आनन्दकन्द · अध्याय 2.3
आक्, 2, 3
श्रीभैरवः ।
<सिल्वेर्:: स्य्नोन्य्म्स्>
रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् ।
रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम्
कलधौतं च सौधं च चन्द्रहासं च तारकम् ।
<रजतभेदाः>
सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम्
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ।
कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत्
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ।
हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत्
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ।
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम्
तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ।
<ग्राह्याग्राह्यरजतस्वरूपम्>
घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु
वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम्
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा
कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् ।
दाहे छेदे घने नष्टं मध्यमं रजतं मतम्
करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् ।
न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत्
<रजतशुद्धि>
नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे
तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिम् आप्नुयात् ।
पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात्
रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् ।
श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान्
<रजतभस्म (1, 2, 3)>
कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् ।
तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः
म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना ।
अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः
म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् ।
तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत्
म्रियते गन्धयोगाद्यैर् वैष्णवेन विपद्यते ।
<रजतभस्म (4)>
स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत्
रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत्
<रजतभस्म (5)>
भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत्
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
<रजतभस्म (6)>
लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत्
रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ।
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना
स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् ।
पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम्
<रजतभस्म (7)>
माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते
रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।
<रजतभस्म (8)>
तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम्
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत्
चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् ।
<रजतभस्म (9)>
रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम्
अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः ।
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।
<रजतभस्म (10)>
रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम्
मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके
क्षिप्त्वा दिनैकविंशच्च तद्गर्भाद् उद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित्
पुटैर् विंशतिभिर् भस्म जायते नात्र संशयः ।
भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम्
जायते तं मृतं विद्याद्भस्म हाटकतारयोः ।
<रजतस्य गुणाः>
रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम्
वयसः स्थापनं शीतं लेखनं वातपित्तजित् ।
वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम्
मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0