकां मूषायां निक्षिपेत्ततः

1,23.134

तत्र नारीरजोमूत्रमलमात्रं विनिक्षिपेत् ।
वालुकायन्त्रमध्ये च तां मूषां स्थापयेच्छिवे

1,23.135

अल्पमल्पं पूर्वगन्धं वारं वारं विनिक्षिपेत् ।
मृद्वग्निना पचेद्यावत्कर्षगन्धं च जीर्यते

1,23.136

अवतार्य स्वाङ्गशीतमाहरेत्स्वर्णगोलकं ।
स्वर्णपिष्टिर्भवेद्दिव्या सर्ववाञ्छितदायिनी

1,23.137

<तृतीयः प्रकारः>
भावयेन्मर्कटीतोयैः शतधा शुद्धगन्धकं ।
छायायां शुद्धसूतं च घर्मे मृत्कर्परे क्षिपेत्

1,23.138

किंचित्किंचित्पूर्वगन्धं निक्षिपेन्मर्कटीरसं ।
जीर्णे गन्धे द्रवं देयं मुहुर्गन्धं मुहुर्द्रवं

1,23.139

यावत्पादांशकं जीर्णं गन्धं च पिष्टिका भवेत् ।
दिव्या सा सर्वकर्मार्हा देवानामपि दुर्लभा

1,23.140

<चतुर्थः प्रकारः>
शुद्धगन्धं चूर्णयित्वा त्रिवारं काञ्जिकेन च ।
जम्बीराम्लैस्त्रिवारं च हंसपादीरसेन च

1,23.141

सप्तधा क्षालयेदेवं कर्पूरं भावयेत्पृथक् ।
श्वेताद्रिकर्णिकातोयैरातपे च त्रिवारकं

1,23.142

द्विगुञ्जमात्रं कर्पूरं यन्त्रान्तः परिलेपयेत् ।
तत्र गन्धं सार्धनिष्कं भावितं चूर्णितं क्षिपेत्

1,23.143

तदूर्ध्वं च पलं सूतं निक्षिपेत्तस्य पृष्ठतः ।
पूर्वमात्रं च कर्पूरं तदूर्ध्वं सार्धनिष्ककं

1,23.144

गन्धकं च पुनः क्षिप्त्वा ततो गोमूत्रकेन च ।
श्वेताद्रिकर्णिकामूलं पिष्ट्वा तत्कल्ककेन च

1,23.145

आच्छाद्य तच्छरावेण रोधयेत्पाचयेत्क्रमात् ।
जालिकायन्त्रमध्ये च दिव्यं पश्चात्तमुद्धरेत्

1,23.146

एवं कुर्यात्त्रिवारं च गन्धपिष्टिर्भवेद्ध्रुवं ।
<पञ्चमः प्रकारः>
स्नेहलिप्ते खल्वमध्ये शुद्धसूतं पलं न्यसेत्

1,23.147

कर्षं च शोधितं गन्धं देवदालीद्रवं क्षिपेत् ।
कराङ्गुल्या खरे घर्मे मर्दयेत्पिष्टिका भवेत्

1,23.148

<षष्ठः प्रकारः>
ताम्रखल्वे पलं सूतं कर्षार्धं गन्धकं क्षिपेत् ।
मृद्वग्निना पचेद्यामं कराङ्गुष्ठेन चालयेत्

1,23.149

गन्धपिष्टिर्भवेद्दिव्या सर्वकर्मकरी शुभा ।
<पिष्टीस्तम्भनं (२)>
पिष्टीनां स्तम्भनं वक्ष्ये तिक्तकोशातकीभवं

1,23.150

बीजं चण्डालिनीकन्दं तुल्यं कान्तास्तनोद्भवैः ।
क्षीरैः पिष्ट्वा च तां पिष्टीं लेपयेदङ्गुलं दृढं

1,23.151

वन्ध्याकन्देऽथवा क्षीरकन्दे वा सूरणोद्भवे ।
कन्दे वा वज्रकन्दे वा कन्दे वा कुडुहुञ्चिजे

1,23.152

तां पिष्टिं निक्षिपेत्तत्तन्मज्जया रोधयेन्मुखं ।
तत्कन्दं च मृदा लिप्त्वा पुटेद्भूधरयन्त्रके

1,23.153

दिवानक्तं करीषाग्नावूर्ध्वाधः परिवर्तनं ।
यथा कन्दं तु न दहेत्तथा पाकक्रमः स्मृतः

1,23.154

अथ पिष्टिं समानीयाद्भवेत्सा स्तम्भिता प्रिये ।
<पिष्टीजारणं (२)>
पिष्टीनां स्तम्भितानां च जारणा वक्ष्यते शिवे

1,23.155

स्तनयन्त्रे लोहकृते गन्धकं पिष्टितुल्यकं ।
क्षिपेदूर्ध्वं च देवेशि स्तम्भितां गन्धपिष्टिकां

1,23.156

तदूर्ध्वं पिष्टितुल्यं च गन्धकं चूर्णितं क्षिपेत् ।
निरुध्य भूधरे यन्त्रे पाचयेज्जारयेत्क्रमात्

1,23.157

गन्धं पुनःपुनर्देयमेवं शतगुणं प्रिये ।
जीर्णे शतगुणे गन्धे यन्त्रात्पिष्टिं समाहरेत्

1,23.158

सर्वासां गन्धपिष्टीनां जारणं स्याच्च रञ्जनं ।
<पिष्टीमारणं (२)>
जारितानां च पिष्टीनां प्रवक्ष्ये मारणक्रमं

1,23.159

तप्तखल्वे विनिक्षिप्य जारितां गन्धपिष्टिकां ।
दिव्यौषधिरसैः पिष्ट्वा दिनं कुर्याच्च गोलकं

1,23.160

दिव्यौषधीनां बीजानि पिष्ट्वा दिव्यौषधोद्भवैः ।
स्वरसैर्वज्रमूषान्तर्लेपयेत्पूर्वगोलकं

1,23.161

क्षिप्त्वा निरुध्य मूषास्यं पचेद्भूधरयन्त्रके ।
प्रवर्तयंश्चोर्ध्वमधो दिनमेकं पुनः प्रिये

1,23.162

समाहृत्य यथापूर्वं पूर्वतोयैश्च मर्दयेत् ।
पुटयेत्पूर्ववद्देवि दशवारमिति क्रमात्

1,23.163

असंशयं गन्धपिष्टिर्म्रियते सर्वकार्यकृत् ।
गन्धपिष्टिक्रमाज्जातरसभस्मानि भैरवि

1,23.164

सर्वकर्मसु मुख्यानि विशेषाद्वादकर्मणि ।
<रसबन्धाः; प्रथमः प्रकारःः वैक्रान्तबन्धः>
वक्ष्यामि रसबन्धानि शृणु भैरवि सम्प्रति

1,23.165

शोधितं पारदं खल्वे दशनिष्कं विनिक्षिपेत् ।
निष्कैकं शुद्धगन्धं च स्वल्पं स्वल्पं विनिक्षिपेत्

1,23.166

कुट्टयेन्मर्दयेद्ग्राव्णा पिष्टिः स्याद्याममात्रके ।
क्षीरकन्देऽथवा वन्ध्याकन्दे वा कुडुहुञ्चिजे

1,23.167

कन्दे वा निक्षिपेत्पक्वे शुभे गन्धकपिष्टिकां ।
निष्कार्धं भस्म वैक्रान्तमूर्ध्वाधो निक्षिपेत्सुधीः

1,23.168

तत्कन्दमज्जया वक्त्रं निरुध्य च मृदा बहिः ।
लिम्पेदङ्गुलिमात्रेण शोषयित्वाथ सर्वतः

1,23.169

अष्टवारं पचेद्यन्त्रे भूधरे कौक्कुटे पुटे ।
करीषाग्नौ पुनः कुर्यादूर्ध्वभागमधः प्रिये

1,23.170

अधोभागं तथोर्ध्वं च भूयो भूयः प्रवर्तनं ।
एवमेकदिनं पश्चात्पचेद्युगकरीषकैः

1,23.171

पक्वदाडिमबीजाभो बद्धो भवति पारदः ।
वैक्रान्तबद्धनामा स्याच्चूर्णितो योगवाहकः

1,23.172

<द्वितीयः प्रकारःः गन्धकबन्धः>
पूर्वोक्तां गन्धपिष्टीं तां वस्त्रे बद्ध्वाथ संपुटे ।
लोहजे पोट्टलीं स्थाप्यचोर्ध्वाधः समगन्धकं

1,23.173

निरुध्य संपुटं सम्यक्पचेत्भूधरयन्त्रके ।
यथा जीर्णो भवेद्गन्धो भूयो भूयस्तथापि च

1,23.174

एव षड्गुणगन्धस्तु जारणीयो महेश्वरि ।
एवं गन्धकबद्धोऽयं रसः सर्वामयापहः

1,23.175

<तृतीयः प्रकारःः गन्धकबन्धः>
षोडशाङ्गुलदीर्घा च जम्बीरफलविस्तृता ।
पक्वमूषा दृढतरा वालुकायन्त्रमध्यतः

1,23.176

त्रिभागमग्नां कुर्वीत बहिः पादांशसंस्थितां ।
तस्यां क्षिपेद्गन्धसूतं पलमेकं सुरेश्वरि

1,23.177

सूतादथोर्ध्वभागे तु द्विपलं शुद्धगन्धकं ।
निक्षिपेत्तन्मुखं सम्यग्रोधयेन्मन्दवह्निना

1,23.178

पचेन्निर्धूमता यावत्तावद्धूमे गते पुनः ।
काकमाचीद्रवैः पूर्या तद्द्रवे जीर्णतां गते

1,23.179

रसेन नागवल्ल्याश्च पूरणीया पुनः प्रिये ।
उन्मत्तकरसैः पूर्या शनैर्मन्दाग्निना पचेत्

1,23.180

गन्धकं जीर्यते यावत्काकमाच्यादिकद्रवैः ।
धत्तूरान्तैः पचेदेवं बद्धो भवति पारदः

1,23.181

नाम्ना गन्धकबद्धोऽयं सर्वयोगेषु योजयेत् ।
<चतुर्थः प्रकारः गन्धकस्वर्णबन्धः>
पूर्ववद्गन्धपिष्टिं च विधायादौ विचक्षणः

1,23.182

सप्तार्धनिष्कसूतः स्यादध्यर्धं शुद्धहाटकं ।
याममम्लेन संमर्द्यं ख्यातोऽयं हेमपिष्टिका

1,23.183

गन्धपिष्टिं हेमपिष्ट्या समयावेष्ट्य बाह्यतः ।
स्तनाकारे लोहमये संपुटे वस्त्रबन्धितां

1,23.184

कृत्वा तां पिष्टिकां क्षिप्त्वा पिष्ट्यूर्ध्वाधश्च गन्धकं ।
सर्वतुल्यं क्षिपेत्सन्धिं रुद्ध्वाम्ललवणैः सुधीः

1,23.185

पचेद्भूधरयन्त्रे च जीर्णे जीर्णे पुनः पुनः ।
षड्गुणं गन्धकं दद्यात्ततो वस्त्रं शनैर्हरेत्

1,23.186

समांशं गन्धकं भूयो भूयो जार्यं शनैः शनैः ।
निःशेषं गन्धकं नैव कुर्याच्चेत्पारदच्युतिः

1,23.187

एवं शतगुणे जीर्णे गन्धपिष्टिं समाहरेत् ।
तत्समांशसुवर्णस्य संपुटे पिष्टिकां क्षिपेत्

1,23.188

काचं कन्याद्रवैः पिष्ट्वा लेपयेद्बाह्यतोऽङ्गुलं ।
ततष्टङ्कणकैर्लिप्त्वा पश्चान्मृल्लवणैः क्रमात्

1,23.189

एकैकं लेपनं कार्यं वेष्ट्यमङ्गुलमानकं ।
प्रतिलेपं शोषयेच्च कोष्ठीयन्त्रगतं धमेत्

1,23.190

वङ्कनालेन तीव्रेण वह्निना प्रहरं भवेत् ।
उदयादित्यसङ्काशं खोटं दिव्यरसायनं

1,23.191

गन्धहाटकबन्धोऽयं जराव्याधिदरिद्रहा ।
<पञ्चमः प्रकारः गन्धकबन्धः>
अथवा गन्धपिष्टिं तां वस्त्रे बद्ध्वाथ गन्धकं

1,23.192

तुल्यं दत्त्वा निरुध्याथ संपुटे लोहजे दृढं ।
पुटेत्तद्भूधरे तावद्यावज्जीर्यति गन्धकं

1,23.193

एवं पुनः पुनर्देयं यावद्गन्धं तु षड्गुणं ।
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगजित्

1,23.194

<षष्ठः प्रकारः मूलिकाबन्धः>
कार्कोटीमूलजैर्द्रावैः पारदं मर्दयेद्दिनं ।
मर्कटीमूलजे पिण्डे क्षिपेत्तं मर्दितं रसं

1,23.195

तं पिण्डं वज्रमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
जायते खोटबद्धोऽयं सर्वकार्यकरः शुभः

1,23.196

<सप्तमः प्रकारः मूलिकाबन्धः>
अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां प्रलेपयेत् ।
तन्मध्ये रञ्जितं सूतं क्षिप्त्वा बद्ध्वाथ रोधयेत्

1,23.197

मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।
पचेद्गजपुटे पश्चात्पारदो बन्धमाप्नुयात्

1,23.198

<अष्टमः प्रकारः मूलिकाबन्धः>
जलकुम्भीरसैः सूतं मर्दयेद्दिवसत्रयं ।
जलकुम्भीदलैर्मूषां कृत्वा तत्र क्षिपेद्रसं

1,23.199

रुद्ध्वा तां वज्रमूषायां छायाशुष्कं पुटेल्लघु ।
छगणैरेकवृद्ध्या तु त्रिंशद्वारं पुटैः पचेत्

1,23.200

ततो गजपुटे देयं सम्यग्बद्धो भवेद्रसः ।
<नवमः प्रकारः मूलिकाबन्धः>
एकवीराद्रवैर्मर्द्यं दिनं शुद्धं तु सूतकं

1,23.201

एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।
तस्यां पूर्वरसं क्षिप्त्वा ध्माते बद्धो भवेद्रसः

1,23.202

<दशमः प्रकारः मूलिकाबन्धः>
आरक्तक्षीरकन्दोत्थद्रवैः स्त्रीस्तन्यसंयुतैः ।
त्रिदिनं पारदं मर्द्यं वज्रकन्दद्रवैस्त्र्यहं

1,23.203

क्षीरकन्दस्य कल्केन वज्रमूषां प्रलेपयेत् ।
तत्र पूर्वरसं बद्ध्वा ध्माते बद्धो भवेद्रसः

1,23.204

<एकादशः प्रकारः मूलिकाबन्धः>
अर्कमूलफलं पिष्ट्वा मूषां तेन प्रलेपयेत् ।
तन्मध्ये निक्षिपेन्मूषां पुङ्खामूलविनिर्मितां

1,23.205

तन्मध्ये सूतकं क्षिप्त्वा पुङ्खामूलसमुद्भवैः ।
पूरयित्वा रसैर्मूषां निरुन्ध्यात्तन्मुखं दृढं

1,23.206

एवमन्धीकृतां मूषां क्षिपेत्सम्पुटमध्यतः ।
ततस्तं लेपयेद्यत्नाल्लवणेन मृदा तथा

1,23.207

ततोऽसौ पुटयोगेन सूतो बन्धमवाप्नुयात् ।
राजिकाद्वयमात्रेण चित्रकद्रवसैन्धवैः

1,23.208

चूर्णितो भक्षितः प्रातः सर्वरोगविनाशकः ।
<द्वादशः प्रकारः मूलिकाबन्धः>
कपित्थस्य शिफानीरैर्यामं सूतं विमर्दयेत्

1,23.209

अन्यस्यां अन्धमूषायां सूतमूषां निरोधयेत् ।
तथा धमेत्ततो मूषां यथा सिन्दूरवद्भवेत्

1,23.210

एवं कृते रसेन्द्रोऽसौ बध्यते नात्र संशयः ।
मूलिकाबन्धनं ह्येतद्रसेन्द्रस्य प्रकीर्तितं

1,23.211

इत्येते मारिताः सूता मूर्छिता बन्धमागताः ।
प्रत्येकं योजितास्तत्र प्रयोगैर्योगवाहिनः

1,23.212

<रसमूर्च्छनाविधिः; प्रथमः प्रकारः>
अथ शुद्धस्य सूतस्य मूर्च्छनाविधिरुच्यते ।
मेघनादवचाहिङ्गुलशुनैर्मर्दयेद्रसं

1,23.213

दिनं पिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना

1,23.214

ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत्

1,23.215

जीर्णे गन्धं पुनर्देयं षड्भिर्वारैः समं समं ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत्

1,23.216

<द्वितीयः प्रकारः>
गन्धकं धूमसारं च शुद्धं सूतं समं समं ।
यामैकं चूर्णयेत्खल्वे काचकुप्यां निवेशयेत्

1,23.217

रुद्ध्वा द्वादशयामान्तं वालुकायन्त्रके पचेत् ।
स्फोटयेत्स्वांगशीतं तमूर्ध्वस्थं गन्धकं त्यजेत्

1,23.218

अधःस्थं रसं आदाय सर्वयोगेषु योजयेत् ।
<तृतीयः प्रकारः>
शुद्धसूतं तथा गन्धं सूतार्धं सैन्धवे क्षिपेत्

1,23.219

द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयं ।
कृत्वा गोलं तु संशोष्य मूषायां तं निरोधयेत्

1,23.220

शोषयित्वा धमेत्किंचित्सुतप्तेऽथ जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकन्दरसभावितं

1,23.221

योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।
<चतुर्थः प्रकारः>
रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकं

1,23.222

कृत्वा तद्बन्धयेद्वस्त्रे डोलायन्त्रगतं पचेत् ।
गोमूत्रे तद्गतं यामं नरमूत्रैर्दिनत्रयं

1,23.223

शोषयेत्तत्पुनर्वस्त्रैर्बद्ध्वा वेष्ट्यं मृदा दृढं ।
शुष्कं निरुध्य मूषायां पचेदथ तुषाग्निना

1,23.224

ऊर्ध्वभागमधः कृत्वा त्वधोभागमथोर्ध्वगं ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयं

1,23.225

पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहं ।
सद्योजातस्य बालस्य विष्ठां पालाशबीजकं

1,23.226

चण्डालीरुधिरं सूतं सूतपादं च टङ्कणं ।
जयन्त्या मर्दयेद्द्रावैर्दिनमेकं तु गोलकं

1,23.227

पिष्टया सहदेव्याथ लेपयेत्ताम्रसम्पुटं ।
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु

1,23.228

वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ।
चित्रकैः सहदेव्या च गन्धकं लेपयेद्बहिः

1,23.229

सम्पुटं बन्धयेद्वस्त्रे मृदा लेप्यं च शोषयेत् ।
तं रुद्ध्वा चान्यमूषायां ध्माते सम्पुटमाहरेत्

1,23.230

सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः ।
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा

1,23.231

<पञ्चमः प्रकारः>
धुत्तूरकद्रवैर्मर्द्यं दिनं गन्धांशसूतकं ।
अन्धमूषागतं स्वेद्यं भूधरे मूर्छितो दिनात्

1,23.232

<षष्ठः प्रकारः>
कृत्वा षडङ्गुलां मूषां सुपक्वां मृण्मयीं दृढां ।
मूषागर्भे विलिप्याथ मूलैर्वर्तुलपत्त्रजैः

1,23.233

तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा तां वालुकायन्त्रे चुल्ल्यां दीपाग्निना पचेत्

1,23.234

सप्ताहान्ते समुद्धृत्य योजयेत्तं जरापहं ।
<सप्तमः प्रकारः>
कुरण्डकरसैः सान्द्रमातपे मर्दयेद्रसं

1,23.235

लताकरञ्जपत्रोत्थैः पादांगुष्ठेन मर्दयेत् ।
दिनैकं मूर्छितं सम्यक्सर्वयोगेषु योजयेत्

1,23.236

<अष्टमः प्रकारः>
कासीसं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ।
कासीसस्याप्यभावे तु दातव्या फुल्लतूरिका

1,23.237

स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मूर्छयेत् ।
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित्

1,23.238

स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ।
ऊर्ध्वलग्नं ततः शुभ्रं मूर्छितं चाहरेच्छुभं

1,23.239

<नवमः प्रकारः>
अथ शुद्धस्य सूतस्य मूर्छितस्यापरो विधिः ।
सूततुल्यं मृतं स्वर्णं द्वाभ्यां तुल्यं च गन्धकं

1,23.240

रविक्षीरैर्दिनं मर्द्यमन्धयेद्भूधरे पुटे ।
दिनैकेन भवेत्सिद्धो रसो हैरण्यगर्भकः

1,23.241

शुभ्रः शोणोऽथवा कृष्णवर्णो गुरुतरो रसः ।
पुनरुत्थानवान्यस्तु मूर्छितः स उदाहृतः

1,23.242

<मूलिकाबन्धाः>
श्रीभैरवी ।
कीदृशी ओषधी नाथ रसमूर्च्छाकरी शुभा ।
केन वा भस्म सूतश्च केन वा खोटबन्धनं

1,23.243

श्रीभैरवः ।
शृणु भैरवि तत्त्वेन रहस्यं रसबन्धनं ।
ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं सुरवन्दिते

1,23.244

<निशाचरमूलिकाकल्पः>
गङ्गायमुनयोर्मध्ये प्रयागो नाम राक्षसः ।
तस्यासने वरारोहे क्षणाद्बध्येत सूतकः

1,23.245

निशाचरस्य पत्राणि गृह्णीयात्साधकोत्तमः ।
ततो निपीड्यते देवि रसो भवति चोत्तमः

1,23.246

रसं संमर्द्य तेनैव दिनानि त्रीणि वार्तिकः ।
आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत्

1,23.247

तेन पत्ररसेनैव साधयेद्गन्धकं पुनः ।
सप्तधा भावितं तेन त्र्यूषणेन सहैकतः

1,23.248

यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ।
मासमात्रेण देवेशि जीर्यते तु समं समं

1,23.249

समजीर्णे तु गगने शतवेधी भवेद्रसः ।
निशाचररसे देवि गन्धकं भावयेत्ततः

1,23.250

भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु ।
तारस्य पत्रलेपेन अर्धार्धे काञ्चनोत्तमं

1,23.251

गन्धके समजीर्णेऽस्मिन्शतवेधी भवेद्रसः ।
निशाचररसैर्भाव्यं सप्तवारं तु तालकं

1,23.252

तेनैव घातयेद्वङ्गं नागं तारे तु निर्वहेत् ।
तत्तारं जारयेत्सूते तत्सूतं बन्धितं भवेत्

1,23.253

चतुः षष्टितमे भागे शुल्बवेधं तु दापयेत् ।
तदंशं जायते श्रेष्ठं धर्मकामार्थमोक्षदं

1,23.254

निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् ।
पलानि दशचूर्णस्य रसैर्धात्र्यास्तु भावयेत्

1,23.255

घृतेन मधुनालोड्यं नवभाण्डे विनिक्षिपेत् ।
धान्यराशौ निधातव्यं त्रिः सप्ताहं सुरेश्वरि

1,23.256

तेन भक्षितमात्रेण वलीपलितवर्जितः ।
वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत्

1,23.257

अर्धमासप्रयोगेण प्रत्ययोगं भवेत्प्रिये ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनं

1,23.258

मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ।
<मेर्चुर्यःः पट्टबन्ध>
ग्राह्यं तत्फलतैलं तु यन्त्रे पातालसंज्ञके

1,23.259

तेन तैलेन देवेशि रसं संकोचयेद्बुधः ।
तत्क्षणाज्जायते देवि पाटबन्धो महारसः

1,23.260

कटकं कङ्कणं कार्यं रसलिङ्गं वरानने ।
संकोचमरणं तेन कर्तव्यं परमाद्भुतं

1,23.261

<अङ्गनायिकाकल्पः>
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभं ।
त्रैलोक्यजननी या सा ओषधी अङ्गनायिका

1,23.262

तया संपर्कमात्रेण बद्धस्तिष्ठति पारदः ।
सप्ताहं मर्दितस्यास्य महौषध्या रसै रसः

1,23.263

शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनं ।
त्रिः सप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि

1,23.264

लक्षवेधी रसः साक्षादष्टौ लोहानि विध्यति ।
त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति

1,23.265

चतुर्थे चैव सप्ताहे कोटिवेधी भवेद्रसः ।
स्वेदतापनिघर्षेण महौषध्या रसेन तु

1,23.266

ददाति खेचरीं सिद्धिमनिवारितगोचरः ।
कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे

1,23.267

नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेदसौ ।
महौषध्या रसेनैव मृतसंजीवनं भवेत्

1,23.268

अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये ।
मृतस्य दापयेन्नस्यं हस्तौ पादौ तु मर्दयेत्

1,23.269

तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ।
<नरसारकल्पः>
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभं

1,23.270

नरसारस्पर्शनेन क्षणाद्बध्येत सूतकः ।
नरसाररसं दत्त्वा द्विपदीरजसा रसे

1,23.271

दिनान्ते बन्धमायाति सर्वलोहानि रञ्जति ।
नरसाररसेनैव भावयेत्तु मनःशिलां

1,23.272

निर्गन्धा जायते सा तु घातयेत्तेन पन्नगं ।
द्विपदीरजसा सार्धं निरुद्धः पन्नगो भवेत्

1,23.273

नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः

1,23.274

नरसाररसे स्तन्ये भावितं सप्तधा पृथक् ।
रसस्य दापयेद्ग्रासं यन्त्रे विद्याधराह्वये

1,23.275

जीर्यते गगनं देवि निर्मुखे च वरानने ।
नरसाररसेनेशि कीटनारीरसेन च

1,23.276

द्रावयेद्गगनं देवि तीक्ष्णलोहं च पन्नगं ।
नरसाररसेनेशि हनुमत्या रसेन च

1,23.277

जायते काञ्चनं दिव्यं निषेकाद्भास्करः प्रिये ।
नरसाररसे दत्त्वा मञ्जिष्ठां रक्तचन्दनं

1,23.278

स्वरसैर्मदयन्त्याश्च पन्नगं देवि सेचयेत् ।
तत्क्षणात्काञ्चनं दिव्यं सप्तवारा निषेचितं

1,23.279

अष्टमांशयुतं हेम हेमकर्मणि चौषधं ।
नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलं

1,23.280

तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमाप्नुयात् ।
तद्भस्म ताम्रपिष्टे तु त्रिगुणं तेन निर्वहेत्

1,23.281

तच्छुल्बं हेमसङ्काशं तारे वाष्टांशयोजितं ।
तारं हेमसमांशं तु द्विवर्णं पतितं भवेत्

1,23.282

नरसाररसे भाव्यं रसकं सप्तवारतः ।
नरसाररसेनैव रसेन्द्रं सप्तवारतः

1,23.283

तं रसं रसकं चैव तीक्ष्णलोहं च पन्नगं ।
नरसाररसेनैव तेनैकत्र विमर्दयेत्

1,23.284

तत्क्षणाज्जायते बद्धो रसस्य रसकस्य च ।
तीक्ष्णनागं तथा शुल्बं रसकेन तु रञ्जयेत्

1,23.285

हठात्तज्जायते हेम कूष्माण्डकुसुमप्रभं ।
<कङ्कालखेचरीकल्पः>
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभं

1,23.286

कङ्कालखेचरी नाम्ना ओषधी परमेश्वरि ।
तस्य तैलं तु संग्राह्यं आद्यखेचरिसंयुतं

1,23.287

स्थापयेद्दिनमेकं तु पात्रे भास्करनिर्मिते ।
द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत्

1,23.288

अनले धामयेत्तं तु सुतप्तं प्रज्वलत्प्रभं ।
<मन्त्रसिह्मासनीकल्पः>
सबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये

1,23.289

मन्त्रसिंहासनी नाम तृतीया देवि खेचरी ।
पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने

1,23.290

तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसं ।
मेदिनीयन्त्रमध्ये तु स्थापयेच्च वरानने

1,23.291

पूर्वौषध्यां तु तद्देवि गगनं मेदिनीजले ।
रसे मासं ततो दत्त्वा मर्दनाद्गोलकं कुरु

1,23.292

बद्ध्वा पोट्टलिकां तेन गगनं जारयेत्प्रिये ।
समे तु गगने जीर्णे बद्धस्तिष्ठति पारदः

1,23.293

भस्त्राफूत्कारयुक्तेन धाम्यमानो न नश्यति ।
काकविष्ठासमं रूपं समजीर्णस्य जायते

1,23.294

द्विगुणे गगने जीर्णे ह्यष्टलोहानि संहरेत् ।
<इरिन्दिरीकल्पः>
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभं

1,23.295

शिवदेहात्समुत्पन्ना ओषधी तु इरिन्दिरी ।
जारयेद्गन्धकं सा तु जारयेत्सापि तालकं

1,23.296

काञ्चनं जारयेत्सा तु रसेन्द्रं सा च बन्धयेत् ।
प्रवालं द्रावयेत्सा तु द्रावयेद्गगनं तथा

1,23.297

वज्रं च घातयेत्सा तु सर्वसत्वं च घातयेत् ।
जारयेत्सर्वलोहानि सत्वान्यपि च जारयेत्

1,23.298

इरिन्दिरीरसे न्यस्य गोशृङ्गे तु वरानने ।
धान्यराशौ निधातव्यं द्रुतस्तिष्ठति पारदः

1,23.299

दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते ।
समे तु कनके जीर्णे दशकोटिं तु वेधयेत्

1,23.300

पञ्चमे लक्षकोटिं तु षड्गुणे स्पर्शवेधकः ।
सप्तमे धूपवेधी स्यादष्टमे त्ववलोकतः

1,23.301

नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते ।
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः

1,23.302

तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः

1,23.303

दिव्यौषध्यश्चतुः षष्टिः कुलमध्ये व्यवस्थिताः ।
नैव जानाति मूढास्ताः शिवमोहेन मोहिताः

1,23.304

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।
तृणौषध्या रसे सूतो नैव बद्धः कदाचन

1,23.305

अक्षयो नैव तिष्ठेत कुलौषधिविवर्जितः ।
कुलौषध्या विहीनास्तु गगनं चारयन्ति ये

1,23.306

स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।
न खोटं न च वा भस्म नैव द्रव्यं करोति सः

1,23.307

किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।
पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनं

1,23.308

न वेधं च शतादूर्ध्वं करोति स रसः प्रिये ।
यावन्न चाब्दं एकं तु विक्रान्तं त्रपु तत्तु काञ्चनं

1,23.309

धर्मार्थकाममोक्षेषु नैव दद्यात्ततः प्रिये ।
श्रीभैरवी ।
निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः

1,23.310

निर्जीवेन तु निर्जीवं कथं जीवति शंकरः ।
श्रीभैरवः ।
दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत्

1,23.311

कालिकारहितः सूतस्तदा भवति पार्वति ।
परस्य हरते कालं कालिकारहितो रसः

1,23.312

अष्टानां चैव लोहानां मलं शमयति क्षणात् ।
महामूर्च्छागतं सूतं को वा विकथयेन्मृतं

1,23.313

दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।
पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः

1,23.314

<क्ष्मापालकल्पः>
पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ।
क्ष्मापालेन हरेद्वज्रं अनेनैव तु काञ्चनं

1,23.315

वज्रभस्म हेमभस्म तद्वा एकत्र बन्धयेत् ।
<अन्ये कुलमूलिकाकल्पाः>
निशाचररसे जार्यं नरजीवेन जारयेत्

1,23.316

तं सूतं मारयेद्भद्रे जागरिर्दिव्य ओषधिः ।
भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः

1,23.317

भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ।
प्रस्वेदात्तस्य गात्रस्य अष्टौ लोहानि काञ्चनं

1,23.318

लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः ।
प्रस्वेदात्तस्य गात्रस्य रसराजश्च बध्यते

1,23.319

अजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकं ।
जागरीस्पर्शनाद्देवि क्ष्मापालेन च बध्यते

1,23.320

तुरुवल्ल्या रसेनैव भावितं गगनं प्रिये ।
जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात्

1,23.321

द्रुतगोलकमाषैकं माषैकं हेमगोलकं ।
एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयं

1,23.322

कर्षैकं नागपत्राणि रसकल्केन लेपयेत् ।
वेष्टयेद्वृश्चिकालीं च तत्पिण्डं लेपयेत्ततः

1,23.323

मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् ।
कर्षैकं तारपर्णानि मृतनागेन लेपयेत्

1,23.324

लेपयेद्वृश्चिकालीं च तत्पत्रं लेपयेत्ततः ।
तत्तारं म्रियते देवि सिन्दूरारुणसन्निभं

1,23.325

सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरभूषणं

1,23.326

क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति ।
नाम्ना वर्तुलपत्त्राणि शस्यते रसबन्धने

1,23.327

एकवारं कन्दकल्के मूकमूषागतं रसं ।
धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते

1,23.328

रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितं ।
मूषायां पूर्वयोगेन कुरुते सूतबन्धनं

1,23.329

वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितं ।
धमयेत्पूर्ववत्सूतं भक्षणार्थाय वार्तिकः

1,23.330

वज्रकन्दं समादाय रसं मध्ये विनिक्षिपेत् ।
गजेन्द्राख्यं पुटं दद्यात्सप्तधा बन्धतां नयेत्

1,23.331

भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् ।
लाङ्गलीकन्दमादाय कर्कोटीकन्दं एव च

1,23.332

रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ।
म्रियते नात्र सन्देहो ध्मातस्तीव्रानलेन तु

1,23.333

शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ।
शतांशवेधकर्तायं देहसिद्धिकरो भवेत्

1,23.334

हंसपादीरसं सूतं शुष्ककन्दोदरे क्षिपेत् ।
गजेन्द्रपुटनं दद्यान्म्रियते नात्र संशयः

1,23.335

सहस्रवेधकर्ता च जायते नात्र संशयः ।
हंसाङ्घ्रिं शुकचञ्चुं च गृहीत्वा मर्दयेद्रसं

1,23.336

क्रौञ्चपादोदरे क्षिप्त्वा ततो दद्यात्पुटत्रयं ।
म्रियते नात्र सन्देहो लक्षवेधी महारसः

1,23.337

<तृणज्योतिःकल्पः>
तृणज्योतिरिति ख्यातां शृणु दिव्यौषधिं प्रिये ।
निशा तु प्रज्वलेन्नित्यं नाह्ना ज्वलति पार्वति

1,23.338

तस्य मूले तु संक्षिप्ते क्षीरं रक्तं भवेत्क्षणात् ।
तन्मूलरसगन्धाभ्रैर्मातुलुङ्गाम्लपेषितैः

1,23.339

शुल्बपत्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ।
तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि

1,23.340

मातुलुङ्गरसे घृष्टमभ्रकं चरति क्षणात् ।
<उच्चाटाकल्पः>
अथोच्चाटां प्रवक्ष्यामि रसबन्धकरीं प्रिये

1,23.341

एकमेव भवेन्नालं तस्या रोमप्रवेष्टनं ।
तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभं

1,23.342

तत्पत्राणि च देवेशि शुकपिञ्छनिभानि च ।
तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभं

1,23.343

जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ।
वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च

1,23.344

रसतालकतुत्थानि मर्दयेदुच्चटारसैः ।
आतपे म्रियते तप्तो रसो दिव्यौषधीबलात्

1,23.345

वेधयेत्सर्वलोहानि लक्षांशेन वरानने ।
आवर्तितं भवेद्यावज्जायतेऽर्कसमप्रभं

1,23.346

<रक्तस्नुहीकल्पः>
रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकं ।
दरदं चैव लोहानि सहस्रांशेन वेधयेत्

1,23.347

स्नुहीक्षीरं समादाय निशाचूर्णेन वेष्टयेत् ।
गुटिकीकृत्य तेनैव नागं विध्यति तत्क्षणात्

1,23.348

<स्थलपद्मिनीकल्पः>
अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।
पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी

1,23.349

भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णा सुशोभना ।
आक्रम्य वामपादेन पश्येद्गगनमण्डलं

1,23.350

पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलं ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी

1,23.351

तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितं ।
मनःशिलातालयुक्तं माक्षिकेण समन्वितं

1,23.352

मर्दयेत्सप्तरात्रं तु तेन शुल्बं च वेधयेत् ।
सहस्रांशेन देवेशि विद्धं भवति काञ्चनं

1,23.353

तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये ।
चारयेत्सूतराजं तु मूकमूषागतं धमेत्

1,23.354

म्रियते मूषिकामध्ये संकोचेन न संशयः ।
तेनैव सर्वलोहानि सहस्रांशेन वेधयेत्

1,23.355

<चित्रककल्पः>
चित्रकस्य यथा गुह्यं कथयामि समासतः ।
त्रिविधश्चित्रको ज्ञेयः कृष्णो रक्तो रसायनं

1,23.356

शुक्लो व्याधिप्रशमनः श्रेष्ठमध्यकनीयसाः ।
कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः

1,23.357

कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि ।
क्षीरमध्ये क्षिपेत्क्षीरं कृष्णवर्णं भवेत्क्षणात्

1,23.358

तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् ।
धमेच्च मूकमूषायां खोटो भवति तत्क्षणात्

1,23.359

रक्तांबरधरो भूत्वा रक्तमाल्यानुलेपनः ।
कृष्णपक्षे तु पञ्चम्यां रक्तमाल्यौदनेन तु

1,23.360

बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ।
रक्तचित्रकचूर्णेन वङ्गं पायैस्त्रिभिस्त्रिभिः

1,23.361

सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ।
तन्मूलं सूतकं ताम्रं कुङ्कुणीतैलसेचनात्

1,23.362

एकविंशतिवारेण शुद्धं शुल्बं भविष्यति ।
रक्तचित्रकभल्लाततैललिप्तं पुटेन तु

1,23.363

चन्द्रार्कपत्रं देवेशि जायते दिव्यकाञ्चनं ।
नागिनीकन्दसूतेन्द्ररक्तचित्रसंयुतं

1,23.364

पत्रलेपप्रतीवापैश्चन्द्रार्कं काञ्चनं भवेत् ।
<ज्योतिष्मतीतैलकल्पः>
ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति

1,23.365

ज्योतिष्मती नाम लता या च काञ्चनसन्निभा ।
वल्लीवितानबहुला हेमवर्णफला शुभा

1,23.366

आषाढपूर्वपक्षेऽस्या गृहीत्वा बीजमुत्तमं ।
तिलवत्क्वाथयित्वा वा हस्तपादैरथापि वा

1,23.367

तस्यास्तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ।
स्थापयेद्भूगतं कुम्भं क्रमादूर्ध्वतुषाग्निना

1,23.368

षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ।
ताम्रं हेमसमं कृत्वा तैलमाक्षीकमिश्रितं

1,23.369

प्रतिवापेन सिञ्चेत्तद्धेम ताम्रसमं भवेत् ।
तथा च शतवेधी स्याद्विद्यारत्नं अनुत्तमं

1,23.370

<दग्धरुहाकल्पः>
दग्धरुहां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
स्पर्शौषधीति सा ज्ञेया सर्वकामार्थसाधनी

1,23.371

शश्वच्छिन्ना महादेवि दग्धा सा पावकेन तु ।
प्ररोहति क्षणाद्दिव्या दग्धा सा तु महौषधी

1,23.372

रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते ।
चणकस्येव पत्राणि सुप्रसूतानि लक्षयेत्

1,23.373

सा स्थिता गोमतीतीरे गङ्गायामर्बुदे गिरौ ।
उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते

1,23.374

तस्याः कन्दरसं दिव्ये कृष्णराजीसमन्वितं ।
ताम्बूलेन समं कृत्वा घुटिकां कारयेद्बुधः

1,23.375

सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः ।
सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात्

1,23.376

तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः ।
<कटुतुम्बीकल्पः>
कटुतुंबी तु विख्याता देवि दिव्यौषधिं शृणु

1,23.377

तस्या बीजानि संगृह्य सूक्ष्मचूर्णं तु कारयेत् ।
एकविंशतिवाराणि भाव्यं धात्रीरसेन च

1,23.378

पयसा सह तेनैव विश्वभेषजसंयुतं ।
बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पिण्डितः

1,23.379

रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् ।
<लोहदण्डकल्पः>
गोपित्तं शिखिपित्तं च कांक्षीकासीससंयुतं

1,23.380

तारतुल्यानि चैतानि सर्वेषां सूतकं समं ।
मेषशृङ्गे निधातव्यं मासमेकं निरन्तरं

1,23.381

लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ।
गन्धकं लोहदण्डेन एकविंशतिभावितं

1,23.382

युक्तं लोहकुलेनैव जम्बीररससंयुतं ।
सबीजं सूतकोपेतमन्धमूषानिवेशितं

1,23.383

भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ।
दलस्य भागमेकं तु तारपञ्चांशमेव च

1,23.384

शुल्बं च पञ्चभागं च बीजस्यैकं च योजयेत् ।
एते द्वादशभागाः स्युः सर्वं तद्धारयेत्क्षितौ

1,23.385

स्थानस्यास्य निषेकं तु सुदण्डेन तु कारयेत् ।
पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमं

1,23.386

<क्षीरकन्दकल्पः>
क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं तथा ।
चतुर्वर्णं विषं तत्र रक्तकन्दं प्रशस्यते

1,23.387

भग्नमेतत्स्रवेत्क्षीरं रक्तवर्णं सुशोभनं ।
मेघानां तु निनादेन संजातैरुपशोभितं

1,23.388

पत्रैः स्नुहीसमैः स्निग्धैः समभिर्हेमसत्प्रभैः ।
बन्धनं रसराजस्य सर्वसत्ववशंकरं

1,23.389

तस्य क्षीरं तु संगृह्य तारं निर्वाहयेद्बुधः ।
धमेद्धठाग्निना चैव जायते हेम शोभनं

1,23.390

तिन्त्रिणीपत्रनिर्यासमीषत्ताम्ररजोयुतं ।
मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति

1,23.391

तोयमध्ये विनिक्षिप्य गुलिका वज्रवद्भवेत् ।
<शाकवृक्षकल्पः>
शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमं

1,23.392

रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ।
मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा

1,23.393

गन्धकं रसकं ताप्यं पारदं रक्तचन्दनं ।
रुदन्त्या रससंयुक्तं तारमायाति काञ्चनं

1,23.394

शाकवृक्षस्य निर्यासं यत्नतः परिगालयेत् ।
शिग्रुमूलस्य चूर्णं तु तद्रसेन तु मर्दयेत्

1,23.395

प्रलिप्तशुल्बपत्राणि पुटेत्क्षिप्त्वा विपाचयेत् ।
तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतं

1,23.396

फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् ।
तद्रसेन तु सम्प्राज्ञः सप्तरात्रं तु भावयेत्

1,23.397

तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा ।
लेपयेत्तारपत्राणि ध्मातं भवति काञ्चनं

1,23.398

<देवदालीकल्पः>
देवदाल्या महौषध्या विधिं वक्ष्याम्यतः परं ।
सा श्वेता व्याधिशमने कृष्णा पीता रसायने

1,23.399

पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे ।
अथवा कृष्णपञ्चम्यामिमां विधिवदुद्धरेत्

1,23.400

देवदालीफलं देवि विष्णुक्रान्तां च सूतकं ।
मूर्छयेद्बन्धयेत्क्षिप्रं शुल्बं हेम करोति च

1,23.401

देवदालीफलं मूलमीश्वरीरसमेव च ।
तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात्

1,23.402

<श्वेतगुञ्जाकल्पः>
अथातः सम्प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ।
कृष्णपक्षे चतुर्दश्यामष्टम्यां च सुरार्चिते

1,23.403

कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु ।
बीजानि सितगुञ्जायाः पुष्ययोगे तु वापयेत्

1,23.404

वक्ष्यमाणेन योगेन कुर्यात्संग्रहणं तथा ।
ओं नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि

1,23.405

सर्वकार्याणि कुरु कुरु अप्रतिहतं नमो नमः स्वाहा ।
शुद्धशुल्बं तु संगृह्य मूषामध्ये तु संस्थितं

1,23.406

त्रिपञ्चपलसंख्या तु कर्षार्धसितगुञ्जया ।
सहैकत्र भवं तारं तस्य गन्धविवर्जितं

1,23.407

ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः ।
देवीनां भूषणं देवि जायते हेम शोभनं

1,23.408

<कर्तरीरसबन्धः>
अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनं ।
असुराणां समायोगे क्रोधाविष्टेन चेतसा

1,23.409

सुदर्शनं महाचक्रं प्रेषितं मुरवैरिणा ।
भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः

1,23.410

ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ।
रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनं

1,23.411

चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति ।
कुरुते गर्जनं नादं धूमज्वालां विमुञ्चति

1,23.412

कर्तरीदृष्टिमात्रेण तथान्या शब्दकर्तरी ।
लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता

1,23.413

रसरूपा महाघोरा सा सिद्धानां तु वेदिनी ।
तस्य क्षेत्रं यदा गच्छेदघोरास्त्रं जपेत्तदा

1,23.414

पुनर्घोरं न्यसेत्तत्र अथान्यं विन्यसेद्बुधः ।
अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीं

1,23.415

मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजितां ।
दीप्तेन रोधयेत्तां तु स्तम्भयेद्दीपनेन तु

1,23.416

निष्ठया मुद्रया तां तु स्थानयोगेन योजयेत् ।
<उदकबन्धाः; चन्द्रोदकबन्धः>
अथ चन्द्रोदकेनेशि वक्ष्यामि रसबन्धनं

1,23.417

दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः ।
ग्रहणं तत्र कर्तव्यं पौर्णमास्यां प्रयत्नतः

1,23.418

निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या तु वर्धते ।
क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शङ्करं

1,23.419

चतुर्दश्यां तु तत्क्षेत्रं पूजयित्वा विचक्षणः ।
अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत्

1,23.420

पौर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः ।
चन्द्रोदकं तु संगृह्य मन्त्रयुक्तः सुमन्त्रितं

1,23.421

आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ।
पीतमात्रेण तेनैव मूर्छितो भवति क्षणात्

1,23.422

चन्द्रोदये तथोत्तिष्ठेत्क्षारं तस्य तु दापयेत् ।
सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत्

1,23.423

एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयं ।
एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः

1,23.424

चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् ।
मूषामध्यगतं ध्मातं तत्क्षणाद्घुटिका भवेत्

1,23.425

अयं तु स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ।
तद्रसं तु रसं चान्यं वज्रेण समजारितं

1,23.426

चतुःषष्ट्यंशतो विध्येद्द्विगुणेन सहस्रकं ।
दशसङ्कलिकाबद्धं गुञ्जामात्रं रसं ततः

1,23.427

त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ।
ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्नं नाशय नाशय दिशो रक्ष रक्ष रुद्रो ज्ञापयति हुं फट्स्वाहा ।
इति दिग्बन्धमन्त्रः ।
ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भव रक्ष रक्ष हुं फट्स्वाहा ।
इति पानमन्त्रः ।
<विषोदकबन्धः>
अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनं

1,23.428

सितपीतादिवर्णाढ्यं तत्र देवि रसोत्तमं ।
तत्र गत्वाचलोद्देशे स्मरेद्घोरं सहस्रकं

1,23.429

केशाः क्षिप्ताः स्फुटन्त्यस्मिन्नात्मच्छायां न दृश्यते ।
तैलं च गोलकाकारं घृतं तेन विसर्पति

1,23.430

गन्धकस्य हरेद्गन्धं पललं लवणायते ।
ज्ञात्वा पलाशपत्रेण कटुकालाबुके क्षिपेत्

1,23.431

विषोदकं गन्धकं च हरबीजं च तत्समं ।
अजाक्षीरेण पिष्ट्वा तु शुल्बपात्रे तु लेपयेत्

1,23.432

तत्पुटेन भवेद्देवि सिन्दूरारुणसन्निभं ।
शतांशेनैव तद्देवि सर्वलोहानि वेधयेत्

1,23.433

अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् ।
सहस्रांशेन तस्यैव तारं भवति काञ्चनं

1,23.434

रक्तं पीतं तथा कृष्णमुत्तरोत्तरकार्यकृत् ।
त्रिफलाकान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा

1,23.435

गृहीत्वा पूर्ववत्पत्रैः पालाशैर्वेष्टयेद्बहिः ।
स्थापयेद्धान्यमध्ये तु दिवसानेकविंशतिं

1,23.436

महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ।
पायसं भक्षयेद्यस्तु पयोमध्वाज्यसंयुतं

1,23.437

यावत्पूर्णं बलं देवि जीवेत्तद्बिन्दुसंख्यया ।
लाङ्गली गृहधूमश्च सिन्दूरं रजनीद्वयं

1,23.438

मेषस्य शृङ्गं शृङ्गीं च कृष्णोन्मत्ताश्वमारकं ।
सबीजसूतकं चैव विषतोयेन मर्दयेत्

1,23.439

विषतोयेन मेधावी सप्तवाराणि भावयेत् ।
अथवा भावयेत्तं तु यावच्चूर्णं तु मर्दयेत्तद्भवेत्

1,23.440

तेन नागं प्रतीवाप्य षोडशांशेन खं भवेत् ।
मूषास्थं वेणुयन्त्रे च त्रीणि वाराणि भावयेत्

1,23.441

धूमं परिहरेत्तस्य अङ्गव्याधिकरं परं ।
स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये च तत्

1,23.442

तच्चूर्णं तु शतांशेन तारताम्रादि वेधयेत् ।
विषपानीयमादाय वङ्गमावर्तितं शुभं

1,23.443

निषिक्तं चैव तत्तोयैस्तारं भवति काञ्चनं ।
विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे

1,23.444

कुनटीगन्धपाषाणविषटङ्कणलाङ्गलीः ।
नष्टपिष्टं कृतं खल्वे तारपत्राणि लेपयेत्

1,23.445

अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ।
ओं ह्रीं नीलकण्ठाय ठः ठः ।
अस्य अयुतं जपेत् ।
इति विषोदकग्रहणपानमन्त्रः ।
<सञ्जीवनीजलकल्पः>
संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति

1,23.446

शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते ।
दानवानां हितार्थाय मृतानां देवसङ्गरे

1,23.447

मया संजीवनी विद्या दत्ता चोदकरूपिणी ।
तया संजीविता दैत्या ये मृता देवसङ्गरे

1,23.448

निक्षिप्ता मर्त्यलोके सा सम्यक्ते कथयाम्यहं ।
अस्ति मर्त्या महापुण्या पवित्रा दक्षिणापथे

1,23.449

दक्षिणे तु तटे तस्या उत्पलीनगरं परं ।
तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः

1,23.450

नाम्ना कृष्णगिरिः चेति दृश्यते सर्वमङ्गले ।
सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति सन्निधौ

1,23.451

तत्राप्युदकमालोक्य परीक्षेत सुरार्चिते ।
गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः

1,23.452

जायते हरितं स्निग्धमहोरात्रेण निश्चितं ।
मुञ्चत्यङ्कुरपत्रानि दृश्यतेऽतिमनोहरं

1,23.453

बलिपुष्पोपहारेण ततो देवि समर्चयेत् ।
क्षेत्राधिपं गणेशं च चन्द्रं योगिगणं तथा

1,23.454

ओं चन्द्राय पिनाकिने शूलपाणये ओं दिशो बन्ध बन्धय दिशो बन्ध बन्धय ठः ठः ।
तिलांश्च सर्षपांश्चैव मन्त्रेणानेन सर्षपान् ।
सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत्

1,23.455

कटुकालाबुके तोयं कृतरक्षः समाहितः ।
गृहीत्वा तत्प्रयत्नेन निजं स्थानं समाश्रयेत्

1,23.456

ओं नमोऽमृते अमृतरूपिणि अमृतं कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलं ।
दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितं

1,23.457

मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ।
एकविंशतिरात्रं तु क्षीराहारोऽथ यत्नतः

1,23.458

जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः ।
योजनानां शतं गत्वा पुनरेव निवर्तते

1,23.459

अवध्यः सर्वभूतानां स्वेच्छाहारः स खेचरः ।
कनकं पारदं व्योम समं एकत्र योजयेत्

1,23.460

मर्दयेत्तेन तोयेन सप्ताहं स्वेदयेत्ततः ।
स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत्

1,23.461

अथवा तं रसं दिव्यं मधुना सह भक्षयेत् ।
मासमात्रप्रयोगेन जीवेद्ब्रह्मदिनायुतं

1,23.462

तस्य मूत्रमलस्वेदैः शुल्बं भवति काञ्चनं ।
निर्वाते तोयमादाय पारदं च मनःशिलां

1,23.463

मर्दयेत्खल्वपाषाणे नष्टपिष्टं भवेत्ततः ।
स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत्

1,23.464

अन्तर्धानं क्षणाद्गच्छेद्विद्याधरपतिर्भवेत् ।
सिद्धकन्याशतवृतो यावत्कल्पांश्चतुर्दश

1,23.465

दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतं ।
पयसा च समायुक्तं नित्यमेवं च कारयेत्

1,23.466

<उष्णोदककल्पः>
उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।
पश्यत्युष्णोदकं यत्र वासं तत्रैव कारयेत्

1,23.467

शर्वरीमुषितां तत्र चणकास्तु दिने दिने ।
भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकं

1,23.468

तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनं ।
उष्णोदकं च कासीसं गन्धपाषाणसंयुतं

1,23.469

चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ।
शुल्बं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु

1,23.470

तेन लेपितमात्रेण शुल्वं भवति काञ्चनं ।
निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः

1,23.471

शुल्बं च जायते हेम तरुणादित्यवर्चसं ।
तारं च तेन मार्गेण निषिक्तं हेमतां व्रजेत्

1,23.472

उष्णोदकेन भल्लातं तिलमुष्टिं च भक्षयेत् ।
मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयं

1,23.473

रसगन्धाश्मरसकतुत्थं दरदमाक्षिकं ।
याममुष्णाम्बुना घृष्ट्वा तारपत्राणि लेपयेत्

1,23.474

विभ्राम्य तु धमेद्देवि स्याच्चतुर्दशवर्णकं ।
क्रमेणानेन देवेशि शुल्बं षोडशवर्णकं

1,23.475

एकैकं हेमतारांशं द्वयं कांताभ्रयोः पृथक् ।
उष्णोदकेन संमर्द्य धमनात्खोटतां नयेत्

1,23.476

तं मुखे धारयेन्मासं वज्रकायो भवेत्ततः ।
तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा

1,23.477

यावत्पलं तस्य मलैः शुल्बं भवति काञ्चनं ।
उष्णोदपाचितान्खादेत्कुलुत्थान्क्षीरपो भवेत्

1,23.478

स्नानं उष्णांभसा कुर्याद्वर्षाद्वर्षाच्छतायुषः ।
क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत्

1,23.479

पाचयेत्पायसं कान्तपात्रे भुक्त्वा महायुषः ।
<शैलोदककल्पः>
अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये

1,23.480

कर्दमापो महीशैलशिला चेति चतुर्विधं ।
कानिचित्क्षणवेधीनि दिनवेधीनि कानि च

1,23.481

पक्षमासादिषण्मासवेधनानि महीतले ।
क्षिप्तं जले यदा काष्ठं शैलीभूतं च दृश्यते

1,23.482

बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितं ।
हिङ्गुलं हरितालं च गन्धकं च मनःशिलां

1,23.483

एषां गन्धापहारं तु कुरुते तच्च वेधकं ।
अन्यथा चेष्टकं देवि तदग्राह्यं निरर्थकं

1,23.484

श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले ।
तत्रस्थं क्षणवेधि स्यान्नद्यां भगवतीतटे

1,23.485

एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयं ।
भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवत्सरं

1,23.486

धारेश्वरे पाक्षिकं स्यात्कर्षापुर्यां दिनैकतः ।
ब्रह्मेश्वरे मासिकं स्याद्व्याघ्रपुर्यां तु वासरं

1,23.487

अघोरेशे मासिकं स्यात्सिंहद्वीपे तथा पुनः ।
दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकं

1,23.488

वासरं माल्यवन्ते तु क्षणवेधी तु तत्र च ।
किष्किन्धे पर्वते रम्ये पम्पातीरे क्षणोदकं

1,23.489

तस्य पश्चिमतो देवि योजनद्वितये पुनः ।
भूशैलमस्ति तत्रैव त्रिदिनं वेदपर्वते

1,23.490

अन्यत्र यत्र यत्रापि ब्रह्मविष्णुशिवोद्भवं ।
अमृतं तत्र तत्रापि वज्रीकरणं उत्तमं

1,23.491

तस्योत्पत्तिं प्रवक्ष्यामि यथा जानाति साधकः ।
महीं समुद्धृतवतो वराहस्य कलेवरात्

1,23.492

यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परं ।
तं मुखे क्षणिकं जातं कर्णदेशे तु वासरं

1,23.493

बाहुभ्यां त्र्यहवेधी स्यान्मासवेधी तु पार्श्वयोः ।
षण्मासमपराङ्गे च सर्वं समफलं च तत्

1,23.494

अघोरास्त्रेण तत्क्षेत्रे रक्षां कृत्वा दिशां बलिं ।
दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परं

1,23.495

शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते ।
आयसे ताम्रपात्रे वा कान्तलोहमयेऽथवा

1,23.496

शिलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ।
क्षीरावशेषं संक्वाथ्यं त्रिसप्ताहं पिबेन्नरः

1,23.497

जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः ।
अथवाष्टपलं क्षीरं पलैकेनाम्बुमिश्रितं

1,23.498

क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलं ।
कुलुत्थाष्टगुणं वारि पचेदष्टावशेषितं

1,23.499

चतुर्गुणेन तेनाज्यं पाचयेद्घृतशेषितं ।
लिह्यान्मधुसितोपेतं त्रिसप्ताहाद्बृहस्पतिः

1,23.500

द्विरष्टवार्षिकाकारः सहस्रायुर्न संशयः ।
अवशिष्टकुलुत्थं तु पादांशमधुसर्पिषा

1,23.501

भक्षयेत्कर्षमेकं तु मासेनायुतजीवितः ।
तत्सिद्धतैलेनाभ्यङ्गं म्रक्षणं चैव कारयेत्

1,23.502

पामाविचर्चिकादद्रुकुष्ठानि सहसा जयेत् ।
वलीपलितनिर्मुक्तः सहस्रायुश्च जायते

1,23.503

यः पिबेत्प्रातरुत्थाय शैलाम्बु चुलुकं पयः ।
षण्मासात्स्यात्सहस्रायुर्निर्वलीपलितश्च सः

1,23.504

अथवा सूतकं देवि वारिणा सह मर्दयेत् ।
मासेनैकेन देवेशि नष्टपिष्टिर्भविष्यति

1,23.505

मासमात्रं समश्नीयात्स भवेदजरामरः ।
अथवा तं रसं हेम्ना धामयेत्खदिराग्निना

1,23.506

गुलिका सुन्दरी नाम सर्वायुधनिवारिणी ।
कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकं

1,23.507

अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् ।
मासमात्रप्रयोगेण वलीपलितवर्जितः

1,23.508

पक्त्वा तेनाम्भसा पथ्याः षष्टिस्त्रीणि शतानि च ।
मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत्

1,23.509

दिने दिने तदेकैकं भक्षयेत्प्रातरुत्थितः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकं

1,23.510

शैलीभूतं कुलुत्थं वा भक्षयेन्मधुसर्पिषा ।
षण्मासात्तु प्रयोगेण जीवेद्वर्षसहस्रकं

1,23.511

कूष्माण्डमादितः कृत्वा यानि कानि फलानि च ।
जले क्षिप्तानि लोहानि शैलभूतानि भक्षयेत्

1,23.512

क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ।
तेनोदकेन संमर्द्यं अभ्रकं क्वाथयेत्प्रिये

1,23.513

कटुत्रययुतं खादेज्जीवेद्वर्षसहस्रकं ।
अथवा रसकर्षैकं तज्जलेन तु मर्दितं

1,23.514

इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगः ।
कालेन त्रिगुणेनैव काठिन्यं तस्य जायते

1,23.515

षण्मासं तन्मुखे धार्यं वज्रकायं करोति तत् ।
दशनागसमप्राणो देवैः सह स मोदते

1,23.516

गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् ।
यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः

1,23.517

कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतं ।
भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत्

1,23.518

उदयादित्यसङ्काशो मेधावी प्रियदर्शनः ।
नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकं

1,23.519

पारदं हरितालं च शिलां माक्षिकमेव च ।
दरदं च विषं चैव सर्वमेकत्र कारयेत्

1,23.520

मर्दयेत्खल्वपाषाणे मातुलुङ्गरसेन तु ।
गोलकं कारयित्वा तु वारिमध्ये विनिक्षिपेत्

1,23.521

तेन तारं च शुल्बं च कांचनं भवति ध्रुवं ।
उपयुञ्जीत मासैकं वलीपलितवर्जितः

1,23.522

सहस्रं जीवितं तस्य महाबलपराक्रमः ।
शैलीभूतहरिद्रां तु तच्चूर्णावापमात्रतः

1,23.523

हेमत्वं लभते नागो बालार्कसदृशप्रभः ।
शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा

1,23.524

ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः ।
रक्तक्षारयुतं ध्मातं सुवर्णसमसारितं

1,23.525

शतांशेन तु लोहानां सर्वेषां हेमकारकं ।
द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति

1,23.526

तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवं ।
<केचन घुटिकायोगाः>
निचुले ककुभे चैव किंशुके मधुकेऽपि वा

1,23.527

इङ्गुदीफलमध्ये वा रजनीद्वयमार्द्रके ।
अमृते कन्दके वाथ उक्तकन्दौषधीषु च

1,23.528

विधाय कोटरं तत्र क्षिप्त्वा तेनैव डोलयेत् ।
त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः

1,23.529

पादेन कनकं दत्त्वा पारदं तत्र योजयेत् ।
शैलोदके क्षिपेत्तत्र गुलिका वज्रवद्भवेत्

1,23.530

पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् ।
धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत्

1,23.531

द्वितीयसारणायोगादयुतं वेधयेत्तु सा ।
धार्यमाणा मुखे सैवमयुतायुष्यदा भवेत्

1,23.532

तृतीयसारणायोगाज्जायते लक्षवेधिनी ।
तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः

1,23.533

चतुर्थी सारणा देवि कोटिवेधी न संशयः ।
कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते

1,23.534

पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् ।
यावच्चन्द्रार्कजीवित्वं अनन्तबलवीर्यवान्

1,23.535

ददाति सप्तमी चापि सारणा गुलिका परा ।
खेचरी नाम विख्याता भैरवेण प्रचोदिता

1,23.536

यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् ।
वज्रदेहः स सिद्धः स्याद्दिव्यस्त्रीजनवल्लभः

1,23.537

क्रीडते खेचरैर्भोगैः स्वेच्छया शिवतां व्रजेत् ।
नानाविधफलाश्चास्या घुटिकां शृणु सुन्दरि

1,23.538

शुद्धबद्धं रसेन्द्रं तु गन्धकं तत्र जारयेत् ।
त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत्

1,23.539

कारयेद्भस्म सूतं तु काञ्चनं तेन सूतकं ।
तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समं

1,23.540

तेन सूतकजीर्णेन वज्ररत्नं तु घातयेत् ।
तद्वज्रं जायते भस्म सिन्दूरारुणसन्निभं

1,23.541

तद्भस्म जारयेत्सूते त्रिगुणे तु सुरार्चिते ।
हाटकं सारयेत्तं तु घुटिकां तेन कारयेत्

1,23.542

त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः ।
नष्टच्छायो भवेत्सोऽयमदृश्यो देवदानवैः

1,23.543

लक्षवर्षसहस्राणि निर्वलीपलितो भवेत् ।
शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितं

1,23.544

वक्त्रे करे च बिभृयात्सर्वायुधनिवारणं ।
व्योम माक्षिकसत्वं च तारं ताम्रं सुरायुधं

1,23.545

सारलोहं सूतकं च रत्नादिगुणभूषितं ।
घुटिका सा वरारोहे मधुरत्रयसंयुता

1,23.546

वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः ।
शिवः शक्तिश्च देवेशि रत्नानि सितगोनसा

1,23.547

हेम तारं तथा भानुः समभागानि कारयेत् ।
स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत्

1,23.548

सितयेन तथा वेष्ट्यं गुह्यस्थाने निवेशयेत् ।
रणे राजकुले द्यूते दिव्ये कामे जयो भवेत्

1,23.549

वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधं ।
विभीतकादिसम्भूतकांजिकस्य समं भवेत्

1,23.550

समावर्त्य ततः सूते योजयेत्पादयोगतः ।
कुमारीरससंघृष्टा कृतैषा घुटिका शुभा

1,23.551

रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ।
पञ्च तारं वरारोहे सूतकद्वयमेव च

1,23.552

त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः ।
अर्धं शुल्बं विभागेन गुलिकामरसुन्दरी

1,23.553

अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः ।
भस्म सूतपलैकं च मृतकान्तपलं तथा

1,23.554

माक्षिकस्य पलं चैव शिलाजतु पलं तथा ।
पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा

1,23.555

एकीकृत्य तु तत्सर्वं मध्वाज्येन तु पेषयेत् ।
गुलिकाः कारयेत्तेन षष्ट्याधिकशतत्रयं

1,23.556

एकैकां भक्षयेन्नित्यं वर्षमेकं निरन्तरं ।
जीवेद्वर्षशतायुः स यथा रुद्रो महाबलः

1,23.557

<केचन रसायनकल्पाः>
अतः परं प्रवक्ष्यामि रसभस्मरसायनं ।
विज्ञेयं निष्परिहारं साक्षाद्दिव्यौषधं परं

1,23.558

आमलक्यादि कान्तं च पारदं च मनःशिलां ।
वाकुचीसमभागानि क्षीरिणीरसपेषितं

1,23.559

मेघनादरसोपेतं मूकमूषागतं पचेत् ।
माषं द्विमाषं त्रिगुणं भक्षयेत्तत्क्रमेण तु

1,23.560

वर्षत्रयं परं देवि पादनिष्कार्धकं क्रमात् ।
षट्सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः

1,23.561

भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ।
किंचित्काञ्चनसंयुक्तं निष्कं निष्कार्धमेव वा

1,23.562

यो भक्षयेत्त्रिभिर्वर्षैः सर्वव्याधीञ्जयत्ययं ।
अष्टवर्षसहस्रायुर्द्वादशे लक्षवेधकः

1,23.563

षोडशे वत्सरे देवि दिव्यरूपः स जायते ।
उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनं

1,23.564

अधमः पाकबन्धस्तु एवं त्रिविधबन्धनं ।
शतपलमभयानां अक्षधात्र्योस्तथैव क्वथितजलसमाष्टौ भागमष्टावशिष्टं ।
घृतमधुसितयाढ्यं व्योषचित्रं दशैव रसपलदशसिद्धं लोहजीर्णं मृतं च

1,23.565

गिरियुतसमं अभ्रं कान्तभृङ्गं विडङ्गं रससहितविभाव्यं तण्डुलैर्बिल्वमज्जैः ।
हिमकरकृतकल्कं लोहपात्रस्थमासं त्रिदिनतनुविशुद्धं कल्कमेनं वरिष्ठं

1,23.566

लिहति शयनकाले वामनेत्रार्धसेवी घननिबिडसमाधिर्मत्तमातङ्गदर्पः ।
विगतसकलदोषः सर्वदृक्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः

1,23.567

जलद इव वपुष्मान्कुञ्चिताग्राग्रकेशः तुरग इव विशुद्धः सत्कविश्चित्रकारी ।
वृषभगतिविचेष्टो मन्दगम्भीरघोषः सुरगज इव लोके चन्द्रतारार्कजीवी

1,23.568

कान्तहेमरविचन्द्रं अभ्रकैर्गोलकं निहितमिङ्गुदीफले ।
शैलवारिवरिसिद्धगोलकं सुन्दरी ह्यमरसंज्ञिका शुभा

1,23.569

कान्तहेमरविचन्द्रं अभ्रकं वज्ररत्नरसमहिराजगोलकं ।
क्षिप्तं आमलककाष्ठकोदरे भूमिशैलनिहितं समुद्धृतं

1,23.570

शैलतां गतमथाहितं मुखे वज्रकायकरकल्पवासरैः ।
तारहेमवरशुल्बसूतकैर्गोलकं वरणकाष्ठयन्त्रितं

1,23.571

शैलवारिकृतसुन्दरीरसैः खेचरीति गुलिका निगद्यते

1,23.572

शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् ।
त्रिसप्तरात्रं दिनमेकमेकं सहस्रजीवी विदितो नरः स्यात्

1,23.573

सूतकं चाभ्रकं चैव वज्रतीक्ष्णसमन्वितं ।
हाटकेन समायुक्तं गुलिका खेचरी भवेत्

1,23.574

करञ्जफलमध्यस्थं सूतं तत्रैव निक्षिपेत् ।
धृतः शैलाम्बुमध्यस्थः सहस्रायुः प्रयच्छति

1,23.575

तिन्दुके द्विसहस्रायुर्जम्बीरे त्रिसहस्रकं ।
मातुलुंगे च नारङ्गे चतुःपञ्चसहस्रकं

1,23.576

रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकं ।
विभीतकफले चैव दशसाहस्रसंख्यकं

1,23.577

नालिकेरे महाभागे सहस्राणि चतुर्दश ।
त्रिंशत्सहस्रं पथ्यायां लक्षमामलके पुनः

1,23.578

अभ्रपत्रभवात्क्वाथादहोरात्रं शिलोदके ।
बध्नाति चोद्धृतं सूतं मृत्युदारिद्र्यनाशनं

1,23.579

सारणाक्रमयोगेन वज्रवज्जायते वपुः ।
रसे रसायने चैव लक्षवेधी न संशयः

1,23.580

कर्दमं तु कुमार्याश्च रसेन कृतपिण्डिकं ।
धमनात्पतते सत्त्वं मुखस्थं धारयेन्नरः

1,23.581

षण्मासोपप्रयोगेण ह्यजरामरतां व्रजेत् ।
स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितं

1,23.582

तत्खोटं धारयेद्वक्त्रे ह्यदृश्यो भवति ध्रुवं ।
यस्य यो विधिराम्नात उदकस्य शिवागमे

1,23.583

शतेन बत कालेन कुर्याद्देहे रसायनं ।
<बद्धजारणविधिः>
या पूर्वा निर्मिता सेयमधमा बालजारणा

1,23.584

उत्तमा दुर्लभा चैव श्रूयतां बद्धजारणा ।
अबद्धं जारयेद्यस्तु क्षीयमाणः क्षयं व्रजेत्

1,23.585

बद्धस्य जीर्यते ग्रासो जीर्णस्य च मुखं भवेत् ।
समुखो दुर्मुखं दत्ते सामान्योत्तमलक्षणं

1,23.586

<बन्धप्रकाराः>
सामान्योऽग्निसहत्वेन महारत्नादिजारकः ।
सामान्यः प्रथमः कार्यः सग्रासस्तु समन्ततः

1,23.587

वसुदेहकरो देवि सामान्यो हि भवेदयं ।
ग्रासहीनस्तु यो बद्धो दिव्यसिद्धिकरो भवेत्

1,23.588

उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनं ।
अधमः पाकबन्धस्तु एवं त्रिविधबन्धनं

1,23.589

मूलबन्धस्तु यो बन्धो मूलसंकुचितं महत् ।
सारबन्धस्तु यो बन्धो वासनाबन्ध उच्यते

1,23.590

स्याच्चतुः षष्टिमूलेभ्यः किंचिन्मूलेन बन्धनं ।
प्राण्यङ्गं दैत्यादीनां मूलाङ्गं देवतामयं

1,23.591

पाषाणं चैव सिद्धानां मानुषाणां च पूजितं ।
पीठिकाद्रुतिसंकोचैस्त्रिविधं बन्धनं भवेत्

1,23.592

दिव्याभिरौषधीभिः प्रागुक्तं संकोचबन्धनं ।
द्रुतिभिर्बध्यते सूतः क्षणबन्ध उदाहृतः

1,23.593

अभ्रकं हरबीजं च षोडशांशेन काञ्चनं ।
ध्मातं प्रकाशमूषायां शोधयेत्काचटङ्कणैः

1,23.594

दक्षिणावर्तितं ध्मातं हरबीजेन मेलकं ।
मूषां त्यक्त्वा वरारोहे तिष्ठते खगबद्धवद्रसः

1,23.595

रक्तिकार्धार्धमात्रेण पर्वतानपि वेधयेत् ।
भक्षणात्तस्य देवेशि रुद्रतुल्यो भवेन्नरः

1,23.596

क्रीडते सप्तलोकेषु शिवतुल्यपराक्रमः ।
<द्रुतिमेलनविधिः>
वज्रकन्दं गुडूची च उच्चटादिसमन्वितं

1,23.597

अभ्रकं क्रमते शीघ्रमन्यथा नास्ति सङ्गमः ।
कृष्णागरुनाभिसितैः रसोनपितरामठैः

1,23.598

नारीकुसुमपालाशबीजतैलसमन्वितैः ।
सोष्णैर्मिलन्ति मृदिता द्रुतयः सकला रसे

1,23.599

<वज्रबन्धः; दशसङ्कलिकाविधिसिद्धः>
पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुरार्चिते ।
गन्धकं भक्षयेन्नारी दिनानामेकविंशतिं

1,23.600

तद्रजो रसराजस्य बन्धने जारणे हितं ।
वज्रभस्म तु भागैकं भागाः शुद्धरसात्त्रयः

1,23.601

द्विपदीरजसा मर्द्यं यावत्तत्कल्कतां गतं ।
पादांशेन सुवर्णेन पत्त्रलेपं तु कारयेत्

1,23.602

सोमवल्लीरसं कान्तं टङ्कणालं सुचूर्णितं ।
दद्यात्तमष्टमांशेन मर्दयेच्च प्रयत्नतः

1,23.603

नष्टपिष्टं च शुष्कं तदन्धयित्वा पुटे ततः ।
अन्धमूषागतं ध्मातं क्रामणेन समन्वितं

1,23.604

खोटस्तु जायते देवि शतवेधी महारसः ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा विशोधयेत्

1,23.605

अक्षीणो मिलते हेम्ना समावर्तश्च जायते ।
एकोत्तरक्रमे वृद्ध्या संकलैः क्रामयेत्ततः

1,23.606

एकगुणेन सूतेन एका सङ्कलिकोच्यते ।
त्रिगुणेन तु सूतेन द्वितीया संकलोच्यते

1,23.607

षड्गुणेन तु सूतेन तृतीया सङ्कली भवेत् ।
दशगुणेन सूतेन चतुर्थी सङ्कली भवेत्

1,23.608

पञ्चादशगुणेनेशि पञ्चमी सङ्कली भवेत् ।
एकविंशद्गुणेनेशि षष्ठी सङ्कलिका भवेत्

1,23.609

अष्टाविंशद्गुणेनेशि सप्तमी सङ्कली स्मृता ।
षट्त्रिंशद्गुणिते बद्धा भवेत्सङ्कलिकाष्टमी

1,23.610

पञ्चचत्वारिंशगुणे सङ्कली नवमी मता ।
पञ्चाध्यधिकपञ्चाशद्दशसङ्कलिका स्मृता

1,23.611

एवं च क्रमवृद्ध्या तु संकली दशबन्धिता ।
प्रथमे दशवेधी च शतवेधी द्वितीयके

1,23.612

तृतीये सहस्रवेधी स्याच्चतुर्थेऽयुतवेधिकः ।
पञ्चमे लक्षवेधी स्याद्दशलक्षं तु षष्ठके

1,23.613

सप्तमे कोटिवेधी स्याद्दशकोटिं तथाष्टमे ।
धूमवेधी तु नवमे दशमे शब्दवेधकः

1,23.614

संकलैः सकलैर्बद्धे वेधो दशगुणो भवेत् ।
दशसंकलिकाबद्धः शब्दवेधी महारसः

1,23.615

यथा लोहे तथा देहे क्रामते नात्र संशयः ।
वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकं

1,23.616

कारयेद्घुटिकां दिव्यां बदरास्थिप्रमाणतः ।
महाकालीं पूजयित्वा धारयेत्सततं बुधः

1,23.617

ओं ऐं ह्रीं श्रीं कालि कालि महाकालि मांसशोणितभोजनि ।
ह्रां ह्रीं ह्रं रक्ष कृष्णमुखि देवि रससिद्धिं ददस्व मे ।
श्रीं ह्रीं ऐं

1,23.618

पूजयित्वा ततो देवीं सिद्धचक्रं विशेषतः ।
तां क्षिपेच्चक्रमध्ये तु घुटिकां दिव्यरूपिणीं

1,23.619

शतवेधेन या बद्धा रसेन घुटिका प्रिये ।
मासमेकं तु वक्त्रस्था जीवेच्चैव यथा विधिः

1,23.620

तथा सहस्रवेधेन बद्धा या घुटिका शुभा ।
मासद्वयं तु वक्त्रस्था जीवेच्चन्द्रार्कतारकं

1,23.621

दशसहस्रवेधेन बद्धा या घुटिका यदि ।
शक्रतुल्यं तदायुष्यं त्रिभिर्मासैस्तु जायते

1,23.622

लक्षवेधेन या बद्धा घुटिका दिव्यरूपिणी ।
चतुर्मासं तु वक्त्रस्था ब्रह्मायुष्यं प्रयच्छति

1,23.623

दशलक्षेण या बद्धा घुटिका दिव्यरूपिणी ।
सप्तमासं तु वक्त्रस्था वैष्णवं लभते फलं

1,23.624

कोटिवेधेन या बद्धा घुटिका दिव्यरूपिणी ।
षण्माससंस्थिता वक्त्रे साक्षाद्वै रुद्रतां नयेत्

1,23.625

दशकोटिप्रभेदेन घुटिका दिव्यरूपिणी ।
सप्तमासं तु वक्त्रस्था स भवेद्व्यापको नरः

1,23.626

कर्ता हर्ता स्वयं भोक्ता शापानुग्रहकारकः ।
सर्वज्ञः सर्वकर्ता च सूक्ष्मरूपो निरञ्जनः

1,23.627

इच्छया कुरुते सृष्टिमिच्छया संहरेज्जगत् ।
स्वच्छन्दगमनो भूत्वा शिवरूपो भवेन्नरः

1,23.628

पूज्यते सर्वदेवैश्च ब्रह्मविष्णुमहेश्वरैः ।
<अन्यो वज्रबन्धः>
पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुदुर्लभं

1,23.629

समांशभक्षणं हेम शुद्धसूतेन कारयेत् ।
मृतवज्रं कलांशेन मर्दयेद्द्विपदीरसैः

1,23.630

प्राग्वच्छेषं क्रियाजातं पूर्ववच्च फलं भवेत् ।
वज्रबन्धो भवेत्सिद्धो देवदानवदुर्जयः

1,23.631

चतुर्विंशतिसिद्धानां नायकः सर्वसिद्धिमान् ।
<अन्यो वज्रबन्धः>
वज्रचूर्णसमं सूतं हंसपाद्या विमर्दितं

1,23.632

पुटित्वा मारयेत्तत्र पुनस्तुल्यं रसं क्षिपेत् ।
ध्मातः खोटो भवत्याशु शोधितः काचटङ्कणैः

1,23.633

यावच्छुक्रोदयप्रख्यो जायते च रसः प्रिये ।
<अन्यो वज्रबन्धः>
वज्रसत्त्वं च गगनं रसं हेम च मेलयेत्

1,23.634

अमरत्वमवाप्नोति वक्त्रस्थेन सुराधिपे ।
जारयित्वा रसं तद्धि पुनस्तेनैव जारयेत्

1,23.635

कोटिवेधी न सन्देहो वक्त्रस्थं खेचरं परं ।
वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकं

1,23.636

कारयेद्घुटिकां दिव्यां वज्रसिद्धेन काञ्चने ।
अनेन क्रमयोगेन यावच्छक्यं तु मारयेत्

1,23.637

तद्भस्म सूतकं देवि सर्वरोगनिबर्हणं ।
हेम्ना च सारयित्वा तु चन्द्रार्कं लेपयेत्ततः

1,23.638

द्वात्रिंशांशेन हेमार्धं मातृकार्यधिकं भवेत् ।
बदरास्थिप्रमाणेन कारयेद्गुलिकां बुधः

1,23.639

यथा लोहे तथा देहे क्रमते नान्यथा क्वचित् ।
<अन्यो वज्रबन्धः>
वज्रेण द्वंद्वितं हेम कान्तशुल्बकपालिना

1,23.640

रञ्जयेत्सप्तवाराणि तं खोटं सूक्ष्मचूर्णितं ।
भावितं स्त्रीरजेनैव भूर्जपत्रे निवेशितं

1,23.641

द्रुतसूतेन संयुक्तं बद्ध्वा वस्त्रेण पोट्टलीं ।
स्वेदयेद्देवदेवेशि यावद्भवति गोलकः

1,23.642

लाङ्गली जीवनी चैव गन्धार्युत्तरवारुणी ।
एतेषां निक्षिपेत्पिण्डे वज्रगोलं तु वेष्टयेत्

1,23.643

मूषामध्ये विनिक्षिप्य संधयित्वा प्रयत्नतः ।
भूमौ मूषां विनिक्षिप्य पुटं मूर्ध्नि प्रदापयेत्

1,23.644

अनेनैव प्रतापेन बन्धमेति महारसः ।
गोलकं धारयेद्वक्त्रे वर्षमेकं यदा प्रिये

1,23.645

जीवेत्कल्पसहस्राणि यथा नागो महाबलः ।
वर्षैर्द्वादशभिः साक्षाज्जायते रसपूरुषः

1,23.646

गात्रस्य तस्य प्रस्वेदादष्टौ लोहास्तु काञ्चनं ।
वज्रभस्म तथा सूतं काञ्चनेन समन्वितं

1,23.647

वक्त्रस्थं कुरुते यस्तु अब्दात्पलितवर्जितः ।
<अन्ये वेधोपयोगिनो बन्धाः>
कृष्णाभ्रकस्य सत्वं च तारं ताम्रं च हाटकं

1,23.648

माक्षिकं कान्ततीक्ष्णं च समभागानि कारयेत् ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात्

1,23.649

तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलयेत् ।
मृतसत्त्वस्य भागैकं भागाश्चत्वारि गोलकं

1,23.650

मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात्

1,23.651

गुञ्जामात्रं तु तद्भस्म मध्वाज्येन तु लेहयेत् ।
संवत्सरप्रयोगेण ह्ययुतायुर्भवेन्नरः

1,23.652

वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
तद्भस्म पलमेकं तु पलैकं गन्धकस्य च

1,23.653

अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।
जीवेत्कल्पसहस्राणि यथा नागो महाबलः

1,23.654

तस्य मूत्रपुरीषेण लोहान्यष्टौ च काञ्चनं ।
तत्खोटं रञ्जयेत्पश्चाद्वङ्गाभ्रककपालिना

1,23.655

रञ्जयेत्सप्तवाराणि भवेत्कुङ्कुमसन्निभः ।
हेम्ना सह समावर्त्य सारणात्रयसारितं

1,23.656

शतांशेन तु तेनैव शुल्बमध्ये प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणं

1,23.657

बद्धसूतस्य भागैकं भागैकं कुटिलस्य च ।
अन्धमूषागतं ध्मातं यावद्वङ्गावशेषितं

1,23.658

अनेन क्रमयोगेन वङ्गं निर्वाह्य षड्गुणं ।
अनेन क्रमयोगेन वहन्नागं च षड्गुणं

1,23.659

ततस्तं रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ।
पक्वसूतस्य भागैकं भागैकं द्रुतसूतकं

1,23.660

मर्दयेन्मध्यमाम्लेन गोलकं भवति क्षणात् ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकं

1,23.661

मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसंकलिकाक्रमात्

1,23.662

तद्भस्म तु पुनः पश्चान्मध्यमाम्लेन मर्दयेत् ।
पुटं दद्यात्प्रयत्नेन षष्ट्याधिकशतत्रयं

1,23.663

तद्भस्म जायते दिव्यं सिन्दूरारुणसन्निभं ।
तेनैव वेधयेत्तारं सहस्रांशेन काञ्चनं

1,23.664

मृतवज्रस्य भागैकं भागाः षोडश सूतकं ।
देवदालीशङ्खपुष्पीरसेन मृदितं क्रमात्

1,23.665

मारयेद्भूधरे यन्त्रे भस्मीभवति तत्क्षणात् ।
पूत्काराणां सहस्रेण धाम्यमानं न गच्छति

1,23.666

ईदृशं भस्म सूतं च देहे लोहे च योजयेत् ।
तद्भस्म पलमेकं तु पलमेकं च गन्धकं

1,23.667

अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।
तं खोटं रञ्जयेत्पश्चात्कपालिक्रमयोगतः

1,23.668

सारणात्रययोगेन शुल्बवेधं प्रदापयेत् ।
भस्मसूतपलैकं च पलैकं पन्नगस्य च

1,23.669

कान्तपात्रेण तं कृत्वा मर्दयेल्लोहमुष्टिना ।
मृद्वग्निना ततः पाच्यं यावन्नागेन मेलकं

1,23.670

पुटेन जायते भस्म सिन्दूरारुणसप्रभं ।
तद्भस्म तु पुनः पश्चाद्गोपित्तेन तु मर्दयेत्

1,23.671

तच्चतुर्दशवारांस्तु पुटयेद्भस्मयेत्ततः ।
तद्भस्म भागमेकं तु भागैकं हेमगोलकं

1,23.672

एकीकृत्याथ संमर्द्य क्रामणेन सहैकतः ।
तारपिष्टं तु तेनैव सहस्रांशेन काञ्चनं

1,23.673

अनेन क्रमयोगेन वङ्गभस्म प्रजायते ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत्

1,23.674

तच्छुल्बं जायते तारं शङ्खकुन्देन्दुसन्निभं ।
श्वेताभ्रकं च सत्त्वं च काङ्क्षी कान्तं तथायसं

1,23.675

वङ्गं कान्तं तारं तथा श्वेतं वैक्रान्तं च कदम्बकं ।
अन्धमूषागतं ध्मातं खोटं कुन्देन्दुसन्निभं

1,23.676

तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलकं ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकः

1,23.677

मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात्

1,23.678

ततश्च जायते भस्म शङ्खकुन्देन्दुसन्निभं ।
तद्भस्म पलमेकं तु पलमेकं तु गन्धकं

1,23.679

अन्धमूषागतं ध्मातं खोटं भवति तद्रसः ।
तारेण च समावर्त्य सारणात्रयसारितं

1,23.680

सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।
तीक्ष्णचूर्णपलान्यष्टौ पलाष्टौ द्रुतसूतकं

1,23.681

मर्दयेत्तप्तखल्वेन टेटञ्चिल्वीरसेन च ।
तत्क्षणाज्जायते पिण्डं तीक्ष्णेन सह गोलकं

1,23.682

मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकं ।
मर्दयेत्तप्तखल्वेन भस्मीभवति तत्क्षणात्

1,23.683

मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ।
षोडशांशेन तेनैव वङ्गवेधं प्रदापयेत्

1,23.684

तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात्

1,23.685

तस्य खोटस्य भागं च तीक्ष्णचूर्णं च तत्समं ।
द्वौ भागौ द्रुतसूतस्य सर्वमेकत्र मर्दयेत्

1,23.686

तप्तखल्वे तु संमर्द्य गोलकं भवति क्षणात् ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात्

1,23.687

तत्सर्वं जारयेद्भस्म शङ्खकुन्देन्दुसन्निभं ।
तद्भस्म कारयेत्खोटं तीक्ष्णेन द्वंद्वितं सह

1,23.688

अनेन क्रमयोगेन सप्तसङ्कलिकाक्रमात् ।
तं खोटं जारयेत्पश्चात्सारणात्रयसारितं

1,23.689

लक्षांशेन तु तेनैव वङ्गवेधं प्रदापयेत् ।
भस्मसूतपलैकं तु शुद्धवङ्गं प्रदापयेत्

1,23.690

मर्दयेदायसे पात्रे वङ्गं तु म्रियते क्षणात् ।
द्विपलं मृतवङ्गस्य तारचूर्णपलद्वयं

1,23.691

द्विपलं गन्धकं दद्यात्पलैकं टङ्कणस्य च ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात्

1,23.692

पलैकं खोटचूर्णस्य पलैकं द्रुतसूतकं ।
मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात्

1,23.693

षोडशांशेन तेनैव तारारिष्टं तु वेधयेत् ।
मृतवङ्गपलैकं तु पलैकं सूतकस्य च

1,23.694

सर्वचूर्णं पलैकं तु त्रयमेकत्र कारयेत् ।
मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात्

1,23.695

मृतवज्रस्य भागैकं भागश्चत्वारि गोलकं ।
एकत्र मर्दयेद्भद्रे ओषधीद्रवसंयुतं

1,23.696

मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु ।
तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः

1,23.697

सामुद्रं त्रिपलं देवि भस्ममध्ये प्रदापयेत् ।
एकीकृत्याथ संमर्द्य वज्रीक्षीरे दिनत्रयं

1,23.698

विश्वामित्रकपालस्थं पुटं दद्यात्तु भूधरे ।
तत्सर्वं जायते भस्म शङ्खकुन्देन्दुसन्निभं

1,23.699

तेनैव यवमात्रेण वङ्गं स्तम्भयति क्षणात् ।
वङ्गं तारं तथा सत्त्वं समसूतेन गोलकं

1,23.700

अनेन क्रमयोगेन मारयेच्च पृथक्पृथक् ।
तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः

1,23.701

भस्मसूतपलैकं च वङ्गभस्म पलद्वयं ।
द्वे पले मृततारस्य सत्त्वभस्म पलद्वयं

1,23.702

शङ्खचूर्णं पलं पञ्च सामुद्रस्य पलाष्टकं ।
टङ्कणस्य पलान्यष्टौ सर्वमेकत्र जारयेत्

1,23.703

वज्रीक्षीरेण संवेष्ट्य पुटं दद्याच्चतुर्दश ।
एष सिद्धरसः साक्षाद्दुर्लभस्त्रिदशैरपि

1,23.704

वङ्गं तु दापयेत्पश्चाद्भाण्डे चैव तु मृण्मये ।
सिद्धं भस्म भवेल्लोहशलाकेन च चालयेत्

1,23.705

वापयेच्च प्रयत्नेन यावत्कठिनतां व्रजेत् ।
अन्धमूषागतं ध्मातं तारं भवति शोभनं

1,23.706

कदाचित्स्फाटिते तारे पुनर्वङ्गं प्रदापयेत् ।
पत्रे दाहे कषे छेदे तत्तारं शाश्वतं भवेत्

1,23.707

संतितं दनुगोलं च षोडशांशसमन्वितं ।
मृतवज्रस्य भगैकमेकत्रैव तु कारयेत्

1,23.708

देवदालीशङ्खपुष्पं तद्रसेन तु मर्दयेत् ।
मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु

1,23.709

तद्भस्म तु पुनः पश्चाद्दीपयन्त्रेण पाचयेत् ।
भस्मसूतपलैकं च श्वेताभ्रकदलद्वयं

1,23.710

शङ्खचूर्णपलैकं तु पलैकं टङ्कणस्य तु ।
एकीकृत्याथ तत्सर्वं वज्रीक्षीरेण पेषयेत्

1,23.711

अरण्योत्पलकैः पश्चात्पुटं दद्याच्चतुर्दश ।
रसोऽयं यवमात्रेण वङ्गं स्तम्भयति क्षणात्

1,23.712

कृष्णाभ्रकपलैकं तु द्विपलेनैव सूतकं ।
गन्धकस्य पलैकं च एकीकृत्याथ मर्दयेत्

1,23.713

मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकं

1,23.714

मर्दयेत्प्रहरैकं तु भस्मीभवति सूतकः ।
आरण्यगोमयेनैव पुटं दद्यात्तु भूधरे

1,23.715

अनेन क्रमयोगेन सप्तसङ्कलिकां कुरु ।
शतांशेन तु तेनैव नागवेधं प्रदापयेत्

1,23.716

तं खोटं रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना ।
पुनस्तां रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना

1,23.717

पुनस्तं रञ्जयेत्पश्चान्नागाभ्रककपालिना ।
हेम्ना सह समावर्त्य सारणात्रयसारितं

1,23.718

सहस्रांशेन तेनैव शुल्ववेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणं

1,23.719

वज्रवल्लीभस्मस्नुहीक्षीरे पुटितं दशभिः पुटैः ।
तत्तुल्यं मर्दयेत्सूतं देवदाल्या रसैः पुटेत्

1,23.720

तत्तुल्यं पुटयेत्तीक्ष्णं त्रिफलाया रसेन तु ।
तत्तुल्यं पुटयेन्नागं अहिमाराटरूषकैः

1,23.721

हेमवर्णप्रदं तद्धि विंशत्यंशेन योजितं ।
चतुःषष्ट्यंशकेनेदं शुद्धतारं च रञ्जयेत्

1,23.722

अष्टमांशेन तेनैव नागपत्राणि लेपयेत् ।
पुटयेन्मारयेन्नागं सिन्दूरारुणसन्निभं

1,23.723

तत्तुल्यं मारयेद्धेम काञ्चनाररसे पुटेत् ।
तत्तुल्यं मारयेच्छुल्बं गृहकन्यारसेन च

1,23.724

पश्चादम्लेन पुटयेद्यावत्सिन्दूरसन्निभं ।
चन्द्रार्कौ रञ्जयेत्तेन शतांशेन तु पाचितं

1,23.725

सबीजं बीजवर्जं वा वज्रेण सह सूतकः ।
तद्भस्म मर्दयेत्पश्चात्स्वर्णपत्ररसेन च

1,23.726

तेनैव वेधयेच्छुल्बं शुल्बं तारेण योजयेत् ।
<वज्रहेमद्वन्द्वमेलापनम्>
वज्रेण द्वंद्वयेद्धेम हेम्ना च द्वंद्वयेद्रसं

1,23.727

रसेन द्वंद्वयेद्देहं स देहो ह्यजरामरः ।
कदलीटङ्कसौवीरं कण्टकारीरसप्लुतं

1,23.728

क्रामणं सर्वधातूनां सर्वद्वन्द्वेषु मेलनं ।
तिमिरस्य तु पञ्चाङ्गं पेटारीबीजसंयुतं

1,23.729

एकीकृत्याथ संमर्द्य वज्रं तेनैव वेष्टयेत् ।
वज्रमूषागतं ध्मातं हेमद्वन्द्वं तु कारयेत्

1,23.730

कान्तपाषाणचूर्णे तु भूलता रामठं मधु ।
गुञ्जाटङ्कणकाचं च कर्कटास्थि स्नुहीपयः

1,23.731

तत्सर्वं तु समं योज्यं स्त्रीस्तन्येन तु मर्दयेत् ।
मूषालेपः कृतः प्राज्ञो वज्रमेलापकः सुखं

1,23.732

हठाग्नौ वज्रमूषाभिर्दृढं वज्रा मिलन्ति च ।
सुसूक्ष्मा रवका भूत्वा ह्येकीभावं व्रजन्ति च

1,23.733

काचटङ्कणयोगेन ध्मातः शुद्धिमवाप्नुयात् ।
बहुभिश्चैव मूषाभिस्तेजःपुञ्जोऽपि जायते

1,23.734

मृतवज्रस्य भागैकं भागाः षोडश हाटकं ।
श्वेतकाचस्य सूतं तु भागं षोडश दापयेत्

1,23.735

अन्धमूषागतं ध्मातं वज्रद्वन्द्वं तु कारयेत् ।
अनेन क्रमयोगेन सप्तवारांश्च दापयेत्

1,23.736

मिलते तत्क्षणाद्वज्रं हेम्ना तु सलिलं यथा ।
चूर्णे नरकपालस्य मृतवज्रं च दापयेत्

1,23.737

अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात् ।
भृङ्गपत्रं नृकेशं च मुखं कान्तस्य टङ्कणं

1,23.738

बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।
अन्धमूषागतं ध्मातं वज्रं मिलति तत्क्षणात्

1,23.739

क्षीरेणोत्पलसारिण्या मृतवज्रं तु भावयेत् ।
हेमपिष्टिकया मध्ये वज्रं तत्रैव निक्षिपेत्

1,23.740

वेष्टयेद्भूर्जपत्रेण बाह्ये वस्त्रेण वेष्टयेत् ।
धान्यमध्ये तु संस्थाप्य पक्षमेकं निरन्तरं

1,23.741

उद्धरेत्तत्प्रयत्नेन वज्रबन्धं तु कारयेत् ।
<रत्नद्रुतिबन्धः>
द्रुता वज्रास्तु सूतेन मेलनीयास्तु पार्वति

1,23.742

द्रुतिबन्धः स विज्ञेयः शतसाहस्रवेधकः ।
रत्नानां द्रुतयः सर्वा मेलयित्वा यथाविधि

1,23.743

शतसहस्रवेधी च देहसिद्धिप्रदायकः ।
मुसली चित्रकं वन्ध्या कुक्कुटीकन्दपद्मिनी

1,23.744

कञ्चुकी नीलिसिन्दूरी पाठा नागबला यथा ।
कंसपात्रे रसश्चैव रत्नानां द्रुतयस्तथा

1,23.745

आतपे धारयित्वा वै अधः कर्षानलं यथा ।
ओषधीनां रसं दत्त्वा स्वच्छं कृत्वा पुनः पुनः

1,23.746

याममात्रं तु घर्मे च द्रुतिर्मिलति वै रसं ।
न तेषां क्रामणे शक्तिर्वक्तुं वक्त्रशतैरपि

1,23.747

सैन्धवं निंबपत्राणि वाकुची द्वेषिणीजके ।
द्रुताभ्रस्य रसेनैव मेलनं परमं मतं

1,23.748

वज्रद्वन्द्वानं ईशानि वज्रेण रसमारणं ।
सबीजं सारणं प्रोक्तं खोटबन्धनमेव च

1,23.749

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि

1,24.1

âक्, १, २४
<महारसैरुपरसैर्लोहैश्च रसस्य वेधोपयोगिनो बन्धाः>
श्रीभैरवः ।
महारसैरुपरसैर्लोहैश्च परमेश्वरि ।
आज्ञापय समस्तं तं रसराजस्य बन्धनं

1,24.2

<वैक्रान्तबन्धाः; प्रथमः प्रकारः>
वैक्रान्तस्य तु भागैकमष्टभागं तु सूतकं ।
कनकस्य तु सप्तांशं द्विपदीरसटङ्कणं

1,24.3

नष्टपिष्टं च शुष्कं च ध्मातं खोटो भवेत्प्रिये ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत्

1,24.4

समहेम्नि समावर्त्य मूषागतं ततः ।
समांशभक्षणं तत्तु शुद्धसूतेन कारयेत्

1,24.5

वैक्रान्तं षोडशांशेन पूर्वयोगेन धामयेत् ।
दशसङ्कलिकायोगाद्वेधो दशगुणोत्तरः

1,24.6

<द्वितीयः प्रकारः>
पुनरन्यं प्रवक्ष्यामि प्रयोगं भुवि दुर्लभं ।
वैक्रान्तसत्त्वं देवेशि पारदेन समन्वितं

1,24.7

जारितं समहेम्ना तु शिलाभाण्डे निधापयेत् ।
मासमात्रोषितं भूमौ समुद्धृत्य प्रयत्नतः

1,24.8

एष देवि रसो दिव्यो देहद्रव्यकरो भवेत् ।
<तृतीयः प्रकारः>
वैक्रान्तकास्तु ये केचित्त्रिफलाया रसेन च

1,24.9

एकैकं देवि सप्ताहं स्वेदिता मर्दितास्तथा ।
सुध्माता मूकमूषायां खोटो भवति चाक्षयः

1,24.10

कान्तं रूप्यं च कनकं पारदं चैव योजयेत् ।
शुल्बं तृतीयभागं तु स्रोतोञ्जनसमन्वितं

1,24.11

तद्ध्मातं खोटतां यातं देहलोहकरं भवेत् ।
<चतुर्थः प्रकारः श्वेतवैक्रान्तसिद्धः>
श्वेतवैक्रान्तचूर्णं तु हयमूत्रेण मर्दयेत्

1,24.12

आदौ सुस्विन्नमादाय पले पलशतं क्षिपेत् ।
तारस्य जायते भस्म विशुद्धस्फटिकाकृति

1,24.13

तद्भस्म मेलयेत्सूते समभागं विचक्षणः ।
चारयेद्रजतं सूते हयमूत्रेण मर्दयेत्

1,24.14

पुटयेदन्धमूषायां क्रमेण मृदुवह्निना ।
अहोरात्रं त्रिरात्रं वा भवेदग्निसहो रसः

1,24.15

स्पर्शनात्सर्वलोहानि रजतं च करिष्यति ।
<पञ्चमः प्रकारः रक्तवैक्रान्तसिद्धः>
रक्तस्य वक्ष्यते कर्म जरादारिद्र्यनाशनं

1,24.16

सप्तधा भावयेत्तस्य व्याघ्रीकन्दांभसा रजः ।
पलं तस्य पलं हेम्नः पलं शुद्धरसस्य च

1,24.17

शुद्धभस्म भवेत्सर्वं पुनर्हेम्नः शतं क्षिपेत् ।
तद्भस्म जायते सर्वं शुद्धहेमसमप्रभं

1,24.18

तद्भस्म रसराजे तु पुनर्हेम्ना तु मेलयेत् ।
भवेदग्निसहो देवि ततो रसवरो भवेत्

1,24.19

सर्ववेधी भवेत्सूतः कोटिवेधी महारसः ।
<षष्ठः प्रकारः>
रक्तवैक्रान्तसत्त्वं तु हेम्ना तु सह मेलयेत्

1,24.20

समं तु जारयेत्सूते सारयित्वा समेन तु ।
सहस्रांशेन लोहानि वेधयेन्नात्र संशयः

1,24.21

<सप्तमः प्रकारः कृष्णवैक्रान्तसिद्धः>
कृष्णवैक्रान्तभागैकं शुद्धसूतं शतांशकं ।
एकत्र मर्दयेत्खल्वे चूर्णं भवति तद्द्वयं

1,24.22

अस्य चूर्णस्य भागैकं हेमभागसहस्रकं ।
एकत्र मर्दयेत्तावद्यावद्भस्म तु जायते

1,24.23

धमेत्तदन्धमूषायां यावत्खोटो भविष्यति ।
समांशभक्षणं तस्य पीठिकां तस्य कारयेत्

1,24.24

वेधयेत्सर्वलोहानि स्पर्शमात्रेण हेमतां ।
तच्चूर्णमभ्रकं चैव रसेन सह मर्दयेत्

1,24.25

स्वेदयेज्जारयेच्चैव ततो वह्निसहो भवेत् ।
स रसश्चारितश्चैव सर्वलोहानि विध्यति

1,24.26

<अष्टमः प्रकारः पीतवर्णवैक्रान्तसिद्धः>
पीतवर्णेऽपि वैक्रान्ते रक्तकृष्णविधिः स्मृतः ।
पीतवैक्रान्तचूर्णं तु हेमचूर्णसमन्वितं

1,24.27

पीताभ्रकस्य चूर्णं तु मेलयित्वा महारसः ।
स्वेदितो मर्दितश्चैव मासादग्निसहो भवेत्

1,24.28

<नीलवैक्रान्तभस्मरसायनम्>
नीलवर्णं तु वैक्रान्तं म्रियते रससंयुतं ।
कृष्णाभ्रकेण सहितं मधुसर्पिर्युतं च तत्

1,24.29

भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकं ।
यस्य यस्य हि यो योगस्तस्य तस्य प्रयोगतः

1,24.30

मेलयित्वा रसं गुञ्जामानं त्रिमधुसंयुतं ।
खादेत्क्षीराज्यशाल्यन्नं भोज्यमन्यच्च वर्जयेत्

1,24.31

<नवमः प्रकारः>
वैक्रान्तसत्वसंयुक्तं लुङ्गाम्ले मर्दयेद्रसं ।
तापयेदुष्णतोयेन जलेन परिपूरयेत्

1,24.32

सत्त्वं सूतं च संमिश्रं धमेत्स्याद्रसबन्धनं ।
बद्धं रसं मुखे क्षिप्त्वा भूमिच्छिद्राणि पश्यति

1,24.33

<दशमः प्रकारः>
निष्कमेकं रसं क्रान्तमश्वमूत्रेण मर्दयेत् ।
दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत्

1,24.34

चतुर्दिनमिदं कृत्वा समसूतं समं नयेत् ।
मर्दनं स्वेदनं चैव पूर्ववच्छुद्धमानसः

1,24.35

सप्तद्वन्द्वजमेकैकं सप्तमेऽष्टपलं भवेत् ।
शल्याविशल्यामूलस्य वारिणा मर्दयेद्दिनं

1,24.36

भूधरीयन्त्रमध्यस्थं पुटं सप्तदिनं ददेत् ।
तद्भस्म शुद्धं सेव्यं स्याद्गुञ्जामात्रं तु मण्डलं

1,24.37

एकाद्यं पञ्चमं मध्यं पुनरेकं प्रशस्यते ।
पूर्ववद्बन्धनं देवि कोटिवेधी भवेद्रसः

1,24.38

<कान्तबन्धः>
रक्तवर्णमयस्कान्तं लाक्षारससमप्रभं ।
भिन्नस्त्रीरक्तसंकाशं तच्चूर्णं सूतसंयुतं

1,24.39

मर्दयेच्छागरक्तेन ध्मातं खोटो भवेत्प्रिये ।
स सूतः शतवेधी तु स तु व्याधिहरो भवेत्

1,24.40

गुलिकां धारयेद्वक्त्रे जीवेद्वर्षसहस्रकं ।
पीतवर्णमयस्कान्तं भिन्नहेमसमप्रभं

1,24.41

वेधयेत्स्पर्शमात्रेण स तु लोहानि सुन्दरि ।
<चपलबन्धः; प्रथमः प्रकारः>
लाङ्गलीं करवीरं च चित्रकं गिरिकर्णिकां

1,24.42

स्त्रीस्तन्यटङ्कसौवीरं मूषालेपं तु कारयेत् ।
चपलाद्द्विगुणं सूतं सूताद्द्विगुणकाञ्चनं

1,24.43

नष्टपिष्टं च तत्कुर्यादन्धमूषागतं धमेत् ।
तत्र स्थितो रसेन्द्रोऽयं खोटो भवति शोभनः

1,24.44

शतांशं वेधयेन्नागं गुञ्जावर्णस्तु जायते ।
तेन नागशतांशेन शुल्बं रक्तनिभं भवेत्

1,24.45

तेन शुल्बशतांशेन तारं विध्यति काञ्चनं ।
<द्वितीयः प्रकारः>
चपलस्य तु षड्भागास्तारभागास्तु सप्त च

1,24.46

अष्टौ कनकभागास्तु नव भागा रसस्य च ।
त्रिंशद्भागा मिलित्वा तु भवन्ति सुरवन्दिते

1,24.47

चित्रकं कणवीरं च लाङ्गली गृध्रविट्तथा ।
मर्दितं मातुलुङ्गाम्लैर्मूषालेपं तु कारयेत्

1,24.48

अन्धयित्वा धमेद्देवि खोटो भवति शोभनः ।
तेन खोटदशांशेन विद्धो नागोऽरुणो भवेत्

1,24.49

तेन नागेन विद्धं तु शुल्बं गुञ्जारुणं भवेत् ।
तेन शुल्बेन तारं तु विद्धं भवति काञ्चनं

1,24.50

<तृतीयः प्रकारः>
हेमाभ्रं चपलं देवि पारदार्धेन संयुतं ।
पारदेन कनकं दत्त्वा कुनट्या मर्दयेत्क्षणं

1,24.51

लाङ्गली चित्रकं चैव स्त्रीस्तन्यं कणवीरकं ।
गृध्रविष्ठा तथा सर्वं मूषालेपं तु कारयेत्

1,24.52

तन्मध्ये तु स्थितं ध्मातं खोटो भवति शोभनः ।
पूर्वोक्तं वेधयेदेतन्निर्बीजं कनकं भवेत्

1,24.53

सुतप्तलोहपात्रे च क्षिपेच्चपलचूर्णकं ।
सबीजं पारदं कृत्वा चपलस्य तु वापयेत्

1,24.54

लाक्षाभो बध्यते सूतोऽङ्कुशेनेव महागजः ।
<गन्धकबन्धः; प्रथमः प्रकारः>
शुद्धसूतपलैकं च पलैकं गन्धकस्य च

1,24.55

एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ।
मारयेच्चक्रयोगेन भस्मीभवति सूतकः

1,24.56

अन्धमूषागतो ध्मातः खोटो भवति शोभनः ।
सितं हेम च नागं च चन्द्रार्कं चापि वेधयेत्

1,24.57

<द्वितीयः प्रकारः>
पलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च ।
मर्दयेत्स्निग्धखल्वेन देवदालीरसप्लुतं

1,24.58

मर्दयेत्तु कराङ्गुल्या गन्धपिष्टिस्तु जायते ।
जम्बीरस्य रसेनैव दिनमेकं तु मर्दयेत्

1,24.59

पञ्चद्रावकसंयुक्तां वटिकां कारयेच्छुभां ।
पलाशमूलकल्केन वटिकां तां प्रलेपयेत्

1,24.60

धमेत्खोटो भवेच्छ्वेतकाचटङ्कणयोगतः ।
शोधयेत्तं प्रयत्नेन यावन्निर्मलतां व्रजेत्

1,24.61

स खोटो जायते देवि त्रिगुणं पन्नगं ततः ।
शतशो रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना

1,24.62

शुल्बे तारे च खोटोऽयं सहस्रांशेन वेधकः ।
<तृतीयः प्रकारः>
गन्धकेन हते सूते मृतलोहानि वाहयेत्

1,24.63

पुनर्हेम समावर्त्य समांशं भक्षणं कुरु ।
सारितः शुल्बतारैर्घोषं विध्यति सूतकः

1,24.64

<चतुर्थः प्रकारः>
रसं हेमसमं कृत्वा पिष्टिकार्धेन गन्धकं ।
द्विपदीरजसा युक्तं मर्दयेट्टङ्कणान्वितं

1,24.65

नष्टपिष्टं च शुष्कं च ध्मातः खोटो भवेत्ततः ।
चन्द्रार्कषोडशांशेन विद्धं भवति काञ्चनं

1,24.66

हेमार्धमिलितं तं तु मातृकासमतां व्रजेत् ।
कुर्यात्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः

1,24.67

यथा हेम्नि तथा तारे व्याटिबीजेन योजितं ।
तृतीयसङ्कलाबद्धं षट्शते नागवेधकं

1,24.68

चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनं ।
अनेन क्रमयोगेन सप्त सङ्कलिका यदि

1,24.69

कुरुते काञ्चनं दिव्यमष्टलोहानि पार्वति ।
तं पुनश्चूर्णयित्वा तु पुटयेद्भस्म जायते

1,24.70

सर्वव्याधिजयो देवि पलैकेन सुभक्षिते ।
द्विपले ब्राह्ममायुष्यं त्रिपले वैष्णवं भवेत्

1,24.71

चतुष्पले च पञ्चत्वमीशः पञ्चपले भवेत् ।
षट्पले भक्षिते देवि सदाशिवतनुर्भवेत्

1,24.72

<पञ्चमः प्रकारः>
सूतकं गन्धकं तारं मेषवल्लीवसा समा ।
त्रिदिनं मर्दयेल्लक्षं वङ्गं पादेन लेपयेत्

1,24.73

अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ।
<षष्ठः प्रकारः, गन्धपिष्टिविधिः>
चूर्णितं गन्धकं देवि मर्कटीरसभावितं

1,24.74

भावयेच्छतवाराणि जीवभस्म तु गच्छति ।
दापयेन्मृण्मये पात्रे रसेन सह संयुतं

1,24.75

तापयेद्रवितापेन मर्कटीरससंयुतं ।
गन्धकं ग्रसते सूतः पिष्टिका भवति क्षणात्

1,24.76

तिलपर्णीरसेनैव गन्धकं भावयेत्ततः ।
सप्तवारांस्तु देवेशि छायाशुष्कं पुनःपुनः

1,24.77

शोधितं पातितं सूतं पलैकप्रमितं प्रिये ।
मूषामध्ये विनिक्षिप्य नरेन्द्रीरससंयुतं

1,24.78

जारयेद्वालुकायन्त्रे भावितं गन्धकं पुनः ।
त्रुटि त्रुटि प्रदातव्यं गन्धकं च पुनः पुनः

1,24.79

अनेन क्रमयोगेन जायते गन्धपिष्टिका ।
गन्धपाषाणचूर्णं तु कनकस्य रसेन तु

1,24.80

भावयेत्सप्तवारांस्तु स्त्रीरजेन तु सप्तधा ।
शुद्धसूतपलैकं च खर्परे दापयेत्ततः

1,24.81

भावितं गन्धकं दद्यान्नरपित्तेन संयुतं ।
दोलयेद्रवितापेन पिष्टिका भवति क्षणात्

1,24.82

गन्धकं सूक्ष्मचूर्णं तु चणकाम्लेन पार्वति ।
भावयेत्सप्तवाराणि स्त्रीपुष्पेण च सप्तधा

1,24.83

द्रुतसूतकमध्ये तु कर्पूरं गन्धकं रसं ।
दापयेन्निक्षिपेद्गोष्ठे सप्ताहाद्गन्धपिष्टिका

1,24.84

<गन्धकपिष्टीस्तंभनं वेधश्च>
कटुकोशातकीबीजं चाण्डालीकन्दमेव च ।
स्तन्यक्षीरेण संपेष्य पिष्टिकां तेन लेपयेत्

1,24.85

पुटयेद्भूधरे यन्त्रे स्तम्भते नात्र संशयः ।
हेमसम्पुटमध्ये तु समावर्तं तु कारयेत्

1,24.86

अष्टमांशेन तेनैव नागवेधं प्रदापयेत् ।
षोडशांशेन तेनैव तारवेधं प्रदापयेत्

1,24.87

<सप्तमः प्रकारः>
गन्धपिष्टिपलैकं तु नागपिष्टिपलाष्टकं ।
लेपयेन्नागपत्राणि छायायां शोषयेत्ततः

1,24.88

आटरूषकपिण्डेन नागपत्राणि लेपयेत् ।
आरण्योत्पलकैर्देवि दापयेच्च पुटत्रयं

1,24.89

तन्नागं म्रियते दिव्यं सिन्दूरारुणसप्रभं ।
तन्नागं पलमेकं तु शुल्बचूर्णपलाष्टकं

1,24.90

वासकस्य रसेनैव प्रहरैकं तु मर्दयेत् ।
मारयेत्पातनायन्त्रे शुल्बं तन्म्रियते क्षणात्

1,24.91

षोडशांशेन तेनैव तारवेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणं

1,24.92

या काचिद्गन्धपिष्टी तु आदौ नागं तु मारयेत् ।
नागेन वेधयेच्छुल्बं शुल्बे तारं तु वेधयेत्

1,24.93

कनकं जायते दिव्यं सिद्धयोग उदाहृतः ।
<अष्टमः प्रकारः>
गन्धकं मधुसंयुक्तं हरबीजेन मर्दितं

1,24.94

भूमिस्थं मासमेकं तु तारमायाति काञ्चनं ।
उद्वर्तनेन तेनैव सर्वकुष्ठविनाशनं

1,24.95

घनेन सह संयुक्तं व्रणरोगविनाशनं ।
संवत्सरप्रयोगेण सहस्रायुर्भवेन्नरः

1,24.96

<तालकबन्धः>
शुद्धसूतपलैकं तु पलैकं तालकस्य च ।
एकीकृत्याथ संमर्द्य उन्मत्तकरसेन च

1,24.97

मारयेच्चक्रयन्त्रेण भस्मीभवति सूतकः ।
अन्धमूषागतं ध्मातं खोटो भवति शोभनः

1,24.98

वङ्गं तारं च शुल्बं च क्रमशो वेधयेद्रसः ।
शुद्धवङ्गपलैकं च पलैकं सूतकस्य च

1,24.99

द्वे पले तालकं चैतदुन्मत्तरसमर्दितं ।
मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत्

1,24.100

श्वेताभ्रकस्य सत्त्वं च तारं तीक्ष्णं च माक्षिकं ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात्

1,24.101

तत्खोटपलमेकं च पलैकं सूतकस्य च ।
तालकस्य पलं सर्वमेकीकृत्याथ मर्दयेत्

1,24.102

मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ।
<अन्ये लघुबन्धाः>
शुद्धसूतपलैकं च पलैकं पन्नगस्य च

1,24.103

पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ।
मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत्

1,24.104

हेमपिष्टिपलैकं च पलैकं गन्धकस्य तु ।
एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च

1,24.105

मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ।
कृष्णाभ्रकस्य सत्वं च कान्तं तीक्ष्णं च हाटकं

1,24.106

शुद्धं तारं च माक्षीकं समभागानि कारयेत् ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात्

1,24.107

तत्खोटपलमेकं तु पलैकं सूतकस्य च ।
पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत्

1,24.108

मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ।
कृष्णाभ्रकपलैकं तु रसकस्य पलं तथा

1,24.109

सूतकस्य पलैकं तु सर्वमेकीकृतं प्रिये ।
उन्मत्तकरसेनैव मर्दयेत्प्रहरद्वयं

1,24.110

मर्दयेद्दिनमेकं वा टङ्कणेन समन्वितं ।
घुटिकां कारयेत्पश्चाच्छायाशुष्कं तु कारयेत्

1,24.111

महावर्तिगतं ध्मातं खोटं भवति सूतकः ।
तं खोटं शोधयेत्काचटङ्कणद्रवयोगतः

1,24.112

हेम्ना सह समावर्त्य सारणात्रयसारितं ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत्

1,24.113

अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ।
बीजद्वयं पलाशस्य पलमेकं तु सूतकं

1,24.114

जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् ।
तुम्बीका मेघनादी च काकजङ्घा च भूलिका

1,24.115

स्तन्यं च तैः प्रलिप्तायां मूषायां चैव निक्षिपेत् ।
धमयेत्खदिराङ्गारैः खोटो भवति चाक्षयः

1,24.116

पलाशतैले संमर्द्यं यावत्स्याद्द्रवपिष्टिका ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात्

1,24.117

पूर्वशुद्धेन सूतेन समहेम्ना च पार्वति ।
गोलकं कारयेत्तेन मर्दयित्वा दृढं कृतं

1,24.118

ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकं ।
यवचिञ्चा च वन्ध्या च राजिका च समन्वितं

1,24.119

सूक्ष्मपिण्डीकृतं सर्वं तेन लिप्त्वा तु गोलकं ।
पुटनैः सप्तभिर्देवि पिष्टिकास्तम्भनं भवेत्

1,24.120

बृहत्पुटं ततो दत्त्वा मूषायां तु धमेत्ततः ।
समावर्त्य तु तं सूतं समहेम्ना नियोजितं

1,24.121

शतांशेन तु चन्द्रार्कं वेधयेत्सुरवन्दिते ।
पुनस्तेनैव योगेन पिष्टीस्तंभं तु कारयेत्

1,24.122

सारयित्वा ततो हेम्ना वेधश्चैव सहस्रकः ।
एवं लक्षाणि कोटिं च वेधयेत्क्रमयोगतः

1,24.123

सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रं तु गोलकं ।
वर्षेणैकेन स भवेद्वलीपलितवर्जितः

1,24.124

चाण्डालीराक्षसीपुष्पैरथ मध्वाज्यटङ्कणैः ।
महारसाष्टमध्ये तमभ्रकं वापि योजयेत्

1,24.125

नागवङ्गसमं सूतं हेमतारमथापि वा ।
अभ्रकं द्रुतिसत्त्वं वा मर्दयेत्प्रहरद्वयं

1,24.126

छायाशुष्कं ततो गोलं मूकमूषागतं प्रिये ।
दत्त्वा लघुपुटं ध्मातः खोटो भवति शोभनः

1,24.127

रंभा वीरा स्नुहीक्षीरं कञ्चुकी यवचिञ्चिका ।
दीनारी चैव गोरम्भा मीनाक्षी काकमाचिका

1,24.128

एभिर्मर्दितसूतस्य पुनर्जन्म न विद्यते ।
पूर्ववत्क्रमयोगेन खोटो भवति शोभनः

1,24.129

विष्णुक्रान्ता च वक्राङ्काबला च तुलसी तथा ।
महासोमाहिवल्ली च सूर्यावर्तं च सुन्दरि

1,24.130

एभिस्तु मर्दितः सूतः पूर्ववत्खोटतां नयेत् ।
स्नुहीक्षीरं च काञ्जीरं बीजानि कनकस्य च

1,24.131

कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका ।
पालाशमूलतोयं च मर्दयेत्तेन सूतकं

1,24.132

समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।
महारसान्पिष्टिकार्धं मर्दयेदोषधीरसैः

1,24.133

यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ।
पिष्टिकां बन्धयित्वा तु गन्धतैले विपाचयेत्

1,24.134

अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।
ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत्

1,24.135

खोटवज्जायते देवि सह हेम्ना तु धामयेत् ।
अक्षीणो मिलते हेम्नि समावर्तश्च जायते

1,24.136

तत्क्षणादेव सूतस्य दिव्यदेहो भवेन्नरः ।
वेधयेत्सर्वलोहानि रञ्जितः क्रामितो रसः

1,24.137

समांशभक्षणे सूते मर्दयेदोषधीरसैः ।
नष्टपिष्टं तु तं कृत्वा पूर्वयोगेन धामयेत्

1,24.138

खोटस्तु जायते दिव्यः षोडशांशेन वेधकः ।
बद्धः सङ्कलिकायोगाद्विध्येद्दशगुणोत्तरं

1,24.139

अथवा चूर्णबद्धस्तु विध्येद्दशगुणोत्तरं ।
मृगदूर्वा चन्द्रवल्ली पक्वबिम्बा तथैव च

1,24.140

काङ्क्षीला करवीरं च बीजं चोन्मत्तकस्य च ।
काकाण्डीपलसंयुक्तं मर्दयेत्सुरसुन्दरि

1,24.141

समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।
अथवा सारयित्वा तु समेन समसूतकं

1,24.142

महारसपिष्टिकां च मर्दयेदोषधीरसैः ।
यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः

1,24.143

अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।
ततो लघुपुटं दत्त्वा ध्मातः खोटो भवेत्प्रिये

1,24.144

मृगदूर्वोत्तमासोमारसैः सूतकसारणं ।
मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते

1,24.145

समेन हेम्ना संयुक्तं पिष्टिकां कारयेद्बुधः ।
अथवा तारपिष्टिं च समसूतेन कारयेत्

1,24.146

पूर्ववत्क्रमयोगेन खोटो भवति शोभनः ।
अन्धमूषागतं भूमौ स्वेदयेत्कर्षकाग्निना

1,24.147

अहोरात्रं त्रिरात्रं वा चूर्णबन्धं भवेत्ततः ।
तच्चूर्णबन्धं कुरुते वेधं दशगुणोत्तरं

1,24.148

शूलिनीरससूतं च स्रोतोञ्जनसमन्वितं ।
पूर्ववत्पिष्टिकायोगात्खोटो भवति शोभनः

1,24.149

स्रोतोञ्जनं सतगरं सृष्टित्रययुतं रसं ।
भवेद्वह्निसहः क्षिप्रं सूतकः सर्वकर्मकृत्

1,24.150

हेमाभ्रं चैव ताराभ्रं शुल्बाभ्रं चाभ्रतीक्ष्णकं ।
वङ्गाभ्रं चैव नागाभ्रं सह सूतेन बन्धयेत्

1,24.151

यथालाभौषधीघृष्टं महारससमन्वितं ।
हेम्ना तारेण शुल्वेन तीक्ष्णवङ्गोरगैस्तथा

1,24.152

एभिर्व्यस्तैः समस्तैर्वा पिष्टिं कृत्वा समे समां ।
मारयेत्पूर्वविधिना गर्भयन्त्रे तुषाग्निना

1,24.153

समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।
जायते विविधः खोटः कान्तबद्धो महारसः

1,24.154

भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ।
<निगलबन्धः>
खोटः पोटस्तथा भस्म धूलीकल्पश्च पञ्चमः

1,24.155

एते निगलयोगाभ्यां सर्वबन्धफलोदयः ।
स्नुह्यर्कसंभवं क्षीरं बन्धबीजानि गुग्गुलुः

1,24.156

सैन्धवं द्विगुणं दत्त्वा मर्दयेत विचक्षणः ।
पिष्टिकाबन्धनं कृत्वा कल्केनानेन सुन्दरि

1,24.157

बिल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभां ।
ऊर्ध्वाधो लवणं दत्त्वा मूषामध्ये रसं क्षिपेत्

1,24.158

मूषामध्ये प्रदातव्यं दग्धशङ्खादिचूर्णकं ।
मुखं तस्य दृढं बद्ध्वा लोणमृत्तिकया बुधः

1,24.159

कारयेत्सन्धिलोणं च छायाशुष्कं तु कारयेत् ।
उक्तो निगलबन्धोऽयं पुत्रस्यापि न कथ्यते

1,24.160

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा पुटं दत्त्वा प्रयत्नतः

1,24.161

सुध्मातं खदिराङ्गारै रसेन्द्रं खोटतां नयेत् ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत्

1,24.162

अक्षीणो मिलते हेम्नि समावर्तश्च जायते ।
समांशभक्षणं तत्तु शुद्धसूतेन कारयेत्

1,24.163

धमयेत्पूर्वयोगेन रसेन्द्रं खोटतां नयेत् ।
भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः

1,24.164

पलाशबीजनिर्यासं कोकिलोन्मत्तवारुणी ।
शूलिनीरससंयुक्तं पेषयेत्सैन्धवान्वितं

1,24.165

पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ।
अभ्रकस्य तु पत्रेण वज्रार्कक्षीरसिन्धुना

1,24.166

ताप्येन लोहकिट्टेन सिकतामृण्मयेन च ।
एभिस्तु निगले बद्धः पारदीयो महारसः

1,24.167

नातिक्रामति मर्यादा वेलामिव महोदधिः ।
तैलार्कक्षीरकतकलाङ्गल्या निगलोत्तमः

1,24.168

काकविट्ब्रह्मबीजानि लाङ्गली निगलोऽपरः ।
वाकुची ब्रह्मबीजानि कर्कटास्थीनि सुन्दरि

1,24.169

सामुद्रं शाम्बरं चैव लवणं निगलोत्तमः ।
स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि कारयेत्

1,24.170

कनकस्य च बीजानि लोणाष्टेन च मर्दयेत् ।
निगलोऽन्यस्तु गोजिह्वामूलानि स्त्रीरजोऽपरः

1,24.171

वाकुची ब्रह्मबीजानि स्नुह्यर्कक्षीरसैन्धवं ।
ज्वालिनी काकविष्ठा च प्रशस्तो निगलोत्तमः

1,24.172

लवणं टङ्कणं क्षारं शिलातालकगन्धकं ।
तथाम्लवेतसं ताप्यं हिङ्गुलं समभागिकं

1,24.173

स्नुह्यर्कपयसा युक्तं पेषयेन्निगलोत्तमं ।
पिष्टिकां वेष्टयेदेषामेकेन निगलेन तु

1,24.174

लोणमूषागतं प्राग्वत्खोटं कृत्वा तु वेधयेत् ।
द्वितीयं गोलकं वक्ष्ये पिष्टिकास्तम्भमुत्तमं

1,24.175

द्विपदीरजमूत्रेण सैन्धवाभ्रं सगुग्गुलं ।
पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा

1,24.176

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा पूर्ववत्खोटतां नयेत्

1,24.177

वाकुची ब्रह्मबीजानि गगनं विमलं मणिं ।
सौवर्चलं सैन्धवं च टङ्कणं गुग्गुलुं तथा

1,24.178

द्विपदीरजसा मूत्रं सुश्लक्ष्णं तं च मर्दयेत् ।
पिष्टीमावेष्ट्य कल्केन पूर्ववत्खोटतां नयेत्

1,24.179

<रसमूर्छाविधिः, प्रथमः प्रकारः>
अथ मूर्च्छां प्रवक्ष्यामि रसस्य परमेश्वरि ।
बाह्लीकं सैन्धवं कन्या धूशरो लशुनं वचा

1,24.180

मेघनादा काकमाची सर्वांशं मर्दयेद्रसं ।
श्लक्ष्णं तं गोलकं कृत्वा हिंगुना वेष्टयेद्बहिः

1,24.181

समेन लोणयन्त्रस्थं कृत्वा तद्विपचेद्दिनं ।
चण्डाग्निना स्वाङ्गशीतमधः पात्रे स्थितं रसं

1,24.182

चूर्णीभूतं समादाय सान्द्रद्विगुणवाससा ।
बद्ध्वा सोमानले यन्त्रे ह्यथोर्ध्वं गन्धकं समं

1,24.183

दत्त्वा पचेत्पुनर्गन्धमेवं गन्धं तु षड्गुणं ।
जारयेत्स रसो देवि मूर्छितः सर्वरोगहा

1,24.184

<द्वितीयः प्रकारः>
गन्धकं नवसारं च शुद्धसूतसमं समं ।
यामं संमर्दयेच्छ्लक्ष्णं काचकूप्यां विनिक्षिपेत्

1,24.185

सप्तमृत्कर्पटैर्लिप्त्वा कूपीं घर्मे विशोषयेत् ।
कूपिकां वालुकायन्त्रे द्वादशप्रहरं पचेत्

1,24.186

स रसो जायते देवि मूर्छितो रञ्जितो भवेत् ।
<तृतीयः प्रकारः>
रसार्धं गन्धकं मर्द्यं यामयुग्मं खरातपे

1,24.187

ततः सितजयन्त्याश्च रसैः संमर्दयेत्त्र्यहं ।
ततस्तु गोलकं कृत्वा मूषायां संनिरोधयेत्

1,24.188

शोषयित्वा धमेत्किंचित्संतप्तां तां जले क्षिपेत् ।
तं रसेन्द्रं समादाय भावयेद्गोक्षुरद्रवैः

1,24.189

मूर्छितो जायते सूतः सर्वरोगहरः शुभः ।
<बद्धरसलक्षणम्>
अक्षयश्च लघुद्रावी तेजस्वी निर्मलो गुरुः

1,24.190

स्फुटनः पुनरावर्तो बद्धः सूतः स उच्यते ।
<जलूकाबन्धाः; मर्दनजलूका>
रसस्याष्टमभागं तु स्वर्णं वा नागमेव वा

1,24.191

श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकं ।
तिलपिण्याकचूर्णं च तप्तखल्वे विमर्दयेत्

1,24.192

शाल्मल्याश्चैव पञ्चाङ्गं रसं तत्र विनिक्षिपेत् ।
जलूका जायते यावत्तावन्मर्द्यात्ततः क्षिपेत्

1,24.193

कर्पूरं वाकुचीतैलं सैन्धवं टङ्कणं कणां ।
कपिकच्छुकरोमाणि तत्सर्वं पेषयेज्जलैः

1,24.194

एतत्पूर्वजलूकां त्रिसप्ताहं तप्तखल्वके ।
जलूका जायते दिव्या मर्दनाख्या सुरार्चिते

1,24.195

नारीणामृतुकाले तु सा योज्या योनिगह्वरे ।
मददर्पहरा तासां मदविह्वलकारका

1,24.196

बाल्ये चाष्टाङ्गुला योज्या यौवने सा दशाङ्गुला ।
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलूकका

1,24.197

यस्तु तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ।
<मन्मथजलूका>
रसेन्द्रस्याष्टमं भागं स्वर्णं वा नागमेव वा

1,24.198

शाल्मलीत्वग्घस्तिकन्दनीलामूलमुनिच्छदं ।
एषां द्रवैस्तप्तखल्वे सर्वं मर्द्यमतन्द्रितः

1,24.199

श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकं ।
सुपक्वबिल्वमज्जां च तस्मिन्क्षिप्त्वा विमर्दयेत्

1,24.200

जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् ।
तस्मिन्क्षिप्त्वा त्रिसप्ताहं मर्दयेत्तप्तखल्वके

1,24.201

मन्मथाख्या जलूका स्यात्पूर्ववत्फलदायिनी ।
<कन्दर्पजलूका>
सूतकस्याष्टमं भागं हाटकं सीसमेव वा

1,24.202

शुण्ठी भृङ्गी वरा क्षौद्री छागक्षीरघृतं गवां ।
मूत्रं त्रिः सप्तदिवसं मर्दयेत्तप्तखल्वके

1,24.203

जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् ।
एकविंशद्दिनं मर्द्यं जलूका जायते शुभा

1,24.204

कन्दर्पाख्या सुरेशानि पूर्ववत्फलदायिनी ।
<मदनजलूका>
त्रिदिनं मर्दयेत्खल्वे सूतनिष्कचतुष्टयं

1,24.205

त्रिपलं चाम्रनिर्यासं स्तोकं स्तोकं विनिक्षिपेत् ।
पयश्चैव महाशम्या दातव्यं मर्दनक्षमं

1,24.206

जलूका मदनाख्येयं जायते शुभदा नृणां ।
रामाणां मददर्पाणां द्राविकाग्निघृतौ यथा

1,24.207

पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरं भवेत् ।
नानावर्णं तथा स्वच्छं धृतं योनौ जलूकवत्

1,24.208

बध्यते सूतको यस्तु जलूकाबन्धलक्षणं

1,25.1

âक्, १, २५
<परिभाषा>
परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः ।
<वैद्यभागः>
अर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च

1,25.2

पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च ।
अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकं

1,25.3

रसेश्वरं समुद्दिश्य रसवैद्याय धीमते ।
रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये

1,25.4

<कज्जली पङ्करसश्च>
धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते

1,25.5

सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः ।
<पिष्टी>
अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे ।
अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा

1,25.6

खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदं

1,25.7

पेषणात्पिष्टितां याति सा पिष्टीति मता परैः ।
<पातनपिष्टी>
चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका

1,25.8

भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता ।
<हेमपिष्टी तारपिष्टी च>
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतं

1,25.9

समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।
कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया

1,25.10

स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनं ।
<लोहकम्>
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः

1,25.11

सगन्धे लिकुचद्रावे निर्गतं वरलोहकं ।
<हेमरक्ती ताररक्ती च>
तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता

1,25.12

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी

1,25.13

एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी

1,25.14

<चन्द्रानलदलम्>
मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहं ।
सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धं

1,25.15

आभासमृतबन्धेन रसेन सह योजितं ।
साधितं वान्यलोहेन सितं पीतं हि तद्दलं

1,25.16

<अयोनागम्>
ताप्येन निहतं कान्तं सप्तवारं समुत्थितं ।
तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयं

1,25.17

सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढं ।
तदयोनागमित्युक्तं साधकं देहलोहयोः

1,25.18

रसेन सारणायन्त्रे तदीया गुलिका कृता ।
सा धृता वदने हन्ति मेहरोगानशेषतः

1,25.19

कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव ।
तथान्यान्क्षेत्रजान्रोगान्रोगाञ् जत्रूर्ध्वसंभवान्

1,25.20

<शुल्वनागम्>
माक्षिकेण हतं ताम्रं दशवारं समुत्थितं ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलं

1,25.21

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितं ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितं

1,25.22

साधितस्तेन सूतेन्द्रो वदने विधृतो नृणां ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः

1,25.23

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर्लसद्दृष्टिः सर्वारोग्यसमन्वितः

1,25.24

<पिञ्जरी>
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते

1,25.25

<चन्द्रार्कम्>
भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते

1,25.26

<निर्वापहणम्>
धार्यलोहेऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु

1,25.27

क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकं ।
आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत्

1,25.28

<वार्तितर (ढेफ्.)>
मृतं तरति यत्तोये लोहं वारितरं हि तत् ।
<रेखापूर्ण (ढेफ्.)>
अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत्

1,25.29

मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।
<निरुत्थभस्मलक्षणम्>
गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितं

1,25.30

न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते ।
<निरुत्थ>
लोहेन सह संयुक्तं ध्मातं रूप्येण चेल्लिहेत्

1,25.31

तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवं ।
एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि

1,25.32

तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः ।
<बीजम्>
निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा

1,25.33

मृदुलं चित्रसङ्काशं तद्बीजमिति कथ्यते ।
<उत्तारणम्>
इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु

1,25.34

संसृष्टलोहयोरेकलोहस्य परिनाशनं ।
<ताडनम्>
प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतं

1,25.35

<धान्याभ्रम्>
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते

1,25.36

<सत्त्वम्>
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वं इत्यभिधीयते

1,25.37

<एककोलीसकः>
कोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः ।
मूषाकर्णं अनुप्राप्तैरेककोलीशको मतः

1,25.38

<स्वेदनाद्यर्हाः कोकिलाः>
शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परं

1,25.39

<छर्चोअलःः wऊद्>
द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः ।
दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः

1,25.40

<हिङ्गुलाकृष्टरसः>
विद्याधराख्ययन्त्रस्थादार्द्रकद्रवमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते

1,25.41

<घोषाकृष्टं वङ्गम्>
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितं ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतं

1,25.42

<गुह्यनागम्>
पलविंशति नागस्य शुद्धस्य कृतचक्रिकं ।
रूपिकादुग्धसम्पिष्टशिलायां परिलेपितं

1,25.43

शरावसंपुटे रुद्ध्वा पचेत्क्रोडपुटेन तां ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते

1,25.44

गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तं ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः

1,25.45

चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च

1,25.46

पचेद्गजपुटैरेवं वाराणां खलु विंशतिः ।
पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु

1,25.47

नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् ।
इति सिद्धं हि तत्सीसं कर्षमात्रावशेषितं

1,25.48

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने ।
निष्कमात्रं तु नागेऽस्मिन्लोहाख्ये या द्रुते सति

1,25.49

स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवं ।
लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवं

1,25.50

गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः ।
<वरनागम्>
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढं

1,25.51

मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।
<उत्थापनम्>
मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया

1,25.52

<ढालनम्>
द्रुतद्रव्यस्य निक्षेपो द्रवे तत्ढालनं मतं ।
<चपलः>
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितं

1,25.53

विमृद्य पुटयेत्तावद्यावत्कर्षावशेषकं ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा

1,25.54

चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः ।
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः

1,25.55

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने

1,25.56

अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः ।
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितं

1,25.57

कुमारीमूलतोयेन मर्दयेदेकवासरं ।
शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतं

1,25.58

एवं भूनागधौतं च मर्दयेद्दिवसद्वयं ।
अथैकपलनागेन तावता त्रपुणापि च

1,25.59

दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् ।
योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत्

1,25.60

ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत्

1,25.61

अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च

1,25.62

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च

1,25.63

शिखित्रैर्नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः

1,25.64

धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् ।
दशशाणं हि तत्सत्वं भस्मना लवणेन च

1,25.65

सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् ।
त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना

1,25.66

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत्खलु ।
इयता पूर्वसूतोऽसौ क्षीयते न कथंचन

1,25.67

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं पूर्ववद्बध्यते सुखं

1,25.68

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः

1,25.69

सुखं प्रकटमूषायां भवेच्चातिगुणोत्तरः ।
जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत्

1,25.70

<भूनागधौतम्>
भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलं ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः

1,25.71

<द्वन्द्वानम्>
द्रव्ययोर्मेलनं ध्मानाद्द्वंद्वानं परिकीर्तितं ।
<भञ्जनी>
भागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकं

1,25.72

दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता ।
<फुल्लिका>
पतङ्गीकल्कतो जाता लोहे तारत्वहेमता

1,25.73

दिनानि कतिचित्स्थित्वा यात्यसौ फुल्लिका मता ।
<पतङ्गीरागः>
रञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः

1,25.74

विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः ।
<आवापः>
द्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः

1,25.75

स आवापः प्रतीवापस्तदेवाच्छादनं मतं ।
<अभिषेकः>
द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकं

1,25.76

सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।
नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान्

1,25.77

उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु ।
<निर्वाप>
तप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत्

1,25.78

प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले ।
<शुद्धावर्तः>
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः

1,25.79

शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।
<रेखावर्तः>
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा

1,25.80

द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते ।
<स्वाङ्गशीतं वह्नि(बहिः)शीतं च>
वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलं

1,25.81

अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितं ।
<स्वेदनम्>
क्षाराम्लैरौषधैर्वापि डोलायन्त्रे स्थितस्य हि

1,25.82

पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकं ।
<मर्दनम्>
उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि

1,25.83

पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनं ।
<मूर्छनम्>
मर्दनादिष्टभैषज्यैर्नष्टपिष्टित्वकारकं

1,25.84

तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनं ।
<नष्टपिष्टिः>
स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत्

1,25.85

विवृद्धिर्जितसूतेन नष्टपिष्टिः स उच्यते ।
<उत्थापनम्>
स्वेदतापादियोगेन स्वरूपापादनं पुनः

1,25.86

तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनं ।
<पातनम्>
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नं

1,25.87

<रोधनम्>
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयं

1,25.88

स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते ।
<नियमनम्>
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये

1,25.89

क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ।
<दीपनम्>
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः

1,25.90

ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।
<ग्रासमानम्>
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः

1,25.91

इयतीत्युच्यते योऽसौ ग्रासमानमितीरितं ।
<जारणा>
ग्रासस्य चारणं गर्भद्रावणं जारणं तथा

1,25.92

इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः

1,25.93

समुखा निर्मुखा चेति जारणा द्विविधा मता ।
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः

1,25.94

<समुखजारणा>
शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ।
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते

1,25.95

एवं कृते रसो ग्रासलोलुपो मुखवान्भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुं

1,25.96

इयं हि समुखी प्रोक्ता जारणामृतजारणा ।
<निर्मुखचारणा>
दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठिषु

1,25.97

भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् ।
<चारणा>
रसस्य जठरे ग्रासक्षेपणं चारणा मता

1,25.98

<गर्भद्रुतिः>
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ।
<बाह्यद्रुतिः>
बहिरेव द्रुतीकृत्य घनसत्वादिकं खलु

1,25.99

जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते ।
<द्रुति (सुब्स्तन्चे)>
निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा

1,25.100

असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणं ।
<द्रुति (प्रोचेस्स्)>
औषधाज्यादियोगेन लोहधात्वादिकं सदा

1,25.101

उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता ।
<जारणा>
द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः

1,25.102

जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।
<विडम्>
क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा

1,25.103

रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितं ।
<रञ्जनम्>
संसिद्धबीजसत्त्वादिजारणेन रसस्य हि

1,25.104

पीतादिरागजननं रञ्जनं समुदीरितं ।
<सारणा>
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत्

1,25.105

वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।
<वेधः>
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु

1,25.106

वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।
<वेधभेदाः>
लेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः

1,25.107

<लेपवेधः>
लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौकरं

1,25.108

<क्षेपवेधः>
प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः ।
<कुन्तवेधः>
संदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः

1,25.109

सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते ।
<धूपवेधः>
वह्नौ धूमायमानेऽन्तःप्रक्षिप्तरसधूमतः

1,25.110

स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ।
<शब्दवेधः>
मुखस्थिते रसे नाल्या लोहस्य धमनात्खलु

1,25.111

स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।
<उत्पाटनम्>
पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणं

1,25.112

प्रकाशनं च वर्णस्य तदुत्पाटनमीरितं ।
<स्वेदनम्>
क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः

1,25.113

भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितं ।
<संन्यासः>
रसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः

1,25.114

सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते ।
<स्वेदनसंन्यासगुणाः>
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितं

1,25.115

गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा

1,26.1

âक्, १, २६
<यन्त्राणि>
रसो नियन्त्र्यते येन यन्त्रं तदिति कथ्यते ।
<१. खल्वयन्त्रम्>
खल्वयन्त्रं द्विधा प्रोक्तं मर्दनादिककर्मणि

1,26.2

खल्वं लोहमयं देवि पाषाणोत्थमथापि वा ।
खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः

1,26.3

खल्वयन्त्रं द्विधा प्रोक्तं रसादिमुखमर्दने ।
षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिसुविस्तरा

1,26.4

चतुर्विंशाङ्गुलीदीर्घघर्षणी द्वादशाङ्गुला ।
विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला

1,26.5

खल्वप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसमर्दने ।
षोडशाङ्गुलविस्तारः खल्वो भवति वर्तुलः

1,26.6

चतुरङ्गुलनिम्नं च मध्येऽतिमसृणीकृतं ।
मर्दनी चिपिटाधस्तात्सुग्रहा च शिखोपरि

1,26.7

अयं हि वर्तुलः खल्वो मर्दनेऽतिसुखप्रदः ।
अयसा कान्तलोहेन लोहखल्वमपीदृशं

1,26.8

अधस्ताद्द्रोणिका कार्या वह्निप्रज्वालनोचिता ।
उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान्विस्तारेण नवाङ्गुलो रसमितैर्निम्नैस्तथैवाङ्गुलैः ।
कण्ठे द्व्यङ्गुलविस्तरोऽतिमसृणो द्रोणार्धचन्द्राकृतिर्घर्षश्चैव दशाङ्गुलश्च तदिदं खल्वाख्ययन्त्रं मतं

1,26.9

अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये

1,26.10

तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् ।
<तप्तखल्वः>
लोहे नवाङ्गुलः खल्वो निम्नश्चैव षडङ्गुलः

1,26.11

मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्ययं ।
कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्य तां

1,26.12

तस्मिन्निवेश्य तं खल्वं पार्श्वे भस्त्रिकया धमेत् ।
तस्मिन्विमर्दिता पिष्टिः क्षाराम्लैश्च सुसंयुता

1,26.13

प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।
कृतः कान्तायसा सोऽयं भवेत्कोटिगुणो रसः

1,26.14

<२. खवलभीयन्त्रं (वलभीयन्त्रं वा)>
यन्त्रे लोहमये पात्रे पार्श्वयोर्वलयद्वयं ।
तादृक्स्वल्पतरं पात्रं वलयद्योतकोष्ठकं

1,26.15

पूर्वपात्रोपरि न्यस्य स्वल्पपात्रोपरि क्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः

1,26.16

द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे ।
तत्स्यात्खवलभीयन्त्रं रससाद्गुण्यकारकं

1,26.17

सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।
<३. ऊर्ध्वपातनयन्त्रम्>
अष्टाङ्गुलमिता सम्यक्वर्तुला चिपिटा तले

1,26.18

चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता ।
चतुरङ्गुलविस्तारा निम्नया दृढबद्धया

1,26.19

तद्विधा च घटी मूले षोडशाङ्गुलविस्तृता ।
नवाङ्गुलकविस्तारकर्णेन च समन्विता

1,26.20

पूर्वे घटे रसं क्षिप्त्वा न्युब्जां दद्यात्परां घटीं ।
सोर्ध्वं निम्ना च परितो दृढपालिकयान्विता

1,26.21

पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः ।
ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितं

1,26.22

<४. अधःपातनयन्त्रम्>
उपरिष्टात्तु तत्स्थाल्यां क्षिपेदन्यामधोमुखीं ।
स्थालिकां चिपिटीभूतां तलान्तर्लिप्तपारदां

1,26.23

क्षिप्त्वा तत्पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकं ।
अधःपातनयन्त्रं हि तदेतत्परिकीर्तितं

1,26.24

<५. तिर्यक्पातनयन्त्रम्>
क्षिपेद्रसं घटे दीर्घे नताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु

1,26.25

तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरधः ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकं

1,26.26

इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादुशीतलं ।
तिर्यक्पातनमेतद्धि वार्तिकैरभिधीयते

1,26.27

पातनात्रितयस्योक्तं यन्त्राणां त्रितयं खलु ।
पातनैश्च विना सूतो नितरां दोषमृच्छति

1,26.28

त्रिभिरेवोर्ध्वपातैः स कस्माद्दोषैर्न मुच्यते ।
द्विविभागेन विपाकेन द्रव्यानन्योन्ययोगतः

1,26.29

पात्रान्तरपरिक्षेपाद्गुणाः स्युर्विविधाः खलु ।
खण्डान्युलूखलांभोभिस्तण्डुलास्युर्जलोज्झिताः

1,26.30

पातनैव महाशुद्धिस्तण्डुली परिकीर्तिता ।
<६. कच्छपयन्त्रम्>
विशालवदने भाण्डे तोयपूर्णे निवेशयेत्

1,26.31

अपरं पृथुलं सम्यक्प्रतरस्तस्य मध्यमे ।
आलवालं बिडैः कृत्वा तन्मध्ये पारदं क्षिपेत्

1,26.32

ऊर्ध्वाधश्च बिडं दत्त्वा मल्लेनारुध्य यत्नतः ।
पुटमौचित्ययोगेन दीयते तन्निगद्यते

1,26.33

यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे ।
<७. आन्तरालिकयन्त्रम्>
कृत्वा लोहमयीं मूषां वर्तुलाधारकारिणीं

1,26.34

वितस्त्या समितां कान्तलोहेन परिनिर्मितां ।
मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः

1,26.35

द्व्यङ्गुलं वलयं दद्यान्मध्यदेशे च कण्ठतः ।
पिधानधारकं चिञ्चापत्रविस्तीर्णकङ्कणं

1,26.36

पिधानमन्तराविष्टं सशिखं श्लिष्टसन्धिकं ।
तले प्रविहतच्छिद्रं भाण्डं कृत्वा ह्यधोमुखं

1,26.37

यन्त्रेणालम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च ।
स्थालीकण्ठं ततो दद्यात्पुटानलविधारणं

1,26.38

एवंरूपं भवेद्यन्त्रं आन्तरालिकसंज्ञकं ।
अनेन जारयेद्गन्धं द्रुतिं गर्भकृतामपि

1,26.39

<८. तापिकायन्त्रम्>
तापीमूषां मृदा कृत्वा दृढां चारत्निमात्रिकां ।
सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुतां

1,26.40

कान्तलोहमयीं खारीं दद्याद्द्रव्यस्य चोपरि ।
तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः

1,26.41

तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं बिडद्रवं ।
पादाङ्गुष्ठमितां ज्वालां ज्वालयेदनलं ततः

1,26.42

लोहाभ्रकादिकं सर्वं रसस्योपरि जारयेत् ।
तापिकायन्त्रमित्युक्तं सुकरं रसजारणे

1,26.43

<९. गर्भयन्त्रम्>
स्थाल्यां विनिक्षिप्य रसादिवस्तु स्वर्णादि खोर्यां प्रविधाय भूयः ।
अम्लेन चोर्ध्वं लवणानि दत्त्वा चुल्ल्यां पचेत्तत्प्रतिगर्भयन्त्रं

1,26.44

<गर्भयन्त्र>
खोरीमल्लं ततः स्थालीं निरुन्ध्यादतियत्नतः ।
स्थाल्यां मल्लेन वा खोर्यां क्षिप्त्वा वस्तु निरुध्य च

1,26.45

क्षिप्त्वा पट्टादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रकं ।
<१०. पालिकायन्त्रम्>
चषकं वर्तुलं लोहं विनताग्रोर्ध्वदण्डकं

1,26.46

एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।
<११. घटीयन्त्रम्>
चतुःप्रस्थजलाधारं चतुरङ्गुलकाननं

1,26.47

घटीयन्त्रमिदं प्रोक्तं तदाप्यायनके स्मृतं ।
<१२. इष्टिकायन्त्रम्>
विधाय वर्तुलं गर्तं मल्लमत्र निधाय च

1,26.48

विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभां ।
गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयां

1,26.49

तत्र सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।
निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च

1,26.50

मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ।
वनोत्पलैः पुटं देयं कपोताख्यं न चाधिकं

1,26.51

इष्टिकायन्त्रं एतत्स्याद्गन्धकं तेन जारयेत् ।
<१३. विद्याधरयन्त्रम्>
स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च

1,26.52

ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ।
एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे

1,26.53

<१४. डमरुकयन्त्रम्>
यन्त्रं स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्यते ।
यन्त्रं डमरुकाख्यं तद्रसबन्धकृते हितं

1,26.54

<१५. नाभियन्त्रम्>
मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकं ।
गर्तस्य परितः कुड्यं प्रकुर्यात्त्र्यङ्गुलोच्छ्रितं

1,26.55

ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया ।
सम्यक्तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया

1,26.56

<जलमृत्स्ना>
लेहवत्कृतबर्बूरक्वाथेन परिमिश्रितं ।
जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णैः समन्वितं

1,26.57

इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ।
<वह्निमृत्स्ना>
खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः

1,26.58

वह्निमृत्सा भवेद्घोरवह्नितापसहा खलु ।
एतयोर्मृत्स्नयो रुद्धो न गन्तुं क्षमते रसः

1,26.59

<नाभियन्त्र (चोन्त्.)>
ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना तत्त्ववेदिना

1,26.60

अनेन जीर्यते सूते निर्धूमः शुद्धगन्धकः ।
<१६. ग्रस्तयन्त्रम्>
मूषा मूषोदराविष्टा आद्यन्तसमवर्तुला

1,26.61

चिपिटा च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।
सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितं

1,26.62

<१७. तुलायन्त्रम्>
वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु ।
प्रादेशमात्रां नलिकामृज्वीं लग्नां सगन्धकां

1,26.63

तत्रैकस्यां क्षिपेत्सूतमन्यस्यां गन्धचूर्णकं ।
निरुध्य मूषयोर्वक्त्रं वालुकायन्त्रके क्षिपेत्

1,26.64

अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतं ।
शिलातालकगन्धाश्मजारणाय प्रकीर्तितं

1,26.65

<१८. स्थालीयन्त्रम्>
स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।
पच्यते स्थालिसंस्थं यत्स्थालीयन्त्रमिति स्मृतं

1,26.66

<१९ कोष्ठिकायन्त्रम्>
स्थूलभाण्डोदरस्यान्तर्वालुकां निक्षिपेच्छुभां ।
वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत्

1,26.67

सुपक्वां मृण्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयां ।
षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृतां

1,26.68

पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुलीकृतं ।
न न्यूनं नाधिकं कोष्ठे कण्ठतो मसृणा बहिः

1,26.69

कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितं ।
ततस्त्रैपादिकीं लौहीं निवेश्य च स्थिरीकृतां

1,26.70

तस्यां च विन्यसेत्खोरीं लौहीं वा कान्तलोहजां ।
तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः

1,26.71

टङ्कगन्धकसूतं च भावयेल्लशुनद्रवैः ।
अधःशिखेन पूर्वोक्तपिधानेन पिधाय च

1,26.72

संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः ।
सन्धिबन्धे विशुष्के च क्षिपेदुपरि वालुकां

1,26.73

भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलं ।
एवं यामत्रयं यावत्ततो गन्धकसम्भवः

1,26.74

पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे ।
एवं च षड्गुणं गन्धं भुक्त्वा सूतोऽरुणो भवेत्

1,26.75

करोति कल्पनिर्दिष्टान्विशिष्टानखिलान्गुणान् ।
कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितं

1,26.76

<२०. वालुकायन्त्रम्>
पञ्चाढवालुकाचूर्णं भाण्डे निक्षिप्य यत्नतः ।
पच्यते रसगोलाद्यं वालुकायन्त्रकं हि तत्

1,26.77

<२१. लवणयन्त्रम्>
एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकं ।
<२२. धूपयन्त्रम्>
विधायाष्टाङ्गुलं पात्रं लोहमष्टांगुलोच्छ्रयं

1,26.78

कण्ठाधो द्व्यङ्गुले देशे जाताधारं च तत्र च ।
तिर्यग्लोहशलाकां च तस्मिंस्तिर्यग्विनिक्षिपेत्

1,26.79

तनूनि स्वर्णपत्राणि तस्यामुपरि विन्यसेत् ।
पात्राधो निक्षिपेद्धूपं वक्ष्यमाणमिहैव हि

1,26.80

तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ।
मृदा विलिप्य सन्धिं च वह्निं प्रज्वालयेदधः

1,26.81

तेन कृष्णानि पत्राणि हतान्युक्तविधानतः ।
रसश्चरति वेगेन द्रुतिं गर्भे द्रवन्ति च

1,26.82

गन्धालकशिलानां हि कज्जल्या वा मृताहिना ।
धूपनं स्वर्णपत्राणां परमं परिकीर्तितं

1,26.83

तारार्थं तारपत्राणि मृतवङ्गेन धूपयेत् ।
धूपयेच्च यथायोगं रसैरुपरसैरपि

1,26.84

धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यशोधने ।
<२३. कन्दुकयन्त्रम्>
स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढं

1,26.85

तत्र स्वेद्यं विनिक्षिप्य मृदास्यं प्रपिधाय च ।
अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाह्वयं

1,26.86

<२४. ढेकीयन्त्रम्>
भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् ।
कान्तकांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितं

1,26.87

नालास्यं तत्र संयोज्यं दृढं तच्चापि कारयेत् ।
युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र पुटे रसः

1,26.88

अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।
यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि

1,26.89

जायते रससंधानं ढेकीयन्त्रमिदं भवेत् ।
<२५. सोमानलयन्त्रम्>
ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससङ्ग्रहः

1,26.90

सोमानलमिदं प्रोक्तं जारयेद्गगनादिकं ।
<२६. नालिकायन्त्रम्>
लोहनालगतं सूतं भाण्डे लवणपूरितं

1,26.91

निरुद्धं विपचेदेतन्नालिकायन्त्रमीरितं ।
<२७. पातालयन्त्रम्>
सुसंधिसंधितं कृत्वा दिव्यभाण्डे तु सम्मुखं

1,26.92

अष्टाङ्गुलमुखं तं तु दीर्घं स्यात्षोडशाङ्गुलं ।
सुसंधिसंधितं कृत्वा वस्त्रमृत्तिकालेपनं

1,26.93

तत्र पातालयन्त्रे तु सूतकादि निपातयेत् ।
<२८. दीपिकायन्त्रम्>
कच्छपयन्त्रान्तर्गतमृण्मयपीठस्थदीपिकासंस्थः

1,26.94

यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रं ।
<२९. गङ्गासागर(भट्टी)यन्त्रम्>
द्वादशाङ्गुलमुत्सेधं षोडशाङ्गुलमायतं

1,26.95

ताम्रीयं मृण्मयं वाथ सुश्लक्ष्णं चिपिटं शुभं ।
पात्रं कर्णादधो द्रोणीं द्व्यङ्गुलोत्सेधमात्रकां

1,26.96

द्रोण्यां पात्रं न्यसेदन्यत्तावन्मात्रं सुसंधितं ।
न्युब्जं सन्धौ तयोर्नालं कुर्याद्गोमुखसन्निभं

1,26.97

पाच्यद्रव्यमधः पात्रे द्रवद्रव्येण योजितं ।
क्षिप्त्वा निधाय मृत्संधिं यन्त्रोर्ध्वे जलसेचनं

1,26.98

चुल्ल्यामारोप्य तद्यन्त्रं चण्डाग्निं ज्वालयेदधः ।
तस्मान्नान्यद्विनिर्याति तत्तद्द्रव्याश्रितो रसः

1,26.99

गङ्गासागरयन्त्रं हि भट्टियन्त्रमिदं स्मृतं ।
गुडपुष्पफलादीनां आहरेद्द्रुतिमुत्तमां

1,26.100

<३०. डो(दो)लायन्त्रम्>
द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखे तिर्यक्कृते दण्डे रसं सूत्रेण लम्बितं

1,26.101

स्वेदयेत्तत्तलगतं डोलायन्त्रमिति स्मृतं ।
<३१. कोष्ठीयन्त्रम्>
चुल्लीं चतुर्मुखीं कृत्वा तत्र भाण्डं निवेशयेत्

1,26.102

तत्रौषधं विनिक्षिप्य रुद्ध्वा तद्भाण्डकाननं ।
कोष्ठीयन्त्रमिदं नाम्ना तत्रत्यैः परिकीर्तितं

1,26.103

<३२. गर्भयन्त्रम्>
त्र्यङ्गुलां परिणाहेन दैर्घ्येण चतुरङ्गुलां ।
मृण्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखं

1,26.104

लोणस्य विंशतिं भागान्भागमेकं तु गुग्गुलोः ।
सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः

1,26.105

मूषालेपं दृढं कृत्वा लवणार्धमृदा बुधः ।
कारीषे वा तुषाग्नौ वा भूमौ तु स्वेदयेन्मृदु

1,26.106

अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ।
गर्भयन्त्रमिदं प्रोक्तं पिष्टिकाभस्मकारकं

1,26.107

<३३. हंसपाकयन्त्रम्>
खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत्

1,26.108

पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च बिडं ततः ।
हंसपाकः समाख्यातो यन्त्रं तद्वार्तिकोत्तमैः

1,26.109

<३४. मूषायन्त्रम्>
लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
मूषयोर्मुखयोर्नालं दत्त्वा सम्यङ्निरोधयेत्

1,26.110

एकस्यां सूतकं शुद्धमन्यस्यां शुद्धगन्धकं ।
देयं जलं सूतकाधो वह्निं गन्धोपरि क्षिपेत्

1,26.111

जारयेत्षड्गुणं गन्धं अनेनैव क्रमेण हि ।
मूषायन्त्रमिदं ज्ञेयं सिद्धनागार्जुनेरितं

1,26.112

<३५. स्तनयन्त्रम्>
कान्तलोहमयं पात्रमायतं द्वादशाङ्गुलं ।
दीर्घमष्टाङ्गुलं देवि पात्राधस्त्र्यङ्गुलं शुभं

1,26.113

निम्नं पात्रं पिधानीं च लोहोत्थां चिपिटां शुभां ।
स्तनयन्त्रमिदं सूतपिष्टीनां जारणे वरं

1,26.114

<३६. नागमायूरयन्त्रम्>
वृन्ताकमूषायुगलं पद्मवर्तलोहेन कारयेत् ।
एकस्यां निक्षिपेत्सूतमन्यस्यां गरलं क्षिपेत्

1,26.115

नागाकारं वक्त्रनालं विषमूषामुखे न्यसेत् ।
मयूराकारनालं हि रसमूषामुखे न्यसेत्

1,26.116

मयूरवदने नागमुखं संयोजयेत्सुधीः ।
सन्धित्रयं वज्रमृदा लेपं कुर्याद्यथा दृढं

1,26.117

सलिलं रसमूषाधो विषाधोऽङ्गारपावकः ।
नागमायूरयन्त्रं हि विषधूपे वरं प्रिये

1,26.118

<३७. चक्रयन्त्रम्>
हस्तमात्रायतं गर्तं वितस्तिद्वयनिम्नकं ।
कोष्ठीं गर्तस्य मध्ये तु द्वादशांगुलमायतां

1,26.119

वितस्तिद्वयं उत्सेधां कोष्ठ्यामापूरयेच्छुभां ।
वालुकां तद्बहिश्छाणवह्निं कोष्ठ्यां रसं प्रिये

1,26.120

चक्रयन्त्रमिदं सूतभस्मकर्मणि शस्यते ।
<३८. खेचरयन्त्रम्>
सुस्थाल्यां कदलीपुष्पनिभां सच्छिद्रमूषिकां

1,26.121

अधोमुखीं प्रकुर्वीत लिपेद्वज्रमृदा दृढं ।
उपरिष्टादधोवक्त्रां स्थालीमन्यां सुसंधितां

1,26.122

मूषायां वत्सनाभं तु निक्षिपेदूर्ध्वभाजने ।
रसं विलेपयेद्युक्त्या यन्त्रोर्ध्वं कैतवो रसः

1,26.123

अधो मृद्वग्निना पाकस्त्वेतत्खेचरयन्त्रकं ।
प्रायः सिद्धरसेन्द्रस्य विषधूपे वरं प्रिये

1,26.124

<३९. कापालियन्त्रम्>
स्थाल्यां सूतादिकान्क्षिप्त्वा हेमरूप्यादि खोरिकां ।
न्युब्जां सन्धिं मृदा लिप्त्वा वालुकां खोरिकान्तगां

1,26.125

कृत्वा मृद्वग्निना पाकस्त्वेतत्कापालियन्त्रकं ।
<४०. वालुकायन्त्रम्>
सरसां गूढवक्त्रां च मृद्वस्त्राङ्गुलसंयुतां

1,26.126

शोषितां काचकलशीं पूरयेत्त्रिषु भागयोः ।
भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिता

1,26.127

भागस्य पूरयित्रीभिरन्याभिरवकुण्ठयेत् ।
भाण्डवक्त्रं मणिकया सन्धिं लिम्पेन्मृदा पचेत्

1,26.128

चुल्ल्यां तृणस्य चादाहान्मणिकापृष्ठवर्तिनः ।
एतद्धि वालुकायन्त्रं रसगोलादिकान्पचेत्

1,26.129

<४१. लवणयन्त्रम्>
एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकं ।
अन्तःकृतरसालेपताम्रपात्रमुखस्य च

1,26.130

लिप्त्वा मृल्लवणेनैव सन्धिं भाण्डतलस्य च ।
तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत्

1,26.131

<४२. भूधरयन्त्रम्>
वालुकागूढसर्वाङ्गां यन्त्रे मूषां रसान्वितां ।
दीप्तोत्पलैः संवृणुयाद्यन्त्रं तद्भूधराह्वयं

1,26.132

<४३. नालिकायन्त्रम्>
कुम्भस्य पार्श्वे सुषिरं कुर्यादङ्गुष्ठमात्रकं ।
तावत्स्थूलं अयोनालं वेणुनालमथापि वा

1,26.133

छिद्रे संयोजयेन्नालं नालाग्रे घटिकां न्यसेत् ।
कुम्भे सर्जादिनिर्यासं क्षिप्त्वा वक्त्रं निरोधयेत्

1,26.134

अधोऽग्निं ज्वालयेदेतन्नालिकायन्त्रमुच्यते ।
<४४. पुटयन्त्रम्>
शरावसम्पुटान्तस्थं करीषेष्वग्निमानवित्

1,26.135

पचेत चुल्ल्यां यामं वा रसं तत्पुटयन्त्रकं ।
<४५. पातालयन्त्रम्>
विशालवदनां स्थालीं गर्ते सजलगोमये

1,26.136

विन्यस्य वदनान्तश्च पूरयेदपरं घटं ।
पञ्चसच्छिद्रसहितां स्थालीं वक्त्रे निवेशयेत्

1,26.137

तद्घटं पूरयेत्तैलपात्यंद्रव्यैर्निरोधयेत् ।
भाण्डवक्त्रं शरावेण पुटं दद्यात्समन्ततः

1,26.138

छिद्रेभ्यः पतितं तैलं तत्तद्योगेषु योजयेत् ।
इदं पातालयन्त्रं हि सर्वतैलं निपातयेत्

1,26.139

काष्ठत्वग्बीजमांसास्थिवंशतलं समाहरेत् ।
<४६. धूपयन्त्रम्>
स्थाल्यां लद्दिं खरादीनां क्षिप्त्वास्ये कांस्यपात्रकं

1,26.140

सजलं विन्यसेद्देवि वह्निं प्रज्वालयेदधः ।
कान्तपात्रस्थितं तैलं सर्वव्रणविरोपणं

1,26.141

धूपयन्त्रमिदं देवि नन्दिना परिकीर्तितं ।
<४७. अधःपातनयन्त्रम्>
वृत्तालाबुसमस्थूलं दीर्घनालं सरन्ध्रकं

1,26.142

तस्मिन्क्षिपेत्तैलपात्यद्रव्यं बीजादिकं प्रिये ।
तन्मुखे निक्षिपेत्केशान्विन्यसेत्तदधोमुखं

1,26.143

सच्छिद्रे च घटे नालं भाण्डच्छिद्रे निवेशयेत् ।
घटमध्ये पुटं दद्यान्नालाधो घटिकां न्यसेत्

1,26.144

अधःपातनयन्त्रं हि श्रेष्ठं स्यात्तैलपातने ।
<४८. अन्यतधःपातनयन्त्रम्>
विशालकांस्यपात्रान्तर्न्यसेदुत्तम्भनं समं

1,26.145

तदूर्ध्वे मृण्मयं पात्रं सुदृढं चतुरङ्गुलं ।
विन्यसेदपरं पात्रं संतप्तं पूर्वपात्रके

1,26.146

विन्यस्य तस्मिन्श्रीखण्डकृष्णागरुमधुप्लुतं ।
एवं द्वितीयं पात्रं तु तृतीयमपि तद्विधं

1,26.147

उपर्युपरि विन्यस्य तदूर्ध्वं मृत्कटाहकं ।
न्युब्जं न्यसेत्कांस्यपात्रे कटाहं मार्जयेज्जलैः

1,26.148

अधःपातनयन्त्रं हि गन्धतैलं निपातयेत् ।
<मूषा>
मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका

1,26.149

पाचनी वह्निमित्रा च रसवादिभिरिष्यते ।
मुष्णाति दोषान्मूषेयं सा मूषेति निगद्यते

1,26.150

उपादानं भवेत्तस्या मृत्तिका लोहमेव च ।
मूषामुखविनिष्क्रान्ता वरं एकापि काकिनी

1,26.151

दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनां ।
<संधिलेप>
मूषापिधानयोर्बन्धे रन्ध्राणं सुविलेपयेत्

1,26.152

अन्ध्रणं रन्धनं चैव संश्लिष्टं सन्धिबन्धनं ।
<मूषार्थे श्रेष्ठा मृत्>
मृत्तिका पाण्डुरस्थूलशोणपाण्डुरमूषरा

1,26.153

चिराध्मानसहा सा हि मूषार्थमतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते

1,26.154

या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च ।
लोहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थं

1,26.155

श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटं ।
लद्दिकिट्टं यथायोगं संयोज्या मूषिकामृदि

1,26.156

<वज्रमूषा>
मृदस्त्रिभागं शणलद्दिभागौ नागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते

1,26.157

<योगमूषा>
दग्धाङ्गारतुषोपेतमृत्स्ना वल्मीकसम्भवा ।
तत्तद्बिडसमायुक्ता तत्तद्बिडविलेपिता

1,26.158

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः

1,26.159

<वज्रद्रावणमूषा>
गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषामृन्महिषीदुग्धसंयुता

1,26.160

क्रौञ्चिका वक्ष्यमाणा हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणके हिता

1,26.161

यामयुग्मपरिध्मानान्नासौ द्रवति वह्निना ।
<गारमूषा>
दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता

1,26.162

कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।
<वज्रमूषा>
वस्त्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका

1,26.163

गाराश्च मृत्तिका तुल्या सर्वैरेतैर्विनिर्मिता ।
वज्रमूषेति निर्दिष्टा याममग्निं सहेत सा

1,26.164

<स्वर्ण(वर)मूषा>
रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुसाधिता ।
वरमूषेति निर्दिष्टा स्वर्णमूषेत्युदाहृता

1,26.165

<वर्णमूषा>
मृण्मया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते

1,26.166

<रूप्यमूषा>
एवं हि श्वेतवर्गेण रूप्यमूषा समीरिता ।
<बिडमूषा>
तत्तद्बिडमृदोद्भूता तत्तद्बिडविलेपिता

1,26.167

देहलोहार्थयोगार्थं बिडमूषेत्युदाहृता ।
सहतेऽग्निं चतुर्यामं द्रवेण व्यथिता सती

1,26.168

<मूषाप्यायनम्>
द्रवीभावं उपेयोश्च मूषायां ध्मानयोगतः ।
क्षणमुद्धरणं यत्तन्मूषाप्यायनं उच्यते

1,26.169

<वृन्ताकमूषा>
वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलं ।
धुत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टसन्धिकं

1,26.170

अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत्

1,26.171

<गोस्तनी मूषा>
मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत्

1,26.172

<मल्लमूषा>
निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता

1,26.173

<पक्वमूषा>
कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने

1,26.174

<गोलमूषा>
निर्वक्त्रा गोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता गत्वरद्रव्यरोधिनी

1,26.175

<मञ्जुमूषा>
तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत्स्थूला मञ्जुमूषेति संस्मृता

1,26.176

सा चायोऽभ्रकसत्वादेः पुटाय द्रावणाय च ।
<मञ्जूषामूषा>
मञ्जूषाकारमूषा या निम्नतायामविस्तरा

1,26.177

षडङ्गुलप्रमाणेन मूषा मञ्जूषासंज्ञका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि

1,26.178

<मुसलमूषा>
मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मुसलाख्या च चक्रिबद्धरसे तथा

1,26.179

<अन्या वज्रमूषा>
दग्धाङ्गारस्य षड्भागा गैरिकं कृष्णमृत्तिका ।
गारं अङ्गारकिट्टं च वज्रमूषा प्रकीर्तिता

1,26.180

गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका ।
शणत्वक्च समायुक्ता मूषा वज्रोपमा मता

1,26.181

<अन्धमूषा प्रकाशमूषा च>
प्रकाशा चान्ध्रमूषा च मूषा च द्विविधा स्मृता ।
प्रकाशमूषा विज्ञेया शरावाकारसंयुता

1,26.182

द्रव्यनिर्वहणे सा च वार्तिकैस्तु प्रशस्यते ।
अन्ध्रमूषा च कर्तव्या गोस्तनाकारसन्निभा

1,26.183

पिधानेन समायुक्ता किंचिदुन्नतमस्तका ।
पत्रलेपे तथा रङ्गे द्वन्द्वमेलापके हितं

1,26.184

सैव छिद्रान्विता नन्दगम्भीरा सारणोचिता ।
<भस्ममूषा>
तिलभस्म द्विरंशं तु इष्टकांशसमन्वितं

1,26.185

भस्ममूषेति विज्ञेया तारसंशोधने हिता ।
<अन्या वज्रमूषा>
तुषं वस्त्रं समं दग्धं मृत्तिका चतुरंशिका

1,26.186

कूपीपाषाणसंयुक्ता वज्रमूषा प्रकीर्तिता ।
<मूषावङ्कनालकोष्ठिकोपयुक्तमृल्लक्षणम्>
कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका

1,26.187

आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमे मध्यमे मते ।
गजाश्वानां मलं दग्ध्वा यावत्कृष्णत्वतां गतं

1,26.188

वाशा वज्रलता पत्रं वल्मीकस्य मृदा सह ।
पेषयेद्वज्रतोयेन यावच्छुक्लत्वतां गतं

1,26.189

मर्दयेत्तेन बध्नीयाद्वङ्कनालं च कोष्ठिकां ।
वल्मीकमृत्तिकालोहकिट्टश्वेताश्मनां पृथक्

1,26.190

एकांशौ द्वौ तु दग्धस्य तुषस्य स्त्रीशिरोरुहां ।
समांशस्तत्समस्तं तु छागीदुग्धेन मर्दयेत्

1,26.191

यामद्वयं दृढं तेन कुर्यान्मूषां च सम्पुटं ।
शोषयित्वा रसं क्षिप्त्वा तत्र कंसं निरोधयेत्

1,26.192

वज्रमूषादिकं प्रोक्तं सम्यक्सूतस्य मारणे ।
मोक्षक्षारस्य भागौ द्वाविष्टिककांशसंयुतौ

1,26.193

यत्कृतौ सा तु मूषा स्यादुत्तमा तारशोधने ।
रक्तवर्गेण संमिश्रा रक्तवर्गपरिप्लुता

1,26.194

रक्तवर्गकृतालेपा समुक्ता स्वर्णकर्मसु ।
शुक्लवर्गेण संमिश्रा शुक्लवर्गपरिप्लुता

1,26.195

शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शस्यते ।
विड्वर्गेण तु संमिश्रा विड्वर्गेण परिप्लुता

1,26.196

विड्वर्गेण कृतालेपा मूषा स्याद्द्रुतिजारणे ।
क्षारवर्गेण संमिश्रा क्षारवर्गपरिप्लुता

1,26.197

क्षारवर्गकृतालेपा मूषा निर्वहणे हिता ।
<मूषायामावर्तनविधिः; वर्णपुट (!)>
विषटङ्कणगुञ्जाभिर्मूषालेपं तु कारयेत्

1,26.198

प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनं ।
तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः

1,26.199

लेपवर्णे पुटे योज्या रक्तमृत्पटुभूखगाः ।
<आवर्तितद्रव्यस्वरूपम्>
आवर्तमाने कनके पीता तारे सितप्रभा

1,26.200

शुल्बे जलनिभा तीक्ष्णे शुक्लवर्णा प्रशस्यते ।
यन्त्रं एवौषधीभ्यः स्याच्छ्रेष्ठं सूतस्य यन्त्रणे

1,26.201

ओषधीसहितेऽप्येषां रसो यन्त्रेण बध्यते ।
<कोष्ठी>
सत्त्वानां पातनार्थाय पतितानां विशुद्धये

1,26.202

कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ।
<आकरकोष्ठी अङ्गारकोष्ठी वा>
राजहस्तसमुत्सेधा तदर्धायामविस्तरा

1,26.203

चतुरश्रा च कुड्येन वेष्टिता मृण्मयेन सा ।
एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतं

1,26.204

द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभं ।
दोहल्यधो विधातव्यं धमनाय यथोचितं

1,26.205

प्रादेशप्रमिता भित्तिरुत्तराङ्गस्य चोर्ध्वतः ।
द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु

1,26.206

ततश्चेष्टिकया रुद्ध्वा द्वारसन्धिं विलिप्य च ।
शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च

1,26.207

शिखित्राधमनद्रव्यं ऊर्ध्वद्वारेण निक्षिपेत् ।
सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः

1,26.208

भवेदाकरकोष्ठीयं खराणां सत्त्वपातने ।
<पातालकोष्ठी>
दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभं

1,26.209

वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ।
चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितं

1,26.210

गर्ताद्धरणिपर्यन्तं तिर्यग्दलसमन्वितं ।
किंचित्समुन्नतं बाह्यगर्ताभिमुखनिम्नकं

1,26.211

मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोपरि क्षिपेत् ।
आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया

1,26.212

पातालकोष्ठिका ह्येषा मृदूनां सत्त्वपातने ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता

1,26.213

<गारकोष्ठी>
द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता

1,26.214

भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः

1,26.215

<वङ्कनालम्>
मूषामृद्भिः प्रकर्तव्यं अरत्निप्रमितं दृढं ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु

1,26.216

वङ्कनालमिति प्रोक्तं दृढाध्मानाय कीर्तितं ।
<गारकोष्ठी (चोन्त्.!)>
गारगोष्ठीयमादिष्टा सृष्टलोहविनाशिनी

1,26.217

कोष्ठी बन्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ना चतुरङ्गुला

1,26.218

तिर्यक्प्रधमना या सा मृदुद्रव्यविशोधनी ।
रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटं

1,26.219

नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधं ।
लोहादेरपुनर्भावो गुणाधिक्यं तथोग्रता

1,26.220

अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ।
पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनं

1,26.221

जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ।
यथाश्मनि विशेद्वह्निर्बहिःस्थः पुटयोगतः

1,26.222

चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितं ।
पाच्यमानौषधं क्षिप्त्वा शरावद्वयसम्पुटे

1,26.223

रुद्ध्वा गरुण्डपचनं पुटं तदिति कथ्यते ।
<महापुटम्>
निम्नविस्तरतः कुण्डे द्विहस्ते चतुरश्रके

1,26.224

वनोत्पलसहस्रेण पूरिते पुटनौषधं ।
कोष्ठ्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत्

1,26.225

वनोत्पलसहस्रार्धं कोविकोपरि निक्षिपेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतं

1,26.226

<गजपुटम्>
राजहस्तप्रमाणेन चतुरश्रं च निम्नकं ।
पूर्णं चोपलशाठीभिः कण्ठावध्यथ विन्यसेत्

1,26.227

विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरितां ।
पूर्वच्छगणतोऽर्धानि गरुण्डानि विनिक्षिपेत्

1,26.228

एतद्गजपुटं प्रोक्तं महागुणविधायकं ।
<वाराहपुटम्>
इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते

1,26.229

<कुक्कुटपुटम्>
पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयं ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटं

1,26.230

<कपोतपुटम्>
यत्पुटं दीयते भूमावष्टसंख्यैर्वनोत्पलैः ।
तद्बालसूतभस्मार्थं कपोतपुटमुच्यते

1,26.231

<गोर्वरपुटम्>
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयं ।
गोर्वरं तत्समादिष्टं वरिष्ठं रससाधने

1,26.232

<गोवरपुट>
गोर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोर्वरपुटं प्रोक्तं रसभस्मप्रसिद्धये

1,26.233

<भाण्डपुटम्>
स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते

1,26.234

<वालुकापुटम्>
अधस्तादुपरिष्टाच्च कोविका छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यन्त्रं तद्वालुकापुटं

1,26.235

<भूधरपुटम्>
वह्निमत्यां क्षितौ सम्यङ्निखन्याद्द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यन्त्रं पुटं तद्भूधराह्वयं

1,26.236

<लावकपुटम्>
ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोर्वरैः पुटं ।
यन्त्रं तल्लावकाख्यं स्यान्मृदुद्रव्यसुसाधने

1,26.237

अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः

1,26.238

<कूपिकादिस्वरूपम्>
काचायोमृद्घटीनां च कूपिका चषकाणि च ।
रूपिका कूपिका सिद्धा गोलं चैव करण्डकं

1,26.239

चषकं च कठोरी च वाटिका खोरिका तथा ।
कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि

1,26.240

रसोपरसलोहानां त्रिधा संस्कारवह्नयः ।
गरुण्डकाष्ठकोलीशसाधनास्ते पृथक्त्रिधा

1,26.241

गरुण्डसाधनास्तेषु पुटं कुक्कुटसंज्ञकं ।
वराहपुटसंज्ञं हि गजसंज्ञं पुटे भवेत्

1,26.242

श्रेष्ठा वनोद्भवच्छाणा मध्यमा गोष्ठसम्भवाः ।
अधमा कृत्रिमं काष्ठं खदिरासनसम्भवं

1,26.243

अथवा सारवृक्षोत्थं वितस्तिद्वयदीर्घकं ।
स्थूलप्रकोष्ठमात्रं तु श्रेष्ठं सूतेन्द्रपाचने

1,26.244

मृदुमध्यमचण्डाग्निसंज्ञं स्याद्दारुसाधनं ।
अङ्गाराः खदिरोद्भूतास्त्रिफलावृक्षसम्भवाः

1,26.245

कर्षाः सारतरूद्भूताः श्रेष्ठा धमनकर्मणि

2,1.1

âक्, २, १
<उपरसशोधनमारणविधिः>
श्रीभैरवी ।
देवदेव चिदानन्द सच्चिदानन्ददायक ।
त्वयैव प्रतिबुद्धास्मि पूर्वं रसविधानकं

2,1.2

इदानीं त्वत्प्रसादेन श्रोतुमिच्छाम्यहं प्रभो ।
गन्धाद्युपरसानां च लोहानां हेमपूर्विणां

2,1.3

पद्मरागादिरत्नानां लक्षणं जातिमाह्वयं ।
संस्कारं च गुणान्ब्रूहि यथा जानाम्यहं प्रभो

2,1.4

<उपरसाः>
श्रीभैरवः ।
गन्धतालशिलाताप्यघनहिङ्गुलगैरिकाः ।
चपलाश्मजभूनागहरिद्राश्माग्निजारकाः

2,1.5

खर्परीतुत्थकङ्कुष्ठगिरिसिन्दूरटङ्कणाः ।
कम्पिल्लविषकासीसगौरीपाषाणभूखगाः

2,1.6

पोद्दारशृङ्गी सिन्दूरस्तुवरिश्च रसाञ्जनं ।
नीलाञ्जनं च सौवीरं स्रोतोञ्जनं अफेनकं

2,1.7

पुष्पाञ्जनं शङ्खशुक्तिशम्बूकाश्च वराटकाः ।
साबुणी च नवक्षारचीनक्षाराखुमारकाः

2,1.8

सर्जगुग्गुलुलाक्षाश्च क्षाराश्च लवणानि च ।
गोरोचनोऽम्लवेतश्च काचच्छगणवालुकाः

2,1.9

एते उपरसाः ख्याता रसराजस्य कर्मणि ।
<द्वादश लोहाः>
स्वर्णरूप्यार्ककान्ताभ्रसत्त्वं तीक्ष्णं च मुण्डकं

2,1.10

भुजङ्गं त्रपुसं चैव रीतिः कांस्यं च वर्तकं ।
द्वादशैतानि लोहानि मण्डूरो लोहकिट्टकं

2,1.11

<नवरत्नानि>
माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्यं भिदुरं च नीलं ।
गोमेधकं चाथ विडूरकं च क्रमेण रत्नानि नवग्रहाणां

2,1.12

<नव उपरत्नानि>
सूर्यकान्तश्चन्द्रकान्तस्तारकान्तस्तु कान्तकः ।
वैक्रान्तश्च नृपावर्तः सस्यको विमला तथा

2,1.13

पेरोजश्च नवैतानि ह्युपरत्नानि निर्दिशेत् ।
<गन्धकःः गन्धकशुद्धिः; प्रथमः प्रकारः>
उत्पत्तिलक्षणं जातिं गन्धकं शोधयेदतः

2,1.14

साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा श्रावेण रोधयेत्

2,1.15

भाण्डं निक्षिप्य भूम्यन्तरूर्ध्वं देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत्

2,1.16

<द्वितीयः प्रकारः>
कङ्गुणीसर्षपैरण्डतैलं वाथ कुसुम्भजं ।
मेषीक्षीरं घृतं वाथ गोक्षीरं चारनालकं

2,1.17

एतेष्वेकं तु भाण्डान्तः किंचिदूनं प्रपूरयेत् ।
रुद्ध्वा वस्त्रेण तद्वक्त्रं गन्धचूर्णं तत उपरि

2,1.18

लोहपात्रेण रुद्ध्वाथ पृष्ठे स्थाप्य च खर्परं ।
साग्निं उत्पलकैः पूर्णमेव द्राव्य समुद्धरेत्

2,1.19

तद्धुत्तूरद्रवैः पिष्ट्वा शुष्कं द्राव्यं च पूर्ववत् ।
पुनरेवं प्रकर्तव्यं सुशुद्धो गन्धको भवेत्

2,1.20

<तृतीयः प्रकारः>
यामैकं गन्धकं मर्द्यं बृहत्या चाजगन्धया ।
भृङ्गीधुत्तूरयोर्वाथ तिलपर्ण्याश्च तद्द्रवैः

2,1.21

तमादाय घृतैस्तुल्यैर्लोहपात्रे क्षणं पचेत् ।
बद्ध्वाग्निना द्रुतं तं वै ह्यजाक्षीरे विनिक्षिपेत्

2,1.22

इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकः ।
<चतुर्थः प्रकारः>
करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके

2,1.23

क्षिप्त्वा तस्य मुखं बद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत्

2,1.24

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधापयेत् ।
आच्छाद्य श्रावकेनैव पृष्ठे देयं पुटं लघु

2,1.25

द्रुतं गन्धं समादाय भाव्यं धुत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः

2,1.26

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत्

2,1.27

भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणं

2,1.28

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थः सम्यक्शुद्धः स जायते

2,1.29

<पञ्चमः प्रकारः>
गन्धकं याममात्रं वा मद्यब्राह्म्यजगन्धयोः ।
भृङ्गधुत्तूरयोर्वापि तिलपर्णीरसेन वा

2,1.30

तदादाय घृतोपेतं लोहपात्रे क्षणं पचेत् ।
लघ्वग्निना द्रुतं तच्च मेषीक्षीरे विनिक्षिपेत्

2,1.31

एवं कृतं सप्तवारं शुद्धं भवति गन्धकं ।
<गन्धकतैलम्; प्रथमः प्रकारः>
देवदाल्यम्लपर्णी वा नारङ्गं वाथ दाडिमं

2,1.32

मातुलुङ्गं यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतं

2,1.33

आतपे त्रिदिनं शुष्कं द्रवं देयं पुनः पुनः ।
धुत्तूरतुलसीकृष्णलशुनं देवदालिका

2,1.34

शिग्रुमूलं काकमाची कर्पूरं शंखिनीद्वयं ।
कृष्णागरु च कस्तूरी वन्ध्या कर्कोटकी समं

2,1.35

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकं

2,1.36

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितं ।
इदं गन्धकतैलं स्यात्सर्वयोगेषु योजयेत्

2,1.37

<द्वितीयः प्रकारः>
अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु तां

2,1.38

तद्वर्तिं ज्वलितां दंशे धृतां कुर्यादधोमुखीं ।
तैलं पतेदधो भाण्डे ग्राह्यं योगेषु योजयेत्

2,1.39

<गन्धकसत्त्वपातनम्; प्रथमः प्रकारः>
गन्धकस्तु कुबेराक्षीतैलेन चिरमर्दितः ।
दृढं प्रकटमूषायां ध्मातः सत्त्वं विमुञ्चति

2,1.40

<द्वितीयः प्रकारः>
यद्वा भाण्डोदरे क्षिप्त्वा गन्धकं पूर्वशोधितं ।
पिधाय ताम्रपात्रेण तस्मिञ्शीतोदकं क्षिपेत्

2,1.41

मन्दं प्रज्वाल्य तदधो वह्निमुष्णं जलं हरेत् ।
एवं पुनः पुनः शीतजलमूर्ध्वं विनिक्षिपेत्

2,1.42

गन्धकस्याग्नितः सत्त्वं स्वर्णाभं सर्वकार्यकृत् ।
न चास्य सत्त्वं आदद्यात्सत्त्वरूपो हि गन्धकः

2,1.43

इति गन्धकतत्त्वज्ञाः केचिदन्ये प्रचक्षते ।
<गन्धकद्रुतिः>
यद्वा संचूर्णितं गन्धं कटुतैलसमन्वितं

2,1.44

वस्त्रे निक्षिप्य तद्वस्त्रं कारयेद्वर्तिकां दृढां ।
ततः सूत्रेण संवेष्ट्य गोघृतेन परिप्लुतां

2,1.45

संदंशेनोद्धृतं कृत्वा वर्तिं चाधः प्रदीपयेत् ।
पक्वाम्रफलसम्भूतरसवर्णा भवेद्द्रुतिः

2,1.46

<गन्धकस्य गुणाः>
गन्धकः कटुकः पाके वीर्योष्णो विमलः सरः ।
विसर्पकुष्ठकण्डूतिक्रिमिगुल्मक्षयापहः

2,1.47

अक्षिरोगप्रशमनो वृष्यो विषगदार्तिजित् ।
सर्वसिद्धिप्रदो बल्यस्त्रिदोषघ्नो रसायनः

2,1.48

<हरितालम्>
हरितालं च गोदन्ती तालकं नटमण्डनं ।
गिरिजाललितं पीतं अतिगन्धं बिडालकं

2,1.49

<हरितालभेदाः>
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकं ।
<पत्त्रतालकःः फ्य्स्. प्रोपेर्तिएस्>
स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरं

2,1.50

तत्पत्त्रतालकं प्रोक्तं बहुपत्रं रसायनं ।
<पिण्डतालकःः फ्य्स्. प्रोपेर्तिएस्>
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु

2,1.51

स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकं ।
<अशुद्धहरितालसेवने दोषाः>
वातश्लेष्मप्रमेहादिकरं आयुर्निबर्हणं

2,1.52

तापस्फोटाङ्गसंकोचं हरितालमशोधितं ।
<हरितालशुद्धिः; प्रथमः प्रकारः>
तालकं कणशः कृत्वा दशांशेन तु टङ्कणं

2,1.53

जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ।
वस्त्रे चतुर्गुणे बद्ध्वा डोलायन्त्रे दिनं पचेत्

2,1.54

सचूर्णेनारनालेन दिनं कूष्माण्डजै रसैः ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात्

2,1.55

<द्वितीयः प्रकारः>
मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे

2,1.56

उत्पलैर्दशभिर्देयं पुटं कुर्यात्पुनः पुनः ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत्

2,1.57

<तृतीयः प्रकारः>
तालकं पोट्टलं बद्ध्वा सचूर्णे काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे

2,1.58

तिलतैले पचेद्यामं यामं च त्रिफलाजले ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकं

2,1.59

<तालकसत्त्वपातनम्; प्रथमः प्रकारः>
लाक्षा राजी तिलाः शिग्रु टङ्कणं लवणं गुडं ।
तालकार्घ्येण संमर्द्य छिद्रमूषां निरोधयेत्

2,1.60

पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चयं ।
<द्वितीयः प्रकारः>
तालकं मर्दयेद्दुग्धैः सर्पाक्ष्या वा कषायकैः

2,1.61

पूर्ववज्जनयेत्सत्त्वं छिद्रमूषानिरोधितं ।
<तृतीयः प्रकारः>
लाक्षा राजी गुडं शिग्रु टङ्कणं लवणं तिलाः

2,1.62

एभिस्तुल्यं सत्त्वतालं मर्दयेद्रविदुग्धकैः ।
दिनं वा वज्रिणीदुग्धैः कूश्माण्डस्य द्रवैश्च वा

2,1.63

तेन कल्केन लिप्त्वान्तश्छिद्रमूषां निरोधयेत् ।
पुटाद्वा धमनात्सत्त्वं ग्राह्यं पातालयन्त्रके

2,1.64

<चतुर्थः प्रकारः>
तालकादष्टमांशेन देयं सूतं च टङ्कणं ।
कूश्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्याद्दिनत्रयं

2,1.65

तद्गोलं छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् ।
<पञ्चमः प्रकारः>
भागाः षोडश तालस्य विषपारदटङ्कणाः

2,1.66

श्वेताभ्रवङ्गयोश्चूर्णं प्रतिभागं विमिश्रयेत् ।
समं स्नुह्यर्कपयसा मर्दयेद्दिवसद्वयं

2,1.67

तद्गोलं काचकुप्यन्तः क्षिप्त्वा तां काचकूपिकां ।
सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रे मृदा दृढं

2,1.68

शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखं

2,1.69

चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकं ।
स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत्

2,1.70

ऊर्ध्वलग्नं तालसत्त्वं स्फटिकोपलसन्निभं ।
<षष्ठः प्रकारः>
भावितं स्नुक्पयः सिक्तं स्नुहीद्रावैर्द्विसप्तधा

2,1.71

तिलसर्षपशिग्रूणि लवणं मित्रपञ्चकं ।
एभिस्तुल्यं शुद्धतालं दिनमेकं विमर्दयेत्

2,1.72

भूधरे छिद्रमूषान्तर्ध्मातं सत्त्वं विमुञ्चति ।
<तालकस्य गुणाः>
तालकं शोधितं श्रेष्ठं कुष्ठमृत्युजरापहं

2,1.73

सौभाग्यसौगन्ध्यकरं परमायुर्विवर्धनं ।
<मनःशिला>
मनःशिला स्यात्कुनटी नागास्या रक्तगन्धकः

2,1.74

नेपालिका नागजिह्वा कल्याणी सप्तनामका ।
<मनःशिलाभेदाः>
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका

2,1.75

खण्डाख्या चैव तद्रूपं विविच्य परिकल्प्यते ।
श्यामा रक्ता खराङ्गा च भाराढ्या श्यामिका मता

2,1.76

तेजस्विनी च निर्भारा ताम्राभा कणवीरका ।
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका

2,1.77

उत्तरोक्ता गुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।
<अशुद्धमनःशिलासेवायां दोषाः>
अश्मरीं मूत्रकृच्छ्रं च मन्दाग्निं मलबद्धतां

2,1.78

करोति कुष्ठं तापं च शुद्धिहीना मनःशिला ।
<मनःशिलाशुद्धिः>
अजामूत्रैस्त्र्यहं पच्याद्दोलायन्त्रे मनःशिलां

2,1.79

सप्तधा दध्यजापित्तैर्घर्मे ताप्यं विशुद्धये ।
जीवन्तीभृङ्गराड्रक्तागस्त्यद्रावैर्मनःशिलां

2,1.80

दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वयोगेषु योजयेत्

2,1.81

अगस्त्यस्य रसे भाव्या सप्ताहाच्छोधिता शिला ।
<मनःशिलासत्त्वपातनम्; प्रथमः प्रकारः>
तालवच्च शिलासत्त्वं पातनं शोधनं तथा

2,1.82

गोमांसैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पीतैश्च भावयेत्

2,1.83

दिनान्ते मर्दयेद्यामं मित्रपञ्चकसंयुतं ।
गुलिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकां

2,1.84

सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रमृदा दृढं ।
शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत्

2,1.85

शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखं ।
चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकं

2,1.86

स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ।
ऊर्ध्वलग्नं शिलासत्त्वं बालार्कसदृशोपमं

2,1.87

<द्वितीयः प्रकारः>
अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत्

2,1.88

<मनःशिलाया गुणाः>
मनःशिला कटूष्णा च सतिक्ता कफवातजित् ।
कण्डूतिक्षयकासघ्नी विषभूताग्निमान्द्यहृत्

2,1.89

<माक्षिकम्>
माक्षिकं मधुधातु स्यान्माक्षीकं हेममाक्षिकं ।
ताप्यं च तापिजं तार्क्ष्यं तापीदेशसमुद्भवं

2,1.90

<माक्षिकभेदाः>
माक्षीकं द्विविधं हेममाक्षिकं तारमाक्षिकं ।
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभं

2,1.91

तपतीतीरसम्भूतं पञ्चवर्णं सुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताप्याख्योऽसौ गुणात्मकः

2,1.92

सुवर्णाकारभेदाच्च प्रत्येकं तत्पुनस्त्रिधा ।
कादम्बं कारवेल्लाख्यं तण्डुलीयकसंज्ञकं

2,1.93

<अशुद्धमाक्षिकसेवने दोषाः>
प्राणविष्टम्भदौर्बल्यवह्निसादाक्षिरोगकृत् ।
माक्षिकं मारयत्येव शुद्धिहीनं सुरार्चिते

2,1.94

<माक्षिकशुद्धिः; प्रथमः प्रकारः>
माक्षिकं नरमूत्रेण क्वाथैः कौलुत्थकोद्भवैः ।
वेतसेनाम्लवर्गेण टङ्कणेन कटुत्रिकैः

2,1.95

डोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगं ।
दिनं रम्भाद्रवैः पच्यादुद्धृतं पेषयेद्घृतैः

2,1.96

एरण्डतैलसंयुक्तैः पुटे पच्यन्विशोधयेत् ।
<द्वितीयः प्रकारः>
माक्षिकस्य त्रयो भागा भागैकं टङ्कणस्य च

2,1.97

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितं

2,1.98

ताम्रवर्णमयो वापि तावच्छुध्यति माक्षिकं ।
<तृतीयः प्रकारः>
अगस्तिपुष्पनिर्यासैः शिग्रुमूलं निघर्षयेत्

2,1.99

द्रवैः पाषाणभेद्याश्च पेष्यं एभिश्च माक्षिकं ।
तद्वटीं चाथ मूषायां दशभिरुत्पलैः पुटेत्

2,1.100

पुनः पुनश्च पिष्ट्वाथ पुटैः षड्भिर्विशुध्यति ।
<चतुर्थः प्रकारः>
क्षौद्रक्षीरारनालाश्च अष्टभागाः पृथक्पृथक्

2,1.101

गव्यं तक्रं चतुर्भागं भागः कौलुत्थजो रसः ।
सर्वं सम्पूरयेद्भाण्डे भागैकं माक्षिकं पचेत्

2,1.102

डोलायन्त्रेण मृद्वग्नौ याममात्रं पुनः पचेत् ।
उद्धृत्य मातुलुङ्गाम्लैः पिष्ट्वा दशभिरुत्पलैः

2,1.103

पुटे पुनः पुनः कुर्यादेवं द्वादशवासरं ।
शुद्धं भवति माक्षीकं सर्वयोगेषु योजयेत्

2,1.104

<पञ्चमः प्रकारः>
माक्षिकं कणशः कृत्वा जालिनीमेघनादयोः ।
पिण्डे निक्षिप्य विपचेद्दोलायन्त्रे कुलुत्थजे

2,1.105

क्वाथे तच्छुद्धतां याति प्रशस्तं लोहमारणे ।
<षष्ठः प्रकारः>
तैले तक्रे गवां मूत्रे कौलुत्थे वाम्लकाञ्जिके

2,1.106

माक्षिकं शोधयेत्प्राज्ञो गिरिदोषनिवृत्तये ।
<सप्तमः प्रकारः>
कुलुत्थकोद्रवक्वाथनरमूत्राम्लवेतसैः

2,1.107

टङ्कणेनाम्लवर्गेण कटुकत्रितयेन वा ।
डोलायन्त्रे दिनं पाच्यं सूरणकन्दमध्यगं

2,1.108

दिनं रम्भाद्रवैः पाच्यं ध्मातमुद्धृत्य पेषितं ।
एरण्डतैलसर्पिर्भ्यां पुटैः शुध्यति माक्षिकं

2,1.109

<अष्टमः प्रकारः>
सुवर्णवर्णविमलं ताप्यं वा कणशः कृतं ।
पुनर्नवायाः कल्कस्थं कौलुत्थे स्वेदयेद्रसे

2,1.110

सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोट्टलीकृतं ।
डोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितं

2,1.111

<माक्षिकसत्त्वपातनविधिः; प्रथमः प्रकारः>
गोदुग्धैश्च स्नुहीक्षीरैर्भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतं

2,1.112

अभ्रवद्धमने सत्वं सस्यकस्याप्ययं विधिः ।
<द्वितीयः प्रकारः>
दोलायन्त्रे सारनाले माक्षिकं स्वेदयेद्दिनं

2,1.113

चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे पचेद्दिनं ।
आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि

2,1.114

गृहधूमैर्घृतैः क्षौद्रैः संयुक्तैर्मर्दयेद्दिनं ।
अन्धमूषागतं ध्मातं सत्त्वं गुञ्जानिभं भवेत्

2,1.115

<तृतीयः प्रकारः>
कदलीकन्दतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः

2,1.116

पूर्ववद्धमनात्सत्त्वं इन्द्रगोपसमं भवेत् ।
<चतुर्थः प्रकारः>
स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनं

2,1.117

कङ्कुष्ठं टङ्कणं चैव प्रतिपादांशमिश्रितं ।
मूकमूषागतं ध्मातं सत्वं मणिनिभं भवेत्

2,1.118

<पञ्चमः प्रकारः>
कदलीकन्दतुलसीजम्बीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा

2,1.119

रुद्ध्वा ध्माते पतेत्सत्त्वं शुकतुण्डनिभं शुभं ।
<षष्ठः प्रकारः>
मूत्रवर्गाम्लवर्गाभ्यां द्विसप्ताहं विभावयेत्

2,1.120

माक्षीकं तीव्रघर्मेण दिनमम्लैश्च मर्दयेत् ।
मित्रपञ्चकसंयुक्तं वटीकृत्य धमेद्दृढं

2,1.121

व्योमवद्वङ्कनालेन सत्त्वं शुल्बनिभं भवेत् ।
<सप्तमः प्रकारः>
स्नुहीक्षीरैर्गवां क्षीरैर्भाव्यं एरण्डतैलकैः

2,1.122

माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतं ।
पूर्ववद्विधमेत्तेन सत्त्वं लाक्षानिभं भवेत्

2,1.123

<अष्टमः प्रकारः>
स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपञ्चकसंयुक्तैर्माक्षिकं दिनसप्तकं

2,1.124

भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेत्तावद्यावद्द्रवति गोलकं

2,1.125

सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ।
विमलानां च सर्वेषां सस्यकस्याप्ययं विधिः

2,1.126

<नवमः प्रकारः>
संचूर्ण्य माक्षिकं शुद्धं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालेन ह्यधःस्थं स्वर्णचूर्णवत्

2,1.127

जारयेत्तत्समाहृत्य धमेत्सत्त्वं विमुञ्चति ।
योजयेद्वापने चेदं बीजानां यत्र यत्र वै

2,1.128

<दशमः प्रकारः>
कदलीपत्रजैर्नीरैर्माक्षिकं भावयेद्द्रुतं ।
गन्धर्वतैलमध्वाज्यैः पक्वमेकदिनं ततः

2,1.129

तत्ताप्यं वज्रमूषायां पक्वायां निक्षिपेत्ततः ।
लोहसंधानकरणं तत्समं तत्र निक्षिपेत्

2,1.130

दृढं प्रमूकमूषायां कोष्ठिकायां निवेशयेत् ।
अङ्गारैः खदिरोद्भूतैर्धमेद्भस्त्राद्वयेन वै

2,1.131

वङ्कनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवं ।
<एकादशः प्रकारः>
माणिवन्ध्यं वैष्णवं च गृह्णीयात्समभागतः

2,1.132

फलपूररसैः पिष्ट्वा सम्पुटे सुदृढं क्षिपेत् ।
सम्यग्लिप्त्वा वनोद्भूतैश्छाणकैः पुटयेत्ततः

2,1.133

कुकुप्तोत्थं तदाकृष्यं स्वांगशीतं प्रमर्दयेत् ।
फलपूररसैः पक्वैर्मर्दयित्वाथ पूर्ववत्

2,1.134

पुटनं छगणेनैव तावत्कुर्याद्विचक्षणः ।
यावत्तत्पुटितं कल्कं फलपूराम्लमर्दितं

2,1.135

शाणोत्तेजितनिस्त्रिंशलिप्तं तत्ताम्रतां इयात् ।
इत्थं शुद्धं च गरुडं टङ्कणं नीरजं रसं

2,1.136

घृतेन मधुना युक्तं सगुडं गुञ्जया समं ।
प्राग्वन्मूषागतं कृत्वा धमेत्तत्खदिराग्निना

2,1.137

मृदुसत्त्वं नागसमं इन्द्रगोपकसन्निभं ।
पतत्येव न संदेहः सर्वज्ञवचनं तथा

2,1.138

शुक्लदीप्तिरशब्दश्च यदा वैश्वानरो भवेत् ।
तदा तु सत्त्वं पतितं जानीयान्नान्यथा क्वचित्

2,1.139

<माक्षिकस्य गुणाः>
कषायतिक्तमधुरं कटुकं माक्षिकद्वयं ।
उष्णं रसायनं कुष्ठशोषहिध्मावमिप्रणुत्

2,1.140

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलकश्च गुणोत्तरः पूर्वरसायनाग्र्यः

2,1.141

<अभ्रकम्>
उत्पत्त्यादि घनस्यादौ कथितं तद्रसायने ।
अधुना सम्प्रवक्ष्यामि तत्क्रियास्तद्गुणानपि

2,1.142

<अभ्रकभस्मविधिः; प्रथमः प्रकारः>
धान्याभ्रकं मेघनादद्रवैः संमर्दयेद्दिनं ।
शतांशं टङ्कणं दत्त्वा ततो गजपुटे पचेत्

2,1.143

मुस्तासूरणवर्षाभूरसैर्व्यस्तैः पुटं त्रिधा ।
कासमर्दरसैः पञ्च वरागोमूत्रकैरपि

2,1.144

न्यग्रोधस्य जटाक्वाथैर्मर्द्यं दशपुटं पुनः ।
षट्च जम्बीरनीरेण गोक्षीरेण पुटत्रयं

2,1.145

पेषणं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।
कुर्याच्चत्वारि कर्माणि टङ्कणं च पुटे पुटे

2,1.146

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
अयं सामान्यसंस्कारो विशेषस्तु निगद्यते

2,1.147

<भस्मीकरणे विशिष्टसंस्कारः>
निश्चन्द्रकं मृतव्योम सामान्यसंस्कृतं ।
तत्तद्रोगहरद्रव्यक्वाथैः पिष्ट्वा पुटे पचेत्

2,1.148

यन्त्रैस्त्रिः सप्तधा कुर्यात्तत्तद्रोगहरं भवेत् ।
अयं विशेषसंस्कारस्तत्तद्रोगहरो भवेत्

2,1.149

पूर्वाह्ने पेषणं कार्यं मध्याह्ने घर्मपाचनं ।
सायाह्ने स्थालिकापाकं कुर्याद्रात्रौ पुटं क्रमात्

2,1.150

संस्कारः पञ्चधा प्रोक्तो घनस्य परमेश्वरि ।
धान्याभ्रकरणं सत्त्वपातनं निर्मलक्रिया

2,1.151

सुमृतीकरणं चैव त्वमृतीकरणं तथा ।
मारणे घनसत्त्वस्य घनपत्रस्य मारणे

2,1.152

क्रमाच्छ्रेष्ठतमौ प्रोक्तौ शस्तौ दरदटङ्कणौ ।
<द्वितीयः प्रकारः>
मुस्ताक्वाथेन धान्याभ्रं पञ्चविंशत्पुटे पचेत्

2,1.153

गोमूत्रैश्च तथा क्वाथैस्त्रिफलायाः सुरेश्वरि ।
कासमर्दद्रवैरेकं गोक्षीरेण पुटं त्रिधा

2,1.154

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत्

2,1.155

<तृतीयः प्रकारः>
धान्याभ्रकस्य भागैकं भागौ द्वौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत्

2,1.156

स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत्

2,1.157

<चतुर्थः प्रकारः>
धान्याभ्रं मर्दयेदम्लैर्घर्मे संस्थापयेत्ततः ।
पुटं कुर्यात्ततोऽम्लेन सेचनं मर्दनं पुनः

2,1.158

विंशद्वारं ततो दुग्धे पुटनिस्तब्धं अभ्रकं ।
क्षिपेत्तं मर्दयेद्दुग्धैर्दुग्धे क्षिप्त्वातपे न्यसेत्

2,1.159

पुटं त्रिः सप्तवाराणि कुर्यादेवं पुनः पुनः ।
तण्डुलं वज्रवल्ली च तालमूली पुनर्नवा

2,1.160

शार्ङ्गेरी मरिचं चैव बला च पयसा सह ।
पूर्वाभ्रं पेषयेदेतैः प्रत्येकैश्च त्र्यहं त्र्यहं

2,1.161

क्षिप्त्वातपे पुटे पच्यात्प्रत्येकेन पुनः पुनः ।
एवं निश्चन्द्रकं व्योम कज्जलाभं मृतं भवेत्

2,1.162

<पञ्चमः प्रकारः>
धान्याभ्रकस्य शुष्कस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण अम्लैर्भाव्यं दिनत्रयं

2,1.163

तच्छुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढं ।
ऊर्ध्वपात्रे निवार्याथ सिञ्चेदम्लेन केन तं

2,1.164

धान्यं तत्रैव षड्वारमम्लैः सिञ्च्यात्पुनः पुनः ।
अगस्त्यशिग्रुवर्षाभूमूलपत्रभवै रसैः

2,1.165

पिष्ट्वाभ्रं सेचयेत्तेन षड्धा धाम्यं च सेचयेत् ।
सितामध्वाज्यगोक्षीरैस्तद्धौतं पेष्यमभ्रकं

2,1.166

रुद्ध्वा षड्भिः पुटैः पाच्यं पिष्ट्वा चैव पुनः पुनः ।
मत्स्याक्ष्याश्चैकवीराया द्रवैः पिष्ट्वा त्रिधा पचेत्

2,1.167

एवं गजपुटैः पाच्यं निश्चन्द्रमयतेऽभ्रकं ।
पत्त्राभ्रकस्य सिन्दूरं सर्वयोगेषु योजयेत्

2,1.168

<षष्ठः प्रकारः>
धान्याभ्रं मर्दयेद्यामं मत्स्याक्षीस्वरसैस्ततः ।
पचेद्गजपुटैरेवं सप्तधा तुलसीरसैः

2,1.169

कोकिलाक्षरसैः सप्त कुमारीस्वरसैस्तथा ।
श्वेतदूर्वारसैस्तद्वद्व्याघ्रीकन्दरसैस्तथा

2,1.170

पुनर्नवारसैः सप्त तद्वत्पञ्चामृतैस्ततः ।
निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत्

2,1.171

<सप्तमः प्रकारः>
धान्याभ्रं टङ्कणं तुल्यं गोमूत्रैस्तुलसीद्रवैः ।
वाकुच्या सूरणैर्नाल्या दिनं पिष्ट्वा पुटे पचेत्

2,1.172

द्रवैः पुनः पुनः पिष्ट्वा दिनान्तेषु पुटे पचेत्

2,1.173

रुद्ध्वा रुद्ध्वा पुटैस्त्वेवं निश्चन्द्रं चाभ्रकं भवेत् ।
<अष्टमः प्रकारः>
पिष्ट्वा साम्लारनालेन पेटालीमूलजत्वचं

2,1.174

तद्द्रवैर्मर्दयेदभ्रं दिनं गजपुटे पचेत् ।
एवं सप्तपुटं कार्यं दध्ना च पुटसप्तकं

2,1.175

यवचिञ्चाद्रवैस्तद्वन्निश्चन्द्रं जायतेऽभ्रकं ।
<नवमः प्रकारः>
धान्याभ्रकं रविक्षीरै रविमूलद्रवैश्च वा

2,1.176

मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवं ।
<दशमः प्रकारः>
धान्याभ्रकं तुषाम्लान्तरातपे स्थापयेद्दिनं

2,1.177

यामं मर्द्यं तु तद्गोलं रुद्ध्वा गजपुटे पचेत् ।
एवं कार्पासतोयान्तः स्थाप्यं पाच्यं पुटे पचेत्

2,1.178

एवं गोक्षीरमध्यस्थं स्थाप्यं पेष्यं पुटे पचेत् ।
पश्चादम्लैश्च गोक्षीरैः कार्पासैश्च पुनः पुनः

2,1.179

घर्मपाकं मर्दनं च स्थालीपाकं पुटं क्रमात् ।
एकविंशत्पुटे प्राप्ते निश्चन्द्रं जायतेऽभ्रकं

2,1.180

सर्वेषां घातिताभ्राणां अमृतीकरणे विधिः ।
<अभ्रकस्य गुणाः>
अभ्रकं गगनं भृङ्गं बहुपुत्रं उमाभवं

2,1.181

पत्राभ्रकस्य सिन्दूरममृतं परमं हितं ।
त्रिदोषघ्नं बलकरं वृष्यमारोग्यदं शुचि

2,1.182

सर्वरोगहरं सौम्यं विषघ्नं च रसायनं ।
<चिन्नबरःः स्य्नोन्य्म्स्>
हिङ्गुलो दरदं चूर्णपारदश्च रसोद्भवः

2,1.183

रसगर्भः सुरङ्गश्च लोहघ्नः सिद्धिपारदः ।
<चिन्नबरःः सुब्त्य्पेस्>
हिङ्गुलस्त्रिविधो ज्ञेयश्चर्मारः शुकतुण्डकः

2,1.184

हंसपादश्च तत्राद्यं तारकर्मणि योजयेत् ।
अधमं तं विजानीयाच्छुकतुण्डं च मध्यमं

2,1.185

हेमतारक्रियामार्गे योजयेत्परमेश्वरि ।
हंसपादो महाश्रेष्ठः सर्वकर्मकरो हि सः

2,1.186

तस्य सत्त्वं सूत एव दरदस्य त्रिभेदतः ।
<शुकतुण्डःः फ्य्स्. प्रोपेर्तिएस्>
हेमकिट्टस्य सदृशस्तद्रूपस्तीक्ष्णमारकः

2,1.187

चर्मारस्तीक्ष्णरूपः स्यात्सुप्रीतः शुकतुण्डकः ।
<हंसपादःः प्रोपेर्तिएस्>
जपाकुसुमसङ्काशो हंसपादो महोत्तमः

2,1.188

रसायने सर्वसूतहरणे सर्वरञ्जने ।
लोहानां मारणे श्रेष्ठो वर्णोत्कर्षणकर्मणि

2,1.189

रसकस्य तथा रागबन्धे धौरेयकः स्मृतः ।
मलदोषादिकं नास्ति सर्वकार्येषु पूज्यते

2,1.190

<हिङ्गुलशुद्धिः>
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितं ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितं

2,1.191

<हिङ्गुलसत्त्वपातनम्>
दरदं पातनायन्त्रे पातितं च जलाशये ।
सत्त्वं सूतकसङ्काशं विमुञ्चति न संशयः

2,1.192

<हिङ्गुलस्य गुणाः>
ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति हिङ्गुले ।
नवज्वरहरः प्रोक्तः सम्पातज्वरनाशनः

2,1.193

<गैरिकम्>
गैरिकं गिरिधातुः स्याद्रक्तधातुर्गवेधुकं ।
<गैरिकःः सुब्त्य्पेस्>
गैरिकं द्विविधं प्रोक्तं तत्राद्यं स्वर्णगैरिकं

2,1.194

पाषाणगैरिकं चान्यत्पूर्वं श्रेष्ठतमं गुणैः ।
<गैरिकस्य गुणाः>
शोणितं मसृणं स्निग्धं स्वादु वृष्यं हिमं लघु

2,1.195

चक्षुष्यं रक्तपित्तघ्नं विषहिध्मावमिप्रणुत् ।
तापज्वरहरं श्रेष्ठं हेमघ्नं रक्तगैरिकं

2,1.196

<पाषाणगैरिकःः फ्य्स्. प्रोपेर्तिएस्>
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकं ।
<चपलः>
देहवेधी लोहवेधी चपला रसबन्धिनी

2,1.197

चपला बहुभेदा च सर्वलोहस्वरूपतः ।
हेमस्तारो रविमयः सीसात्मा वङ्गरूपधृक्

2,1.198

तीक्ष्णरूपः कांस्यरूपो रक्तो विषमयस्तथा ।
<चपलस्वरूपम्>
सत्त्वलोहस्वरूपास्ते विषो हरितलोहभाक्

2,1.199

विषाख्यं चपलं प्राप्य निर्जीवे तस्य दापयेत् ।
पुटेनारण्यजैश्छाणैः सधूमं सर्वथा त्यजेत्

2,1.200

नश्येत तस्य धूमं वै स्पर्शनं दूरतस्त्यजेत् ।
अशनात्तस्य संस्पर्शान्म्रियते सद्य एव हि

2,1.201

धूमावलोकनाच्छीर्षपीडा संजायते ज्वरः ।
एवं दत्तपुटे शान्ते गृह्णीयाच्चपलं ततः

2,1.202

<चपलस्य गुणाः>
तस्य संस्पर्शमात्रेण हीरको म्रियते क्षणात् ।
सर्वेषां चपलानां वै स्वभावः समुदाहृतः

2,1.203

वङ्गस्तम्भे नागराजे क्रमे वातीव शस्यते ।
सर्वलोहानि कुर्वन्ति सुवर्णं तारमेव च

2,1.204

युक्त्याथ शोधितः सूते विना बीजं च वा तथा ।
शतं वापि सहस्रं वा लक्षं कोटिं च वेधयेत्

2,1.205

वज्रेण रसराजेन बीजेन च समाश्रिता ।
धूमतो वेधयेल्लोहान्रसजीर्णः स्वयं गलेत्

2,1.206

निष्पत्य तेन देहस्य चपलेन महात्मना ।
<शिलाजतु>
अश्मजं गिरिजं शैलमश्मलाक्षा शिलाजतु

2,1.207

<शिलाजतुःः सुब्त्य्पेस्>
शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनं ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः स्मृतः

2,1.208

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः

2,1.209

स्वर्णरूप्याकगर्भेभ्यः शिलाधातुर्विनिःसरेत् ।
<शिलाजतोर्गुणाः>
स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु

2,1.210

ससत्त्वं स्वादु परमं परमं तद्रसायनं ।
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु

2,1.211

शिलाजं पाण्डुरोगघ्नं विशेषात्पित्तरोगजित् ।
ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु

2,1.212

शिलाजं कफवातघ्नं तीक्ष्णोष्णं दीपनं परं ।
वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारं ह्यधूमकं

2,1.213

सलिलेऽप्यवलीनं च तत्सिद्धं हि शिलाजतु ।
गोमूत्रगन्धि कृष्णं गुग्गुलुकाभं सशर्करं मृत्स्नं ।
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठं

2,1.214

सर्वं च तिक्तकटुकं स्वादु नात्युष्णशीतलं

2,1.215

वृष्यं त्रिदोषजिद्भेदि चक्षुष्यं च रसायनं ।
क्षयशोफोदरार्शोघ्नं मेहमूत्रग्रहापहं

2,1.216

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूलामयोन्मूलनं ।
प्लीहविनाशनं जठरहृच्छूलघ्नं आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितं

2,1.217

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया

2,1.218

<भूनागः>
भूनागः क्षितिनागश्च भूलता रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च विषघ्नो रक्ततुण्डकः

2,1.219

यासां छेदे न रक्तं प्रभवति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तासु सत्त्वं ।
तद्युक्त्या पारदेन्द्रश्चरति यदि समं सारणायन्त्रयोगैः ।
बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा

2,1.220

<भूनागसत्त्वस्य गुणाः>
सत्त्वं भूनागजं क्ष्वेलयक्षराक्षसमृत्युजित् ।
सर्ववश्यकरं सर्वरोगघ्नं च रसायनं

2,1.221

रसेन्द्रे जारणाकर्मजारितं कोटिवेधकृत् ।
सुवर्णादीनि लोहानि रक्तानि ग्रसति क्षणात्

2,1.222

<भूनागसत्त्वपातनम्; प्रथमः प्रकारः>
रक्तभूजातभूनागमृत्तिकां क्षालयेज्जलैः ।
यावत्सत्त्वावशेषं स्याद्धौतसत्त्वं तदेव हि

2,1.223

मित्रपञ्चकयुक्तं तन्मूषायां धमयेद्दृढं ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः

2,1.224

एवं त्रिवारं धमनात्सत्त्वशेषं समाहरेत् ।
<द्वितीयः प्रकारः>
भूनागमृत्तिकां भाण्डे भूनागैः सह निक्षिपेत्

2,1.225

षण्मासान्तं समान्तं वा जलैः सिञ्चेन्मुहुर्मुहुः ।
अस्य सत्त्वं विधानेन गृह्णीयादभ्रसत्त्ववत्

2,1.226

<तृतीयः प्रकारः>
रक्तभूमिजभूनागान्पञ्जरस्थेन बर्हिणा ।
भक्षयेत्तु शरत्काले नित्यं तन्मलमाहरेत्

2,1.227

लाक्षासर्जरसः सर्जी गुग्गुलुर्मित्रपञ्चकं ।
ऊर्णा क्षाराश्च पटवो नीलसर्पेन्द्रगोपकौ

2,1.228

मत्स्यश्च नीलसरटः कूर्मपृष्ठं शशास्थि च ।
माक्षीकं शिखिशंखतुत्थं च सर्वांशं बर्हिणो मलं

2,1.229

सर्वं निक्षिप्य मूषायां धमेत्तीव्राग्निना दृढं ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः

2,1.230

एवं त्रिवारधमनात्सत्त्वशेषं समाहरेत् ।
<हरिद्राश्मा>
हरिद्राश्मा निशाग्रावः पीताङ्गः पीतकर्षणः

2,1.231

तत्सत्त्वकं सितं स्वर्णं श्रेष्ठं रसरसायने ।
<अग्निजारः>
अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः

2,1.232

वडबाग्निमलो ज्ञेयो जरायुश्चार्णवोद्भवः ।
अग्निज्वालोऽग्निजारश्च प्रोक्तः सिन्धुप्लवो दश

2,1.233

सामुद्रस्याग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः

2,1.234

जाराभं दहति स्पर्शात्पिच्छिलं सागरोत्प्लवं ।
जरायुस्तच्चतुर्वर्णं श्रेष्ठं तेषु सलोहितं

2,1.235

<अग्निजारस्य गुणाः>
स्यादग्निजारः कटुकोष्णवीर्यः तुन्दामयघ्नः कफवातहारी ।
पित्तप्रदः शोणितसन्निपातशूलादिवातामयनाशकश्च

2,1.236

अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
मर्दनो रसवीर्यस्य दीपनो जारणस्तथा

2,1.237

<खर्परी (रसकम्)>
खर्परी रसकं तुत्थखर्पर्यमृतसम्भवा ।
रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः

2,1.238

सदंशो दर्दुरः प्रोक्तो निर्दंशः कारवेल्लकः ।
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु

2,1.239

घनसत्त्वनिभं बाह्ये शुभं हारिद्रवत्ततः ।
अच्छं खर्परवत्तुत्थं उत्तमं सतोदरं

2,1.240

<खर्पर्या गुणाः>
रसकः सर्वदोषघ्नः कफपित्तविनाशनः ।
चक्षूरोगक्षयघ्नश्च लोहपारदरञ्जनः

2,1.241

नागार्जुनेन निर्दिष्टौ रसस्य रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ

2,1.242

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयीं सिद्धिं दास्यतस्तु न संशयः

2,1.243

<खर्परीसत्त्वपातनम्>
जयन्तीत्रिफलाचूर्णं हरिद्रागुडटङ्कणं ।
पादांशं रसकस्येदं पिष्ट्वा मूषाः प्रलेपयेत्

2,1.244

नलिकासम्पुटं बद्ध्वा शोषयेदातपे खरे ।
ग्राह्यं पातालयन्त्रेण सत्त्वं ध्माते पुटेऽथ वा

2,1.245

<खर्परीशुद्धिः>
रजस्वलारजोमूत्रै रसकं भावयेद्दिनं ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात्

2,1.246

<मयूरतुत्थम्>
मयूरतुत्थं तुत्थं च नीलाश्मा ताम्रभस्म च ।
मयूरग्रीवकं क्ष्वेडनाशनं सस्यकं प्रिये

2,1.247

मयूरग्रीवसङ्काशं घृष्टे गोक्षीरसन्निभं ।
अप्सु च प्लवते क्षिप्तमेतन्मायूरतुत्थकं

2,1.248

अथवा शुकपिच्छाभमन्तः काञ्चनबिन्दुभिः ।
अङ्कितं घर्षयेत्तुत्थं आयसे चाम्लसंयुते

2,1.249

भवेदयस्ताम्रनिभं एतन्मायूरतुत्थकं ।
<मयूरतुत्थशुद्धिः>
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः

2,1.250

दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे ततः ।
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये

2,1.251

<मयूरतुत्थसत्त्वपातनम्>
तुत्थं च टङ्कणं चैव तुल्यं श्लक्ष्णं विमर्दयेत् ।
मूषायां तं विनिक्षिप्य रुद्ध्वा तीव्राग्निना धमेत्

2,1.252

इन्द्रगोपनिभं सत्त्वं पतत्येव न संशयः ।
<मयूरतुत्थस्य गुणाः>
तुत्थं कटुकषायोष्णं श्वित्रनेत्रामयापहं

2,1.253

विषदोषेषु सर्वेषु प्रशस्तं कान्तिकारकं ।
<कङ्कुष्ठःः स्य्नोन्य्म्स्>
कङ्कुष्ठं काककुष्ठं च रेचकं रागदायकं

2,1.254

<कङ्कुष्ठःः सुब्त्य्पेस्>
कंकुष्ठं च द्विधा प्रोक्तं हेमतारात्मकं तथा ।
<कङ्कुष्ठःः मेदिच्. प्रोपेर्तिएस्>
व्रणजन्तुज्वरघ्नं च शूलोदावर्तगुल्महृत्

2,1.255

<गिरिसिन्दूरम्>
महागिरिषु चाल्लोव पाषाणान्तस्थितो रसः ।
शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया

2,1.256

त्रिदोषशमनं भेदि रसबन्धनकारकं ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितं

2,1.257

<टङ्कणम्>
टङ्कणं टङ्कणक्षारो रसक्षारो रसाधिकः ।
लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः

2,1.258

मालतीतीरसम्भूतः क्षारश्रेष्ठो नवाह्वयः ।
अश्मरीमतिसारं च निहन्यात्स्थावरं विषं

2,1.259

रससिद्धिकरः प्रोक्तो नागार्जुनपुरःसरैः ।
<कम्पिल्लकः>
इष्टचूर्णस्य सङ्काशश्चन्द्रिकाढ्योऽतिरेकः

2,1.260

सौराष्ट्रदेशखनिजः स हि कम्पिल्लको मतः ।
पित्तव्रणाध्मानविबन्धनघ्नः श्लेष्मोदरार्तिक्रिमिगुल्महारी ।
मूलामशूलज्वरशोफहारी कंपिल्लको रिच्य मलापहारी

2,1.261

<वत्सनाभिः>
उत्पत्यादि विषस्यादौ कथितं हि रसायनं

2,1.262

अमृतं स्याद्वत्सनाभो विषं उग्रं महौषधं ।
गरलं मरणं नागः स्तोककं प्राणहारकं

2,1.263

सर्वकुष्ठहरं प्रोक्तं सर्वव्याधिविनाशनं ।
सन्निपातादिरोगाणां विनिवृत्तिकरं प्रिये

2,1.264

<कासीसःः स्य्नोन्य्म्स्>
कासीसं धातुकासीसं केसरं हंसलोमशं ।
शोधनं पांशुकासीसं शुभ्रं सत्त्वाह्वयं मतं

2,1.265

<कासीसःः सुब्त्य्पेस्>
कासीसं त्रिविधं शुभ्रं कृष्णं पीतमिति स्मृतं ।
कासीसं पुष्पकासीसं हीरकासीसमित्यथ

2,1.266

पीतं कृष्णं सितं रक्तं चतुर्धेति परे जगुः ।
<कासीसःः मेदिच्. प्रोपेर्तिएस्>
कासीसमुष्णं सक्षारकषायाम्लं सतिक्तकं

2,1.267

वातश्लेष्मप्रशमनं चक्षुष्यं रञ्जकं परं ।
मूत्रकृच्छ्राश्मरीकुष्ठकण्डूव्रणविषापहं

2,1.268

<गौरीपाषाणकः>
गौरीपाषाणकः पीतो व्यक्तदेहश्च चूर्णकः ।
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत्

2,1.269

<तुवरी फटकी च>
भूमिस्तुवरिका फुल्लतुवरी रञ्जिका क्षितिः ।
चित्रभूश्चीनकारश्च मञ्जिष्ठारागदायिनी

2,1.270

खगस्तु फटकी दुग्धपाषाणो नेत्ररोगहा ।
कर्पूराख्यशिलाधातुर्मञ्जिष्ठारागरञ्जकः

2,1.271

<पोदारशृङ्गी>
सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्जुनस्य गिरेः पार्श्वे जातं पोदारशृङ्गिकं

2,1.272

सीससत्त्वं मरुच्छ्लेष्मशमनं पुङ्गदापहं ।
रसबन्धनं उत्कृष्टं केशरञ्जनमुत्तमं

2,1.273

<सिन्दूरःः स्य्नोन्य्म्स्>
सिन्दूरनागगर्भे सैमन्तिकवीरपांसु नागभवं ।
रक्तं च नागरेणुः गणपतिभूषा सुरङ्ग इत्याख्या

2,1.274

सौभाग्यं चैव शृङ्गारं मङ्गल्यं अरुणं रजः ।
<सिन्दूरःः मेदिच्. प्रोपेर्तिएस्>
सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणं

2,1.275

किलासविषकण्डूतिविसर्पशमनं परं ।
हिङ्गुले ये गुणाः सन्ति ते गुणास्तिमुरौ प्रिये

2,1.276

<रसाञ्जनम्>
रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजं ।
रीत्यां तु धाम्यमानायां तत्किट्टं तु रसाञ्जनं

2,1.277

तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवं ।
कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा

2,1.278

दार्वीक्वाथभवं कण्ठविकासि क्षिप्तं अक्ष्णि यत् ।
तद्रसाञ्जनमुद्दिष्टं कषायं कटु तिक्तकं

2,1.279

किंचिदुष्णं कफहरं छेदनं लेखनं लघु ।
रक्तपित्तप्रशमनं नेत्ररोगविनाशनं

2,1.280

रसाञ्जनं तार्क्ष्यशैलं ज्ञेयं वर्यञ्जनं तथा ।
रसनाभं चाग्निसारं द्वादशाह्वयकीर्तितं

2,1.281

<नीलाञ्जनम्>
नीलं नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवं ।
कपोतकं च कापोतं सम्प्रोक्तं शक्रभूमिजं

2,1.282

शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकषायकं ।
चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनं

2,1.283

<सौवीराञ्जनम्>
सौवीरमञ्जनं स्निग्धमवघृष्टं शिलातले ।
अञ्जनाभं शिलारूपमेतच्छ्रेष्ठं अकृत्रिमं

2,1.284

सौवीरमञ्जनं चैव रक्तपित्तहरं हितं ।
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणं

2,1.285

<स्रोतोञ्जनःः स्य्नोन्य्म्स्>
स्रोतोद्भवं स्रोतनदीभवं च स्रोतोञ्जनं वारिभवं तथान्यं ।
सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वं

2,1.286

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युतिः ।
घर्षणे गैरिकच्छायं स्रोतोञ्जनमिदं भवेत्

2,1.287

<स्रोतोञ्जनःः मेदिच्. प्रोपेर्तिएस्>
स्रोतोऽञ्जनं शीतकटुकषायं क्रिमिनाशनं ।
रसायनं रसे योज्यं स्तन्यवृद्धिकरं परं

2,1.288

स्रोतोऽञ्जनं हिमं स्निग्धं तृष्णाहृत्स्वादु लेखनं ।
नेत्र्यं हिध्मावमिच्छर्दिकफपित्तास्रकोपनुत्

2,1.289

<अहिफेनम्>
श्रान्तस्य मथनाक्षोभाद्वासुकेर्वदनोत्थिताः ।
द्वीपान्तरे पतन्ति स्म सविषाः स्वेदबिन्दवः

2,1.290

यत्र यत्र पतन्ति स्म प्ररूढा गुल्मरूपतः ।
तेषु जातं तु निर्यासमफेनं ब्रुवते जनाः

2,1.291

चतुर्विधमफेनं स्याज्जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद्वक्ष्यामि लक्षणं

2,1.292

श्वेतं तु जारणं प्रोक्तं कृष्णवर्णं तु मारणं ।
धारणं पीतवर्णं च कर्बुरं सारणं तथा

2,1.293

जारणं जरयेदन्नं मारणं मृत्युदायकं ।
धारणं च वयःस्तम्भं सारणं मलसारकं

2,1.294

अफेनं सन्निपातघ्नं वृष्यं बल्यं च मोहदं ।
ग्रहणीमतिसारं च नाशयेत्षण्डतामपि

2,1.295

<पुष्पाञ्जनःः स्य्नोन्य्म्स्>
पुष्पाञ्जनं पुष्पकेतुः कौस्तुभः कुसुमाञ्जनं ।
रीतिकं रीतिकुसुमं रीतिपुष्पं च पुष्पकं

2,1.296

<पुष्पाञ्जनःः मेदिच्. प्रोपेर्तिएस्>
पुष्पाञ्जनं हितं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।
नाशयेद्विषकासार्तिसर्वनेत्रामयापहं

2,1.297

<शङ्ख>
शङ्खोऽर्णवभवः कम्बुर्जलजः पावनध्वनिः ।
कुटिलोऽन्तर्महानादः श्वेतपीतः सुनादकः

2,1.298

सस्वनो दीर्घनादश्च बहुनादो हरप्रियः ।
क्षुल्लकः क्षुद्रशङ्खः स्याच्छंबूको नखशङ्खकः

2,1.299

शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।
गुल्मशूलकफश्वासनाशनो विषदोषहा

2,1.300

क्षुल्लकः कटुकः स्निग्धः शूलहारी च दीपनः ।
शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका

2,1.301

मुक्तास्फोटस्तौतिकस्तु मौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकसूश्चैव मुक्तामाता तथा स्मृता

2,1.302

मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा

2,1.303

जलशुक्तिः क्षुद्रशुक्तिः क्रिमिसुस्फुटिका च सा ।
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत्

2,1.304

तथा विषहरा रुच्या पाचनी बलदायिनी ।
<कपर्द>
कपर्दको वराटश्च कपर्दश्च वराटिका

2,1.305

चराचरश्चरो वर्यो बालक्रीडनकश्च स ।
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका

2,1.306

रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञका ।
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा

2,1.307

पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ।
परिणामादिशूलघ्नी ग्रहणीक्षयनाशनी

2,1.308

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते

2,1.309

तदन्ये पुंवराटाः स्युर्गुरवः श्लेष्मपित्तलाः ।
कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः

2,1.310

गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ।
<साबुणि>
सर्वक्षारो बहुक्षारः समूहक्षारसाबुणिः

2,1.311

स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ।
सर्वक्षारं अतिक्षारं चक्षुष्यं बस्तिशोधनं

2,1.312

उदावर्तक्रिमिघ्नं च बिडवद्वस्त्रशोधनं ।
<नवसार>
करीरपीलुकाष्ठेषु पच्यमानेष्टकोद्भवः

2,1.313

क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत्

2,1.314

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणं ।
<सौराष्ट्री>
गोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः

2,1.315

धमित्वा पातयेत्सत्वं क्रामणं चातिगुह्यकं ।
<आखुपाषाण>
मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः

2,1.316

आखुपाषाणनामायं लोहसङ्करकारकः ।
आखुग्रावा सरो रूक्षो वमिशीतज्वरापहः

2,1.317

तारकर्मणि संपूज्यो मेदोदुर्मांसकृन्तनः ।
<सर्जरस>
रालः सर्जरसश्चैव यक्षधूपोऽग्निवल्लभः

2,1.318

देवेष्टः शालनिर्यासः सुरभिर्धूपवल्लभः ।
रालस्तु पञ्चधा प्रोक्तो रक्तः पीतः सितोऽसितः

2,1.319

नानावर्णश्च विज्ञेयः कृष्णस्तेषु गुणोत्तरः ।
रालस्तु शिशिरः स्निग्धः कषायस्तिक्तको रसे

2,1.320

वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।
<गुग्गुलु>
दानवेन्द्रविजितान्पुरा सुरान्भ्रष्टकान्तिधृतिधैर्यतेजसः ।
वीक्ष्य विष्णुरमृतं किलासृजत्गुग्गुलुं बलवपुर्जयप्रदं

2,1.321

मरुभूमिषु जायन्ते प्रायशः पुरपादपाः

2,1.322

भानोर्मयूखैः संतप्ता ग्रीष्मे मुञ्चन्ति गुग्गुलुं ।
गुग्गुलुः पञ्चधा प्रोक्तो महिषाक्षश्च नीलकः

2,1.323

पद्मस्तु कुमुदश्चैव सुवर्णः पञ्चमः प्रिये ।
महिषाक्षश्च नीलश्च दन्तिनां गुणदायकौ

2,1.324

वाजिनां कुमुदः पद्मो नराणां स्वर्णवर्णकः ।
एरण्डबीजतैले वा तिलतैलेऽथवा घृते

2,1.325

पञ्चतिक्तशृतैः क्वाथैः शुद्धिं कुर्यात्सुगुग्गुलुं ।
दोलायन्त्रे पचेत्तावद्यावन्निर्मलता भवेत्

2,1.326

एवं विशुद्धं संग्राह्यं तत्तद्योगेषु योजयेत् ।
पिटकागण्डमालाद्या नश्यन्ति च मरुद्गदाः

2,1.327

<यवक्षार>
यवक्षारोऽमृतः पाक्यो यवजो यवशूकजः ।
यवशूको यवाह्वश्च यवपाक्यो यवारुजः

2,1.328

यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः परः

2,1.329

<सर्जक्षार>
सद्यःक्षारः सर्जिकश्च क्षारः सज्जी सुवर्जिकः ।
सर्जीकः कटुरूक्षश्च तीक्ष्णो वातकफार्तिनुत्

2,1.330

गुल्मानाहवमिघ्नश्च मेहजाठररोगहृत् ।
<लवणक्षार>
लोणारं लवणोत्थं लवणासुरं च लवणमेदश्च

2,1.331

जतुजं लवणक्षारं लवणं च क्षारलवणं च ।
लोणकक्षारं अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदं

2,1.332

क्षारं लवणं ईषच्च वातगुल्मादिशूलनुत् ।
<वज्रकक्षार>
वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकं

2,1.333

सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ।
वज्रकक्षारं अत्युष्णं तीक्ष्णं क्षारं च रोधनं

2,1.334

गुल्मोदरार्तिविष्टम्भशूलप्रशमनं परं ।
<सामुद्रलवण>
सामुद्रकं तु सामुद्रं सामुद्रलवणं शिवं

2,1.335

<सेअ सल्तःः मेदिच्. प्रोपेर्तिएस्>
सामुद्रं लघु हृद्यं च वारितासृजपित्तलं ।
विदाहि कफवातघ्नं दीपनं रुचिकृत्प्रियं

2,1.336

<सैन्धव>
सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवं ।
शुद्धं शिवात्मकं पथ्यं माणिमन्थं नवाभिधं

2,1.337

सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि ।
पूतं नस्यात्त्रिदोषघ्नं व्रणदोषविबन्धजित्

2,1.338

सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं पूतनं सितं

2,1.339

<काचलवण>
नीलकाचोद्भवं काचतिलकं चैव काचसम्भवं ।
काकसौवर्चलं काचलवणं पाक्यजं स्मृतं

2,1.340

काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।
कुरुविन्दं काचमलं कतिमं च चतुर्दश

2,1.341

काचाख्यं लवणं रुच्यमीषत्क्षारं सपित्तलं ।
दाहदं कफवातघ्नं दीपनं गुल्मशूलहृत्

2,1.342

<बिडलवण>
बिडं च बिडकं खण्डं कृतक्षारं च आसुरं ।
सुपाक्यं लवणं खण्डं धूर्तं कृत्रिमकं दश

2,1.343

बिडं उष्णं सलवणं दीपनं वातनाशनं ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनं

2,1.344

<सौवर्चल>
सौवर्चलं च रुचकं तिलकं हृद्यगन्धकं ।
अक्षं च कृष्णलवणं रुच्यं कोद्रविकं तथा

2,1.345

<सौवर्चलःः मेदिच्. प्रोपेर्तिएस्>
सौवर्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकं जयेत्

2,1.346

<अम्लवेतस>
अम्लोऽम्लवेतसो वेधी रसाम्लो वीतवेतसः ।
वेतसारश्चाम्लसारः शरवेधी च वेधकः

2,1.347

नीलश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः

2,1.348

सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा ।
शङ्खमांसादिद्रावी स्यद्द्विधा चैवाम्लवेतसः

2,1.349

अम्लवेतसमत्यम्लं कषायोष्णामवातजित् ।
कफार्शःसमगुल्मामं अरोचकहरं परं

2,1.350

<काच>
काचस्तुषारसारश्च रसखोटमलापहः ।
शृङ्गारी चाभ्रधारी च सर्वनेत्रामयापहा

2,1.351

<छगण>
पिष्टकं छगणश्छाणमुत्पलं च वनोत्पलं ।
करिण्डोपलशाठी च वरटी छगणाभिधा

2,1.352

रसलोहदोषहारि ख्यातं तद्भस्म दुरितसंहृतये ।
<अङ्गार>
शिखित्राः पावकोच्छिष्टा अङ्गाराः कोलिशा मताः

2,1.353

कोकिलाश्चेति चाङ्गारा निर्वाणाः पयसा विना ।
<सिकता>
सिकता प्रवाहजनिता सिक्ता पानीयचूर्णका सूक्ष्मा

2,1.354

सा वालुका श्रमघ्नी संसेकात्सन्निपातघ्नी ।
<उपरसशोधन>
कासीसं भावयेद्घर्मे दिनं जम्बीरजैर्द्रवैः

2,1.355

शुध्यते टङ्कणं गैरी कङ्कुष्ठं च वराटिका ।
शङ्खं नीलाञ्जनं चैव पृथक्शोध्यं दिने दिने

2,1.356

गोदुग्धैस्त्रिफलाक्वाथैर्भृङ्गद्रावैः शिलाजतु ।
मर्दयेदायसे पात्रे दिनैकं तच्च शुध्यति

2,1.357

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितं ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चयं

2,1.358

सूर्यावर्तं वज्रकन्दं कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुका

2,1.359

आसामेकरसेनैव त्रिक्षारैर्लवणैः सह ।
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः

2,1.360

सौवीरं कान्तपाषाणः शुद्धा भूनागमृत्तिका ।
सर्वे उपरसाश्चाथ पृथग्भाव्यं दिनं दिनं

2,1.361

ततः पाच्यं च तद्द्रावैर्डोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वे उपरसाः पृथक्

2,1.362

पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः

2,1.363

वनसूरणभूधात्रीमण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीघनैः

2,1.364

मेषशृङ्गीशशवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषद्रवैरेतैः सकाञ्जिकैः

2,1.365

एतैः समस्तैर्व्यस्तैर्वा डोलायन्त्रे दिनत्रयं ।
अभ्रपत्राद्युपरसान्शुद्धिहेतोः प्रपाचयेत्

2,2.1

âक्, २, २
श्रीभैरवः ।
स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे ।
<गोल्दःः स्य्नोन्य्म्स्>
स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि

2,2.2

जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।
कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि

2,2.3

मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि ।
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम

2,2.4

<स्वर्णभेदाः>
प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवं

2,2.5

रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतं ।
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु

2,2.6

तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभं ।
ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत्

2,2.7

विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहं ।
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवं

2,2.8

एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतं ।
धारणादेव तत्कुर्याच्छरीरमजरामयं

2,2.9

गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतं ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत्

2,2.10

रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतं ।
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत्

2,2.11

रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् ।
<ग्राह्याग्राह्यस्वर्णरूप>
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभं

2,2.12

गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकं ।
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः

2,2.13

श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलं ।
दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत्

2,2.14

न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च ।
सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते

2,2.15

<स्वर्णशुद्धि>
वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु ।
इत्येते मृत्तिकाः पञ्च जम्बीरैर्वारनालकैः

2,2.16

पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे ।
यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति

2,2.17

मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभावितां ।
सभस्मलवणं हेम शोधयेत्पुटपाकतः

2,2.18

भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकां ।
सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत्

2,2.19

तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके ।
क्रमान्निषेचयेत्तप्तं सप्तवारं द्रवैर्द्रवैः

2,2.20

स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ।
द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये

2,2.21

सुवर्णं ढालयेत्पूर्वं काञ्चनारोद्भवे रसे ।
सप्तवारं ततः कर्मयोग्यं हेम भवेद्ध्रुवं

2,2.22

<स्वर्णभस्म (१)>
नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितं ।
लेपनात्पुटयोगाच्च हेमपत्राणि लेपयेत्

2,2.23

मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत्

2,2.24

आदाय पेषयेदम्ले मृतनागं चाष्टमांशकं ।
पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतं

2,2.25

एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवं ।
<स्वर्णभस्म (२)>
शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः

2,2.26

अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया ।
<स्वर्णभस्म (३)>
शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकं

2,2.27

ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ।
त्रिंशद्वनोत्पलैर्दद्यात्पुटानेवं चतुर्दश

2,2.28

निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः ।
<स्वर्णभस्म (४)>
स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकं

2,2.29

क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत्

2,2.30

गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।
<रसादिभिः स्वर्णमारणम्>
हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना

2,2.31

अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् ।
अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मतां

2,2.32

यद्वा मृतेन करिणा शिलायोगेन भस्मयेत् ।
अथवा मृतवज्रेण योगिन्यंशविलेपितं

2,2.33

भस्मतां यात्युपरसै रसैश्चैव महारसैः ।
अम्लपिष्टैर्विलिप्तं च पुटितं याति भस्मतां

2,2.34

<स्वर्णमारण (५)>
स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ।
आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकं

2,2.35

तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकं ।
देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समं

2,2.36

सर्वं च चूर्णितं दद्याद्रुद्ध्वा मूषां धमेद्दृढं ।
स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकं

2,2.37

टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् ।
त्रितयं मधुनाज्येन मेलकं गोलकीकृतं

2,2.38

धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् ।
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयं

2,2.39

निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ।
<स्वर्णमारण (६)>
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित्

2,2.40

पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवं ।
शुद्धानां सर्वलोहानां मारणे रीतिरीदृशी

2,2.41

<स्वर्णमारण (७)>
शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकं ।
द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत्

2,2.42

भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् ।
तद्गोलं पातनायन्त्रे हठाद्यामत्रयं पचेत्

2,2.43

इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ।
<स्वर्णमारण (८)>
यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च

2,2.44

लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ।
तैर्द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः

2,2.45

पीलुकङ्कुष्ठबुक्काणसौवर्चलं अपेषितं ।
लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः

2,2.46

<स्वर्णस्य गुणाः>
सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः ।
विषदोषहरं शीतं सकषायं सतिक्तकं

2,2.47

हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनं ।
बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदं

2,2.48

क्षयोन्मादप्रशमनं चक्षुष्यं च रसायनं ।
त्रिदोषशमनं सौम्यमायुष्यं रुचिरं शुचि

2,2.49

प्रज्ञावीर्यस्वरकरं ऐश्वर्यं धारणाद्भवेत्

2,3.1

âक्, २, ३
श्रीभैरवः ।
<सिल्वेरःः स्य्नोन्य्म्स्>
रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकं ।
रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकं

2,3.2

कलधौतं च सौधं च चन्द्रहासं च तारकं ।
<रजतभेदाः>
सहजं खनिसंजातं कृत्रिमं च त्रिधा मतं

2,3.3

रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरं ।
कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत्

2,3.4

तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ।
हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत्

2,3.5

खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनं ।
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतं

2,3.6

तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ।
<ग्राह्याग्राह्यरजतस्वरूपम्>
घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु

2,3.7

वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभं ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभं

2,3.8

दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा

2,3.9

कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलं ।
दाहे छेदे घने नष्टं मध्यमं रजतं मतं

2,3.10

करोति तापं विड्भेदं क्षयं शुक्लबलायुषां ।
न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत्

2,3.11

<रजतशुद्धि>
नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे

2,3.12

तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिं आप्नुयात् ।
पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात्

2,3.13

रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् ।
श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान्

2,3.14

<रजतभस्म (१, २, ३)>
कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् ।
तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः

2,3.15

म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना ।
अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः

2,3.16

म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् ।
तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत्

2,3.17

म्रियते गन्धयोगाद्यैर्वैष्णवेन विपद्यते ।
<रजतभस्म (४)>
स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत्

2,3.18

रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत्

2,3.19

<रजतभस्म (५)>
भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत्

2,3.20

द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
<रजतभस्म (६)>
लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत्

2,3.21

रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ।
स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना

2,3.22

स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितं ।
पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकं

2,3.23

<रजतभस्म (७)>
माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते

2,3.24

रागः स्यात्सर्वलोहानां पुटाधिक्ये न संशयः ।
<रजतभस्म (८)>
तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकं

2,3.25

मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत्

2,3.26

चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवं ।
<रजतभस्म (९)>
रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकं

2,3.27

अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः ।
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः

2,3.28

म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।
<रजतभस्म (१०)>
रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकं

2,3.29

मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके

2,3.30

क्षिप्त्वा दिनैकविंशच्च तद्गर्भादुद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित्

2,3.31

पुटैर्विंशतिभिर्भस्म जायते नात्र संशयः ।
भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरं

2,3.32

जायते तं मृतं विद्याद्भस्म हाटकतारयोः ।
<रजतस्य गुणाः>
रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसं

2,3.33

वयसः स्थापनं शीतं लेखनं वातपित्तजित् ।
वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनं

2,4.1

âक्, २, ४
श्रीभैरवः ।
<ताम्र>
ताम्रं म्लेच्छमुखं शुल्बं तपनेष्टमुदुम्बरं ।
त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियं

2,4.2

रक्तं नैपालकं चैव रक्तधातुः करेन्दुधा ।
म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमं

2,4.3

नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ।
सुस्निग्धं मृदुलं शोणं घनघातक्षयं गुरु

2,4.4

निर्विकारं गुरु श्रेष्ठं ताम्रं नेपालमुच्यते ।
सितकृष्णारुणच्छायं वामभेदि कठोरकं

2,4.5

क्षालितं च पुनः कृष्णं एतन्म्लेच्छकताम्रकं ।
पाण्डुरं कृष्णशोणं च लघु स्फुटनसंयुतं

2,4.6

रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ।
उत्क्लेदमोहभ्रमदाहभेदाः ताम्रस्य दोषाः खलु दुर्धरास्ते ।
विशोधनात्तद्विगतस्वदोषं सुधासमं स्याद्रसवीर्यपाके

2,4.7

वान्तिमूर्च्छाभ्रमोन्मादनानारुक्कुष्ठशूलकृत्

2,4.8

आयुःकान्तिबलभ्रंशकरं धातुप्रदूषणं ।
नु शुद्धं न मृतं ताम्रं तेन संशोध्य मारयेत्

2,4.9

<ताम्रशुद्धि>
ताम्रं क्षाराम्लसंयुक्तं द्रावितं तप्तगैरिकं ।
निक्षिप्तं महिषीतक्रछगणे सप्तवारकं

2,4.10

पञ्चदोषविनिर्मुक्तं सप्तवारेण जायते ।
ताम्रनिर्दलपत्त्राणि लिप्त्वा निम्बवसिन्धुना

2,4.11

ध्मात्वा सौवीरके क्षेपाद्विशुध्यत्यष्टवारतः ।
निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकं

2,4.12

विशुध्यन्त्यर्कपत्राणि निर्गुण्डीरसमर्दनात् ।
कुमारीपत्रमध्ये तु शुल्वपत्रं निवेशितं

2,4.13

पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ।
इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितं

2,4.14

भवेद्रसायनकरं देहलोहकरं परं ।
इमां शुद्धिं विजानीयाच्छिवो वा नन्दिकेश्वरः

2,4.15

बलिना निहतं ताम्रं सप्तवारं समुत्थितं ।
सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभं

2,4.16

स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकं ।
लिप्त्वा प्रताप्य निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः

2,4.17

वारान्द्वादशतः शुद्धं लेपात्तापाच्च सेचनात् ।
खटिकां लवणं तक्रैरारनालैश्च पेषयेत्

2,4.18

तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारं अम्लतक्रान्तर्निर्गुण्ड्याश्च विशुद्धये

2,4.19

तप्तानि ताम्रपत्राणि सेचयेत्तिक्तकारसैः ।
लिप्त्वाम्लतक्रलवणकाञ्जिकेन पुनः पुनः

2,4.20

तप्तं तप्तं त्रिधा सिञ्च्याच्छुद्धिमायाति निश्चयं ।
गोमूत्रेण पचेद्यामं ताम्रपात्रं दृढाग्निना

2,4.21

शुध्यते नात्र सन्देहो मारणं चाप्यथोच्यते ।
<ताम्रभस्म (१)>
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत्

2,4.22

कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत्

2,4.23

जम्बीरैरारनालैर्वा मृगदूर्वाथवा द्रवैः ।
पिष्ट्वा पिष्ट्वा पचेद्रुद्धं सगन्धं च चतुष्पुटैः

2,4.24

मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् ।
सितशर्करयाप्येकं पुटं देयं मृतं भवेत्

2,4.25

<ताम्रभस्म (२)>
पाषाणभेदिमत्स्याक्षीद्रवैर्द्विगुणगन्धकं ।
ताम्रस्य लेपयेत्पिष्टिं रुद्ध्वा गजपुटे पचेत्

2,4.26

समांशेन पुनर्गन्धं दत्त्वा द्रावैश्च लोलयेत् ।
एवं सप्तपुटैः पक्वं ताम्रभस्म भवेद्ध्रुवं

2,4.27

<ताम्रभस्म (३)>
ताम्रस्य त्रिगुणं सूतं जम्बीराम्लेन मर्दयेत् ।
आदौ मूषान्तरे क्षिप्त्वा धुत्तूरस्य तु पत्रकं

2,4.28

तत्पृष्ठे ताम्रतुल्यं च गन्धकं चूर्णितं क्षिपेत् ।
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं च गन्धकं

2,4.29

आच्छाद्य धूर्तपत्रैस्तु रुद्ध्वा गजपुटे पचेत् ।
स्वाङ्गशीतं ततश्चूर्णं मृतं भवति निश्चितं

2,4.30

<ताम्रभस्म (४)>
किंचिद्गन्धेन वाम्लेन क्षालयेत्ताम्रपत्रकं ।
ताम्रपादेन सूतेन सार्द्रं पत्रं प्रलेपयेत्

2,4.31

ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
लिप्त्वा ह्यधोर्ध्वगं देया सुपिष्टा चाम्लपर्णिका

2,4.32

तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्ल्यां विपाचयेत् ।
यामैकं ताम्रपाकेन भस्मीभवति निश्चितं

2,4.33

<ताम्रभस्म (५)>
सूतमेकं द्विधा गन्धं यामं कन्या विमर्दयेत् ।
द्वयोस्तुल्ये ताम्रपत्रे स्थाल्या गर्भे निरोधयेत्

2,4.34

सम्यङ्मृल्लवणैः सन्धिं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयं

2,4.35

जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत्

2,4.36

<ताम्रभस्म (६)>
जीर्णं ताम्रं समादाय तत्र चैतान्विनिक्षिपेत् ।
वङ्गं घोषं गजं तीक्ष्णसारं कान्तं च षट्समान्

2,4.37

प्रत्येकं ताम्रमानेन सर्वानेकत्र धामयेत् ।
वङ्कनालेन तावत्तद्यावदर्कोऽवशिष्यते

2,4.38

तमर्कं ढालयेत्पूर्वं निर्गुण्डीसलिलान्तरे ।
सप्तवारांश्च तन्मूलचूर्णमर्के प्रवापयेत्

2,4.39

तेन ताम्रेण कुर्वीत वटिकामव्रणां शुभां ।
द्विगुणं गन्धकं लिप्त्वा बलेस्त्र्यंशं च पारदं

2,4.40

शुद्धं हिङ्गुलजं वापि मर्दयेद्बीजपूरकैः ।
जम्बीरजैर्वा लिकुचनीरैः सम्यक्प्रमर्दयेत्

2,4.41

त्रिदिनं तद्विशोष्याथ भाण्डान्तस्तन्निवेशयेत् ।
उपरिष्टात्ताम्रघटीं अधोवक्त्रां निधाय च

2,4.42

दृढं विलेपयेत्पश्चात्कटोरीं मृण्मयीं क्षिपेत् ।
अतिप्रयत्नाल्लिम्पेत्तां यथा वारा न भिद्यते

2,4.43

अधिचुल्लि ततो दत्त्वा पूरयित्वा जलैरधः ।
प्रज्वालयेद्वीतिहोत्रं मृदुमध्योत्तमक्रमात्

2,4.44

दिनानि षट्समादाय स्वाङ्गशीतं तु पात्रकं ।
निर्भिद्य शुल्वं गृह्णीत मृतं सूतेन यत्नतः

2,4.45

ततः खल्वे विचूर्ण्यैतद्यथेष्टं विनियोजयेत् ।
<ताम्रभस्मशुद्धिः>
नानाविधं मृतं ताम्रं शुद्ध्यर्थं भागपञ्चकं

2,4.46

भागैकं श्वेतकाचं च भागं श्वेतं च टङ्कणं ।
मूषायां मिश्रितं क्षिप्त्वा भागैकं चाभ्रपत्रकं

2,4.47

ऊर्ध्वं दत्त्वा निरुध्याथ ध्माते ग्राह्यं सुशीतलं ।
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत्

2,4.48

अथवा मारितं ताम्रं अम्लेनैकेन मर्दयेत् ।
तद्गोलं सूरणस्यान्तः रुद्ध्वा सर्वत्र लेपयेत्

2,4.49

शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् ।
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन

2,4.50

<ताम्रभस्म (७)>
विलिप्य लिकुचद्रावपिष्टगन्धाश्मपङ्कतः ।
ताम्रपत्राणि संछाद्य स्थालीमध्ये निरुध्य च

2,4.51

याममात्रं पचेत्सम्यक्शीतान्याकृष्य चूर्णयेत् ।
तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितं

2,4.52

भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः ।
ज्वरं विनाशयेन्नःणां शूलाध्मानसमन्वितं

2,4.53

विषं गरं च वेगेन वामयत्येव निश्चितं ।
पथ्यमत्र प्रदातव्यं गव्यं तक्रं च भक्तकं

2,4.54

अतिरेकेऽतिवान्तौ च समोहे चातिमात्रके ।
तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियां

2,4.55

अतिवान्तौ भजेद्भ्रष्टं इक्षुदण्डं सुशीतलं ।
यद्वा बिल्वभवं क्वाथं सितया सह पाचयेत्

2,4.56

बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतः ।
<ताम्रभस्म (८)>
शुल्बतुल्येन सूतेन बलिना तत्समेन च

2,4.57

तदर्धांशेन तालेन शिलया च तदर्धया ।
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभां

2,4.58

यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ।
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत्

2,4.59

प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं विचूर्णयेत् ।
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरं ।
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं सर्वामयध्वंसनं

2,4.60

ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं कोष्णं पित्तकफापहं जठररुक्कुष्ठामजूर्त्यन्तकृत् ।
ऊर्ध्वाधःपरिशोधनं च विषहृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनं

2,5.1

âक्, २, ५
श्रीभैरवः ।
<लोहोत्पत्तिः>
कान्तायस्तीक्ष्णमुण्डाख्यलोहोत्पत्तिरथोच्यते ।
देवासुरसमूहेन मथ्यमाने महोदधौ

2,5.2

समुत्पन्नं पुरा तस्मिन्नमृतं देवजीवनं ।
पीयमानात्सुरैस्तस्मान्निपेतुः क्षुद्रबिन्दवः

2,5.3

ज्ञात्वा तान्भूगतान्यन्ता गोपयामास धूर्जटिः ।
लोहपाषाणरूपेण कृत्वा तान्वसुधातले

2,5.4

पापरोगाभिभूता ये मानवा न भजन्त्वमून् ।
इत्येवं शिवगुप्ता ये सुधाया बिन्दवः पुरा

2,5.5

तेषां मया समासेन कथ्यते साधनं स्फुटं ।
कुष्ठादिरोगनाशार्थं यथाबुद्ध्यनुसारतः

2,5.6

<इरोनःः सुब्त्य्पेस्>
कान्तायस्तीक्ष्णमुण्डाख्यं लोहमेवमपि त्रिधा ।
रसायनेभ्यः सर्वेभ्यो विद्याच्छतगुणाधिकं

2,5.7

<कान्तलोहःः स्य्नोन्य्म्स्>
अयस्कान्तं कान्तलोहं कान्तं स्यात्कृष्णलोहकं ।
कान्तायसं महालोहं काललोहं च सप्तधा

2,5.8

<अशुद्धकान्तलोहसेवनजा दोषाः>
हृत्पीडां वह्निदौर्बल्यं महारोगान्मृतिं तथा ।
करोति सेवनाल्लोहं अशोधितं अमारितं

2,5.9

<कान्तग्रहणविधिः>
तस्मात्कान्तस्य संशुद्धिर्मारणं च विधीयते ।
मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते

2,5.10

क्षेत्रं ज्ञात्वा गृहीतव्यं तत्प्रयत्नेन भूयसा ।
मारुतातपनिक्षिप्तं वर्जयेत्सुरसुन्दरि

2,5.11

भूमिस्थितं च यत्कान्तं छागरक्तेन भावयेत् ।
छागरक्तप्रलिप्तेन चर्मणा तत्प्रवेष्टयेत्

2,5.12

छागचर्म परीवेष्ट्य विन्यसेत्पूर्ववत्क्षितौ ।
उद्धृतं सप्तभिर्मासैस्तोयकुम्भे विनिक्षिपेत्

2,5.13

रक्तपुष्पैः सदा पूज्यं रक्तगन्धानुलेपनैः ।
पूरितं मद्यमांसैश्च योज्यं रसरसायने

2,5.14

संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् ।
अनेन क्रमयोगेन द्रावकं भवति प्रिये

2,5.15

कान्तलोहं विना सूतो देहे न क्रामति क्वचित् ।
न कान्तेन विना सूतः कान्तः सूतविवर्जितः

2,5.16

कान्तसूतसमायुक्तः प्रयोगो देहधारकः ।
पुरा प्रोक्तं मया सर्वं कान्तसत्वं यथाविधि

2,5.17

अधुना सम्प्रवक्ष्यामि कान्तसंस्कारतद्गुणान् ।
<कान्तलोहःः शोधनःः नैसर्गिक>
शशरक्तेन संलिप्तं कान्तपत्रं सुधामितं

2,5.18

त्रिवारं चाग्निना देवि दोषं नैसर्गिकं त्यजेत् ।
<कान्तलोहःः शोधनःः अद्रि>
त्रिफलाष्टगुणे तोये त्रिफला षोडशं पलं

2,5.19

तत्क्वाथपादशेषं च कान्तस्य पलपञ्चकं ।
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत्

2,5.20

एव प्रलीयते दोषो गिरिजो लोहसंभवः ।
कान्तलोहमयं चूर्णं गोमूत्रेऽष्टगुणे पचेत्

2,5.21

धान्याम्लैः क्षालितं भूयः शोषितं शुद्धिमाप्नुयात् ।
रत्नमाला हंसपादी गोजिह्वा त्रिफलामृता

2,5.22

गोपाली तुम्बुरुर्दन्ती गोमूत्रे पेषयेदिमाः ।
तत्कल्के कान्तपत्रं तु तप्तं तप्तं द्विसप्तधा

2,5.23

सेचयेत्कान्तलोहं तु सर्वदोषनिवृत्तये ।
<कान्तसिद्धिक्रमः>
क्रमः कान्तस्य सिद्ध्यर्थं कर्तव्यो मन्त्रपूर्वकं

2,5.24

उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तोऽमृतात्परं ।
स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः

2,5.25

रक्षायै लोहरसयोरयमेवैकमुद्भवं ।
विना स्वाहेति तस्यान्ते फडन्तं योजयेत्प्रिये

2,5.26

प्रणवोर्ध्वं नमश्चण्डं वज्रपाषाण इत्यपि ।
ततः परं महावज्रसेनाधिपतये नमः

2,5.27

द्विरुक्तसरुशब्दः स्यान्महाविद्याबलाय च ।
ततस्त्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः

2,5.28

अनेनैव बलिं कृत्वा यथोक्तामाचरेत्क्रियां ।
<लोहभस्मविधिः (१)>
स्तन्येन हिङ्गुलस्याथ पेषयेत्पलपञ्चकं

2,5.29

तेनैव पत्रं कान्तस्य लिम्पेत्पञ्चपलोन्मितं ।
रुद्ध्वा गजपुटे पाच्यं कषायैस्त्रैफलैः पुनः

2,5.30

जम्बीरैरारनलैर्वा विंशत्यंशेन हिङ्गुलं ।
पिष्ट्वालिप्य पुटे रुद्ध्वा तल्लोहे पाचयेत्पुनः

2,5.31

रुद्धं पुटेत्पचेद्रात्रौ प्रातर्द्रावैश्च भावयेत् ।
एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः

2,5.32

<लोहभस्मविधिः (२)>
चिञ्चापत्रनिभं कुर्यात्कान्तं तीक्ष्णं च मुण्डकं ।
मृत्पात्रस्थं क्षिपेद्घर्मे दन्तीद्रावैः प्रपूरयेत्

2,5.33

पत्रं पुनः पुनस्तावद्यावत्तरति तत्स्वयं ।
म्रियते तीव्रघर्मेण तच्चूर्णीकृत्य योजयेत्

2,5.34

<लोहभस्मविधिः (३)>
कान्तायस्तीक्ष्णमुण्डानां चूर्णं मत्स्याक्षिजैर्द्रवैः ।
आतपे त्रिदिनं भाव्यं त्रिदिनं चित्रकद्रवैः

2,5.35

त्र्यहं त्रिकण्टकरसैः सहदेवीद्रवैर्दिनं ।
गोमूत्रैस्त्रिफलाक्वाथैर्भावयेच्च त्र्यहं त्र्यहं

2,5.36

उक्तद्रावैस्ततो मर्द्यं क्रमाद्देयं पुटं पुटं ।
रुद्ध्वा गजपुटैरेवं मृतं योगेषु योजयेत्

2,5.37

<लोहभस्मविधिः (४)>
स्थाल्यां वा लोहपात्रे वा लोहदर्व्या विचालयन् ।
पाचयेत्त्रिफलाक्वाथैर्दिनं लोहचूर्णकं

2,5.38

तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
षोडशाङ्गुलगर्तान्तर्निर्वातेऽहर्निशं पचेत्

2,5.39

एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तकं ।
भृङ्गार्द्रकं तालमूलं हस्तिकर्ण्याश्च मूलकं

2,5.40

शतावरीविदार्योश्च मूलं तत्त्रिफलाम्भसि ।
संपेष्य पूर्ववत्स्थाल्यां पाच्यं पेष्यं त्रिधा पुटैः

2,5.41

पाच्यं ततः पुनर्नव्याः क्वाथैश्च दशमूलतः ।
बृहत्याश्च कषायेण बीजपूरस्य च द्रवैः

2,5.42

ब्रह्मबीजरसैः शिग्रुक्वाथैर्गोपयसापि च ।
प्रत्येकं संप्रपेष्यादौ पूर्वगर्ते पुटे पचेत्

2,5.43

भावयेत्तद्द्रवेणैव पुटान्ते याममात्रकं ।
प्रत्येकमेवं संपेष्य पुटयेद्भावयेत्क्रमात्

2,5.44

म्रियते नात्र सन्देहः कान्तं तीक्ष्णं च मुण्डकं ।
<लोहभस्मविधिः (५)>
शुद्धसूतं द्विधा गन्धं खल्वे कृत्वा तु कज्जलीं

2,5.45

द्वयोः समं कान्तचूर्णं मर्दयेत्कन्यकाद्रवैः ।
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके

2,5.46

आच्छाद्यैरण्डपत्रैश्च यामार्धेऽत्युष्णतां गतं ।
धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत्

2,5.47

संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ।
कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते मृतं

2,5.48

स्वर्णादीन्मारयेदेवं चूर्णीकुर्याच्च लोहवत् ।
सिद्धयोगं अथाख्यातं सिद्धानां संमुखागतं

2,5.49

अनुभूतं मया देवि सर्वरोगापहारकं ।
नायः पचेत्पञ्चपलप्रमाणादधो न चोर्ध्वं त्रिदशप्रमाणात्

2,5.50

<लोहभस्मविधिः (६)>
अर्जुनस्य त्वचः पेष्याः काञ्जिकेनातिलोलिताः ।
तन्मध्ये कान्तचूर्णं च कांस्यपात्रे विनिक्षिपेत्

2,5.51

दिनैकं धारयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ।
अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः

2,5.52

द्रवैः कुक्कुटपत्रोत्थैः कान्तचूर्णं विमर्दयेत् ।
दिनं च ह्यातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टजैः

2,5.53

वन्ध्याभृङ्गपुनर्नव्याः सगोमूत्रैर्दिनं पुनः ।
गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत्

2,5.54

त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ।
रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत्

2,5.55

दिवा मर्द्यं पुटेद्रात्रावेकविंशद्दिनावधि ।
एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः

2,5.56

<लोहभस्मविधिः (८)>
माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचाङ्घ्रि च ।
पिष्ट्वा लेप्यं कान्तपत्रं तप्तं तप्तं निषेचयेत्

2,5.57

सप्तधा त्रैफले क्वाथे जलेन क्षालयेत्पुनः ।
कुट्टयेल्लोहदण्डेन पेषयेत्त्रैफले जले

2,5.58

षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ।
अम्लेन मर्दितं रुद्ध्वा गजाख्यैकपुटे पचेत्

2,5.59

निरुत्थं जायते भस्म कान्तं तीक्ष्णं च मुण्डकं ।
<लोहभस्मविधिः (९)>
तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे

2,5.60

धारयेत्कांस्यपात्रान्तर्दिनैकेन स्फुटत्यलं ।
लेपं पुनः पुनः कुर्याद्दिनान्ते तं प्रपेषयेत्

2,5.61

त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतो भवेत् ।
तोयाष्टभागशेषेण त्रिफला पलपञ्चकं

2,5.62

घृतं क्वाथस्य तुल्यं स्याद्घृततुल्यं मृतायसं ।
पाचयेत्ताम्रपात्रे तु लोहदर्व्या विचालयन्

2,5.63

मृद्वग्निना पचेद्यावत्तावज्जीर्यति तद्द्रवं ।
लोहतुल्या सिता योज्या सुपक्वामवतारयेत्

2,5.64

योगवाहं इदं ख्यातं मृतलोहं महामृतं ।
इत्थं कान्तस्य तीक्ष्णस्य मुण्डस्यापि ह्ययं विधिः

2,5.65

घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् ।
जीर्णे घृते समादाय सर्वयोगेषु योजयेत्

2,5.66

ओं ओं अमृतेन्द्र भक्षयामि नमः ।
पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेथिङ्गुर्गन्धं विसृजति निजां तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारता नैव भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत्

2,5.67

<लोहपाकस्वरूपम्>
लोहपाकस्त्रिधा प्रोक्तो मृदुमध्यखरात्मकः ।
पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः

2,5.68

तृतीयः खरपाकः स्याद्वालुकासदृशः प्रिये ।
<निरुत्थभस्मपरीक्षा>
पाकं वर्णं तथा गन्धं ज्ञात्वा लोहस्य वह्नितः

2,5.69

उत्तार्याथ ततः शुद्धं लोहपात्रान्तरे न्यसेत् ।
लोहमातङ्गपञ्चास्या गन्धमाक्षीकहिङ्गुलाः

2,5.70

<लोहःः छेच्किन्ग्थे वारितर स्तते>
सर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हितं

2,5.71

मध्वाज्येन समायुक्तं लोहं तारेण संयुतं ।
अन्धमूषागतं ध्मातं गृह्णीयात्स्वाङ्गशीतलं

2,5.72

लोहमध्यगतं तारं पूर्वमानं भवेद्यदि ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः

2,5.73

गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत्

2,5.74

इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ।
<कान्तादिभस्मगुणाः>
कान्तसिन्दूरमायुष्यमारोग्यं बलवीर्यदं

2,5.75

देहदार्ढ्यकरं श्रेष्ठं कुर्यादिन्द्रियपाटवं ।
त्रिदोषशमनं राजयक्ष्मरोगविनाशनं

2,5.76

ज्वरासृक्पित्तपाण्ड्वादीन्हन्यादष्टमहागदान् ।
यद्यद्रोगहरैर्योगैस्तत्तद्रोगहरं भवेत्

2,5.77

<तीक्ष्णलोहःः स्य्नोन्य्म्स्>
तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठं ।
आयसं निशितं तीव्रं लोहखड्गं च मुण्डजं

2,5.78

अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा ।
<मुण्डलोहःः स्य्नोन्य्म्स्>
मुण्डं मुण्डायसं लोहं कृष्णलौहं शिलोद्भवं

2,5.79

<तीक्ष्ण, मुण्डलोहःः मारण>
कान्तलोहप्रकारेण मारणं तीक्ष्णमुण्डयोः ।
<तीक्ष्णलोहःः मेदिच्. प्रोपेर्तिएस्>
तीक्ष्णलोहं कषायाम्लं तिक्तकं कटुकं लघु

2,5.80

शीतलं लेखनं रूक्षं कफपित्तास्रपाण्डुजित् ।
प्रमेहसर्वशूलघ्नं तीक्ष्णं मुण्डाधिकं गुणैः

2,5.81

<मुण्डःः मेदिच्. प्रोपेर्तिएस्>
चक्षुष्यं मुण्डलोहं तु कषायं स्वादु तिक्तकं ।
लेखनं वातहृच्छीतं कृमिपित्तकफप्रणुत्

2,5.82

श्वयथूदरशूलार्शःकुष्ठपाण्डुप्रमेहजित्

2,6.1

âक्, २, ६
श्रीभैरवः ।
<तिनःः सुब्त्य्पेस्>
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं गुणहीनं तु मिश्रकं

2,6.2

<खुरःः फ्य्स्. प्रोपेर्तिएस्>
धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवं ।
<मिश्रकःः फ्य्स्. प्रोपेर्तिएस्>
निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकं

2,6.3

<तिनःः स्य्नोन्य्म्स्>
त्रपु त्रपुसमारूपं वङ्गं च कुटिलं हिमं ।
कुरूप्यं विच्चटं रङ्गं पूतिगन्धं रसाह्वयं

2,6.4

<तिनःः परीक्षाःः गूद्कुअलित्य्>
स्वच्छं उष्णासहं शीतं सूक्ष्मपत्रकरं लघु ।
रुङ्नाशे रूप्यकरणे तद्वङ्गं श्रेष्ठमुच्यते

2,6.5

<वङ्गशुद्धि (१)>
द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसैः ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः

2,6.6

अम्लतक्रविनिपिष्टवर्षाभूवृषसिन्धुभिः ।
कट्वलाबुगतं वङ्गं द्वितयं परिशुध्यति

2,6.7

सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।
बोधिचिञ्चात्वचः क्षारैर्दद्याल्लघुपुटानि च

2,6.8

मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितं ।
<वङ्गशुद्धि (२)>
नागवच्छोधयेद्वङ्गं तद्वदश्वत्थचिञ्चयोः

2,6.9

तद्भस्म हरितालं च तुल्यमम्लेन मर्दयेत् ।
पलाशोत्थद्रवैर्वाथ लोलयित्वान्ध्रयेत्पुटे

2,6.10

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।
<वङ्गशुद्धि (३)>
पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत्

2,6.11

एकविंशत्पुटैर्वङ्गो मृतो भवति रोगहा ।
शिरीषरजनीचूर्णैः कुमार्या युतगोलकं

2,6.12

सूतलिप्तं वङ्गपत्रं गोलकं सममर्दितं ।
रुद्ध्वा लघुपुटैः पक्वं मृतं स्यात्पूर्वसंख्यया

2,6.13

अक्षभल्लातकीतोयैः पिष्ट्वा पत्राणि लेपयेत् ।
ततस्तिलखरीमध्ये क्षिप्त्वा रुद्ध्वा पुटैः पचेत्

2,6.14

चत्वारिंशद्गजपुटैर्वङ्गकं भस्म जायते ।
<वङ्गगुणाः>
वङ्गं तीक्ष्णोष्णकटुकमीषद्वातप्रकोपनं

2,6.15

मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनं ।
हिमं कषायलवणं पाण्डुदाहहरं सरं

2,6.16

लेखनं पित्तलं किंचित्त्रपु सीसं च तद्गुणं ।
<सीसक>
सीसकं तु जडं शीतं यवनेष्टं भुजङ्गमं

2,6.17

योगीष्टं नागं उरगं कुवङ्गं परिपिष्टकं ।
मृदु कृष्णायसं पक्ष्मतारशुद्धिकरं स्मृतं

2,6.18

सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ।
सीसं तु वङ्गसाम्यं स्याद्रसवीर्यविपाकतः

2,6.19

<अशुद्धवङ्गनागसेवने दोषाः>
पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डुज्वरश्लेष्मवातपित्तप्रदौ स्मृतौ

2,6.20

द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलं ।
पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा

2,6.21

निर्गुण्डीमूलचूर्णेन सार्कदुग्धेन लेपयेत् ।
नागपत्रं ततः शुष्कं द्रावयित्वा निषेचयेत्

2,6.22

लिप्त्वा द्राव्यं पुनः सेच्यं सप्तवारं विशुद्धये ।
निशातुम्बुरुबीजानि कोकिलाक्षीकुबेरकं

2,6.23

गौरीफलं मल्लिका च मोक्षो ब्रह्मा मयूरकं ।
यथालाभं तु भस्मैषां वज्रीक्षीरेण भावयेत्

2,6.24

तन्मध्ये द्रावितं नागं शुद्धं सेच्यं तु सप्तधा ।
महिषस्यास्थिचूर्णेन सुपाकं मूत्रसेचनात्

2,6.25

वङ्गं शुद्धं भवेत्तद्वन्नागो नागास्थिमूत्रतः ।
<नागभस्म (१)>
अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः

2,6.26

क्षिप्त्वा चुल्ल्यां पचेदग्नौ चालयेल्लोहचट्टुना ।
यावद्भस्म तमुद्धृत्य भस्मतुल्यां मनःशिलां

2,6.27

जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशे शिलाम्लके

2,6.28

एवं षष्टिपुटैः पक्त्वा नागः स्यात्तु निरुत्थितः ।
<नागभस्म (२)>
अथवा नागपत्राणि चूर्णलिप्तानि खर्परे

2,6.29

अल्पाग्नौ पाचयेद्यामं भस्म तच्चित्रकद्रवैः ।
भर्जयेल्लोहपात्रे तत्पार्थदण्डेन चालयन्

2,6.30

यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ।
दण्डेन मर्दयेद्गाढमुद्धृतं चित्रकदवैः

2,6.31

लोलयित्वा निरुध्याथ षट्पुटैर्म्रियते लघु ।
<नागभस्म (३)>
चिञ्चाक्षमिक्षुभल्लातवाशावज्रलताभवैः

2,6.32

अपामार्गार्जुनाश्वत्थसमुद्भूतैश्च भस्मभिः ।
दृढं पालाशदण्डेन लोहपात्रे तु भर्जयेत्

2,6.33

सप्तभिर्दिवसैरेव म्रियते नात्र संशय ।
<नागभस्म (४)>
पिष्ट्वागस्त्यं च भूनागं लिप्त्वा भाण्डं विशोधयेत्

2,6.34

तद्भाण्डे द्रावयेन्नागं द्रुते नागे विनिक्षिपेत् ।
वाशाचिञ्चटयोः क्षारं वाशाकाष्ठेन घट्टयेत्

2,6.35

यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ।
संचूर्ण्य च शिलाताप्ये वाशकक्षारसंयुतं

2,6.36

चतुस्तुल्यं पूर्वनागं विंशत्येकपुटैः पचेत् ।
द्विपुटं चिञ्चिकक्षारैर्देयं वाशारसान्वितैः

2,6.37

नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ।
अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहं

2,6.38

प्रमेहतोयदोषघ्नं दीपनं चामवातनुत्

2,7.1

âक्, २, ७
श्रीभैरवः ।
<ब्रस्सःः स्य्नोन्य्म्स्>
रीतिः क्षुद्रसुवर्णं सितकनकं पिङ्गलं च पित्तलकं ।
लोहितकमारकूटं पिङ्गललोहं च पीतकं नवधा

2,7.2

<ब्रस्सःः सुब्त्य्पेस्>
रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् ।
<ब्रस्सःः परीक्षा>
संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता

2,7.3

एवं या जायते कृष्णा काकतुण्डीति सा मता ।
<ब्रस्सःः परीक्षाःः गूद्कुअलित्य्>
गुर्वी मृद्वी च पीताकपोताभा साराङ्गी ताडनक्षमा

2,7.4

सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा ।
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी

2,7.5

हेमोपमा शुभाश्वत्था जात्या रीतिः प्रकीर्तिता ।
<ब्रस्सःः परीक्षाःः बद्कुअलित्य्>
पाण्डुः पीता खरा रूक्षा बर्बरा घट्टनाक्षमा

2,7.6

पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ।
<रीतिगुणाः>
रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत्

2,7.7

कृष्णा कुष्ठहरा योगादुष्णवीर्या च शीतला ।
<राजरीतिःः प्रोपेर्तिएस्>
काकतुण्डी कृतस्नेहा राजरीतिगुणानुगा

2,7.8

राजरीतिस्तु निर्दिष्टा रीतिकासदृशी गुणैः ।
<ब्रस्सःः मेदिच्. प्रोपेर्तिएस्>
रीतिकायुगलं रूक्षं सतिक्तं लवणं सरं

2,7.9

शोभनं पाण्डुवातघ्नं बलवीर्यायुर्वर्धनं ।
रीतिका कटुतिक्तोष्णा प्लीहानाहनिबर्हणी

2,7.10

रूक्षा कफास्रपित्तं च हन्यात्स्वादु प्रयोजिता ।
<राजरीतिःः स्य्नोन्य्म्स्>
राजरीतिः काकतुण्डी राजपुत्री महेश्वरी

2,7.11

ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ।
<कांस्य>
कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकं

2,7.12

दीप्तलोहं घोषयुष्यं दीप्तकं च नवाह्वयं ।
<ब्रोन्जेःः प्रोदुच्तिओन्>
अष्टभागेन ताम्रेण द्विभागकुटिलेन च

2,7.13

विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभं ।
<ब्रोन्जेःः परीक्षाःः गूद्कुअलित्य्>
तीक्ष्णशब्दं मृदु स्निग्धं ईषच्छ्यामलशुभ्रकं

2,7.14

निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ।
श्वेतदीप्तं मृदुज्योति शब्दाढ्यं स्निग्धनिर्मलं

2,7.15

घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितं ।
<ब्रोन्जेःः परीक्षाःः बद्कुअलित्य्>
तत्पीतं दहने ताम्रं घनं रूक्षं घनासहं

2,7.16

मन्दनादं गतज्योति सप्तधा कांस्यं उत्सृजेत् ।
<ब्रोन्जेःः मेदिच्. प्रोपेर्तिएस्>
घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणां

2,7.17

भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ।
कांस्यं तु लघुतिक्तोष्णं लेखनं दृक्प्रसादनं

2,7.18

कृमिकोष्ठहरं वातपित्तघ्नं भोजने हितं ।
<वर्तलोह>
वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरः

2,7.19

नीलिका नीललोहं च लोहकं वट्टलोहकं ।
कांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकं

2,7.20

तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतं ।
तद्भाण्डसाधितं सर्वमन्यव्यञ्जनपूर्वकं

2,7.21

अम्लेन वर्जितं चातिदीपनं पाचनं शुभं ।
<वर्तलोहशुद्धिमारणम्>
द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति

2,7.22

म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकं ।
तेषु तेषु विभागेषु योजनीयं यथाविधि

2,7.23

वर्तलोहं कटूष्णं च तिक्तं च शिशिरं तथा ।
कफजित्पित्तशमनं मधुरं दाहमेहनुत्

2,7.24

रूक्षं रुच्यं कृमिघ्नं च नेत्र्यं मलविशोधनं ।
<पित्तलादीनां शोधनभस्मविधिः>
त्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत्

2,7.25

कांस्यारघोषपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा पुटेद्गजपुटे शुद्धिमायाति नान्यथा

2,7.26

ताम्रवन्मारणं तेषां कृत्वा सर्वत्र योजयेत् ।
मृतानि लोहान्यमृतीभवन्ति निघ्नन्ति युक्तानि महामयांश्च ।
अभ्यासयोगाद्दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशं

2,7.27

नागेन स्वर्णं रजतं च ताप्यैः गन्धेन ताम्रं शिलया च नागं ।
तालेन वङ्गं त्रिविधं तु लोहं नारीपयो घ्नन्ति च हिङ्गुलेन

2,7.28

तथाभ्रसत्वं बलिनोपलोहं वज्रेण सूतं विनिहन्ति सद्यः

2,7.29

<अभ्रकसत्त्व>
वज्राभ्रकस्य सत्सत्वं वक्ष्यामि शृणु भैरवि ।
चतुर्धाभ्रकसत्वं स्यात्कठिनं मृदुलं द्रुतिः

2,7.30

बीजं च गुणवज्ज्ञेयं तत्क्रमादुत्तरोत्तरं ।
<सत्त्वपातनायाभ्रकसिद्धिः>
धान्याभ्रकं रविक्षीरे घर्मे स्थाप्यं दिनावधि

2,7.31

तच्छ्लक्ष्णं पेषयेत्पट्टे शरावे तं निरोधयेत् ।
सम्यक्पचेद्गजपुटे रविक्षीरे पचेत्पुनः

2,7.32

मर्दनं पुटपाकं च कुर्यादेवं तु सप्तधा ।
तथा जम्बीरनीरे च निचुलस्य रसे तथा

2,7.33

एतत्सिद्धघनं श्रेष्ठं निश्चन्द्रं सत्त्वपातने ।
घनमारकसारैर्वा व्यस्तैर्वाथ समस्तकैः

2,7.34

पिष्ट्वा धान्याभ्रकं श्लक्ष्णं रुद्ध्वा गजपुटे पचेत् ।
लाक्षागुग्गुलुदग्धोर्णासर्जसर्जरसं पटु

2,7.35

शशास्थि क्षुद्रमत्स्याश्च हरिद्रा मित्रपञ्चकं ।
पञ्चमाहिषकं चापि भल्लातं च समं समं

2,7.36

सर्वतुल्यं सिद्धघनं निश्चन्द्रं पेषयेद्दिनं ।
तत्सर्वं तेन वटकाः कार्यास्ते कर्षमात्रकाः

2,7.37

कोष्ठीयन्त्रे धमेद्गाढमङ्गारैः खदिरोद्भवैः ।
त्रियामधमनादेव सत्त्वं पतति निर्मलं

2,7.38

कठिनं सूक्ष्मरवकं काचटङ्कणवर्जितं ।
त्रिवारमेवं कुर्वीत तत्किट्टैः सत्त्वपातने

2,7.39

<अभ्रकमृदुसत्त्व (१)>
पुनरन्यं प्रवक्ष्यामि मृदुसत्त्वं सुरेश्वरि ।
गुग्गुलुं टङ्कणं गुञ्जां सर्जसर्जरसं गुडं

2,7.40

क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणं ।
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवं

2,7.41

धुत्तूरं लाङ्गली पारा बला गन्धकसेवकं ।
गोक्षीरं पञ्चलवणं सर्वं च द्विगुणं मधु

2,7.42

षड्बिन्दु क्षुद्रशंबूकमस्थीनि शशकस्य च ।
पारावतमलं त्र्यूषमिन्द्रगोपं सशिग्रुकं

2,7.43

गोधूमसर्षपं ताप्यं छागक्षीरेण मर्दयेत् ।
एवं व्यस्तं समस्तं वा याममात्रेण मर्दितं

2,7.44

अस्य पिण्डस्य भागैकं द्विभागं सिद्धं अभ्रकं ।
पञ्चमाहिषभागैकं सर्वमेकत्र लोडयेत्

2,7.45

कर्षाभा वटिकाः कार्याः किंचिच्छायाविशोषिताः ।
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपेत्क्षिपेत्

2,7.46

घुटीपञ्चकपञ्चैव वङ्कनाले धमेद्दृढं ।
मृदुसत्त्वं भवेच्छुभ्रं रुग्जरामृत्युनाशनं

2,7.47

त्रिवारमेवं कुर्वीत तत्किट्टं सत्त्वपातनं ।
अनेन क्रमयोगेन कान्तसस्यकमाक्षिकं

2,7.48

कठिनोपरसाश्चान्यैः शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति द्रुतिसङ्घातं गृह्णन्तीमं पृथक्पृथक्

2,7.49

<अभ्रकमृदुसत्त्व (२)>
अभ्रसत्वं समादाय समांशं काचटङ्कणं ।
दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत्

2,7.50

अम्लवर्गं स्नुहीपत्रं बिम्बीबीजं सवल्कलं ।
कल्कयेत्तत्र संतप्तं सप्तवारं निषेचयेत्

2,7.51

मृदु शुभ्रं भवेत्तस्य रुग्जरामृत्युनाशनं ।
<अभ्रकमृदुसत्त्वं (३)>
सिद्धाभ्रं दशभागं स्याच्छुद्धभागं त्रिभागकं

2,7.52

टङ्कणं माक्षिकं सूतं भागैकं च सुशोधितं ।
ऊर्णासर्जयवक्षारं भागं भागं विमिश्रयेत्

2,7.53

मर्द्यं मूत्राम्लवर्गाभ्यां यथा प्रोक्तं दिनावधि ।
अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनं

2,7.54

कृत्वादाय मृतं साक्षान्निर्मलं मृदु जायते ।
<अभ्रकबीजपाक>
बीजपाकं प्रवक्ष्यामि घनस्यैतत्परं हितं

2,7.55

सिद्धाभ्रकं शतपलं स्वर्णरूप्यार्ककान्तकं ।
रसत्रिगन्धमाक्षीकं विमलाभूलताद्रिजं

2,7.56

नीलाञ्जनं च कङ्कुष्ठं कासीसं दरदं तथा ।
प्रत्येकं दशनिष्कं स्यात्ततो गैरिकटङ्कणं

2,7.57

इन्द्रगोपं गुडं गुञ्जा मधु सर्पिश्च गुग्गुलुः ।
सर्जक्षारो यवक्षारो मत्कुणा नवपञ्चकं

2,7.58

क्षुद्रमीनशशास्थीनि माहिषं शृङ्गमालकं ।
पृथक्पृथक्पञ्चमूलं पञ्चमाहिषं मर्दयेत्

2,7.59

तेषां च वटिका कार्या किंचिच्छायाविशोषिता ।
पूर्ववत्पातयेत्सत्त्वं रुग्जरादैन्यमृत्युहृत्

2,7.60

बीजसत्वमिदं श्रेष्ठं वैद्ये वादे रसायने ।
<अभ्रकसत्त्वनिर्मलीकरण>
निर्मलीकरणं वक्ष्ये घनसत्वस्य पार्वति

2,7.61

तत्सत्वं कणशः कृत्वा मित्रपञ्चकसंयुतं ।
मूषायां तद्विनिक्षिप्य काचं तदधरोत्तरं

2,7.62

रुद्ध्वा हठाग्नौ धमयेत्खदिराङ्गारयोगतः ।
एवं क्रमेण धमयेत्सप्तधा निर्मलं भवेत्

2,7.63

ससत्वं निर्मलीभूतं लोहखल्वे विचूर्णयेत् ।
मर्दयेत्त्रिफलाक्वाथैर्यामं घर्मे विशोषयेत्

2,7.64

पाकं पुटं च विधिवत्कुर्यादेवं पुनः पुनः ।
चत्वारिंशत्पुटं कुर्यादेवं मार्कवजैर्द्रवैः

2,7.65

पृथक्पञ्चामृतैः पञ्चपुटं चेक्षुरसैस्त्रिधा ।
उदयादित्यसङ्काशं घनसत्वं सुसिद्धिदं

2,7.66

<अभ्रकसत्त्वसिन्दूरविधि (१)>
चूर्णीकुर्याल्लोहखल्वे निर्मलीकृतमभ्रकं ।
निष्काणां शतकं तस्मिन्निष्कैकं गन्धकं क्षिपेत्

2,7.67

पेषयेद्दिनमेकं तु कुमारीरसयोगतः ।
यामं तत्तापयेद्घर्मे ततो गजपुटे पचेत्

2,7.68

एवं शतपुटं कुर्याद्गन्धं दद्यात्पुनः पुनः ।
सिन्दूरपाटलच्छायं अभ्रसत्वं भवेच्छिवे

2,7.69

<अभ्रकसत्त्वसिन्दूरविधि (२)>
घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।
शतनिष्कं ततस्तस्मिन्निष्कार्धं माक्षिकं क्षिपेत्

2,7.70

अर्कक्षीरैर्दिनं मर्द्य रुद्ध्वा गजपुटे पचेत् ।
एवं शतपुटं कुर्यान्माक्षीकं च पुटे पुटे

2,7.71

एतत्स्यात्सत्त्वसिन्दूरं रुग्जरामृत्युनाशनं ।
<अभ्रकसत्त्वसिन्दूरविधि (३)>
तत्सत्वं रवकान्हित्वा लोहखल्वे सुबुद्धिमान्

2,7.72

मर्दयेल्लोहदण्डेन वराक्वाथसमन्वितं ।
याममात्रं खरे घर्मे स्थापयेल्लोहपात्रगं

2,7.73

स्थालीपाकं खरं कृत्वा रात्रौ गजपुटे पचेत् ।
एवं सप्तपुटं कुर्यान्मार्कवस्वरसैस्तथा

2,7.74

कुमारीस्वरसैस्तद्वच्चित्रमूलरसैस्तथा ।
नीलीपत्ररसैस्तद्वत्पुनर्नवरसैस्तथा

2,7.75

मेघनादद्रवैः सप्त क्वाथैर्वटजटोद्भवैः ।
एवं सुसूक्ष्मचूर्णं तु शतांशं गन्धकं क्षिपेत्

2,7.76

मर्दयेदारनालेन घर्मे स्थाल्यां पुटे पचेत् ।
एवं दशदिनं कुर्यात्पुनस्ताप्यं शतांशतः

2,7.77

क्षिप्त्वारनालैः संमर्द्य घर्मे स्थाल्यां पुटे पचेत् ।
एवं दशदिनं कुर्यात्पुनः पञ्चामृतैः पचेत्

2,7.78

पञ्चपञ्चेक्षुजरसैः पञ्चधा पुटमाचरेत् ।
सिन्दूराभेऽभ्रभसिते निक्षिपेच्छुद्धहिङ्गुलं

2,7.79

विंशत्यंशं घनस्याथ स्तन्यैः संमर्द्य संपुटे ।
रुद्ध्वाथ भूधरे यन्त्रे क्षिप्त्वा लघुपुटं विधेत्

2,7.80

एवं विंशत्पुटं कुर्याद्दत्त्वा दत्त्वाथ हिङ्गुलं ।
अनेन क्रमयोगेन सत्वं सिन्दूरसन्निभं

2,7.81

अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ।
यद्यद्रोगहरैर्द्रव्यैस्तत्तद्रोगहरं भवेत्

2,7.82

<अभ्रकसत्त्वसिन्दूरविधि (४)>
घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।
मुण्डीपत्ररसैर्मर्द्यं दिनं गजपुटे पचेत्

2,7.83

एवं दशपुटं कार्यं निर्गुण्डीस्वरसैस्तथा ।
तथा वटजटाक्वाथैः पेटारीमूलजै रसैः

2,7.84

ककुभस्य रसैस्तद्वज्जम्बूत्वक्स्वरसैस्तथा ।
एवं षष्टिपुटं कार्यं ततस्तस्मिन्विनिक्षिपेत्

2,7.85

विंशत्यंशेन दरदं स्तन्यैः संमर्दयेद्दिनं ।
ततस्तत्सम्पुटे रुद्ध्वा भूधरे तु पुटं लघु

2,7.86

एवं विंशतिधा कुर्यात्सिन्दूराभं भवेद्ध्रुवं ।
<स्थालीपाक>
स्थालीपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरात्मकः

2,7.87

पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ।
तृतीयः खरपाकः स्याद्वालुकासदृशः प्रिये

2,7.88

स्थालीपाको रसे युक्तः संयुक्तो दरदेन वा ।
मृदुमध्यमपाकाभ्यां कर्तव्यो भूधरे ततः

2,7.89

क्षिप्त्वा लघुपुटे देयं रसहिङ्गुलवर्जितः ।
खरपाकः प्रकर्तव्यो विधिर्गजपुटे पचेत्

2,7.90

<लोहभस्मनाममृतीकरणविधिः>
सर्वेषां मारितानां च लोहानामभ्रकस्य च ।
वक्ष्यामि परमं गुह्यममृतीकरणं शृणु

2,7.91

त्रिफलोत्थकषायस्य भागानादाय षोडश ।
गोघृतस्य पलान्यष्टौ मृताभ्रकपलान्दश

2,7.92

एकीकृत्वा लोहपात्रे पाचयेन्मृदुवह्निना ।
द्रवे जीर्णे समादाय सर्वयोगेषु योजयेत्

2,7.93

अनुपानं विना ह्यभ्रं जरामृत्युरुजापहं ।
योजयेदनुपानैर्वा तत्तद्रोगहरं भवेत्

2,7.94

कठिनस्याभ्रसत्वस्य सिन्दूरं पलितं वलिं ।
इन्द्रियाणां पटुत्वं च पत्राभ्रकगुणा अपि

2,7.95

मृदुसत्वस्य सिन्दूरं सर्वामयनिबर्हणं ।
वलीपलितदारिद्र्यमृत्युघ्नं सुरसायनं

2,7.96

त्रिदोषशमनं सौम्यं दीपनं पाचनं शुभं ।
निहन्ति ज्वरजालं च ग्रहणीमतिसारकं

2,7.97

अश्मरीं मूत्रकृच्छ्रं च क्षयं पाण्डुहलीमकं ।
दुर्नाममेहकुष्ठानि वातजान्पित्तजानपि

2,7.98

कफजान्दुस्तरान्रोगान्विद्रध्यादिव्रणानपि ।
नानाविधानि शूलानि पुंस्त्रीवन्ध्यत्वभञ्जनं

2,7.99

यद्यद्रोगहरैर्योगैस्तत्तद्रोगनिबर्हणं ।
पारदे ये गुणाः सन्ति बीजसत्वेऽपि ते गुणाः

2,7.100

<मण्डूर, शुद्धि>
अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः ।
सेचयेदक्षपात्रान्तः षड्वारं च पुनः पुनः

2,7.101

मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।
गोमूत्रे त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः

2,7.102

<मण्डूरभस्म>
लोहकिट्टं सुतप्तं च यावच्छीर्यति तत्स्वयं ।
तच्छीर्णं ग्राहयेत्पेष्यं मण्डूरं यं प्रयोजयेत्

2,7.103

ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत्

2,7.104

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितं ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणं

2,7.105

मण्डूरं पाण्डुशोषार्शोग्रहणीकामलापहं ।
सर्वशूलप्रमेहघ्नं दीपनं परमं हितं

2,7.106

शीतं तिक्तं कषायाम्लं हृद्रोगप्लीहनाशनं ।
<रसादिमारणायद्रव्यमानम्>
रसेन्द्रं शोधयेद्देवि पलानां द्विसहस्रकं

2,7.107

सहस्रं वा शतं वापि पञ्चाशद्वा तदर्धकं ।
न कुर्याद्रसकर्माणि हीनं वै पञ्चविंशतेः

2,7.108

लोहस्य पचनं त्रिंशत्पलादूर्ध्वं न कारयेत् ।
अर्वाक्पञ्चपलाद्देवि घनसत्वं तथा पचेत्

2,7.109

स्वर्णं पञ्चपलादूर्ध्वं पलादर्वाङ्न शोधयेत् ।
तथा रूप्यं च ताम्रं च शोधयेन्मारयेत्प्रिये

2,7.110

लोहवद्घनसत्वं च घनपत्रं तथैव च ।
हीनं पञ्चपलादूर्ध्वं न कुर्यात्पलविंशतेः

2,7.111

द्रावणं शोधनं देवि मारणं नागवङ्गयोः ।
वज्रं निष्कादधश्चोर्ध्वं न कुर्याच्छोधनं मृतिं

2,7.112

पद्मरागादिरत्नानि तथा कुर्यात्सुरेश्वरि

2,8.1

âक्, २, ८
श्रीभैरवः ।
महाम्बुराशौ सरिति पर्वते काननेऽपि वा ।
रत्नानामाकरं देवि स्थानमाधेयगौरवात्

2,8.2

तेषु रक्षोविषव्यालव्याधिदोषहराणि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च

2,8.3

प्रदुष्टेनोपजातानि जन्तुनोपहतानि च ।
दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा

2,8.4

<रुब्यःः स्य्नोन्य्म्स्>
माणिक्यं शोणरत्नं च रत्नराट्रविरत्नकं ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः

2,8.5

रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकं

2,8.6

<नीलगन्धिक>
माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।
<रुब्यःः परीक्षाःः गूद्कुअलित्य्>
कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटं

2,8.7

वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठं उच्यते ।
परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता

2,8.8

धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा ।
ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते

2,8.9

<माणिक्यभेदाः>
यत्सिंहलं कालपुरं अन्ध्रं तुम्बुरुसंस्थितं ।
क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे

2,8.10

सिंहले तु भवेद्रक्तं पद्मरागं अनुत्तमं ।
पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतं

2,8.11

अशोकपल्लवच्छायं अन्ध्रं सौगन्धिकं प्रिये ।
तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितं

2,8.12

मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ।
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः

2,8.13

स्निग्धच्छाया गुरुत्वं च नैर्मल्यं अतिरक्तता ।
<माणिक्यगुणाः>
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत्

2,8.14

भूतवेतालपापघ्नं कर्मजव्याधिनाशनं ।
माणिक्यं च महापुण्यं महाभाग्यकरं परं

2,8.15

सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परं ।
<मुक्ता>
मुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्यादिन्दुरत्नं वलक्षं

2,8.16

मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियं ।
स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वं

2,8.17

<पेअर्लःः ओरिगिन्>
मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनां उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा ।
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौक्तेयकं तूल्वणं

2,8.18

<पेअर्लःः परीक्षाःः गूद्कुअलित्य्>
नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि

2,8.19

<पेअर्लःः मेदिच्. प्रोपेर्तिएस्>
मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहं ।
राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकं

2,8.20

मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनं

2,8.21

दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहं ।
चक्षुष्यं पवनास्रपित्तविषजित्सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितं ।
धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तदखिलं मूलं शशी प्रीयते

2,8.22

<चोरलःः स्य्नोन्य्म्स्>
प्रवालोऽङ्गारकमणिर्विद्रुमोऽम्भोधिपल्लवः

2,8.23

भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः ।
<चोरलःः प्लचे ओफ् ओरिगिन्>
सेतौ सागरमध्ये या जायते वल्लरी शुभा

2,8.24

विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी ।
<चोरलःः परीक्षाःः गूद्कुअलित्य्>
पाषाणत्वं भजत्येषा पाकतः कठिना सती

2,8.25

प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदं ।
सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु

2,8.26

रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते ।
पक्वबिंबफलाभासं जपाकुसुमसंनिभं

2,8.27

शुकतुण्डसमच्छायं प्रवालं अतिशोभनं ।
<चोरलःः परीक्षाःः बद्कुअलित्य्>
शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरं

2,8.28

विद्धं कृष्णं लघुतमं प्रवालं दोषकृद्भवेत् ।
गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत्

2,8.29

<चोरलःः परीक्षाःः गूद्कुअलित्य्>
प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितं ।
धनधान्यकरं मेध्यं विषाहिभयनाशनं

2,8.30

<चोरलःः मेदिच्. प्रोपेर्तिएस्>
प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः

2,8.31

<मरकत>
मरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे

2,8.32

गरलारिर्वायवीर्यं गारुडं रुद्रसंमितं ।
तुरुष्कविषयांभोधौ समीरारोहणाचले

2,8.33

तच्छायाश्यामलो देशः सोऽभून्मरकताकरः ।
तद्विशेषान्मरकतं जातं दोषगुणान्वितं

2,8.34

दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः ।
भवेदष्टविधा छाया मणेर्मरकतस्य च

2,8.35

अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा ।
जठरं कान्तिहीनं च विच्छायं मलिनं तथा

2,8.36

सशर्करं सपाषाणं कर्कशं सूत्रसंयुतं ।
कल्माषवर्णं शबलं समस्तभयदायकं

2,8.37

निर्मलं कथितं स्वच्छं गुरु स्याद्गुरुदायुतं ।
स्निग्धं रूक्षं विनिर्मुक्तं अरजस्कं अरेणुकं

2,8.38

सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः ।
एतैर्युक्तं मरकतं सर्वपापहरं परं

2,8.39

मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनं

2,8.40

स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभं ।
कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहं

2,8.41

<पुष्परागःः स्य्नोन्य्म्स्>
पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च

2,8.42

<पुष्परागःः परीक्षाःः त्रुए>
ईषत्पीतं पविच्छायं स्वच्छं कान्त्या मनोहरं ।
पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः

2,8.43

<पुष्परागःः परीक्षाःः गूद्कुअलित्य्>
हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलं ।
पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते

2,8.44

<पुष्परागःः परीक्षाःः बद्कुअलित्य्>
रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करं ।
मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते

2,8.45

<पुष्परागःः मेदिच्. प्रोपेर्तिएस्>
पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परं ।
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणां

2,8.46

पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदं ।
वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परं

2,8.47

<वज्र>
वज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः ।
अभेद्यं असिरं रत्नं दृढं भार्गवकं स्मृतं

2,8.48

<वज्रःः परीक्षाःः गूद्कुअलित्य्>
स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनं ।
षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत्

2,8.49

<वज्राकरा वज्रभेदाश्च>
पौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः ।
पेण्णानदीतटश्चेत्यष्टौ वज्राकरा विनिर्दिष्टाः

2,8.50

श्यामं प्रपौण्ड्रप्रभवं किंचित्पीतं मतङ्गगिरिजातं ।
हिमवत्सुराष्ट्रसंभवं आताम्रं कृष्णकान्ति सौपारं

2,8.51

फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गं ।
पेण्णानदीतटोद्भवं आहुर्वज्रं सुधांशुनिभं

2,8.52

कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ ।
सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा

2,8.53

कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ ।
आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकं

2,8.54

समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके ।
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च

2,8.55

इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् ।
<वज्रःः ५ दोषस्>
मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा

2,8.56

एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः ।
कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवं

2,8.57

हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते ।
<वज्रशुद्धि>
गृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत्

2,8.58

महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत्

2,8.59

एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति ।
मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः

2,8.60

कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः ।
एतेषां हयमूत्रेण कषायं साधितं पुनः

2,8.61

जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् ।
डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात्

2,8.62

कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात्

2,8.63

कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः ।
क्षिप्त्वा भाण्डे पचेत्तस्मिन्व्याघ्रीकन्दगतं पविं

2,8.64

डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् ।
वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत्

2,8.65

तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् ।
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत्

2,8.66

अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत्

2,8.67

<विप्रजातीयवज्रमारणम्>
वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणं ।
अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च

2,8.68

समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् ।
तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परं

2,8.69

वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् ।
कुञ्जराख्येन पुटयेत्पुटेन महता पुनः

2,8.70

विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति ।
करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरं

2,8.71

अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् ।
वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद्ध्रुवं

2,8.72

<वैश्यजातीयवज्रमारणम्>
सूरणं लशुनं शंखं शिलायां पेषयेत्समं ।
बलामतिबलां गन्धं कच्छपास्थि च पेषयेत्

2,8.73

उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् ।
वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत्

2,8.74

<शूद्रजातीयवज्रमारणम्>
सूरणं लशुनं शङ्खं शिलां संपेषयेत्समं ।
वटक्षीरेण तत्क्ल्प्ते गोलके पूर्ववत्पचेत्

2,8.75

वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतं ।
स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः

2,8.76

चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके ।
<वज्रमारण (१)>
सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः

2,8.77

शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः ।
अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः

2,8.78

लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा ।
तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तं

2,8.79

रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् ।
समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत्

2,8.80

<वज्रमारण (२)>
मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकं

2,8.81

त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी ।
वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च

2,8.82

मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणं ।
पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः

2,8.83

पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला ।
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च

2,8.84

धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकं ।
हंसपादी वज्रकन्दं बृहतीफलसूरणं

2,8.85

गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ।
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितं

2,8.86

तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ।
कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत्

2,8.87

तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गतां ।
एवं पुनः पुनः कुर्यादेकविंशतिवारकं

2,8.88

आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते ।
गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत्

2,8.89

इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् ।
अनेन क्रमयोगेन मृतो भवति निश्चितं

2,8.90

तन्मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ।
<वज्रमारण (३)>
भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणं

2,8.91

क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला ।
चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः

2,8.92

पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु ।
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत्

2,8.93

स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ।
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा चैतान्धमेद्दृढं

2,8.94

गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी ।
क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत्

2,8.95

तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा ।
सेचनान्तं ततः कुर्यादेकविंशतिवारकं

2,8.96

तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् ।
सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवं

2,8.97

<वज्रमारण (४)>
त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत्

2,8.98

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत्

2,8.99

<वज्रमारण (५)>
तालकासीससौराष्ट्रीमपामार्गस्य भस्म च ।
पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितं

2,8.100

क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः ।
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसं

2,8.101

तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् ।
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत्

2,8.102

रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत्

2,8.103

<वज्रमारण (७)>
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखं ।
क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनं

2,8.104

नृतैले गन्धतैलेन म्रियते नात्र संशयः ।
<वज्रमारण (८)>
भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत्

2,8.105

तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् ।
<वज्रमारण (९)>
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत्

2,8.106

वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् ।
क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत्

2,8.107

इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः ।
पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च

2,8.108

ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ।
<वज्रमारण (१०)>
वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत्

2,8.109

शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ।
विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः

2,8.110

तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् ।
<वज्रमारण (११)>
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा

2,8.111

पुनः स्त्रीरजसालोड्यं तस्मिन्वज्रं सुतापितं ।
सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत्

2,8.112

<वज्रमारण (१२)>
वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे

2,8.113

कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः ।
भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात्

2,8.114

<वज्रमारण (१३)>
रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलं

2,8.115

<वज्रमारण (१४)>
मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः ।
पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत्

2,8.116

<वज्रमृदूकरण (१)>
नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितं ।
जानुमध्ये स्थितं यामं तद्वज्रं मृदुतां व्रजेत्

2,8.117

<वज्रमृदूकरण (२)>
मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत्

2,8.118

कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत्

2,8.119

मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत्

2,8.120

बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत्

2,8.121

अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगं ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितं

2,8.122

<वज्रमृदूकरण (३)>
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः

2,8.123

नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगं ।
मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः

2,8.124

तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ।
<वज्रमृदूकरण (४)>
कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजं

2,8.125

ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः

2,8.126

पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः ।
वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत्

2,8.127

<वज्रमृदूकरण (५)>
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविं ।
मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत्

2,8.128

कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
<वज्रमृदूकरण (६)>
वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे

2,8.129

अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत्

2,8.130

मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनं

2,8.131

भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत्

2,8.132

<वज्रद्रुति>
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसं ।
ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च

2,8.133

स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत्

2,8.134

डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् ।
वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितं

2,8.135

अम्लभाण्डगतं सेच्यं सप्ताहाद्द्रवतां व्रजेत् ।
भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणं

2,8.136

रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः ।
<वज्रगुणाः>
वज्रं च षड्रसोपेतं सर्वरोगापहारकं

2,8.137

सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनं ।
वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनं

2,8.138

आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् ।
आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च

2,8.139

सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः ।
<नील>
नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः

2,8.140

नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः

2,8.141

<सप्फिरेःः सुब्त्य्पेसःः चस्ते>
सितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः ।
पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः

2,8.142

<नीलस्य गुणदोषाः>
नीलीरससमाभासा वैष्णवीपुष्पसंनिभा ।
लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा

2,8.143

अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः ।
कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी

2,8.144

मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा ।
विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा

2,8.145

एताश्छायाः शुभकरा इन्द्रनीलमहामणेः ।
गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनं

2,8.146

तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ।
न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः

2,8.147

तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ।
इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणं

2,8.148

आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति ।
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः

2,8.149

यो दधाति शरीरेऽस्य सौरिर्मङ्गलदो भवेत् ।
<गोमेदक>
गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः

2,8.150

स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ।
गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत्गोमेदाख्यं रत्नं आख्याति सन्तः

2,8.151

मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभं

2,8.152

हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभं ।
श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितं

2,8.153

कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् ।
<गोमेदगुणाः>
मेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनं

2,8.154

मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहं ।
गोमेदकोऽम्लमुष्णं च वातकोपविकारजित्

2,8.155

दीपनं पाचनं चैव धृतोऽयं पापनाशनः ।
<वैडूर्य>
वैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा

2,8.156

विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च ।
कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद्दितिजेन्द्रनादात् ।
वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यं

2,8.157

अविदूरे विडूरस्य गिरेरुत्तुङ्गरोधसः

2,8.158

कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः ।
तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः

2,8.159

समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे ।
सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत्

2,8.160

वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः ।
वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति

2,8.161

स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतं ।
रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमं

2,8.162

विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् ।
<वैडूर्यलक्षण>
वैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनं

2,8.163

मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहं ।
वैडूर्यमम्लमुष्णं च कफमारुतनाशनं

2,8.164

गुल्मशूलप्रशमनं भूषितं च शुभावहं ।
<पञ्चरत्नानि>
माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा

2,8.165

पञ्चरत्नं इति प्रोक्तं पाप्मालक्ष्मीविषापहं ।
<नवरत्नानि>
गोमेदकं पुष्परागं वैडूर्यमपि विद्रुमं

2,8.166

पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् ।
<सूर्यकान्त>
अथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा

2,8.167

<स्फटिक>
श्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभं

2,8.168

निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते ।
हिमालये सिंहले च विन्ध्ये रेवातटे तथा

2,8.169

पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् ।
सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरं

2,8.170

सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् ।
सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितं

2,8.171

सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनं ।
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः

2,8.172

<चन्द्रकान्त>
इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा

2,8.173

स्निग्धं श्वेतं पीतं अत्रासमन्ताद्धत्ते चित्तं स्वस्थतां यन्मुनीनां ।
यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत्

2,8.174

चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रदाहनुत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः

2,8.175

<स्फटिक>
स्फटिकः सितोपलः स्यादमलमणिस्तारकोपलः स्वच्छः ।
शीतोष्णवीर्यं अक्ष्णः पित्तं वातं निहन्ति शोफघ्नं

2,8.176

पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकं ।
वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकं

2,8.177

गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसं ।
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः

2,8.178

श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स ।
वज्राभावे तु वैक्रान्तं रसवीर्यादिके समं

2,8.179

अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते

2,8.180

कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः

2,8.181

मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः ।
सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत्

2,8.182

<वैक्रान्तभस्म>
तप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितं ।
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा

2,8.183

ततश्चोत्तरवारुण्याः पञ्चाङ्गैर्गोलके क्षिपेत् ।
रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके

2,8.184

क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् ।
<वैक्रान्तसत्त्व (१)>
वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च

2,8.185

रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनं ।
गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत्

2,8.186

अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढं ।
शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत्

2,8.187

<वैक्रान्तसत्त्व (२)>
वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनं

2,8.188

पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् ।
<वैक्रान्तसत्त्व (३)>
वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समं

2,8.189

अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ।
<वैक्रान्तसत्त्व (४)>
म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः

2,8.190

सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत्

2,8.191

<वैक्रान्तद्रुति>
श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितं ।
सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलं

2,8.192

केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकं ।
इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत्

2,8.193

सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी ।
दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी

2,8.194

<राजावर्त>
आवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः

2,8.195

राजावर्तरसस्याथ लक्षणं कथयाम्यहं ।
वर्णेन भ्रमराभः स्याद्द्विःप्रकारः प्रकर्मतः

2,8.196

एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः ।
स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः

2,8.197

रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः ।
नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि

2,8.198

सर्वेषां चलरागाणां रागबन्धनकृन्मतः ।
राजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः

2,8.199

गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु

2,8.200

द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।
<राजावर्तभस्म>
लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः

2,8.201

पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् ।
<राजावर्तसत्त्व>
राजावर्तं अयःपात्रे पाचयेन्माहिषैर्घृतैः

2,8.202

पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितं ।
रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत्

2,8.203

खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति ।
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः

2,8.204

दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।
<गरुडोद्गार>
सस्यको गरुडोद्गारः कालजिद्विषसारकः

2,8.205

कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
तदा निर्गत्य तच्चञ्चोर्बहुधा सस्यकोऽभवत्

2,8.206

महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः ।
धवलो मेचकः पीतो हरितश्चातिलोहितः

2,8.207

अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् ।
धवलो हरितश्चैव शस्यते तारकर्मणि

2,8.208

लोहितो मेचकः पीतः शस्यते हेमकर्मणि ।
सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः

2,8.209

<विमल>
विमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः ।
बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः

2,8.210

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः ।
तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते

2,8.211

वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः

2,8.212

पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः

2,8.213

<विमलशुद्धि>
आटरूषरसे स्विन्नो विमलो विमलो भवेत् ।
कदलीकन्दतोयेन विमलं प्रथमं पचेत्

2,8.214

अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् ।
डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा

2,8.215

कार्कोटीमेषशृङ्ग्युत्थैर्द्रवैर्जंबीरजैर्दिनं ।
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवं

2,8.216

<विमलसत्त्व>
विमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः

2,8.217

मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् ।
सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः

2,8.218

<पेरोज>
हरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः ।
रसवीर्यविपाकेषु सस्यकस्य गुणानुगः

2,9.1

âक्, २, ९
श्रीभैरवी ।
कीदृशी ओषधी नाथ रसकर्मकरी शुभा ।
केन वा भस्म सूतश्च केन वा खोटबन्धनं

2,9.2

निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ।
निर्जीवेन तु जीवत्वं कथं जीवति शङ्कर

2,9.3

एतन्मे संशयं ब्रूहि यथा जानाम्यहं शिव ।
श्रीभैरवः ।
शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते

2,9.4

ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ।
वलीपलितरोगघ्ना मृत्युदारिद्र्यभञ्जनाः

2,9.5

रसकर्मकरा दिव्याः कुलौषध्यः सुसिद्धिदाः ।
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः

2,9.6

तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः

2,9.7

दिव्यौषध्यश्चतुःषष्टिः कुलमध्ये व्यवस्थिताः ।
नैव जानन्ति मूढास्ताः शिवमोहेन मोहिताः

2,9.8

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।
तृणौषध्या रसे सूतं नैव बन्धं कदाचन

2,9.9

अक्षयं नैव तिष्ठेत्तु कुलौषधिविवर्जितं ।
कुलौषध्या विहीनास्तु गगनं च न हन्ति ते

2,9.10

स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।
न खोटो न च वा भस्म नैव द्रव्यं करोति सः

2,9.11

किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।
पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनं

2,9.12

नैव वेधं शतादूर्ध्वं करोति स रसः प्रिये ।
यावन्न चाब्दमेकं तु विक्रीतं तत्तु काञ्चनं

2,9.13

धर्मार्थकाममोक्षेषु नैव दद्यात्तु तत्प्रिये ।
दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत्

2,9.14

कालिकारहितः सूतः सदा भवति पार्वति ।
परस्य हरते कालं कालिकारहितो रसः

2,9.15

अष्टानां चैव लोहानां मलं शमयति क्षणात् ।
महामूर्च्छागतं सूतं को वापि कथयेन्मृतं

2,9.16

दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।
पञ्चभूतात्मकः सूतस्तिष्ठते च सदाशिवः

2,9.17

रसौषध्यो महौषध्यः सिद्धौषध्यस्तथापराः ।
दिव्यौषध्य इति प्रोक्ता मया प्रोक्ताश्चतुर्विधाः

2,9.18

दिव्यौषध्यो निगद्यन्ते तासु ता गुणवत्तराः ।
वृक्षवल्लीलतागुल्मतृणवन्दानिका इति

2,9.19

रसबन्धकरौषध्यः षड्विधाः परिकीर्तिताः ।
<सोमवल्ली>
सोमवल्ली महागुल्मा यक्षश्रेष्ठा धनुर्लता

2,9.20

सोमाह्वा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञा दिव्यलता स्मृता

2,9.21

सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।
तृष्णाविशेषशमनी पाचनी च रसायनी

2,9.22

पञ्चाङ्गका पञ्चदशच्छदाढ्या सर्पाकृतिः शोणितपर्वदेशा ।
सा सोमवल्ली रसबन्धकर्म करोति राकादिवसोपनीता

2,9.23

कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं शुक्ले पक्षे प्रभवति पुनर्लम्बमाना लता स्यात् ।
तस्याः कन्दः कलयतितरां पूर्णिमायां गृहीतो बद्ध्वा सूतं कनकसहितं देहलोहं विधत्ते

2,9.24

इयं सोमलता नाम वल्ली परमदुर्लभा ।
अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते

2,9.25

चतुर्विंशतिसोमानां लक्ष्म व्यक्तं रसायने ।
<सोमवृक्ष>
करोति सोमवृक्षोऽपि रसबन्धवधादिकं

2,9.26

पूर्णिमादिवसानीतस्तयोर्वल्ली गुणाधिका ।
प्रोक्ता महिषवल्ली च प्रतिसोमान्त्रवल्लिका

2,9.27

अपत्त्रवल्लिका प्रोक्ता काण्डशाखा पयस्विनी ।
रसवीर्यविपाकेषु सोमवल्लीसमा स्मृता

2,9.28

<स्थलपद्मिनी>
अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।
पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी

2,9.29

भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णं सुशोभनं ।
आक्रम्य वामपादेन पश्येद्गगनमण्डलं

2,9.30

पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलं ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी

2,9.31

<गोनसा>
गोनसाकारवल्ली स्याच्चित्रमण्डलमण्डिता ।
जरारुङ्मृत्युशमनी रसबन्धवधक्षमा

2,9.32

<उच्चटा>
अथोच्चटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
एकमेव भवेन्नालं तस्या रोमप्रवेष्टनं

2,9.33

तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभं ।
तत्पत्राणि च देवेशि शुकपिच्छनिभानि च

2,9.34

तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभं ।
जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति

2,9.35

वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ।
<ईश्वरी>
ईश्वरीत्युच्यते काचिदीश्वरीतुल्यरूपिणी

2,9.36

भूरिक्षीरपरिस्रावा सबीजरसबन्धिनी ।
<भूतकेशी>
निम्बपत्रसदृक्पत्रा भूतकेशीति कथ्यते

2,9.37

न वध्यते यया सूतः सूतोऽसौ हि निबन्धकः ।
<कृष्णलता>
भिन्नकज्जलसङ्काशा लता कृष्णलतेत्यसौ

2,9.38

निर्बीजमपि बध्नाति रसं सर्वविषापहा ।
<लशुनवल्ली>
नाम्ना लशुनवल्ली च तद्दलैः सदृशच्छदा

2,9.39

क्षरत्क्षीरा सुकन्दा च रसं बध्नाति वेगतः ।
<रुदन्ती>
चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशी

2,9.40

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।
रुदन्तीव जनान्दृष्ट्वा मृत्युदैन्यजराकुलान्

2,9.41

चतुर्विधा तु सा ज्ञेया पीता रक्ता सितासिता ।
जारिताभ्रं रसं हन्याद्बध्नाति च रसायनी

2,9.42

मुसलीकन्दवत्कन्दा तद्दलाकारवद्दला ।
सुक्षीरा रोमशा सोक्ता वाराही रसबन्धनी

2,9.43

<सप्तपत्त्री>
सप्तपल्लवसम्पूर्णां सप्तपत्त्रीत्यसौ मता ।
रसायनी जराघ्नी च बध्यते पारदस्तया

2,9.44

<नागिनी>
नागिनीत्युदिता वल्ली नागभोगसमाङ्गिका ।
सर्पादिकविषघ्नी च सा स्वच्छरसबन्धिनी

2,9.45

<सर्पिणी>
सर्पिणी लतिका चान्या सर्पवद्वक्रयष्टिका ।
सक्षीरा स्निग्धपत्रा च बालपारदबन्धिनी

2,9.46

<छत्त्रिणी>
छत्रवद्दण्डपत्रा या नातिनीचा न चोन्नता ।
सुक्षीरा छत्त्रिणी नाम रसबन्धकरी मता

2,9.47

<गोशृङ्गी>
पर्वतेऽश्मसमुद्भूता गोकन्दाकृतिकन्दयुक् ।
क्षता मुञ्चति सा क्षीरं गोशृङ्गी रसबन्धिनी

2,9.48

<ज्योतिर्लता>
ज्योतिर्नाम्नी त्रिधा प्रोक्ता वृक्षकन्दतृणात्मिका ।
गिरौ ज्वलति सा रात्रौ लतापारदबन्धिनी

2,9.49

<रक्तवल्ली>
रक्तक्षीरदलाङ्गा या नातिविस्तरवल्लिका ।
रक्तवल्लीत्यसौ दिव्या निर्दिष्टा रसबन्धिनी

2,9.50

<पद्मवल्ली>
या पद्मपत्राकृतिपत्रवल्ली सा पत्रवल्लीत्युदिता रसज्ञैः ।
सक्षीरकन्दा सलिलोद्भवा च क्षितौ न तिष्ठेद्रसबन्धनी सा

2,9.51

<काकिनी>
स्थूलकण्टकवर्णाढ्या सा प्रोक्ता काकिनी लता ।
रसबन्धकरी सैषा जरामृत्युविनाशिनी

2,9.52

<चान्डाली>
चाण्डालीति विनिर्दिष्टा त्रिचतुःपत्रधारिणी ।
सा च रक्ता क्षीरकन्दा तया सूतो निबध्यते

2,9.53

प्रोक्तश्चण्डालकन्दः स्यादेकपत्रो द्विपत्त्रकः ।
त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः

2,9.54

<ताम्रवल्ली>
ताम्रवर्णलतापत्रपुष्पक्षीरसमन्विता ।
सा ताम्रवल्लिका प्रोक्ता रसलोहादिसाधनी

2,9.55

<पीतवल्ली>
पीतपत्रलतापुष्परसयुक्तातिदुर्लभा ।
सा पीतवल्लिकेत्युक्ता रसबन्धविधौ हिता

2,9.56

<विजया>
सितक्षीराढकीपत्रछदना नातिविस्तृता ।
विख्याता विजयेत्येषा रसबन्धविधौ हिता

2,9.57

<महौषधी>
त्रिकोणकन्दसंयुक्ता चित्रकच्छदनच्छदा ।
महौषधीति सा प्रोक्ता रसबन्धे परं हिता

2,9.58

<देवदाली>
शिखिकण्ठाभपत्राढ्या चन्दनामोदमेदुरा ।
देवदालीत्यसौ दिव्या रसं बध्नाति सा क्षणात्

2,9.59

<नवनीतकगन्धी>
नवनीतकगन्धीति तिक्ता म्रक्षणगन्धिनी ।
सक्षीरा रक्तपुष्पा च रसेन्द्रो बध्यते तया

2,9.60

<गरुडवल्ली>
सक्षीरा रक्तपुष्पा च बदरीदलवद्दला ।
उक्ता गारुडवल्लीति शीघ्रं बध्नाति पारदं

2,9.61

<तुम्बिनी>
तुम्बिनीत्युदिता वल्ली तत्पत्रकुसुमान्विता ।
तिक्तरक्तपयोयुक्ता तत्फला रसबन्धिनी

2,9.62

<भूतुम्बिनी>
या तुम्बिनीपत्रसमानपत्रा भूतुम्बिनी नातिविसर्पिणी सा ।
निम्बूसमानैश्च फलैरुपेता सर्वामयघ्नी रसबन्धनी च

2,9.63

<गन्धर्वा>
एरण्डपत्रवत्पत्रा सक्षीरा नातिविस्तृता ।
गन्धर्वेत्युदिता सा हि तया बन्धं रसो व्रजेत्

2,9.64

<व्याघ्रपादी>
व्याघ्राङ्घ्रिसमपत्रा या रक्तपुष्पा पयस्विनी ।
व्याघ्रपादीति निर्दिष्टा रसं बध्नाति निश्चितं

2,9.65

<महौषधी>
सप्तच्छदसदृक्पत्रा कृशाङ्गी नातिविस्तृता ।
महौषधीत्यसौ प्रोक्ता रसं बध्नाति हन्ति च

2,9.66

<गोमारी>
गोमारीनामिका वल्ली वेणुपत्रसमच्छदा ।
तस्या मूलं समासाद्य शस्तः सूतो निबध्यते

2,9.67

<त्रिशूली>
त्रिशूलाकारपत्रा या शम्याकफलवत्फला ।
त्रिशूलीति समाख्याता विख्याता रसबन्धने

2,9.68

<रुतसी>
रुतसीपत्रवत्पत्रफला सा क्षीरकन्दयुक् ।
रुतसी वल्लिकेत्युक्ता गिरिजा रसबन्धनी

2,9.69

<त्रिदण्डी>
सुपुष्पा तिलकोपेता रक्तत्यत्रिफलान्विता ।
रसबन्धविधौ प्रोक्ता त्रिदण्डीति कृताभिधा

2,9.70

<भृङ्गवल्ली>
भृङ्गवद्वर्णपत्राढ्या क्षीरिणी पीतपुष्पिका ।
भृङ्गवल्लीति सा प्रोक्ता प्रयुक्ता रसबन्धने

2,9.71

<चमरिका>
चमराकारपत्राढ्या क्षीरयुक्चन्द्रधारिणी ।
लता चमरिका नाम सा च बध्नाति पारदं

2,9.72

<करवीरलता>
हयमारसमाकारदलपुष्पवती लता ।
करवीरलतेत्युक्ता नितरां सूतबन्धिनी

2,9.73

<वज्रवल्ली>
कोरण्डपत्रछदनोपमानप्रसूनपत्रा च सदुग्धकन्दा ।
सा वज्रवल्ली कटुतिक्तसारा वज्राङ्कपत्रा रसबन्धिनी च

2,9.74

<वारवल्ली>
रक्तक्षीरवती बिल्वदलोपमदलान्विता ।
वारवल्लीति सा सूतबन्धनी रोगनाशिनी

2,9.75

<रोहिणी>
शणपुष्पदलाकारदशपुष्पा च दुग्धयुक् ।
सा रोहिणीति निर्दिष्टा रसराजस्य बन्धनी

2,9.76

<बिल्विनी>
ज्योतिष्मतीदलाकारवर्णपर्णा यशस्विनी ।
रसबन्धविधौ प्रोक्ता बिल्विनीति निगद्यते

2,9.77

<गोरोचनलता>
गोरोचनप्रभायुक्तदलवल्लीसमन्विता ।
गोरोचनलता भूतमोचनी रसबन्धनी

2,9.78

<करीरी>
श्रीशैलशिखरोद्भूता मार्कण्डीसदृशौषधी ।
रक्तं क्षीरं क्षता मुञ्चेत्करीरी रसबन्धिनी

2,9.79

<अक्षरा>
पत्त्रसीसा पत्त्रवत्पत्रा त्रिवर्षात्फलदायिनी ।
अक्षरेति समाख्याता रसस्यातिनिबन्धिनी

2,9.80

<अपत्त्रा>
सोमवल्लीव निष्पत्रा कज्जलाभरसान्विता ।
अपत्त्रासौ भवेद्विन्ध्ये नात्युच्चा रसबन्धिनी

2,9.81

आद्ये वर्षे भवेदम्ला भवेत्तिक्ता द्वितीयके ।
तृतीयेऽब्दे च मधुरैः फलैर्युक्ता प्रजायते

2,9.82

पित्तज्वरहरा सद्यः सुपत्रफलसंयुता ।
<कुटजवल्ली>
लता कुटजवल्लीति तत्फला तद्दलान्विता

2,9.83

मधुरा रुधिरग्रन्थिः सूतराजनिबन्धिनी ।
<मूलकन्दा>
मूलकन्देति विख्याता मूलवत्फलपत्त्रिणी

2,9.84

लता क्षीरान्विता सूतबन्धनं कुरुते ध्रुवं ।
<ब्राह्मणी>
पारिजाताद्रिजा वल्ली शतपुष्पदलच्छदा

2,9.85

कृष्णक्षीरफला प्रोक्ता ब्राह्मणी रसबन्धिनी ।
<मुनिवल्ली>
अगस्तिपत्रतत्पत्रा तद्रूपारुणपुष्पिणी

2,9.86

घृतगन्धा रसघ्नी सा मुनिवल्लीति कथ्यते ।
<निम्बका>
दलैः पुष्पैः फलैर्वल्ली निंबवृक्षस्य सन्निभा

2,9.87

तन्मूलैर्बध्यते सूतः सा प्रोक्ता निम्बका लता ।
<तिलकन्दा>
तिलकन्देति विख्याता मूलवत्फलपत्त्रिणी

2,9.88

लता क्षीरवती सूतं निबध्नात्यातपे खरे ।
<अतसीवल्लिका>
अतस्य इव पुष्पाणि फलानि च दलानि च

2,9.89

अतसीवल्लिका सा हि पारदस्य निबन्धिनी ।
<बोधिलता>
उक्ता बोधिलता बोधिपत्त्रदुग्धेन संयुता

2,9.90

बध्नाति रसराजं सा दानवेन्द्रमिवाच्युतः ।
<मद्यगन्धा>
मद्यगन्धेति विख्याता निष्पत्रा फलपत्रयुक्

2,9.91

तस्याः कन्दो रसं शीघ्रं बन्धनं नयति ध्रुवं ।
<कूर्मलता>
उक्ता कूर्मलता कूर्मरूपकन्दा पयोऽन्विता

2,9.92

मल्लिकोपमतत्पत्रप्रसवा रसबन्धिनी ।
<माधवी>
माधवीमूलवन्मूला नागवल्लीदलान्विता

2,9.93

माधवीत्युदिता वल्ली तन्मूलैर्बध्यते रसः ।
<विशाला>
श्वेतपत्रतया वल्ली श्वेतपुष्पफला तथा

2,9.94

विशालेति विनिर्दिष्टा सापि पारदबन्धिनी ।
<महानागा>
नागकुण्डलवत्कन्दा तत्फणासदृशच्छदा

2,9.95

महानागेत्यसौ वल्ली विनिबध्नाति पारदं ।
<मण्डूकलतिका>
मण्डूकाकारवत्कन्दा मण्डूकीदलवद्दला

2,9.96

मण्डूकलतिकेत्येषा तन्मूलैर्बध्यते रसः ।
<उदुम्बरलता>
उदुम्बरफलाकारफलवद्दलवद्दला

2,9.97

सोदुम्बरलतेत्युक्ता सूतराजस्य बन्धिनी ।
<चित्रवल्ली>
या दुग्धकन्दा वटपत्रपत्रा विचित्रपर्णोरुफला सुदीर्घा ।
सा चित्रवल्लीत्युदिता रसेन्द्रो निबध्यते तत्फलमध्यसंस्थः

2,9.98

चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः

2,9.99

आभिर्बद्धो रसो नःणां देहलोहार्थसाधकः ।
सोमवल्ली सोमवृक्षः स्थलपद्मिनिका ततः

2,9.100

गोनसा कारवल्ली च उच्चटा ईश्वरी ततः ।
भूतकेशी कृष्णलता ज्ञेया लशुनवल्लरी

2,9.101

रुदन्ती चैव वाराही सप्तपत्त्री च नागिनी ।
सर्पिणी छत्त्रिणी चैव गोशृङ्गी सर्वसिद्धिदा

2,9.102

ज्योतिर्नाम्नी त्रिधा रक्तवल्लरी पत्रवल्लरी ।
काकिनी चैव चाण्डाली वल्लरी ताम्रवल्लरी

2,9.103

पीतवल्ली च विजया विज्ञेया च महौषधी ।
ज्ञातव्या देवदाली च स्यान्नवानीतगन्धिनी

2,9.104

ज्ञेया गरुडवल्ली च तुम्बिनी भूमितुंबिनी ।
गन्धर्वा व्याघ्रपादी च विज्ञेया च महौषधी

2,9.105

गोमारी च त्रिशूली च रुतसी च त्रिदण्डिका ।
भृङ्गवल्ली चमरिका करवीरलता ततः

2,9.106

वज्रवल्ली वारवल्ली रोहिणी बिल्विनी तथा ।
गोरोचनलता चैव करीरी चाक्षरा तथा

2,9.107

अपत्त्री कुटजा वल्ली मूलकन्दा च ब्राह्मणी ।
घृतगन्धा निम्बवल्ली तिलकन्दातसी तथा

2,9.108

बोधिवल्ली मद्यगन्धा कूर्मवल्ली च माधवी ।
विशाला च महानागा ज्ञेया मण्डूकवल्ली

2,9.109

उदुम्बरलता चित्रवल्ली चैव सुरार्चिते ।
चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः

2,10.1

âक्, २, १०
श्रीभैरवः ।
<हिमजा>
हिमजा काञ्चनक्षीरी यवचिञ्चा महाद्रिजा ।
हिमावती पीतदुग्धा रेचनी पटुपर्णिका

2,10.2

तद्दुग्धं हेमकङ्कुष्ठं पुलकं रेचनं तथा ।
तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णाग्निगर्भा सुरवल्लरी च

2,10.3

हिमजा कटुका तिक्ता रेचनी सर्ववातनुत् ।
कृमिशोषोदरघ्नी च पित्तज्वरहरा तु सा

2,10.4

<कारवी>
कारवी कारवल्ली च कषायोष्णा कफापहा ।
कासश्वासहरा बल्या ज्ञेया रसनियामिका

2,10.5

<कटुतुम्बी>
कटुतुम्बी कटुफला राजपुत्री महत्फला ।
कटुतुम्बी कटुस्तिक्ता वान्तिकृच्छ्वासवान्तिजित्

2,10.6

कासघ्नी शोधनी शोफव्रणशूलविषापहा ।
तिक्ततुम्बी तु तिक्ता स्यात्कटुका कटुतुम्बिका

2,10.7

तुम्बी च कटुतिक्तादितुम्बीपर्यायगा स्मृता ।
<ज्योतिष्मती>
ज्योतिष्मती नाम लतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।
दीप्या च मेध्या मतिदा च दुर्जरा सारस्वती स्यादमृतार्कसंख्या

2,10.8

<लिङ्गिनी>
लिङ्गिनी बहुपुत्री स्यादीश्वरी शैववल्लरी

2,10.9

स्वयम्भूर्लिङ्गसम्भूता लैङ्गी चित्रफलान्विता ।
अयःस्तम्भकरी लिङ्गबीजा च शिववल्लरी

2,10.10

लिङ्गिनी कटुरूक्षा च दुर्गन्धा च रसायनी ।
सर्वसिद्धिकरी दिव्या रसराजनियामिका

2,10.11

<पातालगरुडी>
पातालगरुडी तार्क्षी सौवर्णी गरुडी तथा ।
वत्सादनी दीर्घकाण्डा दृढकाण्डा महाबला

2,10.12

दीर्घवल्ली दृढलता दर्शनामानि पार्वति ।
सर्ववश्यकरी सैषा सर्पादिविषनाशनी

2,10.13

<गिरिकर्णी>
गिरिकर्णी च कटभी गर्दभी दधिपुष्पिका ।
सितपुष्पी विषघ्नी च श्वेताश्वखुरपुष्पिका

2,10.14

गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।
चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा

2,10.15

नीलपुष्पा महानीला स्यान्नीलगिरिकर्णिका ।
नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।
प्रतर्दिकोन्मादमदश्रमार्तिश्वासार्तिहा स्याद्विषहारिणी च

2,10.16

<आखुकर्णी>
आखुकर्णी भूमिचरा द्रवन्ती बहुपादिका

2,10.17

सुतश्रेणी द्रवन्ती च न्यग्रोधा माक्षिकाह्वया ।
चित्रा मूषकपुच्छी च प्रत्यक्श्रेणी च शबरी

2,10.18

सुतश्रेणी च चक्षुष्या कटुकाखुविषापहा ।
व्रणदोषहरा चैव नेत्रामयविनाशिनी

2,10.19

कृष्णिका बहुपर्णी च प्रत्यक्शोणी च शबरी ।
पूतिपर्णी शिवा चाखुकर्णवत्पर्वशालिनी

2,10.20

आखुकर्णी कटूष्णा च कफपित्तहरा सरा ।
आनाहशूलजूर्त्यर्तिनाशनी पाचनी परा

2,10.21

<वाराही>
वाराही स्यात्सूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता कुमारी ।
कौमारी स्याद्ब्रह्मपत्त्री त्रिनेत्रा क्रौडीकन्या गृष्टिका माधवेष्टा

2,10.22

वाराही तिक्तकटुका विषपित्तकफापहा ।
कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी

2,10.23

<देवदाली>
देवदाली त्रिधा प्रोक्ता श्वेता कृष्णा च पीतला ।
सा श्वेता व्याधिशमनी कृष्णा पीता रसायने

2,10.24

देवदाली कोशफला दाली लोमशपत्त्रिका ।
कृष्णबीजा कटुफला वृत्तकोशाम्लवल्लरी

2,10.25

जीमूतं कण्टकफला वेणी चाखुविषापहा ।
तुरङ्गिका जालफला गरारिः सारमूषिका

2,10.26

देवदाली तु तीक्ष्णोष्णा कटुः पाण्डुकफापहा ।
दुर्नामश्वासकासघ्नी कामिलालूतिकापहा

2,10.27

सर्वलोहद्रुतिकरा पीनसाहिविषापहा ।
<ऐन्द्री>
ऐन्द्रीन्द्रवारुण्यरुणा मृगादिनी गवादनी क्षुद्रसहेन्द्रचिद्भटा ।
सूर्या विषघ्नी रुणकर्णिकामरा सुपर्णिका स्यात्फलतारका च

2,10.28

वृषभाक्षी गवाक्षी च पीतपुष्पेन्द्रवल्लरी

2,10.29

हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ।
रक्तोर्वारुर्विषलता चक्रवल्ली विषापहा

2,10.30

अमृता च विशाला च ज्ञेयोनत्रिंशदाह्वया ।
इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी

2,10.31

गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा ।
महेन्द्रवारुणी रम्या चक्रवल्ली महाफला

2,10.32

सा महेन्द्री वृत्तफला त्रपुसी त्रपुसा तथा ।
आत्मरक्षा विशाला च दीर्घवल्ली महाफला

2,10.33

स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ।
माहेन्द्रवारुणी ज्ञेया पूर्वोक्ता गुणवाहिनी

2,10.34

रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ।
<गोजिह्वा>
गोजिह्वा क्षुरपत्त्री स्यादधःपुष्पा त्वधोमुखी

2,10.35

गोजिह्वा कटुका तीव्रा शीतला पित्तनाशिनी ।
व्रणप्रशमनी चैव सप्तदन्तविषापनुत्

2,10.36

<काकतुण्डी>
काकतुण्डी काकनासा काकसिंही च रक्तला ।
काकदन्ती काकपीलुर्वृत्तरक्तफला तथा

2,10.37

काकप्राणा वल्कशल्या कृष्णबीजा च रञ्जकी ।
काकतुण्डी च मधुरा शिशिरा पित्तहारिणी

2,10.38

रसायनी दार्ढ्यकरी विशेषात्पलितापहा ।
<रक्तपादी>
रक्तपादी शमीपत्त्रपत्त्रा खदिरपत्त्रिका

2,10.39

संकोचनी समङ्गा च नमस्कारी प्रसारणी ।
लज्जालुः सप्तपर्णी स्यात्खदिरी मण्डमालिका

2,10.40

रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।
लज्जालुश्च कटुः शीता पित्तातीसारनाशिनी

2,10.41

शोफदाहज्वरश्वासव्रणकुष्ठकफार्तिनुत् ।
लज्जालुर्वैपरीत्याह्वः कटुरुष्णः कफामनुत्

2,10.42

रसे नियामकेऽत्यन्तं नानाविज्ञानकारकः ।
<पुनर्नवा>
पुनर्नवा त्रिधा प्रोक्ता श्वेता रक्ता च मेचका

2,10.43

पुनर्नवा विषहरा कठिल्ला नेत्ररोगहा ।
पृथ्वीका सितवर्षाभूर्दीर्घपत्त्रा सिताङ्गका

2,10.44

श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।
कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत्

2,10.45

पुनर्नवान्या रक्ताख्या कृतमण्डलपत्त्रिका ।
वैशाखी रक्तसर्वाङ्गा शोफघ्नी विषहा परा

2,10.46

पुनर्नवो नवो नव्या प्रावृषेण्या च सारिणी ।
रक्ता पुनर्नवा तिक्ता सारणी शोफनाशिनी

2,10.47

रक्तप्रदरदोषघ्नी पाण्डुपित्तप्रमर्दनी ।
श्यामाख्या नीलवर्षाभूर्दीर्घपत्त्रा पुनर्नवा

2,10.48

नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।
हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा

2,10.49

<अत्यम्लपर्णी>
अत्यम्लपर्णी तीक्ष्णाम्ला कण्डूला वल्लिसारसा ।
वनस्थारण्यवासी च कन्दाढ्या कर्कशच्छदा

2,10.50

अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी ।
वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा

2,10.51

<कर्कोटकी>
कार्कोटकी द्विधा वन्ध्या श्रेष्ठान्या फलमारिणी ।
मृदुकण्टकिनी वृत्तफला सा वनवासिनी

2,10.52

वन्ध्या देवी वन्ध्यकार्कोटकी स्यान्नागारातिर्नागहन्त्री मनोज्ञा ।
पथ्या दिव्या पुत्रदात्री त्रिकन्दा श्रीकन्दा सा कन्दवल्ली विषघ्नी

2,10.53

योगीश्वरी व्याघ्रपादी कन्या स्यात्षोडशाह्वया ।
वन्ध्या कर्कोटकी तिक्ता कटूष्णा च कफापहा

2,10.54

स्थावरादिविषघ्नी स्याद्रसबन्धे रसायने ।
<शरपुङ्खा>
शराभिधानपुङ्खा स्याच्छरपुङ्खीति कथ्यते

2,10.55

शरपुङ्खी त्रिधा श्वेता रक्ता कृष्णा च कण्टका ।
श्वेताप्येषा गुणाढ्या स्यात्प्रयोगे च रसायने

2,10.56

अन्या तु कण्टपुङ्खा स्यात्कण्टसायकपुङ्खिका ।
कण्टस्पृशेव कुण्डी कण्टकशरपुङ्खमूलनिर्यूहः

2,10.57

तूर्णं अजीर्णविषूचीमहापरतिकृशानुकार्श्यं च ।
सर्वाश्च शरपुङ्खास्तु कटूष्णाः कफवातहाः

2,10.58

अजीर्णशूलकृमिहा ग्रहणीशमनाः परं ।
<भृङ्गराज>
मार्कवो भृङ्गराजः स्याद्भृङ्गाह्वः केशरञ्जकः

2,10.59

पितृप्रियो ब्रह्मपत्त्री केश्यः कुन्तलवर्धनः ।
पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरप्रियः

मूल पाठ: ānandakandaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc