आनन्दकन्द · अध्याय 2.8
आक्, 2, 8
श्रीभैरवः ।
महाम्बुराशौ सरिति पर्वते काननेऽपि वा ।
रत्नानामाकरं देवि स्थानमाधेयगौरवात्
तेषु रक्षोविषव्यालव्याधिदोषहराणि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च
प्रदुष्टेनोपजातानि जन्तुनोपहतानि च ।
दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा
<रुब्य्:: स्य्नोन्य्म्स्>
माणिक्यं शोणरत्नं च रत्नराट् रविरत्नकम् ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः
रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम्
<नीलगन्धिक>
माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।
<रुब्य्:: परीक्षा:: गोओद् qउअलित्य्>
कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम्
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठम् उच्यते ।
परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता
धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा ।
ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते
<माणिक्यभेदाः>
यत् सिंहलं कालपुरम् अन्ध्रं तुम्बुरुसंस्थितम् ।
क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे
सिंहले तु भवेद्रक्तं पद्मरागम् अनुत्तमम् ।
पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम्
अशोकपल्लवच्छायम् अन्ध्रं सौगन्धिकं प्रिये ।
तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम्
मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ।
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः
स्निग्धच्छाया गुरुत्वं च नैर्मल्यम् अतिरक्तता ।
<माणिक्यगुणाः>
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत्
भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ।
माणिक्यं च महापुण्यं महाभाग्यकरं परम्
सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परम् ।
<मुक्ता>
मुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्दुरत्नं वलक्षम्
मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् ।
स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम्
<पेअर्ल्:: ओरिगिन्>
मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनाम् उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा ।
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम्
<पेअर्ल्:: परीक्षा:: गोओद् qउअलित्य्>
नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि
<पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्>
मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् ।
राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम्
मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम्
दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् ।
चक्षुष्यं पवनास्रपित्तविषजित् सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् ।
धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तद् अखिलं मूलं शशी प्रीयते
<चोरल्:: स्य्नोन्य्म्स्>
प्रवालोऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः
भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः ।
<चोरल्:: प्लचे ओf ओरिगिन्>
सेतौ सागरमध्ये या जायते वल्लरी शुभा
विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी ।
<चोरल्:: परीक्षा:: गोओद् qउअलित्य्>
पाषाणत्वं भजत्येषा पाकतः कठिना सती
प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् ।
सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु
रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते ।
पक्वबिंबफलाभासं जपाकुसुमसंनिभम्
शुकतुण्डसमच्छायं प्रवालम् अतिशोभनम् ।
<चोरल्:: परीक्षा:: बद् qउअलित्य्>
शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम्
विद्धं कृष्णं लघुतमं प्रवालं दोषकृद् भवेत् ।
गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत्
<चोरल्:: परीक्षा:: गोओद् qउअलित्य्>
प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् ।
धनधान्यकरं मेध्यं विषाहिभयनाशनम्
<चोरल्:: मेदिच्. प्रोपेर्तिएस्>
प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः
<मरकत>
मरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे
गरलारिर् वायवीर्यं गारुडं रुद्रसंमितम् ।
तुरुष्कविषयांभोधौ समीरारोहणाचले
तच्छायाश्यामलो देशः सो ऽभून्मरकताकरः ।
तद्विशेषान्मरकतं जातं दोषगुणान्वितम्
दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः ।
भवेदष्टविधा छाया मणेर्मरकतस्य च
अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा ।
जठरं कान्तिहीनं च विच्छायं मलिनं तथा
सशर्करं सपाषाणं कर्कशं सूत्रसंयुतम् ।
कल्माषवर्णं शबलं समस्तभयदायकम्
निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुदायुतम् ।
स्निग्धं रूक्षं विनिर्मुक्तम् अरजस्कम् अरेणुकम्
सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः ।
एतैर्युक्तं मरकतं सर्वपापहरं परम्
मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम्
स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् ।
कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम्
<पुष्पराग:: स्य्नोन्य्म्स्>
पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च
<पुष्पराग:: परीक्षा:: त्रुए>
ईषत् पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् ।
पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः
<पुष्पराग:: परीक्षा:: गोओद् qउअलित्य्>
हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् ।
पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते
<पुष्पराग:: परीक्षा:: बद् qउअलित्य्>
रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् ।
मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते
<पुष्पराग:: मेदिच्. प्रोपेर्तिएस्>
पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् ।
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम्
पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् ।
वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम्
<वज्र>
वज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः ।
अभेद्यम् असिरं रत्नं दृढं भार्गवकं स्मृतम्
<वज्र:: परीक्षा:: गोओद् qउअलित्य्>
स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् ।
षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत्
<वज्राकरा वज्रभेदाश्च>
पौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः ।
पेण्णानदीतटश् चेत्यष्टौ वज्राकरा विनिर्दिष्टाः
श्यामं प्रपौण्ड्रप्रभवं किंचित् पीतं मतङ्गगिरिजातम् ।
हिमवत्सुराष्ट्रसंभवम् आताम्रं कृष्णकान्ति सौपारम्
फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् ।
पेण्णानदीतटोद्भवम् आहुर् वज्रं सुधांशुनिभम्
कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ ।
सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा
कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ ।
आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम्
समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके ।
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च
इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् ।
<वज्र:: 5 दोषस्>
मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा
एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः ।
कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम्
हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते ।
<वज्रशुद्धि>
गृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत्
महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत्
एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति ।
मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः
कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः ।
एतेषां हयमूत्रेण कषायं साधितं पुनः
जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् ।
डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात्
कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात्
कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः ।
क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम्
डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् ।
वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत्
तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् ।
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत्
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत्
<विप्रजातीयवज्रमारणम्>
वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् ।
अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च
समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् ।
तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम्
वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् ।
कुञ्जराख्येन पुटयेत्पुटेन महता पुनः
विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति ।
करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरम्
अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् ।
वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद् ध्रुवम्
<वैश्यजातीयवज्रमारणम्>
सूरणं लशुनं शंखं शिलायां पेषयेत्समम् ।
बलामतिबलां गन्धं कच्छपास्थि च पेषयेत्
उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् ।
वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत्
<शूद्रजातीयवज्रमारणम्>
सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् ।
वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत्
वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् ।
स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः
चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके ।
<वज्रमारण (1)>
सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः ।
अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः
लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा ।
तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम्
रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् ।
समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत्
<वज्रमारण (2)>
मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम्
त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी ।
वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् ।
पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः
पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला ।
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् ।
हंसपादी वज्रकन्दं बृहतीफलसूरणम्
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ।
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम्
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ।
कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत्
तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् ।
एवं पुनः पुनः कुर्यादेकविंशतिवारकम्
आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते ।
गोलके निक्षिपेद् रुद्ध्वा मूषां तीव्रानले धमेत्
इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् ।
अनेन क्रमयोगेन मृतो भवति निश्चितम्
तन्मृतं चूर्णयेत् खल्वे सिद्धयोग उदाहृतः ।
<वज्रमारण (3)>
भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम्
क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला ।
चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः
पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु ।
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत्
स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ।
तद्गोलके क्षिपेद् वज्रं रुद्ध्वा चैतान्धमेद्दृढम्
गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी ।
क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत्
तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा ।
सेचनान्तं ततः कुर्यादेकविंशतिवारकम्
तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् ।
सेचयेदश्वमूत्रेण तद् वज्रं म्रियते ध्रुवम्
<वज्रमारण (4)>
त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत्
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत्
<वज्रमारण (5)>
तालकासीससौराष्ट्रीमपामार्गस्य भस्म च ।
पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम्
क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः ।
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम्
तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् ।
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत्
रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत्
<वज्रमारण (7)>
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ।
क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम्
नृतैले गन्धतैलेन म्रियते नात्र संशयः ।
<वज्रमारण (8)>
भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत्
तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् ।
<वज्रमारण (9)>
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत्
वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् ।
क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत्
इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः ।
पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च
ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ।
<वज्रमारण (10)>
वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत्
शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ।
विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत्पुनः पुनः
तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् ।
<वज्रमारण (11)>
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा
पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् ।
सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत्
<वज्रमारण (12)>
वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे
कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः ।
भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात्
<वज्रमारण (13)>
रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम्
<वज्रमारण (14)>
मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः ।
पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत्
<वज्रमृदूकरण (1)>
नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्ये स्थितं यामं तद् वज्रं मृदुतां व्रजेत्
<वज्रमृदूकरण (2)>
मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत्
कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत्
मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत्
बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत्
अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम्
<वज्रमृदूकरण (3)>
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः
नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ।
<वज्रमृदूकरण (4)>
कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम्
ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः
पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः ।
वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत्
<वज्रमृदूकरण (5)>
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत्
कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
<वज्रमृदूकरण (6)>
वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे
अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत्
मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम्
भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत्
<वज्रद्रुति>
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।
ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत्
डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् ।
वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम्
अम्लभाण्डगतं सेच्यं सप्ताहाद् द्रवतां व्रजेत् ।
भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम्
रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः ।
<वज्रगुणाः>
वज्रं च षड्रसोपेतं सर्वरोगापहारकम्
सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ।
वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम्
आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् ।
आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च
सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः ।
<नील>
नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः
नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः
<सप्फिरे:: सुब्त्य्पेस्:: चस्ते>
सितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः ।
पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः
<नीलस्य गुणदोषाः>
नीलीरससमाभासा वैष्णवीपुष्पसंनिभा ।
लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा
अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः ।
कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी
मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा ।
विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा
एताश्छायाः शुभकरा इन्द्रनीलमहामणेः ।
गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम्
तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ।
न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः
तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ।
इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम्
आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति ।
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः
यो दधाति शरीरेऽस्य सौरिर् मङ्गलदो भवेत् ।
<गोमेदक>
गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः
स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ।
गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्याति सन्तः
मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम्
हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् ।
श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम्
कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् ।
<गोमेदगुणाः>
मेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम्
मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् ।
गोमेदकोऽम्लमुष्णं च वातकोपविकारजित्
दीपनं पाचनं चैव धृतोऽयं पापनाशनः ।
<वैडूर्य>
वैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा
विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च ।
कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद् दितिजेन्द्रनादात् ।
वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम्
अविदूरे विडूरस्य गिरेर् उत्तुङ्गरोधसः
कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः ।
तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः
समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे ।
सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत्
वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः ।
वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति
स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् ।
रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम्
विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् ।
<वैडूर्यलक्षण>
वैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम्
मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् ।
वैडूर्यमम्लमुष्णं च कफमारुतनाशनम्
गुल्मशूलप्रशमनं भूषितं च शुभावहम् ।
<पञ्चरत्नानि>
माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा
पञ्चरत्नम् इति प्रोक्तं पाप्मालक्ष्मीविषापहम् ।
<नवरत्नानि>
गोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम्
पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् ।
<सूर्यकान्त>
अथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा
<स्फटिक>
श्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम्
निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते ।
हिमालये सिंहले च विन्ध्ये रेवातटे तथा
पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् ।
सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम्
सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् ।
सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम्
सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् ।
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः
<चन्द्रकान्त>
इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा
स्निग्धं श्वेतं पीतम् अत्रासमन्ताद् धत्ते चित्तं स्वस्थतां यन्मुनीनाम् ।
यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत्
चन्द्रकान्तस् तु शिशिरः स्निग्धः पित्तास्रदाहनुत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः
<स्फटिक>
स्फटिकः सितोपलः स्याद् अमलमणिस् तारकोपलः स्वच्छः ।
शीतोष्णवीर्यम् अक्ष्णः पित्तं वातं निहन्ति शोफघ्नम्
पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् ।
वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम्
गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् ।
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स ।
वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम्
अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते
कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः
मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः ।
सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत्
<वैक्रान्तभस्म>
तप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ।
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा
ततश्चोत्तरवारुण्याः पञ्चाङ्गैर् गोलके क्षिपेत् ।
रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके
क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् ।
<वैक्रान्तसत्त्व (1)>
वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च
रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् ।
गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत्
अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ।
शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत्
<वैक्रान्तसत्त्व (2)>
वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम्
पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् ।
<वैक्रान्तसत्त्व (3)>
वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम्
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ।
<वैक्रान्तसत्त्व (4)>
म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः
सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत्
<वैक्रान्तद्रुति>
श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम्
केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् ।
इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत्
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी
<राजावर्त>
आवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः
राजावर्तरसस्याथ लक्षणं कथयाम्यहम् ।
वर्णेन भ्रमराभः स्याद् द्विःप्रकारः प्रकर्मतः
एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः ।
स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः
रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः ।
नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि
सर्वेषां चलरागाणां रागबन्धनकृन्मतः ।
राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः
गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु
द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।
<राजावर्तभस्म>
लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः
पुटनात् सप्तवारेण राजावर्तो मृतो भवेत् ।
<राजावर्तसत्त्व>
राजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः
पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् ।
रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत्
खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति ।
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः
दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।
<गरुडोद्गार>
सस्यको गरुडोद्गारः कालजिद् विषसारकः
कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
तदा निर्गत्य तच्चञ्चोर् बहुधा सस्यकोऽभवत्
महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः ।
धवलो मेचकः पीतो हरितश्चातिलोहितः
अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् ।
धवलो हरितश्चैव शस्यते तारकर्मणि
लोहितो मेचकः पीतः शस्यते हेमकर्मणि ।
सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः
<विमल>
विमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः ।
बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः ।
तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते
वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः
पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः
<विमलशुद्धि>
आटरूषरसे स्विन्नो विमलो विमलो भवेत् ।
कदलीकन्दतोयेन विमलं प्रथमं पचेत्
अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् ।
डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा
कार्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जंबीरजैर् दिनम् ।
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम्
<विमलसत्त्व>
विमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः
मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् ।
सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः
<पेरोज>
हरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः ।
रसवीर्यविपाकेषु सस्यकस्य गुणानुगः
मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0